Digital Sanskrit Buddhist Canon

दशमः सर्गः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Daśamaḥ sargaḥ

दशमः सर्गः



स्वर्ग-दर्शन



श्रुत्वा ततः सद्‍व्रतमुत्सिसृक्षुं भार्यां दिदृक्षुं भवनं विविक्षुम्।

नन्दं निरानन्दमपेतधैर्यमभ्युज्जिहीर्षुर्मुनिराजुहाव॥१॥



तं प्राप्तमप्राप्तविमोक्षमार्गं पप्रच्छ चित्तस्खलितं सुचित्तः।

स ह्रीमते ह्रीविनतो जगाद स्वं निश्चयं निश्चयकोविदाय॥२॥



नन्दं विदित्वा सुगतस्ततस्तं भार्याभिधाने तमसि भ्रमन्तम्।

पाणौ गृहीत्वा वियदुत्पपात मलं जले साधुरिवोज्जिहीर्षुः॥३॥



काषायवस्त्रौ कनकावदातौ विरेजतुस्तौ नभसि प्रसन्ने।

अन्योन्यसंश्लिष्टविकीर्णपक्षौ सरःप्रकीर्णाविव चक्रवाकौ॥४॥



तौ देवदारूत्तमगन्धवन्तं नदीसरःप्रस्रवणौघवन्तम्।

आजग्मतुः काञ्चनधातुमन्तं देवर्षिमन्तं हिमवन्तमाशु॥५॥



तस्मिन् गिरौ चारणासिद्धजुष्टे शिवे हविर्धूमकृतोत्तरीये।

अगम्यपारस्य निराश्रयस्य तौ तस्थतुर्द्वीप इवाम्बरस्य॥६॥



शान्तेन्द्रिये तत्र मुनौ स्थिते तु सविस्मयं दिक्षु ददर्श नन्दः।

दरीश्च कुञ्जांश्च वनौकसश्च विभूषणं रक्षणमेव चाद्रेः॥७॥



बह्वायते तत्र सिते हि शृङ्गे संक्षिप्तबर्हः शयितो मयूरः।

भुजे बलस्यायतपीनबाहोर्वैडूर्यकेयूर इवाबभासे॥८॥



मनःशीलाधातुशिलाश्रयेण पीताकृतांसो विरराज सिंहः।

संतप्तचामीकरभक्तिचित्रं रूप्याङ्गदं शीर्णमिवाम्बिकस्य॥९॥



व्याघ्रः क्लमव्यायतखेलगामी लाङ्‍गूलचक्रेण कृतापसव्यः।

बभौ गिरेः प्रस्रवण पिपासुर्दित्सन् पितृभ्योऽम्भ इवावतीर्णः॥१०॥



चलत्कदम्बे हिमवन्नितम्बे तरौ प्रलम्बे चमरो ललम्बे।

छेत्तुं विलग्नं न शशाक बालं कुलोद्‍गतां प्रीतिमिवार्यवृत्तः॥११॥



सुवर्णगौराश्च किरातसंघा मयूरपित्रोज्ज्वलगात्रलेखाः।

शार्दूलपातप्रतिमा गुहाभ्यो निष्पेतुरुद्‍गार इवाचलस्य॥१२॥



दरीचरीणामतिसुन्दरीणां मनोहरश्रोणिकुचोदरीणाम्।

वृन्दानि रेजुर्दिशि किन्नरीणां पुष्पोत्कचानामिव वल्लरीणाम्॥१३॥



नगान्नगस्योपरि देवदारूनायासयन्तः कपयो विचेरुः।

तेभ्यः फलं नापुरतोऽपजग्मुर्मोघप्रसादेभ्य इवेश्वरेभ्यः॥१४॥



तस्मात्तु यूथादपसार्यमाणां निष्पीडितालक्तकरक्तवक्त्राम्।

शाखामृगीमेकविपन्नदृष्टिं दृष्ट्वा मुनिर्नन्दमिदं बभाषे॥१५॥



का नन्द रूपेण च चेष्टया च संपश्यतश्चारुतरा मता ते।

एषा मृगी वैकविपन्नदृष्टिः स वा जनो यत्र गता तवेष्टिः॥१६॥



