Digital Sanskrit Buddhist Canon

सप्तदशः सर्गः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Saptadaśaḥ sargaḥ

सप्तदशः सर्गः



अमृत-प्राप्ति



अथैवमादेशिततत्त्वमार्गो नन्दस्तदा प्राप्तविमोक्षमार्गः।

सर्वेण भावेन गुरौ प्रणम्य क्लेशप्रहाणाय वनं जगाम॥१॥



तत्रावकाशं मृदुनीलशष्पं ददर्श शान्तं तरुषण्डवन्तम्।

निःशब्दया निम्नगयोपगूढं वैडूर्यनीलोदकया वहन्त्या॥२॥



स पादयोस्तत्र विधाय शौचं शुचौ शिवे श्रीमति वृक्षमूले।

मोक्षाय बद्ध्‍वा व्यवसायकक्षां पर्यङ्कमङ्कावहितं बबन्ध॥३॥



ऋजुं समग्रं प्रणिधाय कायं काये स्मृतिं चाभिमुखीं विधाय।

सर्वेन्द्रियाण्यात्मनि संनिधाय स तत्र योगं प्रयतः प्रपेदे॥४॥



ततः स तत्त्वं निखिलं चिकीर्षुर्मोक्षानुकूलांश्च विधींश्चिकीर्षन्।

ज्ञानेन शीलेन शमेन चैव चचार चेतः परिकर्मभूमौ॥५॥



संधाय धैर्यं प्रणिधाय वीर्यं व्यपोह्य सक्तिं परिगृह्य शक्तिम्।

प्रशान्तचेता नियमस्थचेताः स्वस्थस्ततोभूद् विषयेष्वनास्थः॥६॥



आतप्तबुद्धेः प्रहितात्मनोऽपि स्वभ्यस्तभावादथ कामसंज्ञा।

पर्याकुलं तस्य मनश्चकार प्रावृट्सु विद्युज्जलमागतेव॥७॥



स पर्यवस्थानमवेत्य सद्यश्चिक्षेप तां धर्मविघातकर्त्रीम्।

प्रियामपि क्रोधपरीतचेता नारीमिवोद्‍वृत्तगुणां मनस्वी॥८॥



आरब्धवीर्यस्य मनःशमाय भूयस्तु तस्याकुशलो वितर्कः।

व्याधिप्रणाशाय निविष्टवुद्धेरुपद्रवो घोर इवाजगाम॥९॥



स तद्विघाताय निमित्तमन्यद् योगानुकूलं कुशलं प्रपेदे।

आर्तायनं क्षीणबलो बलस्थं निरस्यमानो बलिनारिणेव॥१०॥



पुरं विधायानुविधाय दण्डं मित्राणि संगृह्य रिपून् विगृह्य।

राजा यथाप्नोति हि गामपूर्वां नीतिर्मुमुक्षोरपि सैव योगे॥११॥



विमोक्षकामस्य हि योगिनोऽपि मनः पुरं ज्ञानविधिश्च दण्डः।

गुणाश्च मित्राण्यरयश्च दोषा भूमिर्विमुक्तिर्यतते यदर्थम्॥१२॥



स दुःखजालान्महतो मुमुक्षुर्विमोक्षमार्गाधिगमे विविक्षुः।

पन्थान्मार्यं परमं दिदृक्षुः शमं ययौ किंचिदुपात्तचक्षुः॥१३॥



यः स्यान्निकेतस्तमसोऽनिकेतः श्रुत्वापि तत्त्वं स भवेत् प्रमत्तः।

यस्मात्तु मोक्षाय स पात्रभूतस्तस्मान्मनः स्वात्मनि संजहार॥१४॥



सम्भारतः प्रत्ययतः स्वभावादास्वादतो दोषविशेषतश्च।

अथात्मवान्निःसरणात्मतश्च धर्मेषु चक्रे विधिवत् परीक्षाम्॥१५॥



स रूपिणं कृत्स्नमरूपिणं च सारं दिदृक्षुर्विचिकाय कायम्।

अथाशुचिं दुःखमनित्यमस्वं निरात्मकं चैव चिकाय कायम्॥१६॥



अनित्यतस्तत्र हि शून्यतश्च निरात्मतो दुःखत एव चापि।

मार्गप्रवेकेण स लौकिकेन क्लेशद्रुमं संचलयांचकार॥१७॥



यस्मादभूत्वा भवतीह सर्वं भुत्वा च भूयो न भवत्यवश्यम्।

सहेतुकं च क्षयि हेतुमच्च तस्मादनित्यं जगदित्यविन्दत्॥१८॥



