Digital Sanskrit Buddhist Canon

दशमः सर्गः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Daśamaḥ sargaḥ

दशमः सर्गः



मारसन्नद्धतावर्णनम्



अत्रान्तरे निविडमास्थितबोधिमूलमावेगवानभिषिषेणयिषुर्मुनीन्द्रम्।

अध्यास्य मत्तकरिणं गिरिमेखलाख्यमाहूतसैन्यनिवहो निरगादनङ्गः॥१॥



निर्गत्य निह्नतदिगन्तरकन्दरेण निर्घातभीमजयदुन्दुभिनिःस्वनेन।

सन्त्रासिताखिलजनेन महाबलेन साकं शनैरवततार धरामनङ्गः॥२॥



सम्भ्रान्तशाङ्खिकशताननपूर्यमाणो मारस्य सान्नहनिको वरशङ्खघोषः।

संग्रामशश्वदुपलालितपाञ्चजन्यनादस्य न व्यसन मब्धिशयस्य चक्रे॥३॥



निस्साणघोरनिनदो निखिलान्तरिक्षकुक्षिम्भरिः प्रसृमरो मकरध्वजस्य।

दम्भोलिघोषजनितश्रवणोत्सवस्य देवस्य केवलमजायत दत्तहर्षः॥४॥



वेतण्डमण्डलविडम्बितचण्डवायुवेगावखण्डितकुलाचलगण्डशैलम्।

संवर्तसागरसमुद्गतभङ्गतुङ्गत्वङ्गत्तुरङ्गमतरङ्गितसर्वदिक्कम्॥५॥



आढौकमानरथमण्डलचक्रनेमिधाराविदारितधरातलसन्निवेशम्।

पादातपादपतनाशनिपाट्यमानपातालसन्तमससान्द्ररजोऽन्धकारम्॥६॥



आधूयमानकरवालकरालकालच्छायासमुच्चलनशाद्वलितान्तरिक्षम्।

हेलावकुण्डलितकार्मुककाननज्याविष्फारवेगबधिरीकृतविश्वलोकम्॥७॥



आस्फालिताप्रतिमभैरवभेरिघोरकोलाहलध्वनियथार्थनभोऽभिधानम्।

शुण्डाकरण्डविवरप्रवितन्यमानशूत्कारशीकरकरालितमेघमार्गम्॥८॥



क्षोणीतलान्तरनिरन्तरजृम्भमाणधूलोनिकायचुलुकाकृतसिन्धुपूरम्।

नासीरवीरसमुदीरितसिंहनादसन्नाहगर्जितसमस्तगुहान्तरालम्॥९॥



दोधूयमानसितचामरिकानिकायसम्पादिताद्भुतशरत्समयावतारम्।

संरब्धपुष्पशरशासनचोद्यमानचक्रं क्रमेण चतुरङ्गबलं चचाल॥१०॥



कल्पान्तकालघटमानघनाघनौघगम्भीरघोरघनगर्जितनिर्विशेषैः।

आपादितैर्मकरकेतनवाद्यकारैराध्मातमण्डमभवत् पटहप्रणादैः॥११॥



अभ्युद्भतै रमितसैन्यपरागजालैरन्धीकृताकुलदृशामहिपुङ्गवानाम्।

आविश्चकार भुवनेषु परं निपीडामाडम्बरः पटहजो मदनप्रयाणे॥१२॥



अत्यन्तमन्धयति दिङ्मुखमम्बुवाहसन्दोहरोचिषि चमूरजसां समूहे।

नौका इवोद्धुरसरस्वति नष्टमार्गा भ्रेमुर्भृशं सुरपथे सुमनोविमानाः॥१३॥



वातोत्थितं महति सैनिकधूलिमध्ये सञ्चारिणस्सुमनसां व्यरुचन्विमानाः।

संहारताण्डवितसागरवारिपूरे पारिप्लवा इव मुहुः जगदण्डखण्डाः॥१४॥



कल्पक्षयक्षुभितमारुतवेगभीमकन्दर्पसैन्यकबलीकृतभीतभीताः।

