Digital Sanskrit Buddhist Canon

तृतीयः सर्गः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Tṛtīyaḥ sargaḥ

तृतीयः सर्गः



दौहृदलिङ्गाधानम्



अथोदयं शाक्यमहीपतीनामानन्दमालीजनलोचनानाम्।

आश्वासनं सज्जनमानसानामाधत्त सा दौहृदलिङ्गमार्या॥१॥



विवर्धमानेन च मध्यमेन श्यामायमानेन च चूचुकेन।

गर्भोदयोऽभूदलसेक्षणायास्तस्याः सखोनामनुमानगम्यः॥२॥



महामुनीनामपि माननीये गर्भत्वमातस्थुषि बोधिसत्त्वे।

मध्यस्तदीयो मनसोऽपि सूक्ष्मः प्रियादिव स्फीततरो बभूव॥३॥



यथा यथा वृद्धिमवाप तस्या मध्यं महिष्या महनीयमूर्त्तेः।

तथा तथा वृद्धिमवाप गात्रमपुत्रताशोककृशस्य भर्त्तुः॥४॥



स्तनद्वयस्याग्रमभूद् विवर्णं साकं सपत्नीवदनेन तस्याः।

किञ्चाननं गर्भभरालसायाः कीर्त्त्या समं पाण्डुरमास भर्त्तुः॥५॥



अन्तर्गतस्याद्भुतविक्रमस्य विश्वत्रयीविस्मयनीयमूर्त्ते।

प्रतापवह्नेरिव धूपजालैस्तस्याः स्तनः श्याममुखो बभूव॥६॥



तस्याः स्तनद्वन्द्वमनिन्दिताङ्ग्याः श्यामं शिखायामवशेषपाण्डु।

तटाभिघाताहितपङ्कमुद्रामाधत्त नागाधिपकुम्भलक्ष्मीम्॥७॥



वृद्धा वितेनुर्विविधौषधीभिः पुत्रस्य रक्षामुदरस्थितस्य।

सैव स्मरोपद्रवपीडितानां बभूव रक्षा भुवनत्रयाणाम्॥८॥



पुण्ये मुहूर्ते पुंरुहूतलक्ष्मीः कुलानुरूपं गुरुगर्भवत्याः।

यथाक्रमं पुंसवनादि कृत्यं निर्वर्तयामास नृपो महिष्याः॥९॥



प्रभातवेलेव सहस्रभानुं प्रदोषलक्ष्मीरिव शीतरश्मिम्।

भद्रे मुहूर्ते नृपधर्मपत्नी प्रासूत पुत्रं भुवनैकनेत्रम्॥१०॥



तत्रान्तरे तामरसैरुदारैरुदञ्चितैरञ्चितपञ्चवर्णैः।

सञ्छादिता तस्य विहारहेतोः कृतोपहारेव बभूव पृथ्वी॥११॥



शाखासु शाखासु समुद्भवद्भिविचित्रपत्रैः शतपत्रजातैः।

चकाशिरे तस्य विलोकनाय सञ्जातनेत्रा इव शाखिनोऽपि॥१२॥



अस्माकमुत्पत्तिरिवात्र भूमौ बुद्धाङ्कुराणामपि दुर्लभेति।

सन्दर्शनायेव शरीरभाजां नालीकमासीन्नभसः स्थलेऽपि॥१३॥



अस्योपदेशादखिलोऽपि सत्यं निर्वाणमभ्येष्यति जीवलोकः।

किमस्मदभ्युज्ज्वलनैरतीव निर्वाणमीयुर्निरयाग्नयोऽपि॥१४॥



महात्मनस्तस्य महीध्रपातगुरूणि पादाक्रमणानि सोढुम्।

अपारयन्तीव भृशं चकम्पे विश्वम्भरा विश्लथशैलबन्धा॥१५॥



तालप्रमाणाः सहसा धरित्रीं भित्त्वा समुत्तस्थुरुदप्रवाहाः॥

