Digital Sanskrit Buddhist Canon

द्वितीयः सर्गः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Dvitīyaḥ sargaḥ

द्वितीयः सर्गः



राजा शुद्धोदन



ततः कदाचित्कालेन तदवाप कुलक्रमात्।

राजा शुद्धोदनो नाम शुद्धकर्मा जितेन्द्रियः॥१॥



यः ससञ्जे न कामेषु श्रीप्राप्तौ न विसिस्मिये।

नावमेने परानृद्ध्या परेभ्यो नापि विव्यथे॥२॥



बलीयान् सत्त्वसंपन्नः श्रुतवान् बुद्धिमानपि।

विक्रान्तो नयवांश्चैव धीरः सुमुख एव च॥३॥



वपुष्मांश्च न च स्तब्धो दक्षिणो न च नार्जवः।

तेजस्वी न च न क्षान्तः कर्ता च न च विस्मितः॥४॥



आक्षिप्तः शत्रुभिः संख्ये सुहृद्भिश्च व्यपाश्रितः।

अभवद् यो न विमुखस्तेजसा दित्सयैव च॥५॥



यः पूर्वैः राजभिर्यातां यियासुर्धर्मपद्धतिम्।

राज्यं दीक्षामिव वहन् वृत्तेनान्वगमत् पितॄन्॥६॥



यस्य सुव्यवहाराच्च रक्षणाच्च सुखं प्रजाः।

शिश्यिरे विगतोद्वेगाः पितुरङ्कगता इव॥७॥



कृतशास्त्रः कृतास्त्रो वा जातो वा विपुले कुले।

अकृतार्थो न ददृशे यस्य दर्शनमेयिवान्॥८॥



हितं विप्रियमप्युक्तो यः सुश्राव न चुक्षुभे।

दुष्कृतं बह्वपि त्यक्त्वा सस्मार कृतमण्वपि॥९॥



प्रणताननुजग्राह विजग्राह कुलद्विषः।

आपन्नान् परिजग्राह निजग्राहास्थितान् पथि॥१०॥



प्रायेण विषये यस्य तच्छीलमनुवर्तिनः।

अर्जयन्तो ददृशिरे धनानीव गुणानपि॥११॥



अध्यैष्ट यः परं ब्रह्म न व्यैष्ट सततं धृतेः।

दानान्यदित पात्रेभ्यः पापं नाकृत किंचन॥१२॥



धृत्यावाक्षीत् प्रतिज्ञां स सद्वाजीवोद्यतां धुरम्।

न ह्यवाञ्छीच्च्युतः सत्यान्मुहूर्तमपि जीवितम्॥१३॥



विदुषः पर्युपासिष्ट व्यकाशिष्टात्मवत्तया।

व्यरोचिष्ट च शिष्टेभ्यो मासीषे चन्द्रमा इव॥१४॥



अवेदीद् बुद्धिशास्त्राभ्यामिह चामुत्र च क्षमम्।

अरक्षीद्धैर्यवीर्याभ्यामिन्द्रियाण्यपि च प्रजाः॥१५॥



अहार्षीद् दुःखमार्तानां द्विषतां चोर्जितं यशः।

अचैषीच्च नयैर्भूमिं भूयसा यशसैव च॥१६॥



अप्यासीद् दुःखितान् पश्यन् प्रकृत्या करुणात्मकः।

नाधौषीच्च यशो लोभादन्यायाधिगतैर्धनैः॥१७॥



सौहार्ददृढभक्तित्वान्मैत्रेषु विगुणेष्वपि।

नादिदासीददित्सीत्तु सौमुख्यात् स्वं स्वमर्थवत्॥१८॥



अनिवेद्याग्रमर्हद्‍भ्यो नालिक्षत् किंचिदप्लुतः।

गामधर्मेण नाधुक्षत् क्षीरतर्षेण गामिव॥१९॥



नासृक्षद् बलिमप्राप्तं नारुक्षन्मानमैश्वरम्।

आगमैर्बुद्धिमाधिक्षद्धर्माय न तु कीर्तये॥२०॥



क्लेशार्हानपि कांश्चित्तु नाक्लिष्ट क्लिष्टकर्मणः।