यतः प्रसूतस्य च कर्मयोगः प्रसज्यते बन्धविघातहेतुः।

दुःखप्रतीकारविधौ सुखाख्ये ततो भवं दुःखमिति व्यपश्यत्॥१९॥



यतश्च संस्कारगतं विविक्तं न कारकः कश्चन वेदको वा।

समग्र्यतः संभवति प्रवृत्तिः शून्यं ततो लोकमिमं ददर्श॥२०॥



यस्मान्निरीहं जगदस्वतन्त्रं नैश्वर्यमेकः कुरुते क्रियासु।

तत्तत्प्रतीत्य प्रभवन्ति भावा निरात्मकं तेन विवेद लोकम्॥२१॥



ततः स वातं व्यजनादिवोष्णे काष्ठाश्रितं निर्मथनादिवाग्निम्।

अन्तःक्षितिस्थं खननादिवाम्भो लोकोत्तरं वर्त्म दुरापमाप॥२२॥



सज्ज्ञानचापः स्मृतिवर्म बद्ध्वा विशुद्धशीलव्रतवाहनस्थः।

क्लेशारिभिश्‍चित्तरणाजिरस्थैः सार्धं युयुत्सुर्विजयाय तस्थौ॥२३॥



ततः स बोध्यङ्गशितात्तशस्त्रः सम्यक्-प्रधानोत्तमवाहनस्थः।

मार्गाङ्गमातङ्गवता बलेन शनैः शनैः क्लेशचमूं जगाहे॥२४॥



स स्मृत्युपस्थानमयैः पृषत्कैः शत्रून् विपर्यासमयान् क्षणेन।

दुःखस्य हेतूंश्चतुरश्चतुर्भिः स्वैः स्वैः प्रचारायतनैर्ददार॥२५॥



आर्यैर्बलैः पञ्चभिरेव पञ्च चेतःखिलान्यप्रतिमैर्बभञ्ज।

मिथ्याङ्गनागांश्च तथाङ्गनागैर्विनिर्दुधावाष्टभिरेव सोऽष्टौ॥२६॥



अथात्मदृष्टिं सकलां विधूय चतुर्षु सत्येष्वकथंकथः सन्।

विशुद्धशीलव्रतदृष्टधर्मा धर्मस्य पूर्वां फलभूमिमाप॥२७॥



स दर्शनादार्यचतुष्टयस्य क्लेशैकदेशस्य च विप्रयोगात्।

प्रत्यात्मिकाच्चापि विशेषलाभात् प्रत्यक्षतो ज्ञानिसुखस्य चैव॥२८॥



दार्ढ्यात् प्रसादस्य धृतेः स्थिरत्वात् सत्येष्वसंमूढतया चतुर्षु।

शीलस्य चाच्छिद्रतयोत्तमस्य निःसंशयो धर्मविधौ बभूव॥२९॥



कुदृष्टिजालेन स विप्रयुक्तो लोकं तथाभूतमवेक्षमाणः।

ज्ञानाश्रयां प्रीतिमुपाजगाम भूयः प्रसादं च गुरावियाय॥३०॥



यो हि प्रवृत्तिं नियतामवैति निवान्यहेतोरिह नाप्यहेतोः।

प्रतीत्य तत्तत्समवैति तत्तत्स नैष्ठिकं पश्यति धर्ममार्यम्॥३१॥



शान्तं शिवं निर्जरसं विरागं निःश्रेयसं पश्यति यश्च धर्मम्।

तस्योपदेष्टारमथार्यवर्यं स प्रेक्षते बुद्धमवाप्तचक्षुः॥३२॥



यथोपदेशेन शिवेन मुक्तो रोगादरोगो भिषजं कृतज्ञः।

अनुस्मरन् पश्यति चित्तदृष्ट्या मैत्र्या च शास्त्रज्ञतया च तुष्टः॥३३॥



आर्येण मार्गेण तथैव मुक्तस्तथागतं तत्त्वविदार्यतत्त्वः।

अनुस्मरन् पश्यति कायसाक्षी मैत्र्या च सर्वज्ञतया त तुष्टः॥३४॥



स नाशकैर्दृष्टिगतैर्विमुक्तः पर्यन्तमालोक्य पुनर्भवस्य।

भक्त्वा घृणां क्लेशविजृम्भितेषु मृत्योर्न तत्रास न दुर्गतिभ्यः॥३५॥



त्वक्‌स्नायुमेदोरुधिरास्थिमांसकेशादिनामेध्यगणेन पूर्णम्।

ततः स कायं समवेक्षमाणः सारं विचिन्त्याण्वपि नोपलेभे॥३६॥



स कामरागप्रतिघौ स्थिरात्मा तेनैव योगेन तनू चकार।

कृत्वा महोरस्कतनुस्तनू तौ प्राप द्वितीयं फलमार्यधर्मे॥३७॥