अभ्युल्लसद्बहलरेणुभरापदेशादम्भोधयो गगनमुत्पतिता इवासन्॥१५॥



प्रत्यर्थिदन्तिजयसिन्धुरदन्तभिन्नक्ष्माभृद्गुहान्तरगता इव चान्धकाराः।

आवव्रुरम्बरमभङ्गुरजृम्भमाणाः सेनापरागनिकरा भ्रमराभिरामाः॥१६॥



अत्युल्बणैरमितसैन्यपरागपूरैरापूरितं गगनकन्दरमाबभासे।

आप्लाविताखिलपथैर्यमुनाप्रवाहैराश्लिष्यमाणमिव लावणसिन्धुमध्यम्॥१७॥



अभ्युच्छ्रितैरवनिमांसलपांसुजालैरत्युल्बणं गगनमण्डलमास्तृणानैः।

आशाङ्गना मदनसायकपातभीतेरामुक्तनीलघनकञ्चुलिका इवासन्॥१८॥



धूलीभरे चुलुकितार्णवतोयपूरे स्वैरप्रचार मभितः प्रतिपद्यमाने।

कल्पक्षयोऽमिति कैटभजिद् भ्रमेण भूयोऽपि विश्वमुदरे परिहर्तुमैच्छत्॥१९॥



पर्यापतत्तुरखण्डितभूसमुत्थैः पाथोधयः कबलिताः परुषैः परागैः।

मत्तेभगण्डगलितैर्मदवारिपूरैर्भूयो बभूवुरधिकं पुनरुक्ततोयाः॥२०॥



अम्भोधिसम्पदवलुण्ठनकुम्भयोनिरभ्युद्गतो मकरकेतनसैन्यरेणुः।

अम्भोजिनीपतिरसौ मम वैरिबन्धुरित्यन्तराहितरुषेव तिरश्चकार॥२१॥



अभ्युद्गतं परिभवं निजवंशकेतोरत्युग्रमीक्षितुशक्त इवांशुमालो।

कन्दर्पसैन्यघनधूलिपरम्पराषु गाढान्धकारितदिशासु तिरोबभूव॥२२॥



आतन्यमानबलरेणुघनान्धकारैराकम्पमानकरिकेतुशतह्रदाभिः।

अश्वीयफेनकणिकाकरकाकदम्बैर्वर्षावतार इव हर्षकरो बभूव॥२३॥



प्रौढान्धकारितदिशावलये प्रसर्पत्युच्छृङ्खले रजसि रुद्धनभोऽवकाशे।

पाताललोक इव भूवलयो बभूव भूसन्निवेश इव पुण्यकृतां निवासः॥२४॥



अश्वीयपाददलितादवनीतलान्तादभ्युच्छ्रिते च नितरां निखिले परागे।

भूमीधराः परमभूमिधरा बभूवुः शेषोऽपि केवलमभूत् फणमालभारी॥२५॥



दिग्दिन्तिनां मुखपटप्रकटोपमेये सेनापरागनिकरे सति जृम्भमाणे।

पाथोधयः सपदि पङ्कधयस्तदासन् पाथोधरा नभसि पङ्कधरा बभूवुः॥२६॥



आपीतसर्वमकराकरवारिराशेराशावकाशगगनेष्वमितस्य रेणोः।

चक्राचले बहिरिव प्रसराय चक्रुराशागजा विवरमादृतवप्रघाताः॥२७॥



सेनाम्बुधौ जयिपदातिमहाप्रवाहे मग्नाः कुलक्षितिधरा इव वारणेन्द्राः।

त्वङ्गत्तरङ्गनिवहा इव तुङ्गवाहा नौमण्डला इव रथाः सुतरां विरेजुः॥२८॥



मध्ये लसन्मकरलाञ्छनदर्शनीया मारस्य रेजुरमला जयकेतुपट्टाः।

अम्भोनिधिं निजबलोदधिना विजित्य बन्दीकृता इव तदीयपुरन्ध्रिवर्गाः॥



अन्तः समुद्भवदमर्षमहाग्निजात धूमावलीमलिनकञ्चुकसञ्चिताङ्गम्।

