Digital Sanskrit Buddhist Canon

त्रयोदशः सर्गः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Trayodaśaḥ sargaḥ

त्रयोदशः सर्गः



शील एवं इन्द्रिय-संयम



अथ संराधितो नन्दः श्रद्धां प्रति महर्षिणा।

परिषिक्तोऽमृतेनेव युयुजे परया मुदा॥१॥



कृतार्थमिव तं मेने संबुद्धः श्रद्धया तया।

मेने प्राप्तमिव श्रेयः स च बुद्धेन संस्कृतः॥२॥



श्लक्ष्णेन वचसा कांश्चित् कांश्चित् परुषया गिरा।

कांश्चिदाभ्यामुपायाभ्यां स विनिन्ये विनायकः॥३॥



पांसुभ्यः काञ्चनं जातं विशुद्धं निर्मलं शुचि।

स्थितं पांसुष्वपि यथा पांसुदोषैर्न लिप्यते॥४॥



पद्मपर्णं यथा चैव जले जातं जले स्थितम्।

उपरिष्टादधस्ताद्वा न जलेनोपलिप्यते॥५॥



तद्वल्लोके मुनिर्जातो लोकस्यानुग्रहं चरन्।

कृतित्वान्निर्मलत्वाच्च लोकधर्मैर्न लिप्यते॥६॥



श्लेषं त्यागं प्रियं रूक्षं कथां च ध्यानमेव च।

मन्तुकाले चिकित्सार्थं चक्रे नात्मानुवृत्तये॥७॥



अतश्च सन्दधे कायं महाकरुणया तया।

मोचयेयं कथं दुःखात् सत्त्वानीत्यनुकम्पकः॥८॥



अथ संहर्षणान्नन्दं विदित्वा भाजनीकृतम्।

अब्रवीद् ब्रुवतां श्रेष्ठः क्रमज्ञः श्रेयसां क्रमम्॥९॥



अतः प्रभृति भूयस्त्वं श्रेद्धेन्द्रियपुरःसरः।

अमृतस्याप्तये सौम्य वृत्तं रक्षितुमर्हसि॥१०॥



प्रयोगः कायवचसोः शुद्धो भवति ते यथा।

उत्तानो विवृतो गुप्तोऽनवच्छिद्रस्तथा कुरु॥११॥



उत्तानो भावकरणाद् विवृतश्चाप्यगूहनात्।

गुप्तो रक्षणतात्पर्यादच्छिद्रश्चानवद्यतः॥१२॥



शरीरवचसोः शुद्धौ सप्तांगे चापि कर्मणि।

आजीवसमुदाचारं शौचात् संस्कर्तुमर्हसि॥१३॥



दोषाणां कुहनादीनां पञ्चानामनिषेवणात्।

त्यागाच्च ज्योतिषादीनां चतुर्णां वृत्तिघातिनाम्॥१४॥



प्राणिधान्यधनादीनां वर्ज्यानामप्रतिग्रहात्।

भैक्षाङ्गानां निसृष्टानां नियतानां प्रतिग्रहात्॥१५॥



परितुष्टः शुचिर्मञ्जुश्चौक्षया जीवसंपदा।

कुर्या दुःखप्रतीकारं यावदेव विमुक्तये॥१६॥



कर्मणो हि यथादृष्टात् कायवाक्‌प्रभवादपि।

आजीवः पृथगेवोक्तो दुःशोधत्वादयं मया॥१७॥



गृहस्थेन हि दुःशोधा दृष्टिर्विविधदृष्टिना।

आजीवो भिक्षुणा चैव परेष्वायत्तवृत्तिना॥१८॥



एतावच्छीलमित्युक्तमाचारोऽयं समासतः।

अस्य नाशेन नैव स्यात् प्रव्रज्या न गृहस्थता॥१९॥



तस्माच्चारित्रसम्पन्नो ब्रह्मचर्यमिदं चर।

अणुमात्रेष्वद्येषु भयदर्शी दृढव्रतः॥२०॥



शीलमास्थाय वर्तन्ते सर्वा हि श्रेयसि क्रियाः।

स्थानाद्यानीव कार्याणि प्रतिष्ठाय वसुन्धराम्॥२१॥



मोक्षस्योपनिषत् सौम्य वैराग्यमिति गृह्यताम्।

वैराग्यस्यापि संवेदः संविदो ज्ञानदर्शनम्॥२२॥



ज्ञानस्योपनिषच्चैव समाधिरुपधार्यताम्।

समाधेरप्युपनिषत् सुखं शारीरमानसम्॥२३॥



प्रश्रब्धिः कायमनसः सुखस्योपनिषत् परा।

प्रश्रब्धेरप्युपनिषत् प्रीतिरप्यवगम्यताम्॥२४॥



तथा प्रीतेरुपनिषत् प्रामोद्यं परमं मतम्।

प्रामोद्यस्याप्यहृल्लेखः कुकृतेष्वकृतेषु वा॥२५॥



अहृल्लेखस्य मनसः शीलं तूपनिषच्छुचि।

अतः शीलं नयत्यग्र्यमिति शीलं विशोधय॥२६॥



शीलनाच्छीलमित्युक्तं शीलनं सेवनादपि।

सेवनं तन्निदेशाच्च निदेशश्च तदाश्रयात्॥२७॥



शीलं हि शरणं सौभ्य कान्तार इव दैशिकः।

पित्रं बन्धुश्च रक्षा च धनं च बलमेव च॥२८॥



यतः शीलमतः सौम्य शीलं संस्कर्तुमर्हसि।

