Digital Sanskrit Buddhist Canon

षष्ठः सर्गः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Ṣaṣṭhaḥ sargaḥ
षष्ठः सर्गः



भार्या-विलाप



ततो हृते भर्त्तरि गौरवेण प्रीतौ हृतायामरतौ कृतायाम्।

तत्रैव हर्म्योपरि वर्तमाना न सुन्दरी सैव तदा बभासे॥१॥



सा भर्तुरभ्यागमनप्रतीक्षा गवाक्षमाक्रम्य पयोधराभ्याम्।

द्वारोन्मुखी हर्म्यतलाल्ललम्बे मुखेन तिर्यङ्नतकुण्डलेन॥२॥



विलम्बहारा चलयोक्त्रका सा तस्माद् विमानाद् विनता चकाशे।

तपः क्षयादप्सरसां वरेव च्युतं विमानात् प्रियमीक्षमाणा॥३॥



सा खेदसंस्विन्नललाटकेन निश्वासनिष्पीतविशेषकेण।

चिन्ताचलाक्षेण मुखेन तस्थौ भर्त्तारमन्यत्र विशङ्कमाना॥४॥



ततश्चिरस्थानपरिश्रमेण स्थितैव पर्यङ्कतले पपात।

तिर्यक्च शिश्ये प्रविकीर्णहारा सपादुकैकार्धविलम्बपादा॥५॥



अथात्र काचित् प्रमदा सबाष्पां तां दुःखितां द्रष्टुमनीप्समाना।

प्रासादसोपानतलप्रणादं चकार पद्‍भ्यां सहसा रुदन्ती॥६॥



तस्याश्च सोपानतलप्रणादं श्रुत्वैव तूर्णं पुनरुत्पपात।

प्रीत्यां प्रसक्तैव च संजहर्ष प्रियोपयानं परिशङ्कमाना॥७॥



सा त्रासयन्ती वलभीपुटस्थान् पारावतान् नूपूरनिस्वनेन।

सोपानकुक्षिं प्रससार हर्षाद् भ्रष्टं दुकूलान्तमचिन्तयन्ती॥८॥



तामङ्गनां प्रेक्ष्य च विप्रलब्धा निश्वस्य भूयः शयनं प्रपेदे।

विवर्णवक्त्रा न रराज चाशु विवर्णचन्द्रेव हिमागमे द्यौः॥९॥



सा दुःखिता भर्त्तुरदर्शनेन कामेन कोपेन च दह्यमाना।

कृत्वा करे वक्त्रमुपोपविष्टा चिन्तानदीं शोकजलां ततार॥१०॥



तस्याः मुखं पद्मसपत्नभूतं पाणौ स्थितं पल्लवरागताम्रे।

छायामयस्याम्भसि पङ्कजस्य बभौ नतं पद्‍ममिवोपरिष्टात्॥११॥



सा स्त्रीस्वभावेन विचिन्त्य तत्तद् दृष्टानुरागेऽभिमुखेऽपि पत्यौ।

धर्माश्रिते तत्त्वमविन्दमाना संकल्प्य तत्तद्विललाप तत्तत्॥१२॥



एष्याम्यनाश्यानविशेषकायां त्वयीति कृत्वा मयि तं प्रतिज्ञाम्।

कस्मान्नु हेतोर्दयितप्रतिज्ञः सोऽद्य प्रियो मे वितथप्रतिज्ञः॥१३॥



आर्यस्य साधोः करुणात्मकस्य मन्नित्यभीरोरतिदक्षिणस्य।

कुतो विकारोऽयमभूतपूर्वः स्वेनापरागेण ममापचारात्॥१४॥



रतिप्रियस्य प्रियवर्तिनो मे प्रियस्य नूनं हृदय विरक्तम्।

तथापि रागो यदि तस्य हि स्यान् मच्चित्तरक्षी न स नागतः स्यात्॥१५॥



रूपेण भावेन च मद्विशिष्टा प्रियेण दृष्टा नियतं ततोऽन्या।

तथा हि कृत्वा मयि मोघसान्त्वं लग्नां सतिं मामागमद् विहाय॥१६॥



