Digital Sanskrit Buddhist Canon

पञ्चमः सर्गः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Pañcamaḥ sargaḥ

पञ्चमः सर्गः



त्रयो महाप्रासादाः



ततः कुमारस्य समग्रवैभवो नराधिनाथो नवयौवनश्रियः।

ऋतूत्सवानामुपसेवनक्षमानकारयत् त्रीनतुलान् महालयान्॥१॥



स तेषु सद्मस्वधिराजनन्दनो विचित्रविन्यासविशेषशालिभिः।

विनोद्यमानो वरवारयोषितां विलासनृत्तैर्विजहार हारिभिः॥२॥



बभूव वर्षासमयोऽथ मेदिनी कठोरधर्मज्वरशान्तिकर्मठः।

अशेषकान्तारशिखण्डिमण्डलीविलासलास्यक्रमदेशिकेश्वरः॥३॥



पयोधराः केचन काचमेचकाश्चकाशिरे चण्डसमीरणेरिताः।

शनैः शनैरम्बरकृष्णभोगिना विमुच्यमाना इव जीर्णकञ्चुकाः॥४॥



तदा समारुह्य विहारमण्डपं सहैव वध्वा सरसीरुहेक्षणः।

प्रदर्शयन् मीनदृशः पयोधरान् प्रचक्रमे वर्णयितुं तपात्ययम्॥५॥



इतः सरोजाक्षि ! विलोकयाम्बुदानुदन्वदम्भोभरपश्यतोहरान्।

वियत्तलाभोगविलासदर्पणप्रविष्टभूमण्डलबिम्बसन्निभान्॥६॥



ऋतुश्रिया दीप्ततडित्प्रदीपिकासमार्जितैरञ्जनसञ्चयैरिव।

नतभ्रु ! नव्यैः शकलैः पयोमुचां नभःस्थली पात्रमियं विभाव्यते॥७॥



पयोदकालेन चिरप्रवासिना समागतेनाभिनवं प्रिये ! दिशाम्।

विमुच्यमाना इव केशवेणयो विभान्ति कामं नवमेघपंक्तयः॥८॥



तपात्ययाभ्यागमनेन शाम्यतो निदाघरूपस्य कृपीटजन्मनः।

विजृम्भमाणा इव धूमवीचयो विशन्ति मेघावलयो वियत्तलम्॥९॥



पुरन्दराक्रान्तिभयेन ये पुरा पयोनिधिं प्रापुरलूनपक्षकाः।

समुत्पतन्तीव त एव भूधरास्ततः समुदद्यन्नववारिदच्छलात्॥१०॥



मृगाक्ष् इ! विद्युल्लतिकाकरम्बिम्बितैर्नभोऽवकाशो जलदैर्विराजते।

पयोनिधिर्विद्रुमवल्लिवेल्लितैर्युगक्षये कर्दमगोलकैरिव॥११॥



शिखण्डिनामद्भुतताण्डवश्रियामरण्यरङ्गे मधुरप्रणादिनाम्।

विलोक्य विद्युन्नयनेन विभ्रमान् प्रशंसतीव स्तनितेन तोयदः॥१२॥



कलापिनः काञ्चनकाहलोपमान् फणीन्द्रलोकान् परिगृह्य चञ्चुभिः।

गभीरकेकामुखरीकृताम्बरा नदन्ति चक्रीकृतबर्हमण्डलाः॥१३॥



सुवर्णकारेण तपात्ययात्मना पयोदपालीनिकषोपलान्तरे।

निघृष्यमाणा इव हेमराजयस्तडिल्लता भान्ति चकोरलोचने॥१४॥



मलीमसं केवलमङ्गमन्तरं विशुद्धमन्तःकरणं तु मामकम्।

इति स्फुरच्चञ्चलदीधितिच्छलाद् विभिद्य तं दर्शयतीव वारिदः॥१५॥



समुद्रनेमीवहनस्य भारिणश्चतुर्महासागरमध्यवर्तिनः।

कूलाद्रिकूटेषु तडिद्गणावृता विभान्ति सीता इव मेघपंक्तयः॥१६॥



विजित्य विश्वत्रयमद्भुतश्रिया प्रदानशौर्येण पयोमुचाऽमुना।

