Digital Sanskrit Buddhist Canon

पञ्चमः सर्गः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Pañcamaḥ sargaḥ

पञ्चमः सर्गः



नन्द-दीक्षा



अथावतीर्याश्वरथद्विपेभ्यः शाक्या यथास्वर्द्धिगृहीतवेषाः।

महापणेभ्यो व्यवहारिणश्च महामुनौ भक्तिवशात् प्रणेमुः॥१॥



केचित् प्रणम्यानुययुर्मुहूर्त्तं केचित् प्रणम्यार्थवशेन जग्मुः।

केचित् स्वकेष्वावसथेषु तस्थुः कृत्वाञ्जलीन् वीक्षणतत्पराक्षाः॥२॥



बुद्धस्ततस्तत्र नरेन्द्रमार्गे स्रोतो महद्‍भक्तिमतो जनस्य।

जगाम दुःखेन विगाहमानो जलागमे स्त्रोत इवापगायाः॥३॥



अथो महद्भिः पति संपतद्भिः संपूज्यमानाय तथागताय।

कर्त्तुं प्रणामं न शशाक नन्दस्तेनाभिरेमे तु गुरोर्महिम्ना॥४॥



स्वं चावसङ्गं पथि निर्मुमुक्षुर्भक्तिं जनस्यान्यमतेश्व रक्षन्।

नन्दं च गेहाभिमुखं जिघृक्षन् मार्गं ततोऽन्यं सुगतः प्रपेदे॥५॥



ततो विविक्तं च विविक्तचेताः सन्मार्गविन् मार्गमभिप्रतस्थे।

गत्वाग्रतश्चाग्र्यतमाय तस्मै नान्दीविमुक्ताय ननाम नन्दः॥६॥



शनैर्व्रजन्नेव स गौरवेण पटावृतांसो विनतार्धकायः।

अधोनिबद्धाञ्जलिरूर्ध्वनेत्रः सगद्‍गदं वाक्यमिदं बभाषे॥७॥



प्रासादसंस्थो भगवन्तमन्तःप्रविष्टमश्रौषमनुग्रहाय।

अतस्त्वरावानहमभ्युपेतो गृहस्य कक्ष्यामहतोऽभ्यसूयन्॥८॥



तत्साधु साहुप्रिय मत्त्प्रियार्थम् तत्रास्तु भिक्षूत्तम भैक्षकालः।

असौ हि मध्यं नभसो यियासुः कालं प्रतिस्मारयतीव सूर्यः॥९॥



इत्येवमुक्तः प्रणतेन तेन स्नेहाभिमानोन्मुखलोचनेन।

तादृङ् निमित्तं सुगतश्चकार नाहारकृत्यं स यथा विवेद॥१०॥



ततः स कृत्वा मुनये प्रणामं गृहप्रयाणाय मतिं चकार।

अनुग्रहार्थं सुगतस्तु तस्मै पात्रं ददौ पुरष्करपत्रनेत्रः॥११॥



ततः स लोके ददतः फलार्थं पात्रस्य तस्याप्रतिमस्य पात्रम्।

जग्राह चापग्रहणक्षमाभ्यां पद्मोपमाभ्यां प्रयतः कराभ्याम्॥१२॥



पराङ्मुखन्त्वन्यमनस्कमाराद् विज्ञाय नन्दः सुगतं गतास्थम्।

हस्तस्थपात्रोऽपि गृहं यियासुः ससार मार्गान्मुनिमीक्षमाणः॥१३॥



भार्यानुरागेण यदा गृहं स पात्रं गृहीत्वाऽपि यियासुरेव।

विमोहयामास मुनिस्ततस्तं रथ्यामुखस्यावरणेन तस्य॥१४॥



निर्मोक्षबीजं हि ददर्श तस्य ज्ञानं मृदु क्लेशरजश्च तीव्रम्।

क्लेशानुकूलं विषयात्मकं च नन्दं यतस्तं मुनिराचकर्ष॥१५॥



संक्लेशपक्षो द्विविधश्च दृष्टस्तथा द्विकल्पो व्यवदानपक्षः।

आत्माश्रयो हेतुबलाधिकस्य बाह्याश्रयः प्रत्ययगौरवस्य॥१६॥



अयत्नतो हेतुबलाधिकस्तु निर्मुच्यते घट्टितमात्र एव।

यत्नेन तु प्रत्ययनेयबुद्धिर्विमोक्षमाप्नोति पराश्रयेण॥१७॥



नन्दः स च प्रत्ययनेयचेता यं शिश्रिये तन्मयतामवाप।

