Digital Sanskrit Buddhist Canon

नवमः सर्गः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Navamaḥ sargaḥ

नवमः सर्गः



कुमारस्य नीराजनम्



आगत्य गेहमध्यास्य कुमारो भद्रपीठिकाम्।

आरब्धं मातृधात्रीभिरारात्रिकमुपाददे॥१॥



महाराजाधिराजस्य तनयो मण्डपस्थितः।

सिंहासनमियायैष सिंहसंहननस्ततः॥२॥



वारवामालकास्तस्य मधुराकृतयः पुरः।

आरेभिरे दर्शयितुमद्भतं नृत्तविभ्रमम्॥३॥



असक्तहृदयस्तासाम् अङ्गहारमनोहरे।

सङ्गीते नवगीतेऽपि स चिन्तामन्तरा ददौ॥४॥



तदा बभौ कुमारोऽसौ चामरैरमरोच्छ्रितैः।

समीरणसमुद्धूतैस्तरङ्गैरिव सागरः॥५॥



ध्वजरत्नपताकाभिः शुशुभे क्षोणिमण्डलम्।

अन्तरिक्षमिवानेकविद्युद्वल्लीभिरावृतम्॥६॥



कालागरुमहाधूमवल्लीवेल्लितमम्बरम्।

कृष्णोरगशताकीर्णं रसातलमिवाबभौ॥७॥



ब्रह्माण्डकुक्षिम्भरिभिर्बधिरीकृतदिङ्मुखैः।

अनेकपटहध्वानैराध्मातमभवन्नभः॥८॥



ऐरावत्य इवाकाशरङ्गेष्वमरयोषितः।

घनवाद्यरवाश्चक्रुरखण्डं ताण्डवक्रमम्॥९॥



तासां तरलसञ्चारदृष्टिभिर्मुखमण्डलैः।

तारापथस्थलमभुत् सहस्रमृगलाञ्छनम्॥१०॥



विद्याधराश्च गन्धर्वा वीणागर्भितपाणयः।

पूर्वापदानमुखराः पुरस्तस्य प्रतस्थिरे॥११॥



महेन्द्रकरविक्षिप्ताः मन्दारसुमनोभराः।

भुवनक्षोभगलिताः पुष्फुरुस्तारका इव॥१२॥



इत्थमाराधितो देवैर्दशत्रितययोजनम्।

अतीत्य पन्थानमसावगादनवमां नदीम्॥१३॥



मरालमहिलालीढमृणालदलमेदुराम्।

गम्भीरमकरारावमुखरीकृतदिङ्मुखाम्॥१४॥



तरङ्गशीकरासरतारादन्तुरिताम्बराम्।

सरसीरुहसौरभ्यसुरभीकृतमारुताम्॥१५॥



कल्लोलवल्लीवलयसमुल्लासितसारसाम्।

कलहंसकलत्राणां कण्ठदघ्नोर्मिमण्डलीम्॥१६॥



मीनविक्षिप्तकल्हारपुञ्जकिञ्जल्करञ्जिताम्।

विनिद्रकमलोदीर्णमधुद्रवतरङ्गिताम्॥१७॥



तारणाय महाम्भोधेस्तन्वन् गुणनिकामिव।

चिन्तायुक्तेन वाहेन तां नदीमुदतीतरत्॥१८॥



उत्तीर्य तस्याः पुलिने तुरगादवतीर्य सः।

छन्नं निवर्तयामास दत्वा भूषाश्च वाहनम्॥१९॥



आदिकल्पसमुद्भूतामादिब्रह्मसमाहृताम्।

अग्रहीदग्रणीः पुंसां तपोधनपरिष्क्रियाम्॥२०॥



आदाय तापसाकल्पमनल्पगुणगुम्भितम्।

आच्छाद्य तेन चात्मानमधत्त तपसि स्थितिम्॥२१॥



अथावलोक्य लोकेशं दीक्षितं शक्रदिङ्मुखम्।

आनन्दमन्दहसितैरिव पाण्डरतामयात्॥२२॥



समस्तलोकनाथस्य तस्य शास्तुरिवाज्ञया।

शतमन्युदिशाऽधत्त सन्ध्यापाटलमम्बरम्॥२३॥



तस्यावलोकनायैव शास्यवंशशिखामणेः।

अध्यास्त कूलकूटस्थः प्रथमाद्रिं गभस्तिमान्॥२४॥



अज्ञानमेवं जगतामपसार्यं त्वयेत्यपि।

अस्यादिशन्निव रविरन्धकारमपाकरोत्॥२५॥



ज्ञानालोकस्त्रिजगतामेवमेव त्वयेति च।

अस्यादिशन्निवालोकमाविश्चक्रे विकर्तनः॥२६॥



दीक्षिते भूभृतां नाथे निर्विण्णा इव भूभृतः।

अरुणातपलक्षेण चक्रिरे वल्कधारणम्॥२७॥



आदित्यबन्धोर्बोधैकसिन्धोः समुदयादिव।