समुच्छ्रितानां तरलाक्षि ! विद्युतो जयध्वजानां जनयन्ति संशयम्॥१७॥



सितच्छदोत्सारणवेत्रयष्टयो विलोलदृष्टे ! विलसन्ति विद्युतः।

धनाघनैः प्रोषिततर्जनक्रियाविघूर्ण्यमानाः करशाखिका इव॥१८॥



शतह्रदापादितचारुमौर्विकं सलीलमादाय महेन्द्रकार्मुकम्।

पयोदकालः शबरः शरव्रजैरपुण्डरीकां विदघाति मेदिनीम्॥१९॥



भुजङ्गभुग्वान्तफणामणिश्रियः स्फुरन्ति भूम्ना पुरुहूतगोपकाः।

प्रचण्डधाराहतरत्नसूदरप्रकीर्णरत्नोपलखण्डकान्तयः॥२०॥



शरन्निशाकाशतलोदरप्रभासहोदरे नूतनशाद्वलस्थले।

पतन्ति वज्रायुधगोपकीटकाः समग्रन्ध्यारुणतारकोपमाः॥२१॥



‘वियत्पृथिव्योः कियदन्तरं भवेत्’ इति प्रमातुं प्रथमेन वेधसा।

प्रसार्यमाणा इव मानरज्जवः पतन्ति धाराः परितः पयोमुचाम्॥२२॥



इयं चकोराक्षि ! पयोदमालिका प्रकामवाचाटबकोटमण्डली।

उपात्तशङ्खा स्फुटमिक्षुधन्वनः प्रयाणमुद्घोषयतीव दिङ्मुखे॥२३॥



वकावलीविभ्रमकण्ठकम्बवो वितीर्णशक्रायुधचित्रकम्बलाः।

नमन्ति शैलेषु नवाभ्रकुञ्जरास्तटाभिघातार्थमिवोढगर्जिताः॥२४॥



क्षणप्रभाचम्पकदामभूषणा दिशः सुरेन्द्रायुधचारुशेखराः।

पयोदशृङ्गैर्नववारिगर्भितैः परस्पराभ्युक्षमिव प्रकुर्वते॥२५॥



विगाहमानस्य नभःस्थलीगृहं निदाधजिष्णोरृतुचक्रवर्तिनः।

घनेन बद्धा इव तोरणस्रजः सुरेन्द्रचापाः सुतरां चकासति॥२६॥



प्रकम्पितायां कठकाषलीलया दिगन्तभित्तौ स्तनयित्नुदन्तिना।

विशीर्यमाणा इव तारकागणाः पलाण्डुभासः करकाः पतन्त्यमूः॥२७॥



पयःप्रवाहैः सममेव वारिदः परं समादाय महापयोनिधेः।

पुनर्विभक्ता इव मौक्तिकोत्कराः स्फुरन्ति वर्षोपलशर्कराः क्षितौ॥२८॥



यथा यथा वृष्टिभिरभ्रमण्डले विजृम्भते वैद्युतहव्यवाहनः।

तथा तथा पान्थमृगीदृशां ध्रुवं विजृम्भते चेतसि मन्मथानलः॥२९॥



निदाघतापज्वलिता वनस्थली प्रसारयन्ति स्फुटकन्दलीकरम्।

मयूरकेकाविरुतैर्मनोहरैः पयोदमभ्यर्थयतीव जीवनम्॥३०॥



विनिद्रकान्तारविनम्रवाटिकाप्रसूनकिञ्जल्कपरागवाहिनः।

हरन्ति मन्दाः पवमानकन्दलाः शिखण्डिनां ताण्डवजं परिश्रमम्॥३१॥



विशङ्कटामम्बरराजवीथिकां वलाहकानामटतामितस्ततः।

प्रतायमाना इव पादपांसवः पतन्ति मन्दं परितः पयःकणाः॥३२॥



विघुष्यमाणे तडिताऽभ्रमंडले विधाय साक्ष्ये नववैद्युतानलम्।

ऋतुः पुरोधास्तटिनीसमुद्रयोः प्रवर्तयत्यूर्मिकरग्रहोत्सवम्॥३३॥



अनेन कालेन विनाऽमृतद्रवैर्निकाममापादितसर्वसम्पदा।

अशेषतो भूरपि सर्वथा भजेदपुत्रिणीनामधिदेवतापदम्॥३४॥



इति प्रशंसामुखरे सकौतुकं स्ववृत्तिमुद्दिश्य नरेन्द्रनन्दने !