स लोभचापं परिकल्पबाणं रागं महावैरिणमल्पशेषम्।

कायस्वभावाधिगतौर्बिभेद योगायुधास्त्रैरशुभापृषत्कैः॥३८॥



द्वेषायुधं क्रोधविकीर्णबाणं व्यापादमन्तःप्रसवं सपत्नम्।

मैत्रीपृषत्कैर्धृतितूणसंस्थैः क्षमाधनुर्ज्याविसृतैर्जघान॥३९॥



मूलान्यथ त्रीण्यशुभस्य वीरस्त्रिभिर्विमोक्षायतनैश्चकर्त।

चमूमुखस्थान् धृतकार्मुकांस्त्रीनरीनिवारिस्त्रिभिरायसाग्रैः॥४०॥



स कामधातोः समतिक्रमाय पार्ष्णिग्रहांस्तानभिभूय शत्रून्।

योगादनागामिफलं प्रपद्य द्वारीव निर्वाणपुरस्य तस्थौ॥४१॥



कामैर्विविक्तं मलिनैश्च धर्मैर्वितर्कवच्चापि विचारवच्च।

विवेकजं प्रीतिसुखोपपन्नं ध्यानं ततः स प्रथमं प्रपेदे॥४२॥



कामाग्निदाहेन स विप्रमुक्तो ल्हादं परं ध्यानसुखादवाप।

सुखं विगाह्याप्स्विव धर्मखिन्नः प्राप्येव चार्थ विपुलं दरिद्रः॥४३॥



तत्रापि तद्धर्मगतान् वितर्कान् गुणागुणे च प्रसृतान् विचारान्।

बुद्‍ध्वा मनःक्षोभकरानशान्तांस्तद्विप्रयोगाय मतिं चकार॥४४॥



क्षोभं प्रकुर्वन्ति यथोर्मयो हि धीरप्रसन्नाम्बुवहस्य सिन्धोः।

एकाग्रभूतस्य तथोर्मिभूताश्चित्ताम्भसः क्षोभकरा वितर्काः॥४५॥



खिन्नस्य सुप्तस्य च निर्वृतस्य बाधं यथा संजनयन्ति शब्दाः।

अद्यात्ममैकाग्र्यमुपागतस्य भवन्ति बाधाय तथा वितर्काः॥४६॥



अथावितर्कं क्रमशोऽविचारमेकाग्रभावान्मनसः प्रसन्नम्।

समाधिजं प्रीतिसुखं द्वितीयं ध्यानं तदाध्यात्मशिवं स दध्यौ॥४७॥



तद्‍ध्यानमागम्य च चित्तमौनं लेभे परां प्रीतिमलब्धपूर्वाम्।

प्रीतौ तु तत्रापि स दोषदर्शी यथा वितर्केष्वभवत्तथैव॥४८॥



प्रीतिः परा वस्तुनि यत्र यस्य विपर्ययात्तस्य हि तत्र दुःखम्।

प्रीतावतः प्रेक्ष्य स तत्र दोषान् प्रीतिक्षये योगमुपारुरोह॥४९॥



प्रीतेर्विरागात् सुखमार्यजुष्टं कायेन विन्दन्नथ संप्रजानन्।

उपेक्षकः स स्मृतिमान् व्यहार्षिद् ध्यानं तृतीयं प्रतिलभ्य धीरः॥५०॥



यस्मात् परं तत्र सुखं सुखेभ्यस्ततः परं नास्ति सुखप्रवृत्तिः।

तस्माद् बभाषे शुभकृत्स्नभूमिः परापरज्ञः परमेति मैत्र्या॥५१॥



ध्यानेऽपि तत्राथ ददर्श दोषं मेने परं शान्तमनिञ्जमेव।

आभोगतोऽपीञ्जयति स्म तस्य चित्तं प्रवृत्तं सुखमित्यस्रम्॥५२॥



यत्रेञ्जितं स्पन्दितमस्ति तत्र यत्रास्ति च स्पन्दितमस्ति दुःखम्।

यस्मादतस्तत्सुखमिञ्जकत्वात् प्रशान्तिकामा यतयस्त्यजन्ति॥५३॥



अथ प्रहाणात् सुखदुःखयोश्च मनोविकारस्य च पूर्वमेव।

दध्यावुपेक्षास्मृतिमद् विशुद्धं ध्यानं तथादुःखसुखं चतुर्थम्॥५४॥



यस्मात्तु तस्मिन्न सुखं न दुःखं ज्ञानं च तत्रास्ति तदर्थचारि।

तस्मादुपेक्षास्मृतिपारिशुद्धिर्निरुच्यते ध्यानविधौ चतुर्थे॥५५॥



ध्यानं स निश्रित्य ततश्चतुर्थमर्हत्त्वलाभाय मतिं चकार।