प्रबोधमुद्रामभजन् सकलाः कमलाकराः॥२८॥



कृतकृत्यं तमुद्दिश्य कृताञ्जलिपुटा इव।

आबद्धमुकुलास्तस्थुरशेषाः कुमुदाकराः॥२९॥



सन्मार्गदेशिकस्यास्य तीर्थिका इव तेजसा।

तपनस्य समाक्रान्तास्तारका निस्त्विषोऽभुवन्॥३०॥



अवकाशप्रदानार्थमिव तत्कीर्तिसंहतेः।

अशेषमाशाविवरमानशेऽतिविशालताम्॥३१॥



सिद्धार्थमुखशीतांशुं दृष्ट्वा दीप्तं दिवाऽपि च।

व्रीडावशादिव विधुर्बभूव विगतच्छविः॥३२॥



जगदेकगुरोस्तस्य दर्शनादिव दीप्तिमान्।

विगतोदयरागश्रीर्विवेशाकाशमाश्रमम्॥३३॥



मनोरथशतप्राप्तप्रव्रज्यारसनिर्वृतः।

दिनानि कानिचित् तस्यास्तीरे चिक्षेप देशिकः॥३४॥



अन्येद्युरथ भिक्षार्थमादिभिक्षुर्बुभुक्षितः।

व्यतीत्य दूरमध्वानं बिम्बसारपुरीमगात्॥३५॥



विशङ्कटशिलासालविजितावधिभूधरान्।

पातालागाधपरिखापल्वलीकृतसागराम्॥३६॥



घोटीखुरपुटीकोटिक्रोडीकृतधरातलाम्।

माद्यन्मदावलाधीशमदपङ्किलवीथिकाम्॥३७॥



माणिक्यसौधवलभीवलमानमरालिकाम्।

वातायनमुखोदीर्णधूमराजिविराजिताम्॥३८॥



बालाचलतुलाकोटिवाचालहरिदञ्चलाम्।

मन्दानिलसमाधूतध्वजचूडालमन्दिराम्॥३९॥



वलारिकार्मुकस्मेरमणितोरणमांसलाम्।

वल्लीकिसलयारब्धरथ्यावन्दनमालिकाम्॥४०॥



विशालविशिखाभोगमेखलोज्ज्वलमध्यमाम्।

विहारवापिकावीचीसमीचीनोपशाखिकाम्॥४१॥



तत्र भिक्षां समादातुं तपोधनशिखामणिः।

वीथीषु वीथीषु शनैर्विजहार विनायकः॥४२॥



मोहापनोदमप्येनं मुनीन्द्रमभिवीक्षिताः।

मुग्धा विदग्धाः सकला मोहनिद्रां प्रपेदिरे॥४३॥



विगतोन्मेषसम्मेषविष्फारीकृतचक्षुषाम्।

मनोभवारिरप्यासां मनोभवमजीजनत्॥४४॥



तत्र भिक्षां समादाय शिक्षापादविचक्षणः।

तदभ्यर्णगतं तूर्णं शिलोच्चयमशिश्रियत्॥४५॥



उपकण्ठकलालापकालकण्ठमनोहरम्।

कण्ठीरवकराघातचूर्णीकृतगजाकुलम्॥४६॥



वेतण्डशुण्डादण्डाभकुण्डलीश्वरमण्डितम्।

शिखण्डिमण्डलारब्धताण्डवं पाण्डराह्वयम्॥४७॥



विशालशिखरोद्देशविश्रान्तजलदाध्वगम्।

विहरन्मत्तमातङ्गपुनरुक्तमहोपलम्॥४८॥



विशङ्कटशिलाकोटिपाटिताम्बरकोटरम्।

पञ्चास्यपाणिर्यस्तगजमौक्तिकविस्तृतम्॥४९॥



निर्झरीपूरनिर्धौतकलधौतशिलातलम्।

मेखलोपान्तविलसत्पुलिन्दपृतनापतिम्॥५०॥



तडाके तस्य सिद्धार्थः स्नात्वा निकटवर्तिनि।

स्थित्वा तटशिलापट्टे भिक्षान्नरसमन्वभूत्॥५१॥



अपरेद्युर्विनिर्गत्य तस्मादेष पुरान्तरे।

पिण्डपातविधिं कृत्वा प्रापदभ्यर्णकाननम्॥५२॥



तडाकनिकटे नद्यास्तटे शैले च कानने।

निवसन् दिवसानेष निन्ये मान्यो बहूनपि॥५३॥



तपोवनेषु धन्येषु दुःसाधानि तपांस्यपि।

चचार धीरहृदयः संसारक्लेशशान्तये॥५४॥



अप्राप्य निर्वाणपदं दुश्चरैश्वरितैरपि।

को वाऽभ्युपायस्तस्यार्थे भवेदित्याकुलोऽभवत्॥५५॥



एकदा पारमीभाग्यपरिपाकप्रकाशनम्।

स्वप्नपञ्चकमद्राक्षीत् सुचरित्रनिधिः प्रगे॥५६॥



दृष्ट्वाऽवबुध्य स्वप्नार्थं प्रत्यवेत्य विचक्षणः।

