Digital Sanskrit Buddhist Canon

अष्टमः सर्गः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Aṣṭamaḥ sargaḥ
अष्टमः सर्गः



सूर्यास्तकालवर्णनम्



तत्रान्तरे बिम्बममन्दरागं पपात भानोदिशि पश्चिमायाम्।

आकाशकोशाद् गलितस्य नीलाद् आकृष्टलीलं मणिदर्पणस्य॥१॥



आकाशसिन्धोरपराह्णकर्णधाराधिपः संहृतरश्मिजालः।

प्रक्षेपणीभिः स्फटिकात्मिकाभिर्दिगन्ततीरं तरणिं निनाय॥२॥



अशोकपुष्पस्तबकाभिताम्रमस्ताचले मण्डलमुष्णभानोः।

बभार सिन्धोर्मथने विषक्तप्रवालवल्लीवलस्य शोभाम्॥३॥



भास्वानभीप्सुः परालोकयात्रां पद्माकरेषु प्रतिबिम्बलक्षात्।

आप्रच्छनार्थं प्रियबान्धवानामम्भोजिनीनामिव सम्प्रविष्टः॥४॥



क्रमेण मध्यं चरमाम्बुराशेः प्राभाकरं बिम्बमलञ्चकार।

हरिन्मणिश्याममिवाच्युतस्य वक्षःस्थलं कौस्तुभनाम रत्नम्॥५॥



आवर्तवेगादपरम्बुराशेरावृत्तबिम्बं हरिदश्वबिम्बम्।

भूयोऽपि चक्रभ्रममुन्मृजार्थमारोपितं विश्वसृजेव रेजे॥६॥



मया विनाब्धिः प्रलयप्रसङ्गं वेला कदाचिन्न विलङ्घितेति।

सत्यं चकारेव तदङ्गहस्तैरादाय तप्तारुणलोहकूटम्॥७॥



दिनावसानेन परीक्षकेण मन्दप्रदीप्तिद्युमणिर्महार्हः।

और्वाग्निना तेजयितुं किलान्तरुदन्वङ्गारभरे निरस्तः॥८॥



अस्तङ्गते भर्तरि भृङ्गमालामङ्गल्यसूत्रं दिवसान्तधात्री।

अम्भोजिनीनामपसौरभाणामपाकरोदम्बुरुहोपकण्ठात्॥९॥



विश्लेषदुःखादिव तिग्मभानोः सङ्कोचभाजां नलिनीवधूनाम्।

शोकाग्निधूमालिरिवोज्जजृम्भे भृङ्गावली पङ्करुहाननेम्यः॥१०॥



सौरभ्यलोभात् सविधे चरन्ती भृङ्गावली पद्मवनेषु रेजे।

वियोगिनीभिर्नलिनीवधूभिर्व्यापारितोद्वन्धनवागुरेव॥११॥



विहाय भास्वान् नलिनीं सरागामस्तङ्गतोऽभून्मम बाल्यमित्रम्।

इत्यातियोगादिव चक्रवाकस्त्यक्त्वा प्रियां दीनतरं ररास॥१२॥



प्रतायमाना प्रथमेतरस्मिन् काष्ठान्तराले कनति स्म सन्ध्या।

दिवानिशान्योऽन्यनिपीडनेन जाज्वल्यमाना ज्वलनप्रभेव॥१३॥



अस्तङ्गतं भास्करमम्बरश्रीरालोक्य शोकातिशयाकुलेव।

नक्षत्रमुक्ताक्षवटं दधाना सन्ध्यातपं चीवरमाललम्बे॥१४॥



रुद्राक्षमालावलयोज्ज्वलानि तपोधनानां करपल्लवानि।

सन्ध्याप्रणामाय सभृङ्गचक्रैः सङ्कोचमापुः सह पद्मषण्डैः॥१५॥



आकाशनीलोत्पलभृङ्गभङ्गिराशावधूनीलपटोत्तरीयम्।