इत्येवमुक्तः सुगतेन नन्दः कृत्वा स्मितं किंचिदिदं जगाद।

क्व चोत्तमस्त्री भगवन् वधूस्ते मृगी नगक्लेशकरी क्व चैषा॥१७॥



ततो मुनिस्तस्य निशम्य वाक्यं हेत्वन्तरं किंचिदवेक्षमाणः।

आलम्ब्य नन्दं प्रययौ तथैव क्रीडावनं वज्रधरस्य राज्ञः॥१८॥



ऋतावृतावाकृतिमेक एके क्षणे क्षणे बिभ्रति यत्र वृक्षाः।

चित्रां समस्तामपि केचिदन्ये षण्णामृतूनां श्रियमुद्वहन्ति॥१९॥



पुष्यन्ति केचित् सुरभीरुदारा मालाः स्रजश्च ग्रन्थिता विचित्राः।

कर्णानुकूलानवतंसकांश्च प्रत्यर्थिभूतानिव कुण्डलानाम्॥२०॥



रक्तानि फुल्लाः कमलानि यत्र प्रदीपवृक्षा इव भान्ति वृक्षाः।

प्रफुल्लनीलोत्पलरोहिणोऽन्ये सोन्मीलिताक्षा एव भान्ति वृक्षाः॥२१॥



नानाविरागाण्यथ पाण्डराणि सुवर्णभक्तिव्यवभासितानि।

अतान्तवान्येकघनानि यत्र सूक्ष्माणि वासांसि फलन्ति वृक्षाः॥२२॥



हारान् मणिनुत्तमकुण्डलानि केयूरवर्याण्यथ नूपुराणि।

एवंविधान्याभरणानि यत्र स्वर्गानुरूपाणि फलन्ति वृक्षाः॥२३॥



वैडूर्यनालानि च काञ्चनानि पद्मानि वज्राङ्कुरकेसराणि।

स्पर्शक्षमाण्युत्तमगन्धवन्ति रोहन्ति निष्कम्पतला नलिन्यः॥२४॥



यत्रायतांश्चैव ततांश्च तांस्तान् वाद्यस्य हेतून् सुषिरान् घनांश्च।

फलन्ति वृक्षा मणिहेमचित्राः क्रीडासहायास्त्रिदशालयानाम्॥२५॥



मन्दारवृक्षांश्च कुशेशयांश्च पुष्पानतान् कोकनदांश्च वृक्षान्।

आक्रम्य माहात्म्यगुणैर्विराजन् राजायते यत्र स पारिजातः॥२६॥



कृष्टे तपःशीलहलैरखिन्नैस्त्रिविष्टपक्षेत्रतले प्रसूताः।

एवंविधा यत्र सदानुवृत्ता दिवौकसां भोगविधानवृक्षाः॥२७॥



मनःशिलाभैर्वदनैर्विहंगा यत्राक्षिभिः स्फाटिकसंनिभैश्च।

शावैश्च पक्षैरभिलोहितान्तैर्माञ्जिष्ठकैरर्धसितैश्च पादैः॥२८॥



चित्रैः सुवर्णच्छदनैस्तथान्ये वैडुर्यनीलैर्नयनैः प्रसन्नैः।

विहंगमाः शिञ्जिरिकाभिधाना रुतैर्मनःश्रोत्रहरैर्भ्रमन्ति॥२९॥



रक्ताभिरग्रेषु च वल्लरीभिर्मध्येषु चामीकरपिञ्जराभिः।

वैडूर्यवर्णाभिरुपान्तमध्येष्वलंकृता यत्र खगाश्चरन्ति॥३०॥



रोचिष्णवो नाम पतत्रिणोऽन्ये दिप्ताग्निवर्णा ज्वलितैरिवास्यैः।

भ्रमन्ति दृष्टीर्वपुषाक्षिपन्तः स्वनैः शुभैरप्सरसो हरन्तः॥३१॥



यत्रेष्टचेष्टाः सततप्रहृष्टा निरर्तयो निर्जरसो विशोकाः।

स्वैः कर्मभिर्हीनविशिष्टमध्याः स्वयंप्रभाः पुण्यकृतो रमन्ते॥३२॥



पूर्वं तपोमूल्यपरिग्रहेण स्वर्गक्रयार्थं कृतनिश्चयानाम्।