भक्तिं स बुद्धं प्रति याववोचत्तस्य प्रयातुं मयि सोऽपदेशः।

मुनौ प्रसादो यदि तस्य हि स्यान्मृत्योरिवोग्रादनृताद् बिभीयात्॥१७॥



सेवार्थमादर्शनमन्यचित्तो विभूषयन्त्या मम धारयित्वा।

बिभर्ति सोऽन्यस्य जनस्य तं चेन्नमोऽस्तु तस्मै चलसौहृदाय॥१८॥



नेच्छन्ति याः शोकमवाप्तुमेवं श्रद्धातुमर्हन्ति न ता नराणाम्।

क्व चानुवृत्तिर्मयि सास्य पूर्वं त्यागः क्व चायं जनवत् क्षणेन॥१९॥



इत्येवमादि प्रियविप्रयुक्ता प्रियेऽन्यदाशङ्‍क्य च सा जगाद।

संभ्रान्तमारुह्य च तद्विमानं तां स्त्री सबाष्पा गिरमित्युवाच॥२०॥



युवापि तावत् प्रियदर्शनोऽपि सौभाग्यभाग्याभिजनान्वितोऽपि।

यस्त्वां प्रियो नाभ्यचरत् कदाचित्तमन्यथा यास्यतिकातरासि॥२१॥



मा स्वामिनं स्वामिनि दोषतो गाः प्रियं प्रियार्हं प्रियकारिणं तम्।

न स त्वदन्यां प्रमदामवैति स्वचक्रवाक्या इव चक्रवाकः॥२२॥



स तु त्वदर्थं गृहवासमीप्सन् जिजीविषुस्त्वत्परितोषहेतोः।

भ्रात्रा किलार्येण तथागतेन प्रव्राजितो नेत्रजलार्द्रवक्त्रः॥२३॥



श्रुत्वा ततो भर्तरि तां प्रवृत्तिं सवेपथुः सा सहसोत्पपात्।

प्रगृह्य बाहू विरुराव चोच्चैर्हृदीव दिग्धाभिहत करेणुः॥२४॥



सा रोदनारोषितरक्तदृष्टिः संतापसंक्षोभितगात्रयष्टिः।

पपात शीर्णाकुलहारयष्टिः फलातिभारादिव चूतयष्टिः॥२५॥



सा पद्मरागं वसनं वसाना पद्मानना पद्मदलायताक्षी।

पद्मा विपद्मा पतितेव लक्ष्मीः शुशोष पद्मस्रगिवातपेन॥२६॥



संचिन्त्य सचिन्त्य गुणांश्च भर्तुर्दीर्घं निशश्वास तताम चैव।

विभूषणश्रीनिहिते प्रकोष्ठे ताम्रे कराग्रे च विनिर्दुधाव॥२७॥



न भूषणार्थो मम संप्रतीति सा दिक्षु चिक्षेप विभूषणानि।

निर्भूषणा सा पतिता चकाशे विशीर्णपुष्पस्तबका लतेव॥२८॥



धृतः प्रियेणायमभून्ममेति रुक्मत्सरुं दर्पणमालिलिङ्गे।

यत्नाच्च विन्यस्ततमालपत्रौ रुष्टेव धृष्टं प्रममाजं गण्डौ॥२९॥



सा चक्रवाकीव भृशं चुकूज श्येनाग्रपक्षक्षतचक्रवाका।

विस्पर्धमानेव विमानसंस्थैः पारावतैः कूजनलोलकण्ठैः॥३०॥



विचित्रमृद्वास्तरणेऽपि सुप्ता वैडूर्यवज्रप्रतिमण्डितेऽपि।

रुक्माङ्गपादे शयने महार्हे न शर्म लेभे परिचेष्टमाना॥३१॥



सन्दृश्य भर्तुश्च विभूषणानि वासांसि वीणाप्रभृतींश्च लीलाः।

तमो विवेशाभिननाद चोच्चैः पङ्कावतीर्णेव च संससाद॥३२॥



सा सुन्दरी श्वासचलोदरी हि वज्राग्निसंभिन्नदरीगुहेव।

शोकाग्निनान्तर्हृदि दह्यमाना विभ्रान्तचित्तेव तदा बभूव॥३३॥



रुरोद मम्लौ विरुराव जग्लौ बभ्राम तस्थौ विललाप दध्यौ।