विश्वम्भराभूमिगृहप्रवेशोऽप्यजृम्भतान्धङ्करणी तमिस्रा॥१६॥



निष्यन्दमानैरिव चन्द्रकान्तैर्निर्वापितानां तपनोपलानाम्।

समीरणोत्था इव धूमसार्थास्तमोभरास्तरुरन्तरिक्षम्॥१७॥



प्रदोषवेधाः प्रवरस्य ताराप्रशस्तिवर्णान् लिखितुं हिमांशोः।

पयोदवीथीफलकं तमिस्रमषीप्रकारैर्मलिनीचकार॥१८॥



शर्वस्य सन्ध्याधृतताण्डवस्य कण्ठप्रभापुञ्ज इवान्धकारः।

ज्वलिष्यतामोषधिपादपानां किञ्चावृणोद् धूम इवान्तरिक्षम्॥१९॥



आवव्रुराकाशमतिप्रभूता आशान्तपर्यस्ततमः समूहा।

कूलङ्कषाः प्रावृषि वारिराशिं कलिन्दपुत्र्या इव वारिपूराः॥२०॥



विभावरीचम्पककर्णपूरा बभासिरे वेश्मसु दीपलेखा।

पलायमानस्य रवेः पटिष्ठैर्बन्दीकृता भास इवान्धकारैः॥२१॥



जिज्ञासमानास्तिमिरप्रवृत्तिमर्कस्य चारा इव सञ्चरन्तः।

सन्ध्याकृशानोरिव विष्फुलिङ्गास्तमोमणीनां व्यरुचन् निकायाः॥२२॥



निशान्धकारप्रकराम्बुवाहनिष्ठ्यूतधाराकरकाभिरामैः।

तारागणैर्दन्तुरमन्तरिक्षं कान्तिं दधौ कैरवकाननस्य॥२३॥



निरंकुशानां तिमिरद्विपानां शुण्डाविकीर्णैरिव शीकरौघैः।

उद्दामशोभैर्निकरैरुडूनां तारापथः शर्करिलो बभूव॥२४॥



तमालनीलं तगरावदातैस्तारागणैर्दन्तुरमन्तरिक्षम्।

अगस्त्यपीतस्य जहार सिन्धोराकीर्णमुक्तानिकरस्य शोभाम्॥२५॥



समुद्रगर्भान्तरमाश्रयन्तं तमोऽपहं चन्द्रमसं तनूजम्।

समुद्वहन्ती शतमन्तुकाष्ठा शनैर्मुखे पाण्डरतामयासीत्॥२६॥



चकाशिरे चन्द्रमसः समुत्थाः समुद्रगूढस्य मयूखमालाः।

पीत्पा प्रवाहं तिमिभिः सरन्ध्रैः शिरोभिरूर्ध्वप्रहिता इवाप॥२७॥



अर्धोदितः शीतकरस्य बिम्बः किञ्चित् समाविष्कृतलाञ्छनश्रीः।

शृङ्गारयोनेस्त्रिजगज्जिगीषोर्विषाङ्कितो बाण इवार्धचन्द्रः॥२८॥



तमालनीलस्य समुद्रविष्णोस्ताराधिभूमण्डलपुण्डरीकम्।

आवर्तनाभीविवरादुदस्थादालक्ष्यचिह्नभ्रमराभिरामम्॥२९॥



समुज्जिहानं लवणाब्धिमध्यात् तारापतेर्मण्डलमुत्तरङ्गात्।

उवाह तस्मादभिमथ्यमानादुन्मज्जदैरावतकुम्भलीलाम्॥३०॥



उद्यच्छमानस्तुहिनांशुमाली यतः प्रवालारुणमण्डलोऽभूत्।

तद्वाडवेनार्णमूषिकायामावर्जितैराहित एव रत्नैः॥३१॥



सधैर्यमादाय तटेषु पादं पूर्वाद्रिमारोहति राजसिंहे।

भूता इव ध्वान्तमतङ्गजेन्द्रा महीभृतां गह्वरमाश्रयन्ते॥३२॥