यस्मादिमं तत्र चकार यन्नं तं स्नेहपङ्कान् मुनिरुज्जिहीर्षन्॥१८॥



नन्दस्तु दुःखेन विचेष्टमानः शनैरगत्या गुरुमन्वगच्छत्।

भार्यामुखं वीक्षणलोलनेत्रं विचिन्तयन्नार्द्रविशेषकं तत्॥१९॥



ततो मुनिस्तं प्रियमाल्यहारं वसन्तमासेन कृताभिहारम्।

निनाय भग्नप्रमदाविहारं विद्याविहाराभिमतं विहारम्॥२०॥



दीनं महाकारुणिकस्ततस्तं दृष्ट्वा मुहूर्त करुणायमानः।

करेण चक्राङ्कतलेन मूर्ध्नि पस्पर्श चैवेदमुवाच चैनम्॥२१॥



यावन्न हिंस्रः समुपैति कालः शमाय तावत् कुरु सौम्य बुद्धिम्।

सर्वास्ववस्थास्विह वर्तमानं सर्वाभिसारेण निहन्ति मृत्युः॥२२॥



साधारणात् स्वप्ननिभादसाराल्लोलं मनः कामसुखान्नियच्छ।

हव्यैरिवाग्नेः पवनेरितस्य लोकस्य कामैर्न हि तृप्तिरस्ति॥२३॥



श्रद्धाधनं श्रेष्ठतमं धनेभ्यः प्रज्ञारससृप्तिकरो रसेभ्यः।

प्रधानमध्यात्मसुखं सुखेभ्योऽविद्यारतिर्दुःखतमारतिभ्यः॥२४॥



हितस्य वक्ता प्रवरः सुहृद्‍भ्यो धर्माय खेदो गुणवान् श्रमेभ्यः।

ज्ञानाय कृत्यं परमं क्रियाभ्यः किमिन्द्रियाणामुपगम्य दास्यम्॥२५॥



तन्निश्चितं भील्कमशुग्वियुक्तं परेष्वनायत्तमहार्यमन्यैः।

नित्यं शिवं शान्तिसुखं वृणीष्व किमिन्द्रियार्थार्थमनर्थमूढ्वा॥२६॥



जरासमा नास्त्यमृजा प्रजानां व्याधेः समो नास्ति जगत्यनर्थः।

मृत्योः समं नास्ति भयं पृथिव्यामेतत्त्रयं खल्ववशेन सेव्यम्॥२७॥



स्नेहेन कश्चिन्न समोऽस्ति पाशः स्रोतो न तृष्णासममस्ति हारि।

रागाग्निना नास्ति समस्तथाग्निस्तच्चेत् त्रयं नास्ति सुखं च तेऽस्ति॥२८॥



अवश्यभावी प्रियविप्रयोगस्तस्माञ्च शोको नियतं निषेव्यः।

शोकेन चोन्मादमुपेयिवांसो राजर्षयोऽन्येऽप्यवशा विचेलु॥२९॥



प्रज्ञामयं वर्म बधान तस्मान्नो क्षान्तिनिघ्नस्य हि शोकबाणाः।

महच्च दग्धुं भवकक्षजालं संघुक्षयाल्पाग्निमिवात्मतेजः॥३०॥



यथौषधैर्हस्तगतैः सविद्यो न दश्यते कश्चन पन्नगेन।

तथानपेक्षो जितलोकमोहो न दश्यते शोकभुजंगमेन॥३१॥



आस्थाय योगं परिगम्य तत्त्वं न त्रासमागच्छति मृत्युकाले।

आबद्धवर्मा सुधनुः कृतास्रो जिगीषया शूर इवाहवस्थः॥३२॥



इत्येवमुक्तः स तथागतेन सर्वेषु भूतेष्वनुकम्पकेन।

धृष्टं गिरान्तर्हृदयेन सीदंस्तथेति नन्दः सुगतं बभाषे॥३३॥



अथ प्रमादाच्च तमुज्जिहीर्षन् मत्वागमस्यैव च पात्रभूतम्।

प्रब्राजयानन्द शमाय नन्दमित्यब्रवीन्मैत्रमना महर्षिः॥३४॥



नन्दं ततोऽन्तर्मनसा रुदन्तमेहीति वैदेहमुनिर्जगाद।

शनैस्ततस्तं समुपेत्य नन्दो न प्रव्रजिष्याम्यहमित्युवाच॥३५॥



श्रुत्वाथ नन्दस्य मनीषितं तद् बुद्धाय वैदेहमुनिः शशंस।

संश्रुत्य तस्मादपि तस्य भावं महामुनिर्नन्दमुवाच भूयः॥३६॥