अत्यन्तभीषणमनेकसहस्रबाहुमात्मानमात्तविविधास्त्रमसावकार्षीत्॥३०॥



आप्लाविताखिलदिगन्तमहीध्ररन्ध्रमाकृष्टकल्पविलयक्षुभितार्णवाभम्।

आकारितं मकरकेतुरदृष्टपारमाकारभीषणमकारयदात्मसैन्यम्॥३१॥



आशामशेषमवनीतलमश्नुवानैरावेष्टितः परिकरैरमितप्रभावैः।

आरूढबोधितलवेदिमभिन्नधैर्यमभ्याससाद मुनिपुङ्गवमात्मयोनिः॥३२॥



आमुक्तचारुतरचीवरवारवाणमारूढयोगगजबन्धुरकन्धराग्रम्।

आरब्ध योद्धुमविकम्पितशौर्यराशिं पुष्पायुधः स्फुरदमर्षकषायिताक्षः॥३३॥



तस्यान्तिके शमदमामृतवारिराशेर्मुक्ता बभूवुरमला विशिखाः स्मरस्य।

शुद्धात्मनामकृतदानफलोन्नतीनां किं किं न सिध्यति कृताक्षयपक्षकाणाम्॥३४॥



तस्मिन् क्षमामयतनुच्छमादधाने धैर्योदधौ तपनचण्डतमप्रभावे।

कुण्ठीकृतात्मगतयः कुसुमास्त्रबाणाः कृत्या इव प्रतिनिवृत्य तमेव जघ्नुः॥३५॥



मारस्य मार्गणगणाः सुमनायमानाः सत्पक्षसम्भृतसमागतयोऽप्यवापुः।

तं स्थूललक्षमुपगम्य न दानलाभं को वा ददातु गुणहीनविचेष्टिताय॥३६॥



चक्रीकृतायतशरासनमास्थितेन सम्प्रेषिताः शितशरा मकरध्वजेन।

आसाद्य बुद्धमभजन् सुमनोमयत्वं सत्सङ्गतिः सुरलतेव न किं करोति॥३७॥



सम्प्राप्य शान्तहृदयं मुनिसार्वभौमं संविद्विशेषरहितेष्वपि सायकेषु।

सद्यो गतेषु मृदुतां स हि शम्बरारिर्व्यारोषदग्धहृदयो मृदुतां न भेजे॥३८॥



चेतोभवस्य सफला अपि सायकास्ते तं प्राप्य शान्तहृदयं विफला बभूवुः।

दैवे समेयुषि पराङ्मुखतां हि सर्वं हस्तोपयातमपि हन्त ! विनाशमेति॥३९॥



इत्थं जगत्त्रयतिरस्करणक्षमेषु सर्वेषु हन्त ! विशिखेषु निरर्थकेषु।

वैरग्रहान्धहृदयो मथनाय तस्य मारो महाप्रलयमारुतमादिदेश॥४०॥



आमूलभागधुतदिव्यनदीसमुद्यदम्भोभराहितयथाध्युषिताभिषेकः।

अभ्यर्चनार्थमिव सम्भृतपुष्परेणुरक्षोभितं मुनिमवाप महासमीरः॥४१॥



तं प्रात्य सर्वगुणभारगुरुं मुनीन्द्रं न प्रागभवच्चलयितुं स महाजवोऽपि।

नैतद् विचित्रमखिलाटविघस्मरस्य दावानलस्य न हि मूर्छति शक्तिरप्सु॥४२॥



एवं महापवनवारिधरादिकेषु व्यर्थीभवत्सु विपुलेष्वपि चायुधेषु।

पुष्पायुधः पुनरियेष पुमांसमाद्यं वाक्सायकैर्हृदयमर्मतुदैर्विजेतुम्॥४३॥



नैव त्वदीयमिदमासनमस्मदीयमुत्थाय तूर्णममुतः सहसापयाहि।

आपूरिता परमपारमिका मयैव तत्साक्षिणी मम महापृतनेत्यवोचत्॥४४॥