उपोढलज्जा इव दिङ्मुखान्तरे तिरोबभूवुः सकलाः पयोधराः॥३५॥



दिगङ्गनावर्णघृतानुलेपनं सितच्छदस्वैविहारवीथिका।

सरोजिनीयौवनविभ्रमोदयः समाविरासीत् समयोऽथ शारदः॥३६॥



तडित्प्रियायाः सविलाससम्पदो बलाकिकायाश्च विशुद्धजन्मनः।

वियोगदुःखादिव मौनमुद्रिताः प्रपेदिरे पाण्डरतां पयोधराः॥३७॥



कदर्थितात्मीयगुणप्रकाशने क्षयं प्रपन्ने सति वारिदागमे।

प्रमोदहासा इव दिङ्मृगीदृशां समुद्बभूवुः कलहंसमण्डलाः॥३८॥



सितच्छदानां श्रवणार्तिकारणं निशम्य कोलाहलमुत्कचेतसाम्।

वियोगभाजस्तरुणीजना भृशं निनिन्दुरन्तःकरणेन भार्गवम्॥३९॥



अनन्तरत्नाकरफेनमण्डलैरनङ्गकीर्तिस्तबकभ्रमावहैः।

मरालवृन्दैर्वलमानपक्षकैरपूरि सर्वं हरिदन्तकन्दरम्॥४०॥



विकासिनां सप्तपलाशभूरुहां विजृम्भमाणाः परितो रजोभराः।

हरिन्मुखानामधिवासचूर्णंकभ्रमं वितेनुः प्रथमानसौरभाः॥४१॥



प्रवर्त्यमाने प्रमदैर्मदावलैः समुल्वणे दानजलाभिवर्षणे।

गतेऽपि वर्षासमये महापगा बभूवुरत्यन्तविवृद्धजीवनाः॥४२॥



कलाधिनाथः करजालमुज्ज्वलं प्रसारयामास हरित्सु निर्भरम्।

चिरोत्सुकानां कुमुदाकरश्रियां दृढाङ्गपालीमिव कर्तुमुन्मनाः॥४३॥



वितायमानैः स्मितचन्द्रिकाभरैस्तरङ्गिताः क्षोमविशेषपाण्डरैः।

विलज्जमाना द्विजराजदर्शनाद् धृतावगुण्ठा इव दिग्वधूटिकाः॥४४॥



पतङ्गदावानललङ्घितात्मनां तमस्तमालद्रुमषण्डसम्पदाम्।

मरुत्प्रकीर्णा इव भस्मधूलयः शशङ्किरे शारदमेघपंक्तयः॥४५॥



विसृत्वरैः शारदिकैः पयोधरैर्विडम्बयामास विकीर्णमम्बरम्।

तरङ्गभङ्गैः कलशाम्भसां निधेर्युगान्तभिन्नैर्लवणोदधेर्द्युतिम्॥४६॥



कृताभिषेकाः प्रथमं घनाम्बुभिघृतोत्तरीयाः शरदभ्रसञ्चयैः।

विलिप्तगात्र्यः शशिरश्मिचन्दनैर्दिशो दधुस्तारकहारयष्टिकाम्॥४७॥



कृताप्लवानामचिरेण वारिदैर्दिशावधूनां रुचिराम्बरत्विषाम्।

शरीरलग्ना इव तोयविप्रुषश्चकाशिरे सातिशयेन तारकाः॥४८॥



विकासिनश्चन्द्रकरोपलालनाद् विरेजिरे कैरवकोशराशयः।

शरत्प्रसन्नेषु तडाकवारिषु प्रविष्टबिम्बा इव तारकागणाः॥४९॥



विकस्वरा व्यञ्जितकण्टकांकुरा विमुक्तमाध्वीकमुदश्रुबिन्दवः।

सरोजषण्डाः शरदं समागताः विलोक्य विस्मेरमुखा इवाबभुः॥५०॥