एतत्स्थानमथान्ये [नन्यं] च मोक्षारम्भेषु योगिनाम्॥२९॥



ततः स्मृतिमधिष्ठाय चपलानि स्वभावतः।

इन्द्रियाणीन्द्रियार्थेभ्यो निवारयितुमर्हसि॥३०॥



भेतव्यं न तथा शत्रोर्नाग्नेर्नाहेर्न चाशनेः।

इन्द्रियेभ्यो यथा स्वेभ्यस्तैरजस्रं हि हन्यते॥३१॥



द्विषद्भिः शत्रुभिः कश्चित् कदाचित् पीड्यते न वा।

इन्द्रियैर्बाध्यते सर्वः सर्वत्र च सदैव च॥३२॥



न च प्रयाति नरकं शत्रुप्रभृतिभिर्हतः।

कृष्यते तत्र निघ्नस्तु चपलैरिन्द्रियैर्हतः॥३३॥



हन्यमानस्य तैर्दुःखं हार्दं भवति वा न वा।

इन्द्रियैर्बाध्यमानस्य हार्दं शारीरमेव च॥३४॥



संकल्पविषदिग्धा हि पञ्चेन्द्रियमयाः शराः।

चिन्तापुङ्‍खा रतिफला विषयाकाशगोचराः॥३५॥



मनुष्यहरिणान् घ्नन्ति कामव्याधेरिता हृदि।

विहन्यन्ते यदि न ते ततः पतन्ति तैः क्षताः॥३६॥



नियमाजिरसंस्थेन धैर्यकार्मुकधारिणा।

निपतन्तो निवार्यास्ते महता स्मृतिवर्मणा॥३७॥



इन्द्रियाणामुपशमादरीणां निग्रहादिव।

सुखं स्वपिति वास्ते वा यत्र तत्र गतोद्धवः॥३८॥



तेषां हि सततं लोके विषयानभिकाङ्‍क्षताम्।

संविन्नैवास्ति कार्पण्याच्छुनामाशावतामिव॥३९॥



विषयैरिन्द्रियग्रामो न तृप्तिमधिगच्छति।

अजस्रं पूर्यमाणोऽपि समुद्रः सलिलैरिव॥४०॥



अवश्यं गोचरे स्वे स्वे वर्तितव्यमिहेन्द्रियैः।

निमित्तं तत्र न ग्राह्यमनुव्यञ्जनमेव च॥४१॥



आलोक्य चक्षुषा रूपं धातुमात्रे व्यवस्थितः।

स्त्री वेति पुरुषो वेति न कल्पयितुमर्हसि॥४२॥



सचेत् स्त्रीपुरुषग्राहः क्वचिद् विद्येत कश्चन्।

शुभतः केशदन्तादीन्नानुप्रस्थातुमर्हसि॥४३॥



नापनेयं ततः किंचित् प्रक्षेप्यं नापि किञ्चन।

द्रष्टव्यं भूततो भूतं यादृशं च यथा च यत्॥४४॥



एवं ते पश्यतस्तत्त्वं शश्वदिन्द्रियगोचरम्।

भविष्यति पदस्थानं नाभिध्यादौर्मनस्ययोः॥४५॥



अभिध्या प्रियरूपेण हन्ति कामात्मकं जगत्।

अरिर्मित्रमुखेनेव प्रियवाक्कलुषाशयः॥४६॥



दौर्मनस्याभिधानस्तु प्रतिघो विषयाश्रितः।

मोहाद्येनानुवृतेन परत्रेह च हन्यते॥४७॥



अनुरोधविरोधाभ्यां शितोष्णाभ्यामिवार्दितः।

शर्म नाप्नोति न श्रेयश्चलेन्द्रियमतो जगत्॥४८॥



नेन्द्रियं विषये तावत् प्रवृत्तमपि सज्जते।

यावन्न मनसस्तत्र परिकल्पः प्रवर्तते॥४९॥



इन्धने सति वायौ च यथा ज्वलति पावकः।

विषयात् परिकल्पाच्च क्लेशाग्निर्जायते तथा॥५०॥



अभूतपरिकल्पेन विषयस्य हि वध्यते।

तमेव विषयं पश्यन् भूततः परिमुच्यते॥५१॥



दृष्ट्वैकं रूपमन्यो हि रज्यतेऽन्यः प्रदुष्यति।

कश्चिद् भवति मध्यस्थस्तत्रैवान्यो घृणायते॥५२॥



अतो न विषयो हेतुर्बन्धाय न विमुक्तये।

परिकल्पविशेषेण संगो भवति वा न वा॥५३॥



कार्यः परमयत्नेन तस्मादिन्द्रियसंवरः।

इन्द्रियाणि ह्यगुत्पानि दुःखाय च भवाय च॥५४॥



कामभोगभोगवद्भिरात्मदृष्टिदृष्टिभिः प्रमादनैकमूर्द्धभिः प्रहर्षलोलजिव्हकैः।

इन्द्रियोरगैर्मनोबिलश्रयैः स्पृहाविषैः शमागदादृते न दृष्टमस्ति यच्चिकित्सेत्॥५५॥



तस्मादेषामकुशलकराणामरीणां चक्षुर्घ्राणश्रवणरसनस्पर्शनानाम्।

सर्वावस्थं भव विनियमादप्रमत्तो मास्मिन्नर्थे क्षणमपि कृथास्त्वं प्रमादम्॥५६॥



सौन्दरनन्द महाकाव्ये "शील एवं इन्द्रिय-संयम" नाम त्रयोदश सर्ग समाप्त।
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project