Digital Sanskrit Buddhist Canon

प्रथमः सर्गः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Prathamaḥ sargaḥ

॥ॐ नमो बुद्धाय॥



सौन्दरनन्दं महाकाव्यम्



प्रथमः सर्गः



कपिलवस्तु वर्णन



गौतमः कपिलो नाम मुनिर्धर्मभृतां वरः।

बभूव तपसि श्रान्तः काक्षीवानिव गौतमः॥१॥



अशिश्रियद्यः सततं दीप्तं काश्यपवत्तपः।

आशिश्राय च तद्‍वृद्धौ सिद्धिं काश्यपवत् पराम्॥२॥



हविःषु यश्च स्वात्मार्थं गामधुक्षद् वसिष्ठवत्।

तपःशिष्टेषु च शिष्येषु गामधुक्षद् वसिष्ठवत्॥३॥



माहात्म्याद्दीर्घतपसो यो द्वितीय इवाभवत्।

तृतीय इव यश्चाभूत् काव्याङ्गिरसयोर्धिया॥४॥



तस्य विस्तीर्णतपसः पार्श्वे हिमवतः शुभे।

क्षेत्रं चायतनं चैव तपसामाश्रमोऽभवत्॥५॥



चारुवीरुत्तरुवनः प्रस्निग्धमृदुशाद्‍वलः।

हविर्धूमवितानेन यः सदाभ्र इवाबभौ॥६॥



मृदुभिः सैकतैः स्निग्धैः केसरास्तरपाण्डुभिः।

भूमिभागैरसंकीर्णैः साङ्गराग इवाभवत्॥७॥



शुचिभिस्तीर्थसंख्यातैः पावनैर्भावनैरपि।

बन्धुमानिव यस्तस्थौ सरोभिः ससरोरुहैः॥८॥



पर्याप्तफलपुष्पाभिः सर्वतो वनराजिभिः।

शुशुभे ववृधे चैव नरः साधनवानिव॥९॥



नीवारफलसन्तुष्टैः स्वस्थैः शान्तैरनुत्सुकैः।

आकीर्णोऽपि तपोभृद्धिः शून्यशून्य इवाभवत्॥१०॥



अग्नीनां हूयमानानां शिखिनां कूजतामपि।

तीर्थानां चाभिषेकेषु शुश्रुवे यत्र निःस्वनः॥११॥



विरेजुर्हरिणा यत्र सुप्ता मेध्यासु वेदिषु।

सलाजैर्माधवीपुष्पैरुपहाराः कृता इव॥१२॥



अपि क्षुद्रमृगा यत्र शान्ताश्चेरुः समं मृगैः।

शरण्येभ्यस्तपस्विभ्यो विनयं शिक्षिता इव॥१३॥



संदिग्धेऽप्यपुनर्भावे विरुद्धेष्वागमेष्वपि।

प्रत्यक्षिण इवाकुर्वंस्तपो यत्र तपोधनाः॥१४॥



यत्र स्म मीयते ब्रह्म कैश्चित् कैश्चिन्न मीयते।

काले निमीयते सोमो न चाकाले प्रमीयते॥१५॥



निरपेक्षाः शरीरेषु धर्मे यत्र स्वबुद्धयः।

संहृष्टा इव यत्नेन तापसास्तेपिरे तपः॥१६॥



श्राम्यन्तो मुनयो यत्र स्वर्गायोद्युक्तचेतसः।

तपोरागेण धर्मस्य विलोपमिव चक्रिरे॥१७॥



अथ तेजस्विसदनं तपःक्षेत्रं तमाश्रमम्।

केचिदिक्ष्वाकवो जग्मू राजपुत्रा विवत्सवः॥१८॥



सुवर्णस्तम्भवर्ष्माणः सिंहोरेस्का महाभुजाः।

पात्रं शब्दस्य महतः श्रियां च विनयस्य च॥१९॥



अर्हरूपा ह्यनर्हस्य महात्मानश्चलात्मनः।

प्राज्ञाः प्रज्ञाविमुक्तस्य भ्रातृव्यस्य यवीयसः॥२०॥



मातृशुल्कादुपगतां ते श्रियं [च] विषेहिरे।

