Digital Sanskrit Buddhist Canon

तृतीयः सर्गः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Tṛtīyaḥ sargaḥ

तृतीयः सर्गः



तथागत वर्णन



तपसे ततः कपिलवास्तु हयगजरथौघसंकुलम्।

श्रीमदभयप्रनुरक्तजनं स विहाय निश्चितमना वनं ययौ॥१॥



विविधागमांस्तपसि तांश्च विविधनियमाश्रयान् मुनीन्।

प्रेक्ष्य स विषयतृषाकृपणाननवस्थितं तप इति न्यवर्तत॥२॥



अथ मोक्षवादिनमराडमुपशममतिं तथोद्रकम्।

तत्त्वकृतमतिरुपास्य जहावयमप्यमार्ग इति मार्गकोविदः॥३॥



स विचारयन् जगति किं नु परममिति तं तमागमम्।

निश्चयमनधिगतः परतः परमं चचार तप एव दुष्करम्॥४॥



अथ नैष मार्ग इति वीक्ष्य तदपि विपुलं जहौ तपः।

ध्यानविषयमवगम्य परं बुभुजे वरान्नममृतत्त्वबुद्धये॥५॥



स सुवर्णपीनयुगबाहुरृषभगतिरायतेक्षणः।

प्लक्षमवनिरुहमभ्यगमत् परमस्य निश्चयविधेर्बुभुत्सया॥६॥



उपविश्य तत्र कृतबुद्धिरचलधृतिरद्रिराजवत्।

मारबलमजयदुग्रमथो बुबुधे पदं शिवमहार्यमव्ययम्॥७॥



अवगम्य तं च कृतकार्यममृतमनसो दिवौकसः।

हर्षतुलमगमन् मुदिता विमुखी तु मारपरिषत् प्रचुक्षुभे॥८॥



सनगा च भूः प्रविचचाल हुतबहसखः शिवो ववौ।

नेदुरपि च सुरदुन्दुभयः प्रववर्ष चाम्बुधरवर्जितं नभः॥९॥



अवबुध्य चैव परमार्थमजरमनुकम्पया विभुः।

नित्यममृतमुपदर्शयितुं स वराणसीपरिकरामयात् पुरीम्॥१०॥



अथ धर्मचक्रमृतनाभि धृतिमतिसमाधिनेमिमत्।

तत्र विनयनियमारमृषिर्जगतो हिताय परिषद्यवर्तयत्॥११॥



इति दुःखमेतदियमस्य समुदयलता प्रवर्तिका।

शान्तिरियमयमुपाय इति प्रविभागशः परमिदं चतुष्टयम्॥१२॥



अभिधाय च त्रिपरिवर्तमतुलमनिवर्त्यमुत्तमम्।

द्वादशनियतविकल्पं ऋषिर्विनिनाय कौण्डिनसगोत्रमादितः॥१३॥



स हि दोषसागरमगाधमुपधिजलमाधिजन्तुकम्।

क्रोधमदभयतरङ्गचलं प्रततार लोकमपि च व्यतारयत्॥१४॥



स विनीय काशिषु गयेषु बहुजनमथो गिरिव्रजे।

पित्र्यमपि परमकारुणिको नगरं ययावनुजिघृक्षया तदा॥१५॥



विषयात्मकस्य हि जनस्य बहुविविधमार्गसेविनः।

सूर्यसदृशवपुरभ्युदितो विजहार सूर्य इव गौतमस्तमः॥१६॥



अभितस्ततः कपिलवास्तु परमशुभवास्तुसंस्तुतम्।

वस्तुमतिशुचि शिवोपवनं स ददर्श निःस्पृहतया यथा वनम्॥१७॥



अपरिग्रहः स हि बभूव नियतमतिरात्मनीश्वरः।

नैकविधभयकरेषु किमु स्वजनस्वदेशजनमित्रवस्तुषु॥१८॥



प्रतिपूजया न स जहर्ष न च शुचमवज्ञयागमत्।

निश्चितमतिरसिचन्दनयोर्न जगाम दुःखसुखयोश्च विक्रियाम्॥१९॥



अथ पार्थिवः समुपलभ्य सुतमुपगतं तथागतम्।

तूर्णमबहुतुरगानुगतः सुतदर्शनोत्सुकतयाभिनिर्ययौ॥२०॥



सुगतस्तथागतमवेक्ष्य नरपतिमधीरमाशया।

शेषमपि च जनमश्रुमुखं विनिनीषया गगनमुत्पपात ह॥२१॥