विकासभाजामभितः सरोरुहां विलीयमानैर्मकन्दनिर्झरैः।

अगाधतां प्रापुरतीव पूरिताः शरत्कृशा अप्यखिलाः सरोवराः॥५१॥



विपक्वपुण्ड्रेक्षुपरुमुखच्युतैर्निरन्तरा मौक्तिकसारसञ्चयैः।

उदारकैदारककुल्यकातटाः प्रपेदिरे ताम्रनदीतटोपमाम्॥५२॥



विपाकभूम्नाऽभिविदीर्णदाडिमीफलप्रकीर्णैर्नवबीजबालकैः।

करम्बिताः काननभूमयो बभुः पुनः समुद्यत्सुरगोपका इव॥५३॥



आनन्दपाकोदयशालिभिः फलैरवाङ्मुखीनाः कलमा ललक्षिरे।

उपस्थितामात्मविनाशविक्रियां विचिन्त्य शोकावनता इवाधिकम्॥५४॥



विकीर्णपङ्काङ्कितशृङ्गकोटयः खुरार्धचन्द्रक्षयकूलभूमयः।

मुहुर्नदन्तो वृषभा मदोद्धतास्तटाभिघातं सरितां वितेनिरे॥५५॥



अत्रान्तरे राजकुमारमेनमाहूय पृथ्वीपतिराबभाषे।

अयं जनः पुत्र ! तवास्त्रशिक्षाविलोकनं प्रत्यभिवाञ्छतीति॥५६॥



श्रुत्वा तु तत्सूर्यकुलावतंसः प्रत्युज्जगाद प्रथमं नृपाणाम्।

आलोक्यतां तात ! ममास्त्रशिक्षा प्राप्ते दिने सप्तमसङ्ख्ययेति॥५७॥



अथागते सप्तमवासरान्ते प्रजापतिर्बन्धुजनेन सार्धम्।

तस्यास्त्रशिक्षाप्रविलोकनार्थम् अध्यास्त भद्रासनमन्तरेण॥५८॥



एकेन बाणासनमाततज्यम्, अन्येन हस्ताम्बुरुहेण बाणम्।

समाददानः स पिनद्धमूर्तिरग्रे गुरोराविरभूत् कुमारः॥५९॥



किं पुष्पधन्वा प्रतिमब्धमूर्तिः, किं वाऽवतीर्णो मधवान् सधन्वा !

एवंविधा प्रादुरभूत् प्रजानां विकल्पना विस्मितमानसानाम्॥६०॥



अदृष्टपूर्वामतिलोकशिल्पाम् अत्यद्भुतामप्रतिमप्रभावः।

बहुप्रकारां पितुरस्त्रशिक्षां सन्दर्शयामास स वीरवर्यः॥६१॥



दृष्ट्वाऽस्त्रशिक्षां जगदेकबन्धोरभूतपूर्वामवनीतलेषु।

आत्मानमाखण्डलतुल्यधामा विशामधीशो बहु मन्यते स्म॥६२॥



इत्थं धीरो दर्शयित्वाऽस्त्रशिक्षां

धानुष्काणामग्रगण्यस्तरस्वी।

आगोपालं स्तूयमानापदानो

लोकैरुच्चैराससादात्मगेहम्॥६३॥



सङ्गीतमङ्गलमहोत्सवसङ्गिनीभिः

साकं वधूभिरनुरागतरङ्गिताभिः।

क्रीडागृहेषु विहरन् क्षितिपालसूनु-

र्वर्षाणि कानिचिदसौ क्षपयाञ्चकार॥६४॥



इति बुद्धघोषविरचिते पद्यचूडामणिनाम्नि महाकाव्ये पञ्चमः सर्गः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project