Digital Sanskrit Buddhist Canon

अष्टादशः सर्गः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Aṣṭādaśaḥ sargaḥ

अष्टादशः सर्गः



आज्ञा-व्याकरण



अथ द्विजो बाल इवाप्तवेदः क्षिप्रं वणिक् प्राप्त इवाप्तलाभः।

जित्वा च राजन्य इवारिसैन्यं नन्दः कृतार्थो गुरुमभ्यगच्छत्॥१॥



द्रष्टुं सुखं ज्ञानसमाप्तिकाले गुरुर्हि शिष्यस्य गुरोश्च शिष्यः।

परिश्रमस्ते सफलो मयीति यतो दिदृक्षास्य मुनौ बभूव॥२॥



यतो हि येनाधिगतो विशेषस्तस्योत्तमांसोऽर्हति कर्तुमीड्याम्।

आर्यः सरागोऽपि कृतज्ञभावात् प्रक्षीणमानः किमु वीतरागः॥३॥



यस्यार्थकामप्रभवा हि भक्तिस्ततोऽस्य सा तिष्ठति रूढमूला।

धर्मान्वयो यस्य तु भक्तिरागस्तस्य प्रसादो हृदयावगाढः॥४॥



काषायवासाः कनकावदातस्ततः स मूर्ध्ना गुरवे प्रणेमे।

वातेरितः पल्लवताम्ररागः पुष्पोज्ज्वलश्रीरिव कर्णिकारः॥५॥



अथात्मनः शिष्यगुणस्य चैव महामुनेः शास्तृगुणस्य चैव।

संदर्शनार्थं स न मानहेतोः स्वां कार्यसिद्धिं कथयाम्बभूव॥६॥



यो दृष्टिशल्यो हृदयावगाढः प्रभो भृशं मामतुदत् सुतीक्ष्णः।

त्वद्वाक्यसंदंशमुखेन मे स समुद्धृतः शल्यहृतेव शल्यः॥७॥



कथंकथाभावगतोस्मि येन छिन्नः स निःसंशय संशयो मे।

त्वच्छासनात् सत्पथमागतोऽस्मि सुदेशिकस्येव पथि प्रनष्टः॥८॥



यत्पीतमास्वादवशेन्द्रियेण दर्पेण कन्दर्पविषं मयासीत्।

तन्मे हतं त्वद्वचनागदेन विषं विनाशीव महागदेन॥९॥



क्षयं गतं जन्म निरस्तजन्मन् सद्धर्मचर्यामुषितोऽस्मि सम्यक्।

कृत्स्नं कृतं मे कृतकार्य कार्यं लोकेषु भूतोऽस्मि न लोकधर्मा॥१०॥



मैत्रीस्तनीं व्यञ्जनचारुसास्नां सद्धर्मदुग्धां प्रतिभानशृङ्गाम्।

तवास्मि गां साधु निपीय तृप्तस्तृषेव गामुत्तम वत्सवर्णः॥११॥



यत्पश्यतश्चाधिगमो ममायं तन्मे समासेन मुने निबोध।

सर्वज्ञ कामं विदितं तवैतत् स्वं तूपचारं प्रविवक्षुरस्मि॥१२॥



अन्येऽपि सन्तो विमुमुक्षवो हि श्रुत्वा विमोक्षाय नयं परस्य।

मुक्तस्य रोगादिव रोगवन्तस्तेनैव मार्गेण सुखं घटन्ते॥१३॥



उर्व्यादिकान् जन्मनि वेदिम धातुन् नात्मानमुर्व्यादिषु तेषु किञ्चित्।

यस्मादतस्तेषु न मेऽस्ति सक्तिर्बहिश्च कायेन समा मतिर्मे॥१४॥



स्कन्धांश्च रूपप्रभृतीन् दशार्धान् पश्यामि यस्माच्चपलानसारान्।

अनात्मकांश्चैव वधात्मकांश्च तस्माद् विमुक्तोऽस्म्यशिवेभ्य एभ्यः॥१५॥



यस्माच्च पश्याम्युदयं व्ययं च सर्वास्ववस्थास्वहमिन्द्रियाणाम्।

तस्मादनित्येषु निरात्मकेषु दुःखेषु मे तेष्वपि नास्ति संगः॥१६॥



