Digital Sanskrit Buddhist Canon

षोडशः सर्गः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Ṣoḍaśaḥ sargaḥ

षोडशः सर्गः



आर्यसत्य



एवं मनोधारणया क्रमेण व्यपोह्य किञ्चित् समुपोह्य किञ्चित्।

ध्यानानि चत्वार्यधिगम्य योगी प्राप्नोत्यभिज्ञा नियमेन पञ्च॥१॥



ऋद्धिप्रवेकं च बहुप्रकारं परस्य चेतश्चरितावबोधम्।

अतीतजन्मस्मरणं च दीर्घं दिव्ये विशुद्धे श्रुतिचक्षुषी च॥२॥



अतः परं तत्त्वपरिक्षणेन मनो दधात्यास्रवसंक्षयाय।

ततो हि दुःखप्रभृतीनि सम्यक् चत्वारि सत्यानि पदान्यवैति॥३॥



बाधात्मकं दुःखमिदं प्रसक्तं दुःखस्य हेतुः प्रभवात्मकोऽयम्।

दुःखक्षयो निःसरणात्मकोऽयं त्राणात्मकोऽयं प्रशमाय मार्गः॥४॥



इत्यार्यसत्यान्यवबुध्य बुद्ध्‍या चत्वारि सम्यक् प्रतिविध्य चैव।

सर्वास्रवान् भावनयाभिभूय न जायते शान्तिमवाप्य भूयः॥५॥



अबोधतो ह्यप्रतिवेधतश्च तत्त्वात्मकस्यास्य चतुष्टस्य।

भवाद् भवं याति न शन्तिमेति संसारदोलामधिरुह्य लोकः॥६॥



तस्माज्जरादेर्व्यसनस्य मूलं समासतो दुःखमवैहि जन्म।

सर्वौषधीनामिव भूर्भवाय सर्वापदां क्षेत्रमिदं हि जन्म॥७॥



यज्जन्मरूपस्य हि सेन्द्रियस्य दुःखस्य तन्नैकविधस्य जन्म।

यः संभवश्चास्य समुच्छ्रयस्य मृत्योश्च रोगस्य च संभवः सः॥८॥



सद्वाप्यसद्वा विषमिश्रमन्नं यथा विनाशाय न धारणाय।

लोके तथा तिर्यगुपर्यधो वा दुःखाय सर्वं न सुखाय जन्म॥९॥



जरादयो नैकविधाः प्रजानां सत्यां प्रवृत्तौ प्रभवन्त्यनर्थाः।

प्रवात्सु घोरेष्वपि मारुतेषु न ह्यप्रसूतास्तरवश्चलन्ति॥१०॥



आकाशयोनिः पवनो यथा हि यथा शमीगर्भशयो हुताशः।

आपो यथान्तर्वसुधाशयाश्च दुःखं तथा चित्तशरीरयोनिः॥११॥



अपां द्रवत्वं कठिनत्वमुर्व्या वायोश्चलत्वं ध्रुवमौष्ण्यमग्नेः।

यथा स्वभावो हि तथा स्वभावो दुःखं शरीरस्य च चेतसश्च॥१२॥



काये सति व्याधिजरादि दुःखं क्षुत्तर्षवर्षोष्णहिमादि चैव।

रूपाश्रिते चेतसि सानुबन्धे शोकारतिक्रोधभयादि दुःखम्॥१३॥



प्रत्यक्षमालोक्य च जन्मदुःखं दुःखं तथातीतमपीति विद्धि।

यथा च तद्‍दुःखमिदं च दुःखं दुःखं तथानागतमप्यवेहि॥१४॥



बीजस्वभावो हि यथेह दृष्टो भूतोऽपि भव्योऽपि तथानुमेयः।

प्रत्यक्षतश्च ज्वलनो यथोष्णो भूतोऽपि भव्योऽपि तथोष्ण एव॥१५॥



तन्नामरूपस्य गुणानुरूपं यत्रैव निर्वृत्तिरुदारवृत्त।

तत्रैव दुःखं न हि तद्विमुक्तं दुःखं भविष्यत्यभवद् भवेद् वा॥१६॥