अङ्कात् प्रसार्य करपल्लवमादिभिक्षुर्यावज्जगाद गिरमिद्धतपप्रभावः।

मारः पलायत ततो महता बलेन भ्रष्टातपत्ररथकेतुकुथेन भीतः॥४५॥



माराङ्गनास्तदनु मन्थरदृष्टिपाता वाचालरत्नपदनूपुरपारिहार्याः।

सद्यः समेत्य चतुरस्रविशालगर्भं चक्रुस्तदग्रभुवि ताण्डवमत्युदारम्॥४६॥



अन्तःसमाहितसमाधिरसानुषक्तमालोक्य शाक्यकुलनन्दनमप्रकम्प्यम्।

कर्णामृतानि वचनानि च कातराक्ष्यः कामाङ्गना विदधिरे करुणाक्षराणि॥४७॥



अस्यै पतन्मदनसायकविह्वलायै दृष्टिप्रदानमपि कर्तुमपारयन्तम्।

उत्पाट्य लोचनयुगं द्विजपुङ्गवाय त्वां दत्तवानिति कथं ब्रुवते पुराणाः॥४८॥



मग्नां महामकरकेतनवारिराशौ मामित्थमाधिविधुरामवलम्बशून्याम्।

उद्धर्तुमप्यकुशलो जननाम्बुराशेरुत्तारयिष्यसि कथं त्वमशेषलोकम्॥४९॥



दृष्ट्वाऽस्मदीयमनवद्यतमं विलासं श्लाघाशिरोविधुतिमप्यतिदूरयन्तम्।

उच्छीद्य मस्तकमुदस्तरिपुप्रभावं त्वां दत्तवानिति वदन्ति कथं कवीन्द्राः॥५०॥



पुण्यात्मनामधिपते ! पुरुषोत्तमत्वमाप्तुं पदं त्वमभिवाञ्छसि किं तपोभिः !

अस्मासु कामपि वधूमधिरोपय त्वं वक्षस्तटे महति मेरुशिलाविशाले॥५१॥



भद्रान्ववायमथ वा परमेश्वरत्वमाकांक्षसे समुपयातुमलं तपोभिः !

कामप्यमूषु कमलायतदृष्टिपातां वामालकां त्वमधिरोहयं वामभागे॥५२॥



आनन्दकन्दलितलोचनविभ्रमाणाम् अम्भोरुहप्रकरगर्वगलग्रहाणाम्।

आविःस्मिताननरुचामवलोकनानां पात्रीभवन्ति सुदृशां ननु भाग्यवन्तः॥५३॥



आकृष्टरक्तपरपुष्टवचोविलासाद् आलोचनान्तविवृतादृतकर्णपेयात्।

आश्चर्यभङ्गिसुभगादपरोक्षसौख्यादाभाषणान्मृगदृशाममृतं किमन्यत्॥५४॥



अश्रान्तपानसहमौषधमात्मयोनितापोदयेष्वनुपदंशमनोऽभिरामम्।

अक्षीयमाणमधरामृतमङ्गनानामास्वाद्यतामयति पुण्यवतां हि पुंसाम्॥५५॥



एवंविधैर्ललितभावरसानुविद्धैर्नृत्तक्रमैर्निरुपमैर्वचसां विलासैः।

आलोक्य बुद्धमविकम्पितचित्तवृत्तिं लज्जावशात् प्रतिनिवृत्य ययुस्तरुण्यः॥५६॥



इत्थं पुष्पशरासनस्य विजयव्यापारशुष्कस्थितां

सम्बोधिप्रसदां निवेश्य सुदृशं श्रीबोधिमूले वरः।

सिद्धार्थश्चिरवासनापरिगतानुच्छिद्य दोषद्विषो-

मुक्तिक्षेत्रकुटुम्बरक्षणविधौ मूधार्भिषिक्तोऽभवत्॥५८॥



इति बुद्धघोषविरचिते पद्यचूडामणिनाम्नि महाकाव्ये सिद्धार्थचरिते दशमः सर्गः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project