Digital Sanskrit Buddhist Canon

सप्तमः सर्गः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Saptamaḥ sargaḥ
सप्तमः सर्गः



नन्द-विलाप



लिङ्गं ततः शास्तृविधिप्रदिष्टं गात्रेण बिभ्रन्न तु चेतसा तत्।

भार्यागतैरेव मनोवितर्कैर्जेह्रीयमाणो न ननन्द नन्दः॥१॥



स पुष्पमासस्य च पुष्पलक्ष्म्या सर्वाभिसारेण च पुष्पकेतोः।

यानीयभावेन च यौवनस्य विहारसंस्थो न शमं जगाम॥२॥



स्थितः सः दीनः सहकारवीथ्यामालीनसंमूर्च्छितषट्‍पदायाम्।

भृशं जजृम्भे युगदीर्घबाहुर्ध्यात्वा प्रियां चापमिवाचकर्ष॥३॥



स पीतकक्षोदमिव प्रतीच्छन् चूतद्रुमेभ्यस्तनुपुष्पवर्षम्।

दीर्घं निशश्वास विचिन्त्य भार्यां नवग्रहो नाग इवावरुद्धः॥४॥



शोकस्य हर्ता शरणागतानां शोकस्य कर्त्ता प्रतिगर्वितानाम्।

अशोकमालम्ब्य स जातशोकः प्रियां प्रियाशोककवनां शुशोच॥५॥



प्रियां प्रियायाः प्रतनुं प्रियङ्‍गुं निशाम्य भीतामिव निष्पतन्तीम्।

सस्मार तामश्रुमुखीं सबाष्पः प्रियां प्रियङ्‍गुप्रसवावदाताम्॥६॥



पुष्पावनद्धे तिलकद्रुमस्य दृष्ट्‍वान्यपुष्टां शिखरे निविष्टाम्।

संकल्पयामास शिखां प्रियायाः शुक्लांशुकेऽट्टालपाश्रितायाः॥७॥



लतां प्रफुल्लामतिमुक्तकस्य चूतस्य पार्श्वे परिरभ्य जाताम्।

निशाम्य चिन्तामगमत्तदैवं श्लिष्टा भवेन्मामपि सुन्दरीति॥८॥



पुष्पोत्कराला अपि नागवृक्षा दान्तैः समुद्‍गैरिव हेमगर्भैः।

कान्तारवृक्षा इव दुःखितस्य न चक्षुराचिक्षिपुरस्य तत्र॥९॥



गन्धं वमन्तोऽपि च गन्धपर्णा गन्धर्ववेश्या इव गन्धपूर्णाः।

तस्यान्यचित्तस्य शुगात्मकस्य घ्राणं न जन्हुर्हृदयं प्रतेपुः॥१०॥



संरक्तकण्ठैश्च विनीलकण्ठैस्तुष्टैः प्रहृष्टैरपि चान्यपुष्टैः।

लेलिह्यमानैश्च मधु द्विरेफैः स्वनद्वनं तस्य मनो नुनोद॥११॥



स तत्र भार्यारणिसंभवेन वितर्कधूमेन तमःशिखेन।

कामाग्निनान्तर्हृदि दह्यमानो विहाय धैर्यं विललाप तत्तत्॥१२॥



अद्यावगच्छामि सुदुष्करं ते चक्रुः करिष्यन्ति च कुर्वते च।

त्यक्त्वा प्रियामश्रुमुखीं तपो ये चेरूश्चरिष्यन्ति चरन्ति चैव॥१३॥



तावद् दृढं बन्धनमस्ति लोके न दारवं तान्तवमायसं वा।

यावद् दृढं बन्धनमेतदेव मुखं चलाक्षं ललितं च वाक्यम्॥१४॥



छित्त्वा च भित्त्वा च हि यान्ति तानि स्वपौरुषाच्चैव सुहृद्‍बलाच्च।

ज्ञानाच्च रौक्ष्याच्च विना विमोक्तुं न शक्यते स्नेहमयस्तु पाशः॥१५॥



ज्ञानं न मे तच्च शमाय यत् स्यान्न न चास्ति रौक्ष्यं करुणात्मकोऽस्मि।

कामात्मकश्चास्मि गुरुश्च बुद्धः स्थितोऽन्तरे चक्रगतेरिवास्मि॥१६॥



अहं गृहीत्वापि हि भिक्षुलिङ्गं भ्रातॄषिणा द्विगुरुणानुशिष्टः।

सर्वास्ववस्थासु लभे न शान्तिं प्रियावियोगादिव चक्रवाकः॥१७॥