प्रवृत्तिदुःखस्य च तस्य लोके तृष्णादयो दोषगणा निमित्तम्।

नैवेश्वरो न प्रकृतिर्नं कालो नापो स्वभावो न विधिर्यदृच्छा॥१७॥



ज्ञातव्यमेतेन च कारणेन लोकस्य दोषेभ्य इति प्रवृत्तिः।

यस्मान्म्रियन्ते सरजस्तमस्का न जायते वीतरजस्तमस्कः॥१८॥



इच्छाविशेषे सति तत्र तत्र यानासनादेर्भवति प्रयोगः।

यस्मादतस्तर्षवशात्तथैव जन्म प्रजानामिति वेदितव्यम्॥१९॥



सत्त्वान्यभिष्वङ्गवशानि दृष्ट्वा स्वजातिषु प्रीतिपराण्यतीव।

अभ्यासयोगादुपपादितानि तैरेव दोषैरिति तानि विद्धि॥२०॥



क्रोधप्रहर्षादिभिराश्रयाणामुत्पद्यते चेह यथा विशेषः।

तथैव जन्मस्वपि नैकरूपो निर्वर्तते क्लेशकृतो विशेषः॥२१॥



दोषाधिके जन्मनि तीव्रदोष उत्पद्यते रागिणि तीव्ररागः।

मोहाधिके मोहबलाधिकश्च तदल्पदोषे च तदल्पदोषः॥२२॥



फलं हि यादृक् समवैति साक्षात् तदागमाद् बीजमवैत्यतीतम्।

अवेत्य बीजप्रकृतिं च साक्षादनागतं तत्फलमभ्युपैति॥२३॥



दोषक्षयो जातिषु यासु यस्य वैराग्यतस्तासु न जायते सः।

दोषाशयस्तिष्ठति यस्य यत्र तस्योपपत्तिर्विवशस्य तत्र॥२४॥



तज्जन्मनो नैकविधस्य सौम्य तृष्णादयो हेतव इत्यवेत्य।

तांश्छिन्धि दुःखाद् यदि निर्मुमुक्षा कार्यक्षयः कारणसंक्षयाद्धि॥२५॥



दुःखक्षयो हेतुपरिक्षयाच्च शान्तं शिवं साक्षिकुरुष्व धर्मं।

तृष्णाविरागं लयनं निरोधं सनातनं त्राणमहार्यमार्यम्॥२६॥



यस्मिन्न जातिर्न जरा न मृत्युर्न व्याधयो नाप्रियसंप्रयोगः।

नेच्छाविपन्न प्रियविप्रयोगः क्षेमं पदं नैष्ठिकमच्युतं तत्॥२७॥



दीपो यथा निर्वृतिमभ्युपेतो नैवावनिं गच्छति नान्तरिक्षम्।

दिशं न कांचिद् विदिशं न कांचित् स्नेहक्षयात् केवलमेति शान्तिम्॥२८॥



एवं कृती निर्वृतिमभ्युपेतो नैवावनिं गच्छति नान्तरिक्षम्।

दिशं न कांचिद् विदिशं न कांचित् क्लेशक्षयात् केवलमेति शान्तिम्॥२९॥



अस्याभ्युपायोऽधिगमाय मार्गः प्रज्ञात्रिकल्पः प्रशमद्विकल्पः।

स भावनीयो विधिवद् बुधेन शीले शुचौ त्रिप्रमुखे स्थितेन॥३०॥



वाक्कर्म सम्यक् सहाकायकर्म यथावदाजीवनयश्च शुद्धः।

इदं त्रयं वृत्तविधौ प्रवृत्तं शीलाश्रयं कर्मपरिग्रहाय॥३१॥



सत्येषु दुःखादिषु दृष्टिरार्या सम्यग्वितर्कश्च पराक्रमश्च।

इदं त्रयं ज्ञानविधौ प्रवृत्तं प्रज्ञाश्रयं क्लेशपरिक्षयाय॥३२॥



न्यायेन सत्याधिगमाय युक्ता सम्यक् स्मृतिः सम्यगथो समाधिः।

इदं द्वयं योगविधौ प्रवृत्तं शमाश्रयं चित्तपरिग्रहाय॥३३॥