यतश्च लोकं समजन्मनिष्ठं पश्यामि निःसारमसच्च सर्वम्।

अतो धिया मे मनसा विबद्धमस्मीति मे नेञ्जितमस्ति येन॥१७॥



चतुर्विधे नैकविधप्रसङ्गे यतोऽहमाहारविधावसक्तः।

अमूर्च्छितश्चाग्रथितश्च तत्र त्रिभ्यो विमुक्तोऽस्मि ततो भवेभ्यः॥१८॥



अनिश्चितश्चाप्रतिबद्धचित्तो दृष्टश्रुतादौ व्यवहारधर्मे।

यस्मात् समात्मानुगतश्च तत्र तस्माद् विसंयोगगतोऽस्मि मुक्तः॥१९॥



इत्येवमुक्त्वा गुरुबाहुमान्यात् सर्वेण कायेन स गां निपन्नः।

प्रवेरितो लोहितचन्दनाक्तो हैमो महास्तम्भ इवाबभासे॥२०॥



ततः प्रमादत् प्रसृतस्य पूर्वं श्रुवा धृतिं व्याकरणं च तस्य।

धर्मान्वयं चानुगतं प्रसादं मेघस्वरस्तं मुनिराबभाषे॥२१॥



उत्तिष्ठ धर्मे स्थित शिष्यजुष्टे किं पादयोर्मे पतितोऽसि मुर्ध्ना।

अभ्यर्चनं मे न तथा प्रणामो धर्मे यथैषा प्रतिपत्तिरेव॥२२॥



अद्यासि सुप्रव्रजितो जितात्मन्नैश्वर्यमप्यात्मनि येन लब्धम्।

जितात्मनः प्रव्रजनं हि साधु चलात्मनो न त्वजितेन्द्रियस्य॥२३॥



अद्यासि शौचेन परेण युक्तो वाक्कायचेतांसि शुचीनि यत्ते।

अतः पुनश्चाप्रयतापसौम्यां यत्सौम्य नो वेक्ष्यसि गर्भशय्याम्॥२४॥



अद्यार्थवत्ते श्रुतवच्छ्रुतं तच्छ्रुतानुरूपं प्रतिपद्य धर्मम्।

कृतश्रुतो विप्रतिपद्यमानो निन्द्यो हि निर्वीर्य इवात्तशस्त्रः॥२५॥



अहो धृतिस्तेऽविषयात्मकस्य यत्त्वं मतिं मोक्षविधावकार्षीः।

यास्यामि निष्ठामिति बालिशो हि जन्मक्षयात् त्रासमिहाभ्युपैति॥२६॥



दिष्ट्या दुरापः क्षणसंनिपातो नायं कृतो मोहवशेन मोघः।

उदेति दुःखेन गतो ह्यधस्तात् कूर्मो युगच्छिद्र इवार्णवस्थः॥२७॥



निर्जित्य मारं युधि दुर्निवारमद्यासि लोके रणशीर्षशूरः।

शूरोऽप्यशूरः स हि वेदितव्यो दोषैरमित्रैरिव हन्यते यः॥२८॥



निर्वाप्य रागाग्निमुदीर्णमद्य दिष्ट्या सुखं स्वप्स्यसि वीतदाहः।

दुःखं हि शेते शयनेऽप्युदारे क्लेशाग्निना चेतसि दह्यमानः॥२९॥



अभ्युच्छ्रितो द्रव्यमदेन पूर्वमद्यासि तृष्णोपरमात् समृद्धः।

यावत् सतर्षः पुरुषो हि लोके तावत् समृद्धोऽपि सदा दरिद्रः॥३०॥



अद्यापदेष्टुं तव युक्तरूपं शुद्धोदनो मे नृपतिः पितेति।

भ्रष्टस्य धर्मात् पितृभिर्निपातादश्लाघनीयो हि कुलापदेशः॥३१॥



दिष्ट्यासि शान्तिं परमामुपेतो निस्तीर्णकान्तार इवाप्तसारः।

सर्वो हि संसारगतो भयार्तो यथैव कान्तारगतस्तथैव॥३२॥



आरण्यकं भैक्षचरं विनीतं द्रक्ष्यामि नन्दं निभृतं कदेति।

आसीत् पुरस्तात्त्वयि मे दिदृक्षा तथासि दिष्ट्या मम दर्शनीयः॥३३॥