अद्यापि तन्मे हृदि वर्तते च यद्दर्पणे व्याकुलिते मया सा।

कृतानुतक्रोधकमब्रवीन्मां कथंकृतोऽसीति शठं हसन्ती॥१८॥



यथैष्यनाश्यानविशेषकायां मयीति यन्मामवदच्च साश्रु।

पारिप्लवाक्षेण मुखेन बाला तन्मे वचोऽद्यापि मनो रुणद्धि॥१९॥



बुद्ध्‍वासनं पर्वतनिर्झरस्थः स्वस्थो यथा ध्यायति भिक्षुरेषः।

सक्तः क्वचिन्नाहमिवैष नूनं शान्तस्तथा तृप्त इवोपविष्टः॥२०॥



पुंस्कोकिलानामविचिन्त्य घोषं वसन्तलक्ष्म्यामविचार्य चक्षुः।

शास्त्रं यथाभ्यस्यति चैष युक्तः शङ्के प्रियाकर्षति नास्य चेतः॥२१॥



अस्मै नमोऽस्तु स्थिरनिश्चयाय निवृत्तकौतूहलविस्मयाय।

शान्तात्मनेऽन्तर्गतमानासाय चङ्‍क्रम्यमाणाय निरुत्सुकाय॥२२॥



निरीक्षमाणस्य जलं सपद्‍मं वनं च फुल्लं परपुष्टजुष्टम्।

कस्यास्ति धैर्यं नवयौवनस्य मासे मधौ धर्मसपत्नभूते॥२३॥



भावेन गर्वेण गतेन लक्ष्म्या स्मितेन कोपेन मदेन वाग्भिः।

जह्रुः स्त्रियो देवनृपर्षिसंघान् कस्माद्धि नास्मद्विधमाक्षिपेयुः॥२४॥



कामाभिभूतो हि हिरण्यरेताः स्वाहां सिषेवे मधवानहल्याम्।

सत्त्वेन सर्गेण च तेन हीनः स्त्रिनिर्जितः किं बत मानुषोऽहम्॥२५॥



सूर्यः सरण्यूं प्रति जातरागस्तत्प्रीतये तष्ट इति श्रुतं नः।

रतमश्वभूतोऽश्ववधूं समेत्य यतोऽश्विनौ तौ जनयांबभूव॥२६॥



स्त्रीकारणं वैरविशक्तबुद्‍ध्योर्वैवस्वताग्न्योश्चलितात्मधृत्योः।

बहूनि वर्षाणि बभूव युद्धं कः स्त्रीनिमित्तं न चलेदिहान्यः॥२७॥



भेजे श्वपाकीं मुनिरक्षमालां कामाद्वसिष्ठश्च स सद्वरिष्ठः।

यस्यां विवश्वानिव भूजलादः सुतः प्रसूतोऽस्य कपिञ्जलादः॥२८॥



पराशरः शापशरस्तथर्षिः कालीं सिषेवे झषगर्भयोनिम्।

सुतोऽस्य यस्यां सुषुवे महात्मा द्वैपायनो वेदविभागकर्त्ता॥२९॥



द्वैपायनो धर्मपरायणश्च रेमे समं काशिषु वेश्यवध्वा।

यया हतोऽभूच्चलनूपुरेण पादेन विद्युल्लतयेव मेघः॥३०॥



तथाङ्गिरा रागपरीतचेताः सरस्वतीं ब्रह्मसुतः सिषेवे।

सारस्वतो यत्र सुतोऽस्य जज्ञे नष्टस्य वेदस्य पुनःप्रवक्ता॥३१॥



तथा नृपर्षेर्दिलीपस्य यज्ञे स्वर्गस्त्रियां काश्यप आगतास्थः।

स्रुवं गृहीत्वा स्रवदात्मतेजश्चिक्षेप वह्रावसितो यतोऽभूत्॥३२॥



तथाऽङ्गदोऽन्तं तपसोऽपि गत्वा कामाभिभूतो यमुनामगच्छत्।

धीमत्तरं यत्र रथीतरं स सारङ्गजुष्टं जनयाम्बभूव॥३३॥



निशाम्य शान्तां नरदेवकन्यां वनेऽपि शान्तेऽपि च वर्तमानः।

चचाल धैर्यान्मुनिऋष्यश्रृङ्गः शैलो महीकम्प इवोच्चश्रृङ्गः॥३४॥



ब्रह्मर्षिभावार्थमपास्य राज्यं भेजे वनं यो विषयेष्वनास्थः।

स गाधिजश्चापहृतो घृताच्या समा दशैकं दिवसं विवेद॥३५॥



तथैव कन्दर्पशराभिमृष्टो रम्भां प्रति स्थूलशिरा मुमूर्च्छ।

यः कामरोषात्मतयानपेक्षः शशाप तामप्रतिगृह्यमाणः॥३६॥