क्लेशांकुरान्न प्रतनोति शीलं बीजाङ्कुरान् काल इवातिवृत्तः।

शुचौ हि शीले पुरुषस्य दोषा मनः सलज्जा इव धर्षयन्ति॥३४॥



क्लेशांस्तु विष्कम्भयते समाधिर्वेगानिवाद्रिर्महतो नदीनाम्।

स्थिते समाधौ हि न धर्षयन्ति दोषा भुजंगा इव मन्त्रबद्धाः॥३५॥



प्रज्ञा त्वशेषेण निहन्ति दोषांस्तीरद्रुमान् प्रावृषि निम्नगेव।

दग्धा यया न प्रभवन्ति दोषा वज्राग्निनेवानुसृतेन वृक्षाः॥३६॥



त्रिस्कन्धमेतं प्रविगाह्य मार्गं प्रस्पष्टमष्टाङ्गमहार्यमार्यम्।

दुःखस्य हेतून् प्रजहाति दोषान् प्राप्नोति चात्यन्तशिवं पदं तत्॥३७॥



अस्योपचारे धृतिरार्जवं च ह्रीरप्रमादः प्रविविक्तता च।

अल्पेच्छता तुष्टिरसंगता च लोकप्रवृत्तावरतिः क्षमा च॥३८॥



याथात्म्यतो विन्दति यो हि दुःखं तस्योद्‍भवं तस्य च यो निरोधम्।

आर्येण मार्गेण स शान्तिमेति कल्याणमित्रैः सह वर्तमानः॥३९॥



यो व्याधितो व्याधिमवैति सम्यग् व्याधेर्निदानं च तदौषधं च।

आरोग्यमाप्नोति हि सोऽचिरेण मित्रैरभिज्ञैरुपचर्यमाणः॥४०॥



तद्‍व्याधिसंज्ञां कुरु दुःखसत्ये दोषेष्वपि व्याधिनिदानसंज्ञाम्।

आरोग्यंज्ञां च निरोधसत्ये भैषज्यसंज्ञामपि मार्गसत्ये॥४१॥



तस्मात् प्रवृत्तिंपरिगच्छ दुःखं प्रवर्तकानप्यवगच्छ दोषान्।

निवृत्तिमागच्छ च तन्निरोधं निवर्तकं चाप्यवगच्छ मार्गम्॥४२॥



शिरस्यथो वाससि संप्रदीप्ते सत्यावबोधाय मतिविचार्या।

दग्धं जगत् सत्यनयं ह्यदृष्ट्वा प्रदह्यते संप्रति धक्ष्यते च॥४३॥



यदैव यः पश्यति नामरूपं क्षयीति तद्दर्शनमस्य सम्यक्।

सम्यक् च निर्वेदमुपैति पश्यन् नन्दीक्षयाच्च क्षयमेति रागः॥४४॥



तयोश्च नन्दीरजसोः क्षयेण सम्यग्विमुक्तं प्रवदामि चेतः।

सम्यग्विमुक्तिर्मनसश्च ताभ्यां न चास्य भूयः करणीयमस्ति॥४५॥



यथास्वभावेन हि नामरूपं तद्धेतुमेवास्तगमं च तस्य।

विजानतः पस्यत एव चाहं ब्रवीमि सम्यक् क्षयमास्रवाणाम्॥४६॥



तस्मात् परं सौम्य विधाय वीर्यं शीघ्रं घटस्वास्त्रवसंक्षयाय।

दुःखाननित्यांश्च निरात्मकांश्च धातून् विशेषेण परीक्षमाणः॥४७॥



धातून् हि षड् भूसलिलानलादीन् सामान्यतः स्वेन च लक्षणेन।

अवैति यो नान्यमवैति तेभ्यः सोऽत्यन्तिकं मोक्षमवैति तेभ्यः॥४८॥



क्लेशप्रहाणाय च निश्चितेन कालोऽभ्युपायस्श्च परीक्षितव्यः।

योगोऽप्यकाले ह्यनुपायतश्च भवत्यनर्थाय न तद्‍गुणाय॥४९॥



अजातवत्सां यदि गां दुहीत नैवाप्नुयात् क्षीरमकालदोही।

कालेऽपि वा स्यान्न पयो लभेत मोहेन शृङ्गाद् यदि गां दुहीत॥५०॥