भवत्यरूपोऽपि हि दर्शनीयः स्वलंकृतः श्रेष्ठतमैगुर्णैः स्वैः।

दोषैः परीतो मलिनीकरैस्तु सुदर्शनीयोऽपि विरूप एव॥३४॥



अद्य प्रकृष्टा तव बुद्धिमत्ता कृत्स्नं यया ते कृतमात्मकार्यम्।

श्रुतोन्नतस्यापि हि नास्ति बुद्धिर्नोत्पद्यते श्रेयसि यस्य बुद्धिः॥३५॥



उन्मीलितस्यापि जनस्य मध्ये निमीलितस्यापि तथैव चक्षुः।

प्रज्ञामयं यस्य हि नास्ति चक्षुश्चक्षुर्न तस्यास्ति सचक्षुषोऽपि॥३६॥



दुःखप्रतीकारनिमित्तमार्तः कृष्यादिभिः खेदमुपैति लोकः।

अजस्रमागच्छति तच्च भूयो ज्ञानेन यस्याद्य कृतस्त्वयान्तः॥३७॥



दुःखं न मे स्यात् सुखमेव मे स्यादिति प्रवृत्तः सततं हि लोकः।

न वेत्ति तच्चैव तथा यथा स्यात् प्राप्तं त्वयाद्यासुलभं यथावत्॥३८॥



इत्येवमादि स्थिरबुद्धिचित्तस्तथागतेनाभिहितो हिताय।

स्तवेषु निन्दासु च निर्व्यपेक्षः कृताञ्जलिर्वाक्यमुवाच नन्दः॥३९॥



अहो विशेषेण विशेषदर्शिन् स्त्वयानुकम्पा मयि दर्शितेयं।

यत्कामपङ्के भगवन्निमग्नस्त्रातोऽस्मि संसारभयादकामः॥४०॥



भ्रात्रा त्वया श्रेयसि दैशिकेन पित्रा फलस्थेन तथैव मात्रा।

हतोऽभविष्यं यदि न व्यमोक्ष्यं सार्थात् परिभ्रष्ट इवाकृतार्थः॥४१॥



शान्तस्य तुष्टस्य सुखो विवेको विज्ञाततत्त्वस्व परीक्षकस्य।

प्रहीणमानस्य च निर्मदस्य सुखं विरागत्वमसक्तबुद्धेः॥४२॥



अथो हि तत्त्वं परिगम्य सम्यङ्‍निर्धूय दोषानधिगम्य शान्तिम्।

स्वं नाश्रमं सम्प्रति चिन्तयामि न तं जनं नाप्सरसो न देवान्॥४३॥



इदं हि भुक्त्वा शुचि शामिकं सुखं न मे मनः कांक्षति कामजं सुखम्।

महार्हमप्यन्नमदैवताहृतं दिवौकसो भुक्तवतः सुधामिव॥४४॥



अहोऽन्धविज्ञाननिमीलितं जगत् पटान्तरे पश्यति नोत्तमं सुखम्।

सुधीरमध्यत्मसुखं व्यपास्य हि श्रमं तथा कामसुखार्थमृच्छति॥४५॥



यथा हि रत्नाकरमेत्य दुर्मतिर्विहाय रत्नान्यसतो मणीन् हरेत्।

अपास्य संबोधिसुखं तथोत्तमं श्रमं व्रजेत् कामसुखोपलब्धये॥४६॥



अहो हि सत्त्वेष्वतिमैत्रचेतसस्तथागतस्यानुजिघृक्षुता परा।

अपास्य यद्‍ध्यानसुखं मुने परं परस्य दुःखोपरमाय खिद्यसे॥४७॥



मया नु शक्यं प्रतिकर्तुमद्य किं गुरौ हितैषिण्यनुकम्पके त्वयि।

समुद्धृतो येन भवार्णवादहं महार्णवाच्चूर्णितनौरिवोर्मिभिः॥४८॥



ततो मिनिस्तस्य निशम्य हेतुमत् प्रहीणसर्वास्रवसूचकं वचः।

इदं बभाषे वदतामनुत्तमो यदर्हति श्रीघन एव भाषितुं॥४९॥



इदं कृतार्थः परमार्थवित् कृती त्वमेव धीमन्नभिधातुमर्हसि।

अतीत्य कान्तारमवाप्तसाधनः सुदैशिकस्येव कृतं महावणिक्॥५०॥



अवैति बुद्धं नरदम्यसारथिं कृती यथार्हन्नुपशान्तमानसः।