आर्यभावाच्च नाधुक्षद् द्विषतोऽपि सतो गुणान्॥२१॥



आकृक्षद् वपुषा दृष्टीः प्रजानां चन्द्रमा इव।

परस्वं भुवि नामृक्षन्महाविषमिवोरगम्॥२२॥



नाक्रुक्षद् विषये तस्य कश्चित्कैश्चित् क्वचित् क्षतः।

आदिक्षत्तस्य हस्तस्थमार्तेभ्यो ह्यभयं धनुः॥२३॥



कृतागसोऽपि प्रणतान् प्रागेव प्रियकारिणः।

अदर्शत्स्निग्धया दृष्ट्या श्लक्ष्णेन वचसासिचत्॥२४॥



बव्हीरध्यगमद् विद्या विषयेष्वकुतूहलः।

स्थितः कार्तयुगे धर्मे धर्मात् कृच्छ्रेऽपि नास्रसत्॥२५॥



अवर्धिष्ट गुणैः शश्वदवृधन्मित्रसंपदा।

अवर्तिष्ट च वृद्धेषु नावृतद् गर्हिते पथि॥२६॥



शरैरशीशमच्छत्रून् गुणैर्बन्धूनरीरमत्।

रन्ध्रैर्नाचूचुदद् भृत्यान् करैर्नापीपिडत् प्रजाः॥२७॥



रक्षणाच्चैव शौर्याच्च निखिलां गामवीवपत्।

स्पष्टया दण्डनीत्या च रात्रिसत्रानवीवपत्॥२८॥



कुलं राजर्षिवृत्तेन यशोगन्धमवीवपत्।

दीप्त्या तम इवादित्यस्तेजसारीनवीवपत्॥२९॥



अपप्रथत् पितॄंश्चैव सत्पुत्रसदृशैर्गुणैः।

सलिलेनेव चाम्भोदो वृत्तेनाजिह्णदत् प्रजाः॥३०॥



दानैरजस्रविपुलैः सोमं विप्रानसूषवत्।

राजधर्मस्थितत्वाच्च काले सस्यमसूषवत्॥३१॥



अधर्मिष्ठामचकथन्न कथामकथंकथः।

चक्रवर्तीव च परान् धर्मायाभ्युदसीषहत्॥३२॥



राष्ट्रमन्यत्र च बलेर्न स किंचिददीदपत्।

भृत्यैरेव च सोद्योगं द्विषद्‍दर्पमदीदपत्॥३३॥



स्वैरेवादीदपच्चापि भूयो भूयो गुणैः कुलम्।

प्रजा नादीदपच्चैव सर्वधर्मव्यवस्थया॥३४॥



अश्रान्तः समये यज्वा यज्ञभूमिममीमपत्।

पालनाच्च द्विजान् ब्रह्म निरुद्विग्नानमीमपत्॥३५॥



गुरुभिर्विधिवत् काले सौम्यः सोमममीमपत्।

तपसा तेजसा चैष द्विषत्सैन्यममीमपत्॥३६॥



प्रजाः परमधर्मज्ञः सूक्ष्मं धर्ममवीवसत्।

दर्शनाच्चैव धर्मस्य काले स्वर्गमवीवसत्॥३७॥



व्यक्तमप्यर्थकृच्छ्रेषु नाधर्मिष्ठमतिष्ठिपत्।

प्रिय इत्येव चाशक्तं न संरागादवीवृधत्॥३८॥



तेजसा च त्विषा चैव रिपून् दृप्तानबीभसत्।

यशोदीपेन दीप्तेन पृथिवीं च व्यबीभसत्॥३९॥



आनुशंस्यान्न यशसे तेनादायि सदार्थिने।

द्रव्यं महदपि त्यक्त्वा न चैवाकीर्ति किञ्चन॥४०॥



तेनारिरपि दुःखार्तो नात्याजि शरणागतः।

जित्वा दृप्तानपि रिपून्न तेनाकारि विस्मयः॥४१॥



न तेनाभेदि मर्यादा कामाद्वेषाद्भयादपि।

तेन सत्स्वपि भोगेषु नासेवीन्द्रियवृत्तिता॥४२॥



न तेनादर्शि विषमं कार्यं क्वचन किंचन।

विप्रियप्रिययोः कृत्ये न तेनागामि निक्रियाः॥४३॥



तेनापायि यथाकल्पं सोमश्च यश एव च।