मय्यग्रजे प्रव्रजितेऽजितात्मन् भ्रातृष्वनुप्रव्रजितेषु चास्मान्।

ज्ञातींश्च दृष्ट्वा व्रतिनो गृहस्थान् संविन्न किं तेऽस्ति न वास्ति चेतः॥३७॥



राजर्षयस्ते विदिता न नूनं वनानि ये शिश्रियिरे हसन्तः।

निष्ठीव्य कामानुपशान्तिकामाः कामेषु नैवं कृपणेषु सक्ताः॥३८॥



भूयः समालोक्य गृहेषु दोषान् निशाम्य तत्त्यागकृतं च शर्म।

नैवास्ति मोक्तुं मतिरालयं ते देशं मुमूर्षोरिव सोपसर्गम्॥३९॥



संसारकान्तारपरायणस्य शिवे कथं ते पथि नारुरुक्षा।

आरोप्यमाणस्य तमेव मार्गं भ्रष्टस्य सार्थादिव सार्थिकस्य॥४०॥



यः सर्वतो वेश्मनि दह्यमाने शयीत मोहान्न ततो व्यपेयात्।

कालाग्निना व्याधिजराशिखेन लोके प्रदीप्ते स भवेत् प्रमत्तः॥४१॥



प्रणीयमानश्च यथा वधाय मत्तो हसेच्च प्रलपेच्च वध्यः।

मृत्यौ तथा तिष्ठति पाशहस्ते शोच्यः प्रमाद्यन् विपरितचेताः॥४२॥



यदा नरेन्द्राश्च कुटुम्बिनश्च विहाय बन्धूंश्च परिग्रहांश्च।

ययुश्च यास्यन्ति च यान्ति चैव प्रियेष्वनित्येषु कुतोऽनुरोधः॥४३॥



किञ्चिन्न पश्यामि रतस्य यत्र तदन्यभावेन भवेन्न दुःखम्।

तस्मात् क्वचिन्न क्षमते प्रसक्तिर्यदि क्षमस्तद्विगमान्न शोकः॥४४॥



तत्सौम्य लोलं परिगम्य लोकं मायोपमं चित्रमिवेन्द्रजालम्।

प्रियाभिधानं त्यज मोहजालं छेत्तुं मतिस्ते यदि दुःखजालम्॥४५॥



वरं हितोदर्कमानिष्टमन्नं न स्वादु यत् स्यादहितानुबद्धम्।

यस्मादहं त्वां विनियोजयामि शिवे शुचौ वर्त्मनि विप्रियेऽपि॥४६॥



बालस्य धात्री विनिगृह्य लोष्ठं यथोद्धरत्यास्यपुटप्रविष्टम्।

तथोज्जिहीर्षुः खलु रागशल्यं तत्त्वामवोचं परुषं हिताय॥४७॥



अनिष्टमप्यौषधमातुराय ददाति वैद्यश्च यथा निगृह्य।

तद्वन्मयोक्तं प्रतिकूलमेतत्तुभ्यं हितोदर्कमनुग्रहाय॥४८॥



तद्यावदेव क्षणसंनिपातो न मृत्युरागच्छति यावदेव।

यावद्वयो योगविधौ समर्थं बुद्धिं कुरु श्रेयसि तावदेव॥४९॥



इत्येवमुक्तः स विनायकेन हितैषिणा कारुणिकेन नन्दः।

कर्तास्मि सर्वं भगवन् वचस्ते तथा यथाज्ञापयसीत्युवाच॥५०॥



आदाय वैदेहमुनिस्ततस्तं निनाय संश्लिष्य विचेष्टमानम्।

व्ययोजयच्चाश्रुपरिप्लुताक्षं केशश्रियं छत्रनिभस्य मूर्ध्नः॥५१॥



अथो नतं तस्य मुखं सबाष्पं प्रवास्यमानेषु शिरोरुहेषु।

वक्राग्रनालं नलिनं तडागे वर्षोदकक्लिन्नमिवाबभासे॥५२॥



नन्दस्ततस्तरुकषायविरक्तवासाश्चिन्तावशो नवगृहीत इव द्विपेन्द्रः।

पूर्णः शशी बहुलपक्षगतः क्षपान्ते बालातपेन परिषिक्त इवावभासे॥५३॥



सौन्दरनन्द काव्ये "नन्द-दीक्षा" नाम पञ्चम सर्ग समाप्त।
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project