Digital Sanskrit Buddhist Canon

नवमः सर्गः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Navamaḥ sargaḥ

नवमः सर्गः



अभिमान-निन्दा



अथैवमुक्तोऽपि स तेन भिक्षुणा जगाम नैवोपशमं प्रियां प्रति।

तथा हि तामेव तदा स चिन्तयन् न तस्य शुश्राव विसंज्ञवद् वचः॥१॥



यथा हि वैद्यस्य चिकीर्षतः शिवं वचो न गृण्हाति मुमूर्षुरातुरः।

तथैव मत्तो बलरूपयौवनैर्हितं न जग्राह स तस्य तद्वचः॥२॥



न चात्र चित्रं यदि रागपाप्मना मनोऽभिभूयेत तमोवृतात्मनः।

नरस्य पाप्मा हि तदा निवर्तते यदा भवत्यन्तगतं तमस्तनु॥३॥



ततस्तथाक्षिप्तमवेक्ष्य तं तदा बलेन रूपेण च यौवनेन च।

गृहप्रयाणं प्रति च व्यवस्थितं शशास नन्दं श्रमणः स शान्तये॥४॥



बलं च रूपं च नवं च यौवनं तथावगच्छामि यथावगच्छसि।

अहं त्विदं ते त्रयमव्यवस्थितं यथावबुद्ध्ये न तथावबुध्यसे॥५॥



इदं हि रोगायतनं जरावशं नदीतटानोकहवच्चलाचलम्।

न वेत्सि देहं जलफेनदुर्बलं बलस्थतामात्मनि येन मन्यसे॥६॥



यदान्नपानासनयानकर्मणामसेवनादप्यतिसेवनादपि।

शरीरमासन्नविपत्ति दृश्यते बलेऽभिमानस्तव केन हेतुना॥७॥



हिमातपव्याधिजराक्षुदादिभिर्यदाप्यनर्थैरुपमीयते जगत्।

जलं शुचौ मास इवार्करश्मिभिः क्षयं व्रजन् किं बलदृप्त मन्यसे॥८॥



त्वगस्थिमांसक्षतजात्मकं यदा शरीरमाहारवशेन तिष्ठति।

अजस्रमार्तं सततप्रतिक्रियं बलान्वितोऽस्मीति कथं विहन्यसे॥९॥



यथा घटं मृन्मयमाममाश्रितो नरस्तितीर्षेत् क्षुभितं महार्णवम्।

समुच्छ्रयं तद्वदसारमुद्वरहन् बलं व्यवस्येद् विषयार्थमुद्यतः॥१०॥



शरीरमामादपि मृन्मयाद् घटादिदं तु निःसारतमं मतं मम।

चिरं हि तिष्ठेद् विधिवद् धृतो घटः समुच्छ्रयोऽयं सुधृतोऽपि भिद्यते॥११॥



यदाम्बुभूवाय्वनलाश्च धातवः सदा विरुद्धा विषमा इवोरगाः।

भवन्त्यनर्थाय शरीरमाश्रिताः कथं बलं रोगविधो व्यवस्यसि॥१२॥



प्रयान्ति मन्त्रैः प्रशमं भुजङ्गमा न मन्त्रसाध्यस्तु भवन्ति धातवः।

क्वचिच्च कंचिच्च दशन्ति पन्नगाः सदा च सर्वं च तुदन्ति धातवः॥१३॥



इदं हि शय्यासनपानभोजनैर्गुणैः शरीरं चिरमप्यवेक्षितम्।

न मर्षयत्येकमपि व्यतिक्रमं यतो महाशीविषवत् प्रकुप्यति॥१४॥



यदा हिमार्तो ज्वलनं निषेवते हिमं निदाधाभिहतोऽभिकाङ्क्षति।

क्षुधान्वितोऽन्नं सलिलं तृषान्वितो बलं कुतः किं च कथं च कस्य च॥१५॥



तदेवमाज्ञाय शरीरमातुरं बलान्वितोऽस्मीति न मन्तुमर्हसि।

असारमस्वन्तमनिश्चितं जगज्जगत्यनित्ये बलमव्यवस्थितम्॥१६॥



क्व कार्तवीर्यस्य बलाभिमानिनः सहस्रबाहोबलमर्जुनस्य तत्।

