Digital Sanskrit Buddhist Canon

अष्टमः सर्गः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Aṣṭamaḥ sargaḥ

अष्टमः सर्गः



स्त्री-विघ्न



अथ नन्दमधीरलोचनं गृहयानोत्सुकमुत्सुकोत्सुकम्।

अभिगम्य शिवेन चक्षुषा श्रमणः कश्चिदुवाच मैत्रया॥१॥



किमिदं मुखमश्रुदुर्दिनं हृदयस्थं विवृणोति ते तमः।

धृतिमेहि नियच्छ विक्रियां न हि बाष्पश्च शमश्च शोभते॥२॥



द्विविधा समुदेति वेदना नियतं चेतसि देह एव च।

श्रुतविध्युपचारकोविदा द्विविधा एव तयोश्चिकित्सकाः॥३॥



तदियं यदि कायिकी रुजा भिषजे तूर्णमनूनमुच्यताम्।

विनिगुह्य हि रोगमातुरो नचिरात्तीव्रमनर्थमृच्छति॥४॥



अथ दुःखमिदं मनोमयं वद वक्ष्यामि यदत्र भेषजम्।

मनसो हि रजस्तमस्विनो भिषजोऽध्यात्मविदः परीक्षकाः॥५॥



निखिलेन च सत्यमुच्यतां यदि वाच्यं मयि सौम्य मन्यसे।

गतयो विविधा हि चेतसां बहुगुह्यानि महाकुलानि च॥६॥



इति तेन स चोदितस्तदा व्यवसायं प्रविवक्षुरात्मनः।

अवलम्ब्य करे करेण तं प्रविवेशान्यतरद् वनान्तरम्॥७॥



अथ तत्र शुचौ लतागृहे कुसुमोद्‍गारिणि तौ निषेदतुः।

मृदुभिर्मृदुमारुतेरितैरुपगूढाविव बालपल्लवैः॥८॥



स जगाद ततश्चिकीर्षितं घननिश्वासगृहीतमन्तरा।

श्रुतवाग्विशदाय भिक्षवे विदुषा प्रव्रजितेन दुर्वचम्॥९॥



सदृशं यदि धर्मचारिणः सततं प्राणिषु मैत्रचेतसः।

अधृतौ यदियं हितैषिता मयि ते स्यात् करुणात्मनः सतः॥१०॥



अत एव च मे विशेषतः प्रविवक्षा क्षमवादिनि त्वयि।

न हि भावमिमं चलात्मने कथयेयं ब्रुवतेऽप्यसाधवे॥११॥



तदिदं श्रृणु मे समासतो न रमे धर्मविधावृते प्रियाम्।

गिरिसानुषु कामिनीमृते कृतरेता इव किन्नरश्चरन्॥१२॥



वनवाससुखात् पराङ्मुखः प्रयियासा गृहमेव येन मे।

न हि शर्म लभे तया बिना नृपतिर्हीन इवोत्तमश्रिया॥१३॥



अथ तस्य निशम्य तद्‍वचः प्रियभार्याभिमुखस्य शोचतः।

श्रमणः स शिरः प्रकम्पयन्निजगादात्मगतं शनैरिदम्॥१४॥



कृपणं बत यूथलालसो महतो व्याधभयाद् विनिःसृतः।

प्रविविक्षति वागुरां मृगश्चपलो गीतरवेण वञ्चितः॥१५॥



विहगः खलु जालसंवृतो हितकामेन जनेन मोक्षितः।

विचरन् फलपुष्पवद्वनं प्रविविक्षुः स्वयमेव पञ्चरम्॥१६॥



कलभः करिणा खलूद्‍धृतोः बहुपङ्काद् विषमान्नदीतलात्।

जलतर्षवशेन तां पुनः सरितं ग्राहवतीं तितीर्षति॥१७॥



शरणे सभुजङ्गमे स्वपन् प्रतिबुद्धेन परेण बोधितः।

तरुणः खलु जातविभ्रमः स्वयमुग्रं भुजगं जिघृक्षति॥१८॥



महता खलु जातवेदसा ज्वलितादुत्पतितो वनद्रुमात्।

पुनरिच्छति नीडतृष्णया पतितुं तत्र गतव्यथो द्विजः॥१९॥



अवशः खलु काममूर्च्छया प्रियया श्येनभयाद् विनाकृतः।

न धृतिं समुपैति न ह्रियं करुणं जीवति जीवजीवकः॥२०॥



अकृतात्मतया तृषान्वितो घृणया चैव धिया च वर्जितः।

अशनं खलु वान्तमात्मना कृपणः श्वा पुनरत्तुमिच्छति॥२१॥