आर्द्राच्च काष्ठाज्ज्वलनाभिकामो नैव प्रयत्नादपि वह्निमृच्छेत्।

काष्ठाच्च शुष्कादपि पातनेन नैवाग्निमाप्नोत्यनुपायपूर्वम्॥५१॥



तद्देशकालौ विधिवत् परीक्ष्य योगस्य मात्रामपि चाभ्युपायम्।

बलाबले चात्मनि संप्रधार्य कार्यः प्रयत्नो न तु तद्विरुद्धः॥५२॥



प्रग्राहकं यत्तु निमित्तमुक्तमुद्धन्यमाने हृदि तन्न सेव्यम्।

एवं हि चित्तं प्रशम न याति प्रवायुना वह्निरिवेर्यमाणः॥५३॥



शमाय यत् स्यान्नियतं निमित्तं जातोद्धवे चेतसि तस्य कालः।

एवं हि चित्तं प्रशमं नियच्छेत् प्रदीप्यमानोऽग्निरिवोदकेन॥५४॥



शमावहं यन्नियतं निमित्तं सेव्यं न तच्चेतसि लीयमाने।

एवं हि भूयो लयमेति चित्तमनीर्यमाणोऽग्निरिवाल्पसारः॥५५॥



प्रग्राहकं यन्नियतं निमित्तं लयं गते चेतसि तस्य कालः।

क्रियासमर्थं हि मनस्तथा स्यान्मन्दायमानोऽग्निरिवेन्धनेन॥५६॥



औपेक्षिकं नापि निमित्तमिष्टं लयं गते चेतसि सोद्धवे वा।

एवं हि तीव्रं जनयेदनर्थमुपेक्षितो व्याधिरिवातुरस्य॥५७॥



यत्स्यादुपेक्षानियतं निमित्तं साम्यं गते चेतसि तस्य कालः।

एवं हि कृत्याय भवेत्प्रयोगो रथो विधेयाश्व इव प्रयातः॥५८॥



रागोद्धवव्याकुलितेऽपि चित्ते मैत्रोपसंहारविधिर्न कार्यः।

रागात्मको मुह्यति मैत्रया हि स्नेहं कफक्षोभ इवोपयुज्य॥५९॥



रागोद्धते चेतसि धैर्यमेत्य निषेवितव्यं त्वशुभं निमित्तम्।

रागात्मको ह्येवमुपैति शर्म कफात्मको रूक्षमिवोपयुज्य॥६०॥



व्यापाददोषेण मनस्युदीर्णे न सेवितव्यं त्वशुभं निमित्तम्।

द्वेषात्मकस्य ह्यशुभा वधाय पित्तात्मनस्तीक्ष्ण इवोपचारः॥६१॥



व्यापाददोषक्षुभिते तु चित्ते सेव्या स्वपक्षोपनयेन मैत्री।

द्वेषात्मनो हि प्रशमाय मैत्री पित्तात्मनः शीत इवोपचारः॥६२॥



मोहानुबद्धे मनसः प्रचारे मैत्राशुभा वैव भवत्ययोगः।

ताभ्यां हि संमोहमुपैति भूयो वाय्वात्मको रूक्षमिवोपनीय॥६३॥



मोहात्मिकायां मनसः प्रवृत्तौ सेव्यस्त्विदम्प्रत्ययताविहारः।

मूढे मनस्येष हि शान्तिमार्गो वाय्वात्मके स्निग्ध इवोपचारः॥६४॥



उल्कामुखस्थं हि यथा सुवर्णं सुवर्णकारो धमतीह काले।

काले परिप्रोक्षयते जलेन क्रमेण काले समुपेक्षते च॥६५॥



दहेत् सुवर्णं हि धमन्नकाले जले क्षिपन् संशमेयेदकाले।

न चापि सम्यक् परिपाकमेनं नयेदकाले समुपेक्षमाणः॥६६॥



संप्रग्रहस्य प्रशमस्य चैव तथैव काले समुपेक्षणस्य।

सम्यङ् निमित्तं मनसा त्ववेक्ष्यं नाशो हि यत्नोऽप्यनुपायपूर्वः॥६७॥