संधाय मित्रं बलवन्तमार्यं राजेव देशानजितान् जिगीषुः॥५६॥



चिच्छेद कार्त्स्न्येन ततः स पञ्च प्रज्ञासिना भावनयेरितेन।

ऊर्ध्वङ्गमान्युत्तमबन्धनानि संयोजनान्युत्तमबन्धनानि॥५७॥



बोध्यङ्गनागैरपि सप्तभिः स सप्तैव चित्तानुशयान् ममर्द।

द्विपानिवोपस्थितविप्रणाशान् कालो ग्रहैः सप्तभिरेव सप्त॥५८॥



अग्निद्रुमाज्याम्बुषु या हि वृत्तिः कबन्धवाय्वग्निदिवाकराणाम्।

दोषेषु तां वृत्तिमियाय नन्दो निर्वापणोत्पाटनदाहशोषैः॥५९॥



इति त्रिवेगं त्रिझषं त्रिविचमेकाम्भसं पञ्चरयं द्विकूलम्।

द्विग्राहमष्टाङ्गवता प्लवेन दुःखार्णवं दुस्तरमुत्ततार॥६०॥



अर्हत्त्वमासाद्य स सत्क्रियार्हो निरुत्सुको निष्प्रणयो निराशः।

विभीर्विशुग्वीतमदो विरागः स एव धृत्यान्य इवाबभासे॥६१॥



भ्रातुश्च शास्तुश्च तयानुशिष्ट्या नन्दस्ततः स्वेन च विक्रमेण।

प्रशान्तचेताः परिपूर्णकार्यो वाणीमिमामात्मगतां जगाद॥६२॥



नमोऽस्तु तस्मै सुगताय येन हितैषिणा मे करुणात्मकेन।

बहूनि दुःखान्यपवर्तितानि सुखानि भूयांस्युपसंहृतानि॥६३॥



अहं ह्यनार्येण शरीरजेन दुःखात्मके वर्त्मनि कृष्यमाणः।

निवर्तितस्तद्वचनाङ्कुशेन दर्पान्वितो नाग इवाङ्कुशेन॥६४॥



तस्याज्ञया कारुणिकस्य शास्तुर्हृदिस्थमुत्पाट्य हि रागशल्यम्।

अद्यैव तावत् सुमहत् सुखं मे सर्वक्षये किंबत निर्वृतस्य॥६५॥



निर्वाप्य कामाग्निमहं हि दीप्तं धृत्यम्बुना पावकमम्बुनेव।

ह्लादं परं सांप्रतमागतोऽस्मि शीतं ह्रदं घर्म इवावतीर्णः॥६६॥



न मे प्रियं किंचन नाप्रियं मे न मेऽनुरोधोऽस्ति कुतो विरोधः।

तयोरभावात् सुखितोऽस्मि सद्यो हिमातपाभ्यामिव विप्रमुक्तः॥६७॥



महाभयात् क्षेममिवोपलभ्य महावरोधादिव विप्रमोक्षम्।

महार्णवात् पारमिवाप्लवः सन् भीमान्धकारादिव च प्रकाशम्॥६८॥



रोगादिवारोग्यमसह्यरूपादृणादिवानृण्यमनन्तसंख्यात्।

द्विषत्सकाशादिव चापयानं दुर्भिक्षयोगाच्च यथा सुभिक्षम्॥६९॥



तद्वत्परां शान्तिमुपागतोऽहं यस्यानुभावेन विनायकस्य।

करोमि भूयः पुनरुक्तमस्मै नमो नमोऽर्हाय तथागताय॥७०॥



येनाहं गिरिमुपनीय रूक्‌मशृङ्गं स्वर्गं च प्लवगवधूनिदर्शनेन।

कामात्मा त्रिदिवचरीभिरङ्गनाभिर्निष्कृष्टो युवतिमये कलौ निमग्नः॥७१॥



तस्माच्च व्यसनपरादनर्थपङ्कादुत्कृष्य क्रमशिथिलः करीव पङ्कात्।

शान्तेऽस्मिन् विरजसि विज्वरे विशोके सद्धर्मे वितमसि नैष्ठिके विमुक्तः॥७२॥



तं वन्दे परमनुकम्पकं महर्षि मूर्ध्नाहं प्रकृतिगुणज्ञमाशयज्ञम्।

संबुद्धं दशबलिनं भिषक्प्रधानं त्रातारं पुनरपि चास्मि संनतस्तम्॥७३॥



सौन्दरनन्द महाकाव्य में "अमृत-प्राप्ति" नामक सप्तदश सर्ग समाप्त।
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project