Digital Sanskrit Buddhist Canon

द्वादशः सर्गः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Dvādaśaḥ sargaḥ

द्वादशः सर्गः



विवेक



अप्सरोभृतको धर्मं चरसीत्यथ चोदितः।

आनन्देन तदा नन्दः परं व्रीडमुपागमत्॥१॥



तस्य व्रीडेन महता प्रमोदो हृदि नाभवत्।

अप्रामोद्येन विमुखं नावतस्थे व्रते मनः॥२॥



कामरागप्रधानोऽपि परिहाससमोऽपि सन्।

परिपाकगते हेतौ न स तन्ममृषे वचः॥३॥



अपरीक्षकभावाच्च पूर्वं मत्वा दिवं ध्रुवम्।

तस्मात् क्षेष्णुं परिश्रुत्य भृशं संवेगमेयिवान्॥४॥



तस्य स्वर्गान्निववृते संकल्पाश्वो मनोरथः।

महारथ इवोन्मार्गादप्रमत्तस्य सारथेः॥५॥



स्वर्गतर्षान्निवृत्तश्च सद्यः स्वस्थ इवाभवत्।

मृष्टादपथ्याद् विरतो जिजीविषुरिवातुरः॥६॥



विसस्मार प्रियां भार्यामप्सरोदर्शनाद् यथा।

तथानित्यतयोद्‍विग्नस्तत्याजाप्सरसोऽपि सः॥७॥



महतामपि भूतानामावृत्तिरिति चिन्तयन्।

संवेगाच्च सरागोऽपि वीतराग इवाभवत्॥८॥



बभूव स हि संवेगः श्रेयसस्तस्य वृद्धये।

धातुरेधिरिवाख्याते पठितोऽक्षरचिन्तकैः॥९॥



न तु कामान्मनस्तस्य केनचिज्जगृहे धृतिः।

त्रिषु कालेषु सर्वेषु निपातोऽस्तिरिव स्मृतः॥१०॥



खेलगामी महाबाहुर्गजेन्द्र इव निर्मदः।

सोऽभ्यगच्छद् गुरुं काले विवक्षुर्भावमात्मनः॥११॥



प्रणम्य च गुरौ मुर्ध्ना बाष्पव्याकुललोचनः।

कृत्वाञ्जलिमुवाचेदं ह्रिया किंचिदवाङ्मुखः॥१२॥



अप्सरः प्राप्तये यन्मे भगवन् प्रतिभूरसि।

नाप्सरोभिर्ममार्थोऽस्ति प्रतिभूत्वं त्यजाम्यहम्॥१३॥



श्रुत्वा ह्यावर्तकं स्वर्गं संसारस्थ च चित्रताम्।

न मर्त्येषु न देवेषु प्रवृत्तिर्मम रोचते॥१४॥



यदि प्राप्य दिवं यत्नान्नियमेन दमेन च।

अवितृप्ताः पतन्त्यन्ते स्वर्गाय त्यागिने नमः॥१५॥



अतश्च निखिलं लोकं विदित्वा सचराचरम्।

सर्वदुःखक्षयकरे त्वद्धर्मे परमे रमे॥१६॥



तस्माद् व्याससमासाभ्यां तन्मे व्याख्यातुमर्हसि।

यच्छ्रुत्वा शृण्वतां श्रेष्ठ परमं प्राप्नुयां पदम्॥१७॥



ततस्तस्याशयं ज्ञात्वा विपक्षाणिन्द्रियाणि च।

श्रेयश्चैवामुखीभूतं निजगाद तथागतः॥१८॥



अहो प्रत्यवमर्शोऽयं श्रेयसस्ते पुरोजवः।

अरण्यां मथ्यमानायामग्नेर्धूम इवोत्थितः॥१९॥



चिरमुन्मार्गविहृतो लोलैरिन्द्रियवाजिभिः।

अवतीर्णोऽसि पन्थानं दिष्ट्या दृष्ट्यविमूढया॥२०॥



अद्य ते सफलं जन्म लाभोऽद्य सुमहांस्तव।

यस्य कामरसज्ञस्य नैष्क्रम्यायोत्सुकं मनः॥२१॥



लोकेऽस्मिन्नालयारामे निवृत्तौ दुर्लभा रतिः।

व्यथन्ते ह्यपुनर्भावात् प्रपातादिव बालिशाः॥२२॥