इत्येवमन्यायनिवर्तनं च न्यायं च तस्मै सुगतो बभाषे।

भूयश्च तत्तच्चरितं विदित्वा वितर्कहानाय विधीनुवाच॥६८॥



यथा भिषक् पित्तकफानिलानां य एव कोपं समुपैति दोषः।

शमाय तस्यैव विधिं विधत्ते व्यधत्त दोषेषु तथैव बुद्धः॥६९॥



एकेन कल्पेन सचेन्न हन्यात् स्वभ्यस्तभावादसुभान् वितर्कान्।

ततो द्वितीयं क्रमामरभेत न त्वेव हेयो गुणवान् प्रयोगः॥७०॥



अनादिकालोपचितात्मकत्वाद् बलीयसः क्लेशगणस्य चैव।

सम्यक् प्रयोगस्य च दुष्करत्वाच्छेत्तुं न शक्याः सहसा हि दोषाः॥७१॥



अण्व्या यथाण्या विपुलाणिरन्या निर्वाह्यते तद्विदुषा नरेण।

तद्वत्तदेवाकुशलं निमित्तं क्षिपेन्निमित्तान्तरसेवनेन॥७२॥



तथाप्यथाध्यात्मनवग्रहत्वान्नैवोपशाम्येदशुभो वितर्कः।

हेयः स तद्दोषपरीक्षणेन सश्वापदो मार्ग इवाध्वगेन॥७३॥



यथा क्षुधार्तोऽपि विशेष पृक्तं जिजीविषुर्नेच्छति भोक्तुमन्नम्।

तथैव दोषावहमित्यवेत्य जहाति विद्वानशुभं निमित्तम्॥७४॥



न दोषतः पश्यति यो हि दोषं कस्तं ततो वारयितुं समर्थः।

गुणं गुणे पश्यति यश्च यत्र स वार्यमाणोऽपि ततः प्रयाति॥७५॥



व्यपत्रपन्ते हि कुलप्रसूता मनःप्रचारैरशुभैः प्रवृतैः।

कण्ठे मनस्वीव युवा वपुष्मानचाक्षुषैरप्रयतैर्विषक्तैः॥७६॥



निर्धूयमानास्त्वथ लेशतोऽपि तिष्ठेयुरेवाकुशला वितर्काः।

कार्यान्तरैरध्ययनक्रियाद्यैः सेव्यो विधिर्विस्मरणाय तेषाम्॥७७॥



स्वप्तव्यमप्येव विचक्षणेन कायक्लमो वापि निषेवितव्यः।

न त्वेव संचिन्त्यमसन्निमित्तं यत्रावसक्तस्य भवेदनर्थः॥७८॥



यथा हि भीतो निशि तस्करेभ्यो द्वारं प्रियेभ्योऽपि न दातुमिच्छेत्।

प्राज्ञस्तथा संहरति प्रयोगं समं शुभस्याप्यशुभस्य दोषैः॥७९॥



एवं प्रकारैरपि यद्युपायैर्निवार्यमाणा न पराङ्मुखाः स्युः।

ततो यथाश्थूलनिवर्हणेन सुवर्णदोषा इव ते प्रहेयाः॥८०॥



द्रुतप्रयाणप्रभृतींश्च तीक्ष्णात् कामप्रयोगात् परिखिद्यमानः।

यथा नरः संश्रयते तथैव प्राज्ञेन दोषेष्वपि वर्तितव्यम्॥८१॥



ते चेदलब्धप्रतिपक्षभावा नैवोपशाम्येयुरसद्वितर्काः।

मुहूर्तमप्यप्रतिवध्यमाना गृहे भुजंगा इव नाधिवास्याः॥८२॥



दन्तेऽपि दन्तं प्रणिधाय कामं ताल्वग्रमुत्पीड्य च जिव्हयापि।

चित्तेन चित्तं परिगृह्य चापि कार्यः प्रयत्नो न तु तेऽनुवृत्ताः॥८३॥



किमत्र चित्रं यदि वीतमोहो वनं गतः स्वस्थमना न मुह्येत्।

आक्षिप्यमाणो हृदि तन्निमित्तैर्न क्षोभ्यते यः स कृती स धीरः॥८४॥