चकर्त बाहून् युधि यस्य भार्गवः महान्ति श्रृङ्गाण्यशनिर्गिरेतिव॥१७॥



क्व तद् वलं कंसविकर्षिणो हरेस्तुरङ्गराजस्य पुटावभेदिनः।

यमेकबाणेन निजघ्निवान् जराः क्रमागता रूपमिवोत्तमं जरा॥१८॥



दितेः सुतस्यामररोषकारिणश्चमूरुचेर्वा नमुचेः क्व तद् बलम्।

यमाहवे क्रुद्धमिवान्तकं स्थितं जघान फेनावयवेन वासवः॥१९॥



बलं कुरूणां क्व च तत्तदाभवद् युधि ज्वलित्वा तरसौजसा च ये।

समित्समिद्धा ज्वलना इवाध्वरे हतासवो भस्मनि पर्यवस्थिताः॥२०॥



अतो विदित्वा बलवीर्यमानिनां बलान्वितानामवमर्दितं बलम्।

जगज्जरामृत्युवशं विचारयन् बलेऽभिमानं न विधातुमर्हसि॥२१॥



बलं महद् यदि वा न मन्यसे कुरुष्व युद्धं सह तावदिन्द्रियैः।

जयश्च तेऽत्रास्ति महच्च ते बलं पराजयश्चेद् वितथं च ते बलम्॥२२॥



तथा हि वीराः पुरुषा न ते मता जयन्ति ये साश्वरथद्विपानरीन्

यथा मता वीरतरा मनीषिणो जयन्ति लोलानि षडिन्द्रियाणि ये॥२३॥



अहं वपुष्मानिति यच्च मन्यसे विचक्षणं नैतदिदं च गृह्यताम्।

क्व तद्वपुः सा च वपुष्मती तनुर्गदस्य शाम्बस्य च सारणस्य च॥२४॥



यथा मयूरश्चलचित्रचन्द्रको बिभर्ति रूपं गुणवत् स्वभावतः।

शरीरसंस्कारगुणादृते तथा बिभर्ति रूपं यदि रूपवानसि॥२५॥



यदि प्रतीपं वृणुयान्न वाससा न शौचकाले यदि संस्पृशेदपः।

मृजाविशेषं यदि नाददीत वा वपुर्वपुष्मन् वद कीदृशं भवेत्॥२६॥



नवं वयश्चात्मगतं निशाम्य यद्गृ होन्मुखं ते विषयाप्तये मनः।

नियच्छ तच्छैलनदीरयोपमं द्रुतं हि गच्छत्यनिवर्ति यौवनम्॥२७॥



ऋतुर्व्यतीतः परिवर्तते पुनः क्षयं प्रयातः पुनरेति चन्द्रमाः।

गतं गतं नैव तु संनिवर्तते जलं नदीनां च नृणां च यौवनम्॥२८॥



विवर्णितश्मश्रु वलीविकुञ्चितं विशीर्णदन्तं शिथिलभ्रु निष्प्रभम्।

यदा मुखं द्रक्ष्यसि जर्जरं तदा जराभिभूतो विमदो भविष्यसि॥२९॥



निषेव्य पानं मदनीयमुत्तमं निशाविवासेषु चिराद् विमाद्यति।

नरस्तु मत्तो बलरूपयोवनैर्न कश्चिदप्राप्य जरां विमाद्यति॥३०॥



यथेक्षुरत्यन्तरसप्रपीडितो भुवि प्रविद्धो दहनाय शुष्यते।

तथा जरायन्त्रनिपीडिता तनुर्निपीतसारा मरणाय तिष्ठति॥३१॥



यथा हि नृभ्यां करपत्रमीरितं समुच्छ्रितं दारु भिनत्त्यनेकधा।

तथोच्छ्रितां पातयति प्रजामिमामहर्निशाभ्यामुपसंहिता जरा॥३२॥



स्मृतेः प्रमोषो वपुषः पराभवो रतेः क्षयो वाच्छ्रुतिचक्षुषां ग्रहः।

श्रमस्य योनिर्बलवीर्ययोर्वधो जरासमो नास्ति शरीरिणां रिपुः॥३३॥



इदं विदित्वा निधनस्य दैशिकं जराभिधानं जगतो महभ्दयम्।

अहं वपुष्मान् बलवान् युवेति वा न मानमारोढुमनार्यमर्हसि॥३४॥



अहं ममेत्येव च रक्तचेतसां शरीरसंज्ञा तव यः कलौ ग्रहः।