मनांसि खिन्नानि तपोधनानां हरन्ति यत्राप्सरसो लडन्त्यः॥३३॥



नित्योत्सवं तं च निशाम्य लोकं निस्तन्द्रिनिद्रारतिशोकरोगम्।

नन्दो जरामृत्युवशं सदार्तं मेने श्मशानप्रतिमं नृलोकम्॥३४॥



ऐन्द्रं वनं तच्च ददर्श नन्दः समन्ततो विस्मयफुल्लदृष्टिः।

हर्षान्विताश्चाप्सरसः परीयुः सगर्वमन्योन्यमवेक्षमाणाः॥३५॥



सदा युवत्यो मदनैककार्याः साधारणाः पुण्यकृतां विहाराः।

दिव्याश्च निर्दोषपरिग्रहाश्च तपःफलस्याश्रयणं सुराणाम्॥३६॥



तासां जगुर्धीरमुदात्तमन्याः पद्‍मानि काश्चिल्ललितं बभञ्जुः।

अन्योन्यहर्षान् ननृतुस्तथान्याश्चित्राङ्गहाराः स्तनभिन्नहाराः॥३७॥



कासांचिदासां वदनानि रेजुर्वनान्तरेभ्यश्चलकुण्डलानि।

व्याविद्धपर्णेभ्य इवाकरेभ्यः पद्‍मानि कारण्डवघट्टितानि॥३८॥



ताः निःसृताः प्रेक्ष्य वनान्तरेभ्यस्तडित्पताका इव तोयदेभ्यः।

नन्दस्य रागेण तनुर्विवेपे जले चले चन्द्रमसः प्रभेव॥३९॥



वपुश्च दिव्यं ललिताश्च चेष्टास्ततः स तासां मनसा जहार।

कौतूहलावर्जितया च दृष्ट्‍या संश्लेषतर्षादिव जातरागः॥४०॥



स जाततर्षोऽप्सरसः पिपासुस्तत्प्राप्तयेऽधिष्ठितविक्लवार्तः।

लोलेन्द्रियाश्वेन मनोरथेन जेह्रीयमाणो न धृतिं चकार॥४१॥



यथा मनुष्यो मलिनं हि वासः क्षारेण भूयो मलिनीकरोति।

मलक्षयार्थं न मलोद्‍भवार्थं रजस्तथास्मै मुनिराचकर्ष॥४२॥



दोषांश्च कायाद् भिषगुज्जिहीर्षुर्भूयो यथा क्लेशयितुं यतेत।

रागं तथा तस्य मुनिर्जिघांसुर्भूयस्तरं रागमुपानिनाय॥४३॥



दीपप्रभां हन्ति यथान्धकारे सहस्ररश्मेरुदितस्य दीप्तिः।

मनुष्यलोके द्युतिमङ्गनानामन्तर्दधात्यप्सरसां तथा श्रीः॥४४॥



महच्च रूपं स्वणु हन्ति रूपं शब्दो महान् हन्ति च शब्दमल्पम्।

गुर्वी रुजा हन्ति रुजां च मृद्वीं सर्वो महान् हेतुरणोर्वधाय॥४५॥



मुनेः प्रभावाच्च शशाक नन्दस्तद्दर्शनं सोढुमसह्यमन्यैः।

अवीतरागस्य हि दुर्बलस्य मनो दहेदप्सरसां वपुःश्रीः॥४६॥



मत्वा ततो नन्दमुदीर्णरागं भार्यानुरोधादपवृत्तरागम्।

रागेण रागं प्रतिहन्तुकामो मुनिर्विरागो गिरमित्युवाच॥४७॥



एताः स्त्रियः पश्य दिवौकसस्त्वं निरीक्ष्य च ब्रूहि यथार्थतत्त्वम्।

एताः कथं रूपगुणैर्मतास्ते स वा जनो यत्र गतं मनस्ते॥४८॥



अथाप्सरःस्वेव निविष्टदृष्टी रागाग्निनान्तर्हृदये प्रदीप्तः।

सगद्‍गदं कामविषक्तचेताः कृताञ्जलिर्वाक्यमुवाच नन्दः॥४९॥