वेदश्चाम्नायि सततं वेदोक्तो धर्म एव च॥४४॥



एवमादिभिरत्यक्तो बभूवासुलभैर्गुणैः।

अशक्यः शक्यसामन्तः शाक्यराजः स शक्रवत्॥४५॥



अथ तस्मिन् तथा काले धर्मकामा दिवौकसः।

विचेरुर्दिशि लोकस्य धर्मचर्यां दिदृक्षवः॥४६॥



धर्मात्मानश्चरन्तस्ते धर्मजिज्ञासया जगत्।

ददृशुस्तं विशेषेण धर्मात्मानं नराधिपम्॥४७॥



देवेभ्यस्तुषितेभ्योऽथ बोधिसत्त्वः क्षितिं व्रजन्।

उपपत्तिं प्रणिदधे कुले तस्य महीपतेः॥४८॥



तस्या देवी नृदेवस्य माया नाम तदाभवत्।

वीतक्रोधतमोमाया मायेव दिवि देवता॥४९॥



स्वप्नेऽथ समये गर्भमाविशन्तं ददर्श सा।

षड्दन्तं वारणं श्वेतमैरावतमिवौजसा॥५०॥



तं विनिदिशिशुः श्रुत्वा स्वप्नं स्वप्नविदो द्विजाः।

तस्य जन्म कुमारस्य लक्ष्मीधर्मयशोभृतः॥५१॥



तस्य सत्त्वविशेषस्य जातौ जातिक्षयैषिणः।

साचला प्रचचालोर्वी तरङ्गाभिहतेव नौः॥५२॥



सूर्यरश्मिभिरक्लिष्टं पुष्पवर्षं पपात खात्।

दिग्वारणकराधूताद् वनाच्चैत्ररथादिव॥५३॥



दिवि दुन्दुभयो नेदुर्दीव्यतां मरुतामिव।

दिदीपेऽभ्यधिकं सूर्यः शिवश्च पवनो ववौ॥५४॥



तुतुषुस्तुषिताश्चैव शुद्धावासाश्च देवताः।

सद्धर्मबहुमानेन सत्त्वानां चानुकम्पया॥५५॥



समाययौ यशःकेतुं श्रेयःकेतुकरः परः।

बभ्राजे शान्तया लक्ष्म्या धर्मो विग्रहवानिव॥५६॥



देव्यामपि यवीयस्यामरण्यामिव पावकः।

नन्दो नाम सुतो जज्ञे नित्यानन्दकरः कुले॥५७॥



दीर्घबाहुर्महावक्षाः सिंहांसो वृषभेक्षणः।

वपुषाग्र्येण यो नाम सुन्दरोपपदं दधे॥५८॥



मधुमास इव प्राप्तश्चन्द्रो नव इवोदितः।

अङ्गवानिव चानङ्गः स बभौ कान्तया श्रिया॥५९॥



स तौ संवर्धयामास नरेन्द्रः परया मुदा।

अर्थः सज्जनहस्तस्थो धर्मकामौ महानिव॥६०॥



तस्य कालेन सत्पुत्रौ ववृधाते भवाय तौ।

आर्यस्यारम्भमहतो धर्मार्थाविव भूतये॥६१॥



तयोः सत्पुत्रयोर्मध्ये शाक्यराजो रराज सः।

मध्यदेश इव व्यक्तो हिमवत्पारियात्रयोः॥६२॥



ततस्तयोः संस्कृतयोः क्रमेण नरेन्द्रसून्वोः कृतविद्ययोश्च।

कामेष्वजस्रं प्रममाद नन्दः सर्वार्थसिद्धस्तु न संररञ्ज॥६३॥



स प्रेक्ष्यैव हि जीर्णमातुरं च मृतं च विमृशन् जगदनभिज्ञमार्तचित्तः।

हृदयगतपरघृणो न विषयरतिमगमज्जननमरणभयमभितो विजिघांसुः॥६४॥



उद्वेगादपुनर्भवे मनः प्रणिधाय स ययौ शयितवराङ्गनादनास्थः।

निशि नृपतिनिलयनाद् वनगमनकृतमनाः सरस इव मथितनलिनात् कलहंसः॥६५॥



सौन्दरनन्द महाकाव्ये "राज-वर्णन" नाम द्वितीयः सर्ग समाप्त।
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project