न दृष्टसत्योऽपि तथावबुध्यते पृथग्जनः किंबत बुद्धिमानपि॥५१॥



रजस्तमोभ्यां परिमुक्तचेतसस्तवैव चेयं सदृशी कृतज्ञता।

रजःप्रकर्षेण जगत्यवस्थिते कृतज्ञभावो हि कृतज्ञ दुर्लभः॥५२॥



सधर्म धर्मान्वयतो यतश्च ते मयि प्रसादोऽधिगमे च कौशलम्।

अतोऽस्ति भूयस्त्वयि मे विवक्षितं नतो हि भक्तश्च नियोगमर्हसि॥५३॥



अवाप्तकार्योऽसि परां गतिं गतो न तेऽस्ति किञ्चित् करणीयमण्वपि।

अतःपरं सौम्य चरानुकम्पया विमोक्षयन् कृच्छ्रगतान् परानपि॥५४॥



इहार्थमेवारभते नरोऽधमो विमध्यमस्तूभयलौकिकीं क्रियाम्।

क्रियाममुत्रैव फलाय मध्यमो विशिष्टधर्मा पुनरप्रवृत्तये॥५५॥



इहोत्तमेभ्योऽपि मतः स तूत्तमो य उत्तमं धर्ममवाप्य नैष्ठिकम्।

अचिन्तयित्वात्मगतं परिश्रमं शमं परेभ्योऽप्युपदेष्टुमिच्छति॥५६॥



विहाय तस्मादिह कार्यमात्मनः कुरु स्थिरात्मन् परकार्यमप्यथो।

भ्रमत्सु सत्त्वेषु तमावृतात्मसु श्रुतप्रदीपो निशि धार्यतामयम्॥५७॥



ब्रवीतु तावत् पुरि विस्मितो जनस्त्वयि स्थिते कुर्वति धर्मदेशनाः

अहो बताश्चर्यमिदं विमुक्तये करोति रागी यदयं कथामिति॥५८॥



ध्रुवं हि संश्रुत्य तव स्थिरं मनो निवृत्तनानाविषयैर्मनोरथैः।

वधूर्गृहे सापि तवानुकुर्वती करिष्यते स्त्रीषु विरागिणीः कथाः॥५९॥



त्वयि परमधृतौ निविष्टतत्त्वे भवनगता न हि रंस्यते ध्रुवं सा।

मनसि शमदमात्मके विविक्ते मतिरिव कामसुखैः परीक्षकस्य॥६०॥



इत्यर्हतः परमकारुणिकस्य शास्तुर्मूर्ध्ना वचश्च चरणौ च समं गृहीत्वा।

स्वस्थः प्रशान्तहृदयो विनिवृत्तकार्यः पार्श्वान्मुनेः प्रतिययौ विमदः करीव॥६१॥



भिक्षार्थं समये विवेश स पुरं दृष्टीर्जनस्याक्षिपन्

लाभालाभसुखासुखादिषु समः स्वस्थेन्द्रियो निस्पृहः।

निर्मोक्षाय चकार तत्र च कथां काले जनायार्थिने

नैवोन्मार्गगतान् परान् परिभवन्नात्मानमुत्कर्षयन्॥६२॥



इत्येषा व्युपशान्तये न रतये मोक्षार्थगर्भा कृतिः

श्रोतृणां ग्रहणार्थमन्यमनसां काव्योपचारात् कृता।

यन्मोक्षात् कृतमन्यदत्र हि मया तत्काव्यधर्मात् कृतं

पातुं तित्कमिवौषधं मधुयुतं हृद्यं कथं स्यादिति॥६३॥



प्रायेणालोक्य लोकं विषयरतिपरं मोक्षात् प्रतिहतं

काव्यव्याजेन तत्त्वं कथितमिह मया मोक्षः परमिति।

तद्‍बुद्‍ध्वा शमिकं यत्तदवहितमितो ग्राह्यं न ललितं

पांसुभ्यो धातुजेभ्यो नियतमुपकरं चामीकरमिति॥६४॥



सौन्दरनन्द महाकाव्य में "आज्ञा-व्याकरण" नामक अष्टादश सर्ग समाप्त।
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project