ररक्षुश्च पितुः सत्यं यस्माच्छिशियिरे -वनम्॥२१॥



तेषां मुनिरुपाध्यायो गौतमः कपिलोऽभवत्।

गुरुगोत्रादतः कौत्सास्ते भवन्ति स्म गौतमाः॥२२॥



एकपित्रोर्यथा भ्रात्रोः पृथग्गुरुपरिग्रहात्।

राम एवाभवद् गार्ग्यो वासुभद्रोऽपि गौतमः॥२३॥



शाकवृक्षप्रतिच्छन्नं वासं यस्माच्च चक्रिरे।

तस्मादिक्ष्वाकुवंश्यास्ते भुवि शाक्या इति स्मृताः॥२४॥



स तेषां गौतमश्चक्रे स्ववंशसदृशीः क्रियाः।

मुनिरूर्ध्वं कुमारस्य सगरस्येव भार्गवः॥२५॥



कण्वः शाकुन्तलस्येव भरतस्य तरस्विनः।

वाल्मिकिरिव धीमांश्च धीमतोर्मैथिलेययोः॥२६॥



तद्वनं मुनिना तेन तैश्च क्षत्रियपुङ्गवैः।

शान्तां गुप्तां च युगपद् ब्रह्मक्षत्रश्रियं दधे॥२७॥



अथोदकलशं गृह्य तेषां वृद्धिचिकीर्षया।

मुनिः स वियदुत्पत्य तानुवाच नृपात्मजान्॥२८॥



या पतेत् कलशादस्मादक्षय्यसलिलान्महीम्।

धारा तामनतिक्रम्य मामन्वेत यथाक्रमम्॥२९॥



ततः परममित्युक्त्वा शिरोभिः प्रणिपत्य च।

रथानारुरुहुः सर्वे शीघ्रवाहानलंकृतान्॥३०॥



ततः स तैरनुगतः स्यन्दनस्थैर्नभोगतः।

तदाश्रममहीप्रान्तं परिचिक्षेप वारिणा॥३१॥



अष्टापदमिवालिख्य निमित्तैः सुरभीकृतम्।

तानुवाच मुनिः स्थित्वा भूमिपालसुतानिदम्॥३२॥



अस्मिन् धारापरिक्षिप्ते नेमिचिन्हितलक्षणे।

निर्मिमीध्वं पुरं यूयं मयि याते त्रिविष्टपम्॥३३॥



ततः कदाचित्ते वीरास्तस्मिन् प्रतिगते मुनौ।

बभ्रमुयौंवनोद्दामा गजा इव निरङ्कुशा॥३४॥



बद्धगोधाङ्गुलीत्राणा हस्तविष्ठितकार्मुकाः।

शराध्मातमहातूणा व्यायताबद्धवाससः॥३५॥



जिज्ञासमाना नागेषु कौशलं श्वापदेषु च।

अनुचक्रुर्वनस्थस्य दौष्यन्तेर्देवकर्मणः॥३६॥



तान् दृष्ट्‍वा प्रकृतिं यातान् वृद्धान्व्याघ्रशिशूनिव।

तापसास्तद्वनं हित्वा हिमवन्तं सिषेविरे॥३७॥



ततस्तदाश्रमस्थानं शून्यं तैः शून्यचेतसः।

पश्यन्तो मन्युना तप्ता व्याला इव निशश्वसुः॥३८॥



अथ ते पुण्यकर्माणः प्रत्युपस्थितवृद्धयः।

तत्र तज्ज्ञैरुपाख्यातानवापुर्महतो निधीन्॥३९॥



अलं धर्मार्थकामानां निखिलानामवाप्तये।

निधयो नैकविधयो भूरयस्ते गतारयः॥४०॥



ततस्तत्प्रतिलम्भाच्च परिणामाच्च कर्मणः।

तस्मिन् वास्तुनि वास्तुज्ञाः पुरं श्रीमन्न्यवेशयन्॥४१॥



सरिद्विस्तीर्णपरिखं स्पष्टाञ्चितमहापथम्।

शैलकल्पमहावप्रं गिरिव्रजमिवापरम्॥४२॥



पाण्डुराट्टालसुमुखं सुविभक्तान्तरापणम्।