दुःखं न स्यात् सुखं मे स्यादिति प्रयतते जनः।

अत्यन्तदुःखोपरमं सुखं तच्च न बुध्यते॥२३॥



अरिभूतेष्वनित्येषु सततं दुःखहेतुषु।

कामादिषु जगत् सक्तं न वेत्ति सुखमव्ययम्॥२४॥



सर्वदुःखापहं तत्तु हस्तस्थममृतं तव।

विषं पीत्वा यदगदं समये पातुमिच्छसि॥२५॥



अनर्हसंसारभयं मानार्हं ते चिकीर्षितम्।

रागाग्निस्तादृशो यस्य धर्मोन्मुख पराङ्मुखः॥२६॥



रागोद्दामेन मनसा सर्वथा दुष्करा धृतिः।

सदोषं सलिलं दृष्ट्वा पथिनेव पिपासुना॥२७॥



ईदृशी नाम बुद्धिस्ते विरुद्धा रजसाभवत्।

रजसा चण्डवातेन विवस्वत इव प्रभा॥२८॥



सा जिघांसुस्तमो हार्दं या संप्रति विजृम्भते।

तमो नैशं प्रभा सौरी विनिर्गीर्णेव मेरुणा॥२९॥



युक्तरूपमिदं चैव शुद्धसत्त्वस्य चेतसः।

यत्ते स्यान्नैष्ठिके सूक्ष्मे श्रेयसि श्रद्दधानता॥३०॥



धर्मच्छन्दमिमं तस्माद्विवर्धयितुमर्हसि।

सर्वधर्मा हि धर्मज्ञ नियमाच्छन्दहेतवः॥३१॥



सत्यां गमनबुद्धौ हि गमनाय प्रवर्तते।

शय्याबुद्धौ च शयनं स्थानबुद्धौ तथा स्थितिः॥३२॥



अन्तर्भूमिगतं ह्यम्भः श्रद्दधाति नरो यदा।

अर्थिंत्वे सति यत्नेन तदा खनति गामिमाम्॥३३॥



नार्थी यद्यग्निना वा स्याच्छ्रद्दध्यात्तं न वारणौ।

मथ्नीयान्नारणिं कश्चित्तभआवे सति मथ्यते॥३४॥



सस्योत्पत्तिं यदि न वा श्रद्दध्यात् कार्षकः क्षितौ।

अर्थी सस्येन वा न स्याद् बीजानि न वपेद् भुवि॥३५॥



अतश्च हस्त इत्युक्ता मया श्रद्धा विशेषतः।

यस्माद् गृण्हाति सद्धर्मं दायं हस्त यतो यथाः॥३६॥



प्राधान्यादिन्द्रियमिति स्थिरत्वाद् बलमित्यतः।

गुणदारिद्रयशमनाद् धनमित्यभिवर्णिता॥३७॥



रक्षणार्थेन धर्मस्य तथेषीकेत्युदाहृता।

लोकेऽस्मिन् दुर्लभत्वाच्च रत्नमित्यभिभाषिता॥३८॥



पुनश्च बीजमित्युक्ता निमित्तं श्रेयसो यदा।

पावनार्थेन पापस्य नदीत्यभिहिता पुनः॥३९॥



यस्माद्धर्मस्य चोत्पत्तौ श्रद्धा कारणमुत्तमम्।

मयोक्ता कार्यतस्तस्मात्तत्र तत्र तथा तथा॥४०॥



श्रद्धाङ्कुरमिमं तस्मात् संवर्धयितुमर्हसि।

तद्‍वृद्धौ वर्धते धर्मो मूलवृद्धौ यथा द्रुमः॥४१॥



व्याकुलं दर्शनं यस्य दुर्बलो यस्य निश्चयः।

तस्य पारिप्लवा श्रद्धा न हिं कृत्याय वर्तते॥४२॥



यावत्तत्त्वं न भवति हि दृष्टं श्रुतं वा

तावच्छ्रद्धा न भवति बलस्था स्थिरा वा।

दृष्टे तत्त्वे नियमपरिभूतेन्द्रियस्य

श्रद्धावृक्षो भवति सफलश्चाश्रयश्च॥४३॥



सौन्दरनन्द महाकाव्य में "विवेक" नामक द्वादश सर्ग समाप्त।
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project