अस्ताद्रिशृङ्गस्खलिताग्रपादः पपात भास्वानपराम्बुराशौ।

इतीव भीतः कटकान् करेण स्पृष्ट्वारुरोह प्रथमाद्रिमिन्दुः॥३३॥



नवोदयालोहितमिन्दुबिम्बं विदिद्युते पार्वणमम्बरान्ते।

सायाह्नमुद्राधिकृतेन धातुद्रवेण संन्यस्तमिवैकचिह्नम्॥३४॥



विभावरीशः करपल्लवेन भृङ्गावलीमङ्गलसूत्रमालाम्।

कुसुद्वतीनां कुमुदोपकण्ठे संयोजयामास सकौतुकानाम्॥३५॥



आकर्ण्य गानं मधुपाङ्गनानां कर्णामृतं पीत इवामृतांशुः।

दिदेश ताभ्यो मकरन्दगर्भमामुद्रितं कैरवकोशजातम्॥३६॥



पत्युः करस्पर्शपरिश्लथस्य तमिस्रकेशस्य निशाङ्गनायाः।

नवप्रसूनैरिव विप्रकीर्णैर्नक्षत्रजालैः शुशुभे नभःश्रीः॥३७॥



विपक्वताराधिपबिम्बशङ्खविमुक्तमुक्ताफलदन्तुरेव।

व्योमापगाशीकरराजितेव विदिद्युते तारकिता नभःश्रीः॥३८॥



आकाशशय्यातलमश्नुवाने सुधाकरे भर्तरि सानुरागे।

श्यामाङ्गनायास्तिमिरान्तरीयमाकाशमध्यादपयातमासीत्॥३९॥



पतिः पशुनामिव कालकूटं पतिं नदीनामिव कुम्भयोनिः।

आदाय चन्द्रः करपल्लवेन गाढान्धकारं कवलीचकार॥४०॥



वियोगदुःखादिव पाण्डराङ्गीं विलम्बमानभ्रमरालकान्ताम्।

कुमुद्वतीमासवपुष्पदिग्धामाश्वासयामास करेण चन्द्रः॥४१॥



वेलाजलेषु मणिदर्पणविभ्रमेषु च्छायागतेन शशलाञ्छनमण्डलेन।

वाराकरो वरुणभूपतिना मणीनामेकाकरो रचितमुद्र इवाशशङ्क॥४२॥



अन्तः परिस्फुरितबालतमालकान्तिरालक्ष्यते स्म रजनीकरमण्डलश्रीः।

आसृक्वभागविवृताननसैंहिकेयदंष्ट्राकरालगरलद्रवमुद्रितेव॥४३॥



बिम्बं प्रदर्शितकुरङ्गकलङ्करेखं व्यक्तं बभौ कुमुदिनीकुलदैवतस्य।

आवर्तमण्डलमिवाचलसार्वभौमकन्याकलिन्दतनयामिलनोपजातम्॥४४॥



अन्तःस्फुरन्मृगकलङ्कमभंगुराभमत्यर्थमेव शुशुभे द्विजराजबिम्बम्।

ताटङ्कचक्रमिव दन्तमयं तमिस्रावामभ्रुवो मरकताङ्कितमध्यदेशम्॥४५॥



अन्तर्मलीमसमभादमृतांशुबिम्बमम्भोदवातमलिनोदरदर्पणाभम्।

कण्ठप्रभप्रसरकर्बुरितान्तरालं भिक्षाकपालमिव किञ्च कपालपाणेः॥४६॥



स्पष्टे प्रदोषसमये नरपालसूनुस्त्वष्ट्रा समारचितमङ्गलमण्डनश्रीः।

वाराङ्गनाभिरभितो मणिदीपिकाभिरासेवितः स्वभवनं पुनराजगाम॥४७॥



इति बुद्धघोषविरचिते पद्यचूडामणिनाम्नि महाकाव्ये अष्टमः सर्गः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project