पुण्यात्मनस्तस्य नमस्क्रियार्थं भुजङ्गलोका इव शेषवश्याः॥१६॥



अमुष्य सर्वत्र वितायमानैराकाशङ्गासलिलावदातैः।

यशःप्रवाहैरिव लिप्यमाना दिशः समस्ताः विशदीबभूवुः॥१७॥



‘जातः पृथिव्यामधिपो मुनीनाम्’ इति ब्रुवाणा इव विष्टपानाम्।

मङ्गल्यशङ्खानकमर्दलाद्यवाद्यप्रभेदाः स्वयमेव रेणुः॥१८॥



महानुभावस्य महाभिषेकसम्भावनां कर्तुमिव प्रवृत्ताः।

व्यतीत्य वेलां सकलाः समुद्राः प्रचेलुरभ्युच्छ्रितवीचिहस्याः॥१९॥



चचाल मेरोरचलाभिधानं चस्खाल सिन्धोर्लवणोदवार्ता।

आख्या स्रवन्तीत्यगलत्स्रवन्त्यास्थिरेति भूमेरभिधा व्यरंसीत्॥२०॥



ववर्ष वर्षासमयं विनापि वलाहको वारिधिधीरघोषः।

आश्चर्यकर्माणि बभूवुरित्थं जाते सतामग्रसरे कुमारे॥२१॥



आस्फालितानेकमृदङ्गघोषवाचालिताशान्तदरीमुखाणाम्।

आनन्दनृत्तभ्रमिघूर्णमानवसुन्धरान्दोलितभूधराणाम्॥२२॥



अन्योन्यसम्मर्दविशीर्णहारमुक्तावलीतारकितस्थलीनाम्।

प्रक्षिप्तपिष्टातकपांसुमुष्टिशृङ्गारिताशेषदिगन्तराणाम्॥२३॥



परस्पराक्षिप्तविभूषणानां पर्यस्तचूडामणिशेखराणाम्।

एकालयस्येव जगत्त्रयाणां बभूव तज्जन्ममहोत्सवश्रीः॥२४॥



प्रत्यग्रगर्भच्छविपाटलेन सुतेन माता सुतरां चकाशे।

नव्योदयालोहितविग्रहेण वेलेव बालेन सुधाकरेण॥२५॥



प्रतप्तचामीकरभास्वरेण प्रसर्पता तस्य शरीरभासा।

प्रसूतिकागर्भगृहप्रदीपाः प्रत्यूषताराप्रतिमा बभूवुः॥२६॥



अत्यद्भुतामात्मजजन्मवार्तां श्रृण्वन् स शुद्धान्तजनान्नरेन्द्रः।

आनन्दमूर्च्छाकुलचित्तवृत्तिः कर्तव्यमूढः स्तिमितो बभूव॥२७॥



पदार्थमेतत्प्रियदानयोग्यमदृष्टवान् स त्रिषु विष्टपेषु।

सर्वस्वदानेन तथापि राजा सम्भावयामास तमत्युदारः॥२८॥



भद्रे मुहूर्ते स पतिः प्रजानां ददर्श देव्याः स्तिमितायताक्षः।

कुमारमुत्सङ्गतले शयानं तटे तटिन्या इव हंसशावम्॥२९॥



अश्रान्ततृष्णेन विलोचनेन मुखेन्दुमास्वादयतः स्वसूनोः।

आसीत् पितुः कण्टकिताङ्गयष्टेरानन्दबाष्पप्रसरो निरोधः॥३०॥



स्तनन्धयस्याननचन्द्रबिम्बममन्दसौन्दर्यसुधानिधानम्।

निपीय नेत्राञ्जलिना नितान्तं नृपाधिपो निर्वृतिमाससाद॥३१॥



स जातकर्मादिकमत्युदारं सूनोः समापय्य पुरोहितेन।

'सिद्धार्थ' इत्यस्य जगत्प्रशस्यामनन्ययोग्यामकरोदभिख्याम्॥३२॥