हर्यङ्गनासौ मुषितैकदृष्टिर्यदन्तरे स्यात्तव नाथ वध्वाः।

तदन्तरेऽसौ कृपणा वधूस्ते वपुष्मतीरप्सरसः प्रतीत्य॥५०॥



आस्था यथा पूर्वमभून्न काचिदन्यासु मे स्त्रीषु निशाम्य भार्याम्।

तस्यां ततःसम्प्रति काचिदास्था न मे निशाम्यैव हि रूपमासाम्॥५१॥



यथा प्रतप्तो मृदुनातपेन दह्येत कश्चिन् महतानलेन।

रागेण पूर्वं मृदुनाभितप्तो रागाग्निनानेन तथाभिदह्ये॥५२॥



वाग्वारिणां मां परिषिञ्च तस्माद्यावन्न दह्ये स इवाब्जशत्रुः।

रागाग्निरद्यैव हिं मां दिधक्षुः कक्षं सवृक्षाग्रमिवोत्थितोऽग्निः॥५३॥



प्रसीद सीदामि विमुञ्च मा मुने वसुन्धराधैर्य न धैर्यमस्ति मे।

असून् विमोक्ष्यामि विमुक्तमानस प्रयच्छ वा वागमृतं मुमूर्षवे॥५४॥



अनर्थभोगेन विघातदृष्टिना प्रमाददंष्ट्रेण तमोविषाग्निना।

अहं हि दष्टो हृदि मन्मथाहिना विधत्स्व तस्मादगदं महाभिषक्॥५५॥



अनेन दष्टो मदनाहिनाऽहिना न कश्चिदात्मन्यनवस्थितः स्थितः।

मुमोह बोध्योर्ह्यचलात्मनो मनो बभूव धीमांश्च स शन्तनुस्तनुः॥५६॥



स्थिते विशिष्टे त्वयि संश्रये श्रये यथा न यामीह वसन् दिशं दिशम्।

यथा च लब्ध्वा व्यसनक्षयं क्षयं व्रजामि तन्मे कुरु शंसतः सतः॥५७॥



ततो जिघांसुर्हृदि तस्य तत्तमस्तमोनुदो नक्तमिवोत्थितं तमः।

महर्षिचन्द्रो जगतस्तमोनुदस्तमःप्रहीणो निजगाद गौतमः॥५८॥



धृतिं परिष्वज्य विधूय विक्रियां निगृह्य तावच्छ्रुतचेतसी शृणु।

इमा यदि प्रार्थयसे त्वमङ्गना विधत्स्व शुक्लार्थमिहोत्तमं तपः॥५९॥



इमा हि शक्या न बलान्न सेवया न संप्रदानेन न रूपवत्तया।

इमा ह्रियन्ते खलु धर्मचर्यया सचेत् प्रहर्षश्चर धर्ममादृतः॥६०॥



इहाधिवासो दिवि दैवतैः समं वनानि रम्याण्यजराश्च योषितः।

इदं फलं स्वस्य शुभस्य कर्मणो न दत्तमन्येन न चाप्यहेतुतः॥६१॥



क्षितौ मनुष्यो धनुरादिभिः श्रमैः स्त्रियः कदाचिद्धि लभेत वा न वा।

असंशयं यत्त्विह धर्मचर्यया भवेयुरेता दिवि पुण्यकर्मणः॥६२॥



तदप्रमत्तो नियमे समुद्यतो रमस्व यद्यप्सरसोऽभिलिप्ससे।

अहं च तेऽत्र प्रतिभूः स्थिरे व्रते यथा त्वमाभिनियतं समेष्यसि॥६३॥



अतःपरं परममिति व्यवस्थितः परां धृतिं परममुनौ चकार सः।

ततो मुनिः पवन इवाम्बरात् पतन् प्रगृह्य तं पुनरगमन्महीतलम्॥६४॥



सौन्दरनन्द महाकाव्ये "स्वर्ग-दर्शन" नाम दशम सर्ग समाप्त।
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project