चकार रोषं विचकार माल्यं चकर्त वक्त्रं विचकर्ष वस्त्रम्॥३४॥



तां चारुदन्तीं प्रसभं रुदन्तीं संश्रुत्य नार्यः परमाभितप्ताः।

अन्तर्गृहादारुरुहुर्विमानं त्रासेन किन्नर्य इवाद्रिपृष्ठम्॥३५॥



बाष्पेण ताः क्लिन्नविषण्णवक्त्रा वर्षेण पद्मिन्य इवार्द्रपद्‍माः।

स्थानानुरूपेण यथाभिमानं निलिल्यिरे तामनुदह्यमानाः॥३६॥



ताभिर्वृता हर्म्यतलेऽङ्गनाभिश्चिन्तातनुः सा सुतनुर्बभासे।

शतह्रदाभिः परिवेष्टितेव शशाङ्कलेखा शरदभ्रमध्ये॥३७॥



या तत्र तासां वचसोपपन्ना मान्या च तस्या वयसाधिका च।

सा पृष्ठतस्तां तु समालिलिङ्गे प्रमृज्य चाश्रूणि वचांस्युवाच॥३८॥



राजर्षिवध्वास्तव नानुरूपो धर्माश्रिते भर्तरि जातु शोकः।

इक्ष्वाकुवंशे ह्यभिकाङ्‍क्षितानि दायाद्यभूतानि तपोवनानि॥३९॥



प्रायेण मोक्षाय विनिःसृतानां शाक्यर्षभाणां विदिताः स्त्रियस्ते।

तपोवनानीव गृहाणि यासां साध्वीव्रतं कामवदाश्रितानाम्॥४०॥



यद्यन्यया रूपगुणाधिकत्वाद् भर्त्ता हृतस्ते कुरु बाष्पमोक्षम्।

मनस्विनी रूपवती गुणाढ्या हृदि क्षते कात्र हि नाश्रु मुञ्चेत्॥४१॥



अथापि किंचिद् व्यसनं प्रपन्नो मा चैव तद् भूत् सदृशोऽत्र बाष्पः।

अतो विशिष्टं न हि दुःखमस्ति कुलोद्‍गतायाः पतिदेवतायाः॥४२॥



अथ त्विदानीं लडितः सुखेन स्वस्थः फलस्थो व्यसनान्यदृष्ट्वा।

वीतस्पृहो धर्ममनुप्रपन्नः किं विक्लवा रोदिषि हर्षकाले॥४३॥



इत्येवमुक्तापि बहुप्रकारं स्नेहात्तया नैव धृतिं चकार।

अथापरा तां मनसोऽनुकूलं कालोपपन्नं प्रणयादुवाच॥४४॥



ब्रवीमि सत्यं सुविनिश्चितं मे प्राप्तं प्रियं द्रक्ष्यसि शीघ्रमेव।

त्वया विना स्थास्यति तत्र नासौ सत्त्वाश्रयश्चेतनयेव हीनः॥४५॥



अङ्केऽपि लक्ष्म्या न स निर्वृतः स्यात् त्वं तस्य पार्श्वे यदि तत्र न स्याः।

आपत्सु कृच्छ्रास्वपि चागतासु त्वां पश्यतस्तस्य भवेन्न दुःखम्॥४६॥



त्वं निर्वृतिं गच्छ नियच्छ बाष्पं तप्ताश्रुमोक्षात् परिरक्ष चक्षुः।

यस्तस्य भावस्त्वयि यश्च रागो न रंस्यते त्वद्विरहात् स धर्मे॥४७॥



स्यादत्र नासौ कुलसत्त्वयोगात् काषायमादाय विहास्यतीति।

अनात्मनादाय गृहोन्मुखस्य पुनर्विमोक्तुं क इवास्ति दोषः॥४८॥



इति युवतिजनेन सान्त्व्यमाना हृतहृदया रमणेन सुन्दरी सा।

द्रमिडमभिमुखी पुरेव रम्भा क्षितिमगमत् परिवारिताप्सरोभिः॥४९॥



सौन्दरनन्द महाकाव्ये "भार्या-विलाप" नाम षष्ठ सर्ग समाप्त।
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project