प्रमद्वरायां च रुरुः प्रियायां भुजङ्गमेनापहृतेन्द्रियायाम्।

संदृश्य संदृश्य जघान सर्पान् प्रियं न रोषेण तपो ररक्ष॥३७॥



नप्ता शशाङ्कस्य यशोगुणाङ्को बुधस्य सूनुर्विबुधप्रभावः।

तथोर्वशीमप्सरसं विचिन्त्य राजर्षिरुन्मादमगच्छदैडः॥३८॥



रक्तो गिरेर्मूर्धनि मेनकायां कामात्मकत्वाच्च स तालजङ्घः।

पादेन विश्वावसुना सरोषं वज्रेण हिन्ताल इवाभिजघ्ने॥३९॥



नाशं गतायां परमाङ्गनायां गंगाजलेऽनङ्गपरीतचेताः।

जन्हुश्च गङ्गां नृपतिर्भुजाभ्यां रुरोध मैनाक इवाचलेन्द्रः॥४०॥



नृपश्च गङ्गाविरहाज्जुघूर्ण गङ्गाम्भसा साल इवात्तमूलः।

कुलप्रदीपः प्रतिपस्य सूनुः श्रीमत्तनुः शन्तनुरस्वतन्त्रः॥४१॥



हृतां च सौनन्दकिनानुऽशोचन् प्राप्तामिवोर्वीं स्त्रियमुर्वशीं ताम्।

सद्‍वृत्तवर्मा किल सोमवर्मा बभ्राम चितोद्भवभिन्नवर्मा॥४२॥



भार्यां मृतां चानुममार राजा भीमप्रभावो भुवि भीमकः सः।

बलेन सेनाक इति प्रकाशः सेनापतिर्देव इवात्तसेनः॥४३॥



स्वर्गं गते भर्तरि शन्तनौ च कालीं जिहीर्षन् जनमेजयः सः।

अवाप भीष्मात् समवेत्य मृत्युं न तद्‍गतं मन्मथमुत्ससर्ज॥४४॥



शप्तश्च पाण्डुर्मदनेन नूनं स्त्रीसंगमे मृत्युमवाप्स्यसीति।

जगाम माद्रीं न महर्षिशापादसेव्यसेवी विममर्श मृत्युम्॥४५॥



एवंविधा देवनृपर्षिसङ्घाः स्त्रीणां वशं कामवशेन जग्मुः।

धिया च सारेण च दुर्बलः सन् प्रियामपश्यन् किमु विक्लवोऽहम्॥४६॥



यास्यामि तस्माद् गृहमेव भूयः कामं करिष्ये विधिवत् सकामम्।

न ह्यन्यचित्तस्य चलेन्द्रियस्य लिङ्गं क्षमं धर्मपथाच्च्युतस्य॥४७॥



पाणौ कपालमवधार्य विधाय मौण्ड्यं मानं निधाय विकृतं परिधाय वासः।

यस्योद्धवो न धृतिरस्ति न शान्तिरस्ति चित्रप्रदीप इव सोऽस्ति च नास्ति चैव॥४८॥



यो निःसृतश्च न च निःसृतकामरागः काषायमुद्वहति यो न च निष्कषायः।

पात्रं बिभर्ति च गुणैर्न च पात्रभूतो लिङ्गं वहन्नपि स नैव गृही न भिक्षुः॥४९॥



न न्याय्यमन्वयवतः परिगृह्य लिङ्गं भूयो विमोक्तुमिति योऽपि हि मे विचारः।

सोऽपि प्रणश्यति विचिन्त्य नृपप्रवीरास्तान्ये तपोवनमपास्य गृहाण्यतीयुः॥५०॥



शाल्बाधिपो हि ससुतोऽपि तथाम्बरीषो रामोऽन्ध एव स च सांस्कृतिरन्तिदेवः।

चीराण्यपास्य दधिरे पुनरंशुकानि छित्त्वा जटाश्च कुटिला मुकुटानि बभ्रुः॥५१॥



तस्माद् भिक्षार्थं मम गुरुरितो यावदेव प्रयात्-

स्त्यक्त्वा काषायं गृहमहमितस्तावदेव प्रयास्ये।

पूज्यं लिङ्गं हि स्खलितमनसो बिभ्रतः क्लिष्टबुद्‍धे-

र्नामुत्रार्थः स्यादुपहतमतेर्नाप्ययं जीवलोकः॥५२॥



सौन्दरनन्द महाकाव्ये "नन्द-विलाप" नाम सप्तम सर्ग समाप्त।
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project