स विचक्रमे दिवि भुवीव पुनरुपविवेश तस्थिवान्।

निश्चलमतिरशयिष्ट पुनर्बहुधाभवत् पुनरभूत्तथैकधा॥२२॥



सलिले क्षिताविव चचार जलमिव विवेश मेदिनीम्।

मेघ इव दिवि ववर्ष पुनः पुनरज्वलन्नव इवोदितो रविः॥२३॥



युगपज्ज्वलन् ज्वलनवच्च जलमवसृजंश्च मेघवत्।

तप्तकनकसदृशप्रभया स बभौ प्रदीप्त इव सन्ध्यया घनः॥२४॥



तमुदीक्ष्य हेममणिजालवलयिनमिवोत्थितं ध्वजम्।

प्रीतिमगमदतुलां नृपतिर्जनता नताश्च बहुमानमभ्ययुः॥२५॥



अथ भाजनीकृतमवेक्ष्य मनुजपतिमृद्धिसंपदा।

पौरजनमपि च तत्प्रवणं निजगाद धर्मविनयं विनायकः॥२६॥



नृपतिस्ततः प्रथममाप फलममृतधर्मसिद्धये।

धर्ममतुलमधिगम्य मुनेर्मुंनये ननाम स यतो गुराविव॥२७॥



बहवः प्रसन्नमनसोऽथ जननमरणार्तिभीरवः।

शाक्यतनयवृषभाः कृतिनो वृषभा इवानलभयात् प्रवव्रजुः॥२८॥



विजहुस्तु येऽपि न गृहाणि तनयपितृमात्रपेक्षया।

तेऽपि नियमविधिमामरणाज्जगृहुश्च युक्तमनसश्च दध्रिरे॥२९॥



न जिहिंस सूक्ष्ममपि जन्तुमपि परवधोपजीविनः।

किं बत विपुलगुणः कुलजः सदयः सदा किमु मुनेरुपासया॥३०॥



अकृशोद्यमः कृशधनोऽपि परपरिभवासहोऽपि सन्।

नान्यधनमपहार तथा भुजगादिवान्यविभवाद्धि विव्यथे॥३१॥



विभवान्वितोऽपि तरुणोऽपि विषयचपलेन्द्रियोऽपि सन्।

नैव च परयुवतीरगमत् परमं हि ता दहनतोऽप्यमन्यत॥३२॥



अनृतं जगाद न च कश्चिदृतमपि जजल्प नाप्रियम्।

श्लक्ष्णमपि च न जगावहितं हितमप्युवाच न च पैशुनाच यत्॥३३॥



मनसा लुलोभ न च जातु परवसुषु गृद्धमानसः।

कामसुखमसुखतो विमृशन् विजहार तृप्त इव तत्र सज्जनः॥३४॥



न परस्य कश्चिदपघातमपि च सघृणो व्यचिन्तयत्।

मातृपितृसुतसुहृत्सदृशं स ददर्श तत्र हि परस्परं जनः॥३५॥



नियतं भविष्यति परत्र भवदपि च भूतमप्यथो।

कर्मफलमपि च लोकगतिर्नियतेति दर्शनमवाप साधु च॥३६॥



इति कर्मणा दशविधेन परमकुशलेन भूरिणा।

भ्रंशिनि शिथिलगुणोऽपि युगे विजहार तत्र मुनिसंश्रयाज्जनः॥३७॥



न च तत्र कश्चिदुपपत्तिसुखमभिललाष तैर्गुणैः।

सर्वमशिवमवगम्य भवं भवसंक्षयाय ववृते न जन्मने॥३८॥



अकथंकथा गृहिण एव परमपरिशुद्धदृष्टयः।

स्त्रोतसि हि ववृतिरे बहवो रजसंस्तनुत्वमपि चक्रिरे परे॥३९॥



ववृतेऽत्र योऽपि विषयेषु विभवसदृशेषु कश्चन।

त्यागाविनयनियमाभिरतो विजहार सोऽपि न चचाल सत्पथात्॥४०॥



अपि च स्वतोऽपि परतोऽपि न भयमभवन्न दैवतः।

तत्र च सुसुखसुभिक्षगुणैर्जहृषुः प्रजाः कृतयुगे मनोरिव॥४१॥



इति मुदितमनामयं निरापत् कुरुरघुपूरुपुरोपमं पुरं तत्।

अभवदभयदैशिके महर्षौ विहरति तत्र शिवाय वीतरागे॥४२॥



सौन्दरनन्दे महाकाव्ये 'तथागत-वर्णन' नाम तृतीय सर्ग समाप्त।
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project