तदार्यसत्याधिगमाय पूर्वं विंशोधयानेन नयेन मार्गम्।

यात्रागतः शत्रुविनिग्रहार्थं राजेव लक्ष्मीमजितां जिगीषन्॥८५॥



एतान्यरण्यान्यभितः शिवानि योगानुकूलान्यजनेरितानि।

कायस्य कृत्वा प्रविवेकमात्रं क्लेशप्रहाणाय भजस्व मार्गम्॥८६॥



कौण्डिन्यनन्दकृमिलानिरुद्धास्तिष्योपसेनौ विमलोऽथ राधः।

बाष्पोत्तरौ धौतकिमोहराजौ कात्यायनद्रव्यपिलिन्दवत्साः॥८७॥



भद्दालिभद्रायणसर्पदाससुभूतिगोदत्तसुजातवत्साः।

संग्रामजिद् भद्रजिदश्वजिच्च श्रोणश्च शोणश्च च कोटिकर्णः॥८८॥



क्षेमाजितो नन्दकनन्दमातावुपालिवागीशयशोयशोदाः।

महाव्हयो वल्कलिराष्ट्रपालौ सुदर्शनस्वागतमेधिकाश्च॥८९॥



स कप्फिनः काश्यप औरुविल्वो महामहाकाश्यपतिष्यनन्दाः।

पूर्णश्च पूर्णश्च स पूर्णकश्च शोनापरान्तश्च स पूर्ण एव॥९०॥



शारद्वतीपुत्रसुबाहुचुन्दाः कोन्देयकाप्यभृगुकुण्ठधानाः।

सशैवलौ रेवतकौष्ठिलौ च मौद्‍गल्यगोत्रश्च गवांपतिश्च॥९१॥



यं विक्रमं योगविधावकुर्वंस्तमेव शीघ्रं विधिवत् कुरुष्व।

ततः पदं प्राप्स्यसि तैरवाप्तं सुखावृतैस्त्वं नियतं यशश्च॥९२॥



द्रव्यं यथा स्यत् कटुकं रसेन तच्चोपयुक्तं मधुरं विपाके।

तथैव वीर्यं कटुकं श्रमेण तस्यार्थ सिद्ध्यै मधुरो विपाकः॥९३॥



वीर्यं परं कार्यकृतौ हि मूलं वीर्यादृते काचन नास्ति सिद्धिः।

उदेति वीर्यादिह सर्वसंपन्निर्वीर्यता चेत् सकलश्च पाप्मा॥९४॥



अलब्धस्यालाभो नियतमुपलब्धस्य विगम-

स्तथैवात्मावज्ञा कृपणमधिकेभ्यः परिभवः।

तमो निस्तेजस्त्वं श्रुतिनियमतुष्टिव्युपरमो

नृणां निर्वीर्याणां भवति विनिपातश्च भवति॥९५॥



नयं श्रुत्वा शक्तो यदयमभिवृद्धिं न लभते

परं धर्मं ज्ञात्वा यदुपरि निवासं न लभते।

गृहं त्यक्त्वा मुक्तौ यदयमुपशान्तिं न लभते।

निमित्तं कौसीद्यं भवति पुरुषस्यात्र न रिपुः॥९६॥



अनिक्षिप्तोत्साहो यदि खनति गां वारि लभते।

प्रसक्तं व्यामथ्नन् ज्वलनमरणिभ्यां जनयति।

प्रयुक्ता योगे तु ध्रुवमुपलभन्ते श्रमफलं

द्रुतं नित्यं यान्त्यो गिरिमपि हि भिन्दन्ति सरितः॥९७॥



कृष्ट्वा गां परिपाल्य च श्रमशतैरश्नोति सस्यश्रियं

यत्नेन प्रविगाह्य सागरजलं रत्नश्रिया क्रीडति।

शत्रूणामवधूय वीर्यमिषुभिर्भुङ्‍क्ते नरेन्द्रश्रियं

तद्वीर्यं कुरु शान्तये विनियतं वीर्ये हि सर्वर्द्धयः॥९८॥



सौन्दरनन्द महाकाव्ये "आर्यसत्य" नाम षोडश सर्ग समाप्त।
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project