इति मन्मथशोककर्षितं तमनुध्याय मुहुर्निरीक्ष्य च।

श्रमणः स हिताभिकाङ्‍क्षया गुणवद् वाक्यमुवाच विप्रियम्॥२२॥



अविचारयतः शुभाशुभं विषयेष्वेव निविष्टचेतसः।

उपपन्नमलब्धचक्षुषो न रतिः श्रेयसि चेद् भवेत्तव॥२३॥



श्रवणे ग्रहणेऽथ धारणे परमार्थावगमे मनःशमे।

अविषक्तमतेश्चलात्मनो न हि धर्मेऽभिरतिर्विधीयते॥२४॥



विषयेषु तु दोषदर्शिनः परितुष्टस्य शुचेरमानिनः।

शमकर्मसु युक्तचेतसः कृतबुद्धेन रतिर्न विद्यते॥२५॥



रमते तृषितो धनश्रिया रमते कामसुखेन बालिशः।

रमते प्रशमेन सज्जनः परिभोगान् परिभूय विद्यया॥२६॥



अपि च प्रथितस्य धीमतः कुलजस्यार्चितलिङ्गधारिणः।

सदृशी न गृहाय चेतना प्रणतिर्वायुवशद् गिरेरिव॥२७॥



स्पृहयेत् परसंश्रिताय यः परिभूयात्मवशां स्वतन्त्रताम्।

उपशान्तिपथे शिवे स्थितः स्पृहयेद्दोषवते गृहाय सः॥२८॥



व्यसनाभिहतो यथा विशेत् परिमुक्तः पुनरेव बन्धनम्।

समुपेत्य वनं तथा पुनर्गृहसंज्ञं मृगयेत बन्धनम्॥२९॥



पुरुषश्च विहाय यः कलिं पुनरिच्छेत् कलिमेव सेवितुम्।

स विहाय भजेत बालिशः कलिभूतामजितेन्द्रियः प्रियाम्॥३०॥



सविषा इव संश्रिता लताः परिमृष्टा इव सोरगा गुहाः।

विवृता इव चासयो धृता व्यसनान्ता हि भवन्ति योषितः॥३१॥



प्रमदाः समदा मदप्रदाः प्रमदा वितमदा भयप्रदाः।

इति दोषभयावहाश्च ताः कथमर्हन्ति निषेवणं नु ताः॥३२॥



स्वजनः स्वजनेन भिद्यते सुहदश्चापि सुहृज्जनेन यत्।

परदोषविचक्षणाः शठास्तदनार्याः प्रचरन्ति योषितः॥३३॥



कुलजाः कृपणीभवन्ति यद्यदयुक्तं प्रचरन्ति साहसम्।

प्रविशन्ति च यच्चमूमुखं रभसास्तत्र निमित्तमङ्गनाः॥३४॥



वचनेन हरन्ति वल्गुना निशितेन प्रहरन्ति चेतसा।

मधु तिष्ठति वाचि योषितां हृदये हालहलं महद्विषशम्॥३५॥



प्रदहन् दहनोऽपि गृह्यते विशरीरः पवनोऽपि गृह्यते।

कुपितो भुजगोऽपि गृह्यते प्रमदानां तु मनो न गृह्यते॥३६॥



न वपुर्विमृशन्ति न श्रियं न मतिं नापि कुलं न विक्रमम्।

प्रहरन्त्यविशेषतः स्त्रियः सरितो ग्राहकुलाकुला इव॥३७॥



न वचो मधुरं न लालनं स्मरति स्त्री न च सौहृदं क्वचित्।

कलिता वनितैव चञ्चला तदिहारिष्विव नावलम्ब्यते॥३८॥



अददत्सु भवन्ति नर्मदाः प्रददत्सु प्रविशन्ति विभ्रमम्।

प्रणतेषु भवन्ति गर्विताः प्रमदास्तृप्ततराश्च मानिषु॥३९॥



गुणवत्सु चरन्ति भर्तृवद् गुणहीनेषु चरन्ति पुत्रवत्।

धनवत्सु चरन्ति तृष्णया धनहीनेषु चरन्त्यवज्ञया॥४०॥



विषयाद् विषयान्तरं गता प्रचरत्येव यथा हृतापि गौ।

अनवेक्षितपूर्वसौहृदा रमतेऽन्यत्र गता तथाङ्गना॥४१॥



प्रविशन्त्यपि हि स्त्रियश्चितामनुबध्नन्त्यपि मुक्तजीविताः।

अपि बिभ्रति चैव यन्त्रणा न तु भावेन वहन्ति सौहृदम्॥४२॥



रमयन्ति पतीन् कथञ्चन प्रमदा याः पतिदेवताः क्वचित्।

चलचित्ततया सहस्त्रशो रमयन्ते हृदयं स्वमेव ताः॥४३॥



श्वपचं किल सेनजित्सुता चकमे मीनरिपुं कुमुद्‍वती।