नवाम्बुवाहेन नभःस्थलीव नव्येन तारापतिना निशेव।

मृगेन्द्रशावेन महाटवीव विभूषिता सन्ततिरास तेन॥३३॥



अव्यक्तवर्णाभिरमुष्य वाग्भिर्यथा नृपः प्रीतमना बभूव।

तथा न गानैरपि गायकानां महाकवीनामपि वाग्विलासैः॥३४॥



निसर्गसौरभ्यनितान्तहृद्यं तस्याननं तादृशसौकुमार्यम्।

बभूव सामान्यमयातयामं लीलाब्जमन्तःपुरसुन्दरीणाम्॥३५॥



मनोऽभिरामैर्मणिकिङ्कणीनां मातुर्मुदं मांसलयन्निनादैः।

आत्मीयबिम्बानुनयाभिमानश्चिक्रीड सूनुर्मणिमेदिनीषु॥३६॥



आतन्वता पांसुविहारमाप्तैरमात्यपुत्रैः सह बालकेन।

संग्रामभूधूलिषु भाविनीषु स्वैरं विहर्तुं विहितेव योग्या॥३७॥



स धीरमन्तःपुरसिंहशावैः संक्रीडमानः सह राजसूनुः।

अत्यद्भुतस्यात्मपराक्रमस्य शिक्षामिवैषां चिरमन्वतिष्ठत्॥३८॥



अनुप्रवृत्तान्मणिघण्टिकानामारावहर्षाद् गृहराजहंसान्।

तताट पादेन तदीयराजशब्दासहिष्णुः किल तान् कुमारः॥३९॥



नखांकुशाघातविधूतमूर्धा मुखारवप्रस्रुतवृंहितश्रीः।

मङ्गल्यनिर्वृत्तमदाम्बुरेखो बालो वितेने मदहस्तिलीलाम्॥४०॥



अभ्युल्लसच्चम्पकदामदीप्तिरालोकसम्भावितजीवलोकः।

स दारको दीप इव प्रदीप्तः शोकान्धकारं विनिनाय पित्रोः॥४१॥



कृतोपवीतं गलितातिबाल्यं समस्तविद्यापरिशीलनाय।

तमर्पयामास कुमारवर्यमाचार्यहस्तेषु पतिः पृथिव्याः॥४२॥



स देशिकेन्द्रैरुपदिश्यमाना विद्याः समस्ताः सकलाः कलाश्च।

जग्राह मेधावितयाऽचिरेण वर्षाघनो वारिनिधेरवाप॥४३॥



अनन्यसामान्यधियं कुमारमासाद्य विद्याः सुतरां विरेजुः।

शरत्प्रसन्नं गगनावकाशं ताराधिपस्येव मयूखमालाः॥४४॥



नितान्तमानन्दयता प्रजानां मनांसि सद्यो हरता तमांसि।

चन्द्रोदयेनेव महासमुद्रः शाक्यान्वयस्तेन समुल्ललास॥४५॥



प्रभेव भानोः प्रतिभेव सूरेः शिखेव दीपस्य दयेव साधोः।

ज्योत्स्नेव चन्द्रस्य सुधेव सिन्धोस्तस्योदिताऽऽसीन्नवयौवनश्रीः॥४६॥



आरोप्य तारुण्यविशेषशाणं रौषाणितानीव मनोभवेन।

अङ्गान्यभिव्यञ्जितलक्षणानि विभक्तसन्धीनि बभूवुरस्य॥४७॥



तस्यांध्रियुग्मं सहजाभिरूप्यं रेखासहस्राररथाङ्गचिह्नम्।

नव्यानि नालीकवनानि नूनं नखप्रभचन्द्रिकया जहास॥४८॥



वलित्रयालंकृतिदर्शनीयविलग्नभागो नरपालसूनुः।

मन्थाचलो वासुकिभोगवेष्टः लेखोल्लसन्मध्य इवालुलोके॥४९॥