निश्चिकायाहमद्यैव निर्वृतिं प्राप्नुयामिति॥५७॥



कृत्वा दिनमुखाचारं भिक्षावेलां प्रतीक्ष्य सः।

आसाञ्चक्रे वटस्याधः पूजाविहितसत्कृतेः॥५८॥



अथ काचिद् विशालाक्षी देवतां तन्निवासिनोम्।

अधिकृत्य तदा नित्ये पायसं प्रार्थनापरा॥५९॥



तच्छङ्कयैव सा तस्मै ददौ पात्रेण पायसम्।

तदादाय महासत्त्वो ययौ नैरञ्जरातटम्॥६०॥



तस्याः शरन्निशाकाशविमले सलिले मुनिः।

स्नात्वा सुवर्णपात्रस्थं बुभुजे पायसं बुधः॥६१॥



ततः किसलयालोकबालातपविलासिनि।

मनोज्ञकोकिलालापवाचालहरिदञ्चले॥६२॥



मन्दानिलाधूतलताडोलादुर्ललितालिनि।

बालचूतांकुरास्वादमोदमानवनप्रिये॥६३॥



मन्दारकोरकस्यन्दिमकरन्दसुगन्धिनि।

मदगन्धवहस्पन्दकन्दलीकृतकौतुके॥६४॥



उत्फुल्लमञ्जरीपुञ्जपिञ्जरीकृतसत्पथे।

भ्रमद्भ्रमरझङ्कारहुङ्कारचकिताध्वगे॥६५॥



विहङ्गपक्षविक्षिप्तपरागभरपांसुले।

माकन्दमधुसन्दोहजम्बालितमहीतले॥६६॥



प्रफुल्लसुमनोवल्लीमतल्लीयुतमारुते।

वसन्तकालसामन्तसाम्राज्यमणिमण्डपे॥६७॥



ताली-तमाल-हिन्तालबहुले सालकानने।

स्थित्वा माध्यन्दिनं तापं निनाय नरनायकः॥६८॥



दिनावसाने सम्प्राप्ते याममात्रावधौ यतः।

उत्थाय भगवान् बोधिं प्रपेदे प्राज्यविक्रमः॥६९॥



ब्रह्मणोपहितान् दर्भान् आदाय निजपाणिना।

चिक्षेप देशिकवरः प्राच्ये बोधिमहीतले॥७०॥



तत्र कन्दर्पदर्पाणाम्भेद्यमतिकोमलम्।

अपराजितपर्यङ्कम् आविरासीन्महासनम्॥७१॥



आरुरोहासनं तुङ्गम् अनङ्गरिपुमद्भुतम्।

अंशुमानिव पूर्वाद्रिम् अशेषजनबोधकः॥७२॥



आरुढबोधिपर्यङ्कम् अभंगुरगुणं सुराः।

अमुमारेभिरे स्तोतुम् अवाङ्मनसगोचरम्॥७३॥



नमः सुगुणमाणिक्यसिन्धवे रविबन्धवे।

नमः संसारपाथोधिसेतवे मुनिकेतवे॥७४॥



नमः सकलसंक्लेशहारिणे गुणहारिणे।

नमः समस्ततत्त्वार्थवेदिनेऽद्वयवादिने॥७५॥



करुणापूरलहरीपरीवाहितचक्षुषे।

भागधेयनिधानाय भगवन् ! भवते नमः॥७६॥



कन्दर्पदर्पनिर्भेदकर्मठस्त्वं न चापरः।

पञ्चाननं विना को हि कुञ्जरं शासितुं क्षमः!॥७७॥



शूरस्त्वमेव दुर्वारगर्वतीर्थिकमर्दने।

मन्दरेण विना सिन्धुं मथितुं केन पार्यते !॥७८॥



चुलुकीकरणे शूरस्त्वमेव भववारिधेः।

कुम्भयोनिं विना को हि कोविदः सिन्धुचूषणे॥७९॥



कुशलोऽत्र भवानेव श्रोणीवलयबोधने।

को वा विधुर्विना चन्द्रं कुमुदाकरहासने !॥८०॥



भवक्लेशं त्वमेवेश ! निःशेषयितुमीशिषे।

हर्तुमन्यः किमीशीत हरिदश्वादृते तमः॥८१॥



एताभिरेषां स्तुतिभिरेधमानगुणोदयम्।

बोधिमूलतलारूढं बुद्धं शुश्राव मन्मथः॥८२॥



श्रुत्वा मनोभूः क्षुभितान्तरात्मा विरक्तबुद्धापशदं विजेतुम्॥

को वाऽभ्युपायो भुवने मम स्यादित्याशु चिन्ताज्वरनिर्दुतोऽभूत्॥८३॥



इति श्रीबुद्धघोषविरचिते पद्यचूडामणिनाम्नि महाकाव्ये नवमः सर्गः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project