मृगराजमथो बृहद्रथा प्रमदानामगतिर्न विद्यते॥४४॥



कुरुहैहयवृष्णिवंशजा बहुमायाकवचोऽथ शम्बरः।

मुनिरुग्रतपाश्च गौतमः समवापुर्वनितोद्धतं रजः॥४५॥



अकृतज्ञमनार्यमस्थिरं वनितानामिदमीदृशं मनः।

कथमर्हति तासु पण्डितो हृदयं सञ्जयितुं चलात्मसु॥४६॥



अथ सूक्ष्ममतिद्वयाशिवं लघु तासां हृदयं न पश्यसि।

किमु कायमसद्‍गृहं स्रवद् वनितानामशुचिं न पश्यसि॥४७॥



यदहन्यहनि प्रधावनैर्वसनैश्चाभरणैश्च संस्कृतम्।

अशुभं तमसावृतेक्षणः शुभतो गच्छसि नावगच्छसि॥४८॥



अथवा समवैषि तत्तनूमशुभां त्वं न तु संविदस्ति ते।

सुरभिं विदधासि हि क्रियामशुचेस्तत्प्रभवस्य शान्तये॥४९॥



अनुलेपनमञ्जनं स्रजो मणिमुक्तातपनीयमंशुकम्।

यदि साधु किमत्र योषितां सहजं तासु विचीयतां शुचि॥५०॥



मलपङ्कधरा दिगम्बरा प्रकृतिस्थैर्नखदन्तरोमभिः।

यदि सा तव सुन्दरी भवेन्नियतं तेऽद्य न सुन्दरी भवेत्॥५१॥



स्त्रवतीमशुचिं स्पृशेच्च कः सघृणो जर्जरभाण्डवत् स्त्रियम्।

यदि केवलया त्वचावृता न भवेन्मक्षिकपत्रमात्रया॥५२॥



त्वचवेष्टितमस्थिपञ्जरं यदि कायं समवैषि योषिताम्।

मदनेन च कृष्यसे बलादघृणः खल्वधृतिश्च मन्मथः॥५३॥



शुभतामशुभेषु कल्पयन् नखदन्तत्वचकेशरोमसु।

अविचक्षण किं न पश्यसि प्रकृतिं च प्रभवं च योषिताम्॥५४॥



तदवेत्य मनःशरिरयोर्वनिता दोषवतीर्विशेषतः।

चपलं भवनोत्सुकं मनः प्रतिसंख्यानबलेन वार्यताम्॥५५॥



श्रुतवान् मतिमान् कुलोद्‍गतः परमस्य प्रशमस्य भाजनम्।

उपगम्य यथा तथा पुनर्न हि भेत्तुं नियमं त्वमर्हसि॥५६॥



अभिजनमहतो मनस्विनः प्रिययशसो बहुमानमिच्छतः।

निधनमपि वरं स्थिरात्मनश्च्युतविनयस्य न चैव जीवितम्॥५७॥



बद्‍ध्वा यथा हि कवचं प्रगृहीतचापो,

निन्द्यो भवत्यपसृतः समराद् रथस्थः।

भैक्षाकमभ्युपगतः परिगृह्य लिङ्गं,

निन्द्यस्तथा भवति कामहृतेन्द्रियाश्वः॥५८॥



हास्यो यथा च परमाभरणाम्बरस्त्रग् भैक्षं चरन् धृतधनुश्चलचित्रमौलिः।

वैरूप्यमभ्युपगतः परपिण्डभोजी हास्यस्तथा गृहसुखाभिमुखः सतृष्णः॥५९॥



यथा स्वन्नं भुक्त्वा परमशयनीयेऽपि शयितो,

वराहो निर्मुक्तः पुनरशुचि धावेत् परिचितम्।

तथा श्रेयः श्रृण्वन् प्रशमसुखमास्वाद्य गुणवद्,

वनं शान्तं हित्वा गृहमभिलषेत् कामतृषितः॥६०॥



यथोल्का हस्तस्था दहति पवनप्रेरितशिखा यथा पादाक्रान्तो दशति भुजगः क्रोधरभसः।

यथा हन्ति व्याघ्रः शिशुरपि गृहीतो गृहगतः तथा स्त्रीसंसर्गो बहुविधमनर्थाय भवति॥६१॥



तद्विज्ञाय मनःशरीरनियतान्नारीषु दोषानिमान्,

मत्वा कामसुखं नदीजलचलं क्लेशाय शोकाय च।

दृष्ट्वा दुर्बलमामपात्रसदृशं मृत्यूपसृष्टं जगन्-

निर्मोक्षाय कुरुष्व बुद्धिमतुलामुत्कण्ठितुं नार्हसि॥६२॥



सौन्दरनन्द महाकाव्ये "स्त्री-विघ्न" नाम अष्टम सर्ग समाप्त।
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project