तमुत्सृजैवं यदि शाम्यता भवेद् भयं ह्यहं चेति ममेति चार्छति॥३५॥



यदा शरीरे न वशोऽस्ति कस्यचिन्निरस्यमाने विविधैरुपप्लवैः।

कथं क्षमं वेत्तुमहं ममेति वा शरीरसंज्ञं गृहमापदामिदम्॥३६॥



सपन्नगे यः कुगृहे सदाशुचौ रमेत नित्यं प्रतिसंस्कृतेऽबले।

स दुष्टधातावशुचौ चलाचले रमेत काये विपरीतदर्शनः॥३७॥



यथा प्रजाभ्यः कुनृपो बलाद् बलीन् हरत्यशेषं च न चाभिरक्षति।

तथैव कायो वसनादिसाधनं हरत्यशेषं च न चानुवर्तते॥३८॥



यथा प्ररोहन्ति तृणान्ययत्नतः क्षितौ प्रयत्नात् तु भवन्ति शालयः।

तथैव दुःखानि भवन्त्ययत्नतः सुखानि यत्नेन भवन्ति वा न वा॥३९॥



शरीरमार्तं परिकर्षतश्चलं न चास्ति किञ्चित् परमार्थतः सुखम्।

सुखं हि दुःखप्रतिकारसेवया स्थिते च दुःखे तनुनि व्यवस्यति॥४०॥



यथानपेक्ष्याग्र्यमपीप्सितं सुखं प्रवाधते दुःखमुपेतमण्वपि।

तथानपेक्ष्यात्मनि दुःखमागतं न विद्यते किञ्चन कस्यचित् सुखं॥४१॥



शरीरमीदृग् बहुदुःखाध्रुवं फलानुरोधादथ नावगच्छसि।

द्रवत्फलेभ्यो धृतिरश्मिभिर्मनो निगृह्यतां गौरिव शस्यलालसा॥४२॥



न कामभोगा हि भवन्ति तृप्तये हवींषि दीप्तस्य विभावसोरिव।

यथा यथा कामसुखेषु वर्तते तथा तथेच्छा विषयेषु वर्द्धते॥४३॥



यथा च कुष्ठव्यसनेन दुःखितः प्रतापनान्नैव शमं निगच्छति।

तथेन्द्रियार्थेष्वजितेन्द्रियश्चरन्न कामभोगैरुपशान्तिमृच्छति॥४४॥



यथा हि भैषज्यसुखाभिकाङ्क्षया भजेत रोगान्न भजेत तत्क्षमम्।

तथा शरीरे बहुदुःखभाजने रमेत मोहाद् विषयाभिकाङ्क्षया॥४५॥



अनर्थकामः पुरुषस्य यो जनः स तस्य शत्रुः किल तेन कर्मणा।

अनर्थमूला विषयाश्च केवला ननु प्रहेया विषमा यथारयः॥४६॥



इहैव भूत्वा रिपवो वधात्मकाः प्रयान्ति काले पुरुषस्य मित्रतां।

परत्र चैवेह च दुःखहेतवो भवन्ति कामा न तु कस्यचिच्छिवाः॥४७॥



यथोपयुक्तं रसवर्णगन्धवद् वधाय किम्पाकफलं न पुष्टये।

निषेव्यमाणा विषयाश्चलात्मनो भवन्त्यनर्थाय तथा न भूतये॥४८॥



तदेतदाज्ञाय विपाप्मनात्मना विमोक्षधर्माद्युपसहितं हितम्।

जुषस्व मे सज्जनसंमतं मतं प्रचक्ष्व वा निश्चयमुद् गिरन् गिरम्॥४९॥



इति हितमपि बह्वपीदमुक्तः श्रुतमहता श्रमणेन तेन नन्दः।

न धृतिमुपययौ न शर्म लेभे द्विरद इवातिमदो मदान्धचेताः॥५०॥



नन्दस्य भावमवगम्य ततः स भिक्षुः

पारिप्लवं गृहसुखाभिमुखं न धर्मे।

सत्त्वाशयानुशयभावपरीक्षकाय

बुद्धाय तत्त्वविदुषे कथयांचकार॥५१॥



सौन्दरनन्द महाकाव्ये "अभिमान-निन्दा" नाम नवम सर्ग समाप्त।
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project