हर्म्यमालापरिक्षिप्तं कुक्षिं हिमगिरेरिव॥४३॥



वेदवेदाङ्गविदुषस्तस्थुषः षट्सु कर्मसु।

शान्तये वृद्धये चैव यत्र विप्रानजीजपन्॥४४॥



तद्‍भूमेरभियोक्तृणां प्रयुक्तान् विनिवृत्तये।

यत्र स्वेन प्रभावेन भृत्यदण्डानजीजपन्॥४५॥



चरित्रधनसम्पन्नान् सलज्जान् दीर्घदर्शिनः।

अर्हतोऽतिष्ठिपन् यत्र शूरान् दक्षान् कुटुम्बिनः॥४६॥



व्यस्तैस्तैस्तैर्गुणैयुक्तान् मतिवाग्विक्रमादिभिः।

कर्मसु प्रतिरुपेषु सचिवांस्तान्न्ययूयुजन्॥४७॥



वसुमभ्दिरविभ्रान्तैरलंविद्यैरविस्मितैः।

यद् बभासे नरैः कीर्णं मन्दरः किन्नरैरिव॥४८॥



यत्र ते हृष्टमनसः पौरप्रीतिचिकीर्षया।

श्रीमन्त्युद्यानसंज्ञानि यशोधामान्यचिकरन्॥४९॥



शिवाः पुष्करिणीश्चैव परमाग्र्यगुणाम्भसः।

नाज्ञया चेतनोत्कर्षाद्दिक्षु सर्वास्वचीखनन्॥५०॥



मनोज्ञाः श्रीमतीः प्रष्ठीः पथिषूपवनेषु च।

सभाः कूपवतीश्चैव समन्तात् प्रत्यतिष्ठिपन्॥५१॥



हस्त्यश्वरथसंकीर्णमसंकीर्णमनाकुलम्।

अनिगूढार्थिविभवं निगूढज्ञानपौरुषम्॥५२॥



सनिधानमिवार्थानामाधानमिव तेजसाम्।

निकेतमिव विद्यानां संकेतमिव संपदाम्॥५३॥



वासवृक्षं गुणवतामाश्रयं शरणैषिणाम्।

आनर्तं कृतशास्त्राणामालानं बाहुशालिनाम्॥५४॥



समाजैरुत्सवैर्दायैः क्रियाविधिभिरेव च।

अलंचक्रुरलंवीर्यास्ते जगद्धाम तत्पुरम्॥५५॥



यस्मादन्यायतस्ते च कंचिन्नाचीकरन् करम्।

तस्मादल्पेन कालेन तत्तदापूपुरन् पुरम्॥५६॥



कपिलस्य च तस्यर्षेस्तस्मिन्नाश्रमवास्तुनि।

यस्मात्ते तत्पुरं चक्रुस्तस्मात् कपिलवास्तु तत्॥५७॥



ककन्दस्य मकन्दस्य कुशाम्बस्येव चाश्रमे।

पुर्यो यथा हि श्रूयन्ते तथैव कपिलस्य तत्॥५८॥



आपुः पुरं तत्पुरुहूतकल्पास्ते तेजसार्येण न विस्मयेन।

आपुर्यशोगन्धमतश्च शश्वत् सुता ययातेरिव कीर्तिमन्तः॥५९॥



तन्नाथवृत्तैरपि राजपुत्रैरराजकं नैव रराज राष्ट्रम्।

तारासहस्त्रैरपि दीप्यमानैरनुत्थिते चन्द्र इवान्तरीक्षम्॥६०॥



यो ज्यायानथ वयसा गुणैश्च तेषां

भातॄणां वृषभ इवौजसा वृषाणाम्।

ते तत्र प्रियगुरवस्तमभ्यषिचन्नादित्या

दशशतलोचनं दिवीव॥६१॥



आचारवान्विनयवान्नयवान्क्रियावान्

धर्माय नेन्द्रियसुखाय धृतातपत्रः।

तद्‍भ्रातृभिः परिवृतः स जुगोप राष्ट्रम्

संक्रन्दनो दिवमिवानुसृतो मरुद्भिः॥६२॥



सौन्दरनन्द महाकाव्य में 'कपिलवस्तु वर्णन' नामक प्रथम सर्ग समाप्त।
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project