गुणैः समस्तै सह राजसूनोर्नितम्बबिम्वः प्रथिमानमाप।

दोषैरशेषैः सममेव तस्य मध्यप्रदेशः कृशतामयासीत्॥५०॥



नाभिह्रदस्तस्य नरेन्द्रसूनो रोमावलीकेतननीलयष्टिम्।

निखातुकामेन मनोभावेन निर्वर्तितो गर्त इवाबभासे॥५१॥



श्रियः सरोजान्तरदुःस्थिताया विशृङ्खलं दातुमिवावकाशम्।

पुण्यात्मनस्तस्य भुजान्तरालं बभूव विन्ध्याद्रिशिलाविशालम्॥५२॥



शूरस्य तस्य क्षितिपालसूनोर्वृक्षःकवाटे सति वज्रसारे।

चक्रुः कवाटं सदनेषु सत्त्वा विभूषणार्थं न तु रक्षणार्थम्॥५३॥



भुजो भुजङ्गाधिपभोगदीर्घस्तस्य प्रजापालनपण्डितस्य।

अक्षेपणीयः प्रतिभूपतीनां त्रैलोक्यरक्षापरिघो बभूव॥५४॥



रेखाभिरत्यन्तपरिस्फुटाभिस्तत्कन्धरा बन्धुरसन्निवेशा।

गाढादरालिङ्गितकान्तिलक्ष्मीकेयूरमुद्राभिरिवावबभासे॥५५॥



मुग्धस्य तस्यास मुखाम्बुजस्य महोत्पलस्यापि महान् विशेषः।

वाणिमलोलां वहति स्म पूर्वं स्वभावलोलामितरतु लक्ष्मीम्॥५६॥



वाण्या वरेण्यस्य मुखे वसन्त्या मञ्जीरशिञ्जानमिवास सूक्तम्।

नखप्रभेव स्मितचन्द्रिकाऽऽसीन्मुक्ताक्षमालेव च दन्तपंक्तिः॥५७॥



तदाननाम्भोरुहकान्तिलक्ष्म्यास्तद्गण्डभित्तिर्मणिदर्पणश्रीः।

तत्कर्णपाशश्च विलासडोला तदीक्षणं विभ्रमदीर्धिकाऽऽसीत्॥५८॥



भ्रूवल्लरी तस्य मनोज्ञमूर्त्तेस्तारांशुलीढोभयकोटिभागा।

कोदण्डलीलेव विजित्य मारादात्मीकृतारोपितभृङ्गमौवी॥५९॥



प्रसन्नमूर्णावलयाभिरामं ज्योतिर्मयं तस्य मुखारबिन्दम्।

भूयिष्ठमन्तर्गतचन्द्रलेखां बालार्कबिम्बश्रियमाततान॥६०॥



ऊर्णाभिरामा नरपालसूनोर्निटालभूमिर्नितरां चकाशे।

वप्रक्रियाभग्ननिलीनदन्तिदन्तांकुरा मेरुशिलातटीव॥६१॥



विनाङ्गरागेण विनाङ्गदेन विनावतंसेन विना स्रजाऽपि।

आविष्कृतासेचनकालमासीदङ्गः तदीयं नवयौवनेन॥६२॥



आनन्दयित्री हरिणेक्षणानामदुष्टिपूर्वा पुरुषान्तरेषु।

निर्व्याजभूषा निखिलाङ्गयष्टेस्तस्योदितासीत् समुदायशोभा॥६३॥



विश्वम्भरावलयधारणयोग्यबाहोः

सूनोर्नृपः सुरपतिप्रतिमस्वभावः।

माणिक्यकुम्भभरितैर्मणिमन्त्रपूतै-

स्तीर्थैश्चकार युवराजपदाभिषेकम्॥६४॥



इति बुद्धघोषविरचिते पद्यचूडामणिनाम्नि महाकाव्ये तृतीयः सर्गः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project