Digital Sanskrit Buddhist Canon

यशोधराचरितम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Yaśodharācaritam

यशोधराचरितम्

श्री सिद्धार्थः कपिलनगरे बोधिसत्त्वः सपुत्रां
देवीं त्यक्त्वा सकलविभवं चक्रवर्तिश्रियं च।
मास्य् आषाढे विरतमनसा पूर्णिमायां निशीथे
निश्चक्राम श्रमणपदभृन् मोक्षम् अन्वेष्टुकामः॥१॥

अथ प्रभाते शयनात् समुत्थिता
सुतेन सार्धं महिषी यशोधरा।
दिदृक्षया स्वामिवरस्य सत्वरं
गताविदूरे शयनीयमन्दिरम्॥२॥

यथा पुरे वञ्चयितुं स मे पती
रहोगतः कुत्र चिद् एव गूढवान्।
विचिन्त्य सौधे ऽन्तरबाहिरं भृशं
परीक्ष्यमाणापि ददर्श नैव तम्॥३॥

दधाव तस्मात् सचिवस्य मन्दिरं
गवाक्षम् उद्घाट्य द्रुतं द्रुतं शुचा।
कपाटम् आहत्य दृढं मुहुर् मुहुर्
व्यरीरवच् छन्न भवन् भवन्न् इति॥४॥

अपेक्ष्य किं चित् क्वणम् अन्तराद् गृहे
व्यतिष्ठताल्पं प्रतिहारसन्निधौ।
विचारभङ्गाच् छ्वसती च पाणिना
प्रताडयाम् आस कपोलयुग्मकम्॥५॥

ततो गता सा नृपमन्दुरालयं
तुरङ्गमं नात्र ददर्श कन्थकम्।
कुतो ययौ किं रहसा स वल्लभो
वितर्कयन्तीति बभूव मूर्छिता॥६॥

विचिन्त्य यत् किं चिद् इतस् ततः शिरश्
चचाल जघ्रौ च मुखे सुतस्य सा।
भुजातपत्रेण विलोचनद्वयान्
न्यवारयत् सा स्रवदश्रुशीकरम्॥७॥

अशक्नुवन्ती नितरां समुद्गमां
मनोव्यथां सोढुम् उदग्रमन्युना।
पतिप्रदत्तं मणिकण्ठभूषणं
प्रवालमालाम् अपि कुण्डलद्वयम्॥८॥

ललाटिकां हेममयाङ्गुलीयकं
हिरण्यसूत्रेण निबद्धमेखलाम्।
विमुच्य शीर्षाभरणं च कङ्कणे
ससर्ज धिग् धिग् वदती ससम्भ्रमम्॥९॥

अतीतडत् पादतलेन भूतलं
जजृम्भ ऊर्ध्वं विचकर्ष मूर्धजम्।
जजल्प वाक्यं विगतार्थम् आकुलं
रुराव भीतेव रुरोद गद्गदम्॥१०॥

निवेश्य बालं शयने पुनः पुनः
समुत्क्षिपन्ती युगपत् करद्वयम्।
विकम्प्य शीर्षं च यथा विचेतना
जुघोष शश्वास पपात विव्यथे॥११॥

निपीड्यमानापि बुभुक्षयानिशं
न भोजनं भोक्तुम् इयेष किं चन।
तृषातुरा नोदकबिन्दुम् अप्य् असौ
पपौ च काये ऽप्य् बभूव वेपथुः॥१२॥

निहन्यते धीस्मृतिशक्तिधीरता
शरीरवर्णं बलम् इन्द्रियेष्व् अपि।
विनश्यते जीवम् अनुक्रमेण च
दुरन्ततेयं प्रियविप्रयोगता॥१३॥

निषद्य भूम्यां विनतार्धविग्रहा
शिरश् च पाणिद्वयम् अङ्कमस्तके।
निवेश्य किं चित् परिणम्य कंधरं
ममज्ज चिन्ताजलधाव् अपाश्रये॥१४॥

यशोधराया अवमाननक्रिया
असह्य सिद्धार्थकुमार एककः।
निवासम् उत्सृज्य गतो नु काननम्
इति प्रवादो ऽपि भवेद् अहो मम॥१५॥

यद् अस्ति कार्यं त्रिषु मन्दिरेषु तच्
चकार कार्य- क्षमसेविका यथा।
गतौ स्थितौ वा शयने च विप्रियं
कदा चनाहं न चकार किं चन॥ १६॥

विचिन्तयन्ती सहसागतापदं
प्रगम्य देवायतनं प्रियं प्रति।
सुगन्धिपुस्पैर् अपि धूमदीपकैर्
अपूपुजद् देवगणं सगौरवम्॥१७॥

भुजद्वयं मूर्ध्नि निवेश्य शोकिनी
विलोक्य देवप्रतिमाननश्रियम्।
प्रणम्य भक्त्या परिशुद्धचेतसा
ययाच देवान् इति विप्रयोगतः॥१८॥

त्रिलोकसर्गस्थितिनाशहेतवः
चतुर्मुखश्रीपतिचन्द्रशेखराः।
महानुभावा जगदीश्वराः सुराः
सुदुःखितायै शरणं भवन्तु मे॥१९॥

विधाय याच्ञाम् इति देवहस्तयोर्
उपायनीकृत्य बबन्ध कार्षिकौ।
उपाहरन् मिष्टनवाम्बुपायसं
सितांशुकं स्वर्णमयीं च पुत्रिकाम्॥२०॥

प्रमोदम् आपादयितुं सुरेश्वरांश्
चकार घण्टानिनदं च भूसुरान्।
अजीजपद् देवगिरा च संस्तवान्
ननाम भूमाव् असकृत् निपत्य सा॥२१॥

पुरे वने संवसथे ऽपि वल्लभो
वसेद् धि कस्मिन्न् इति दिव्याचक्षुषा।
विलोक्य गेहं विनिवर्तयन्तु तं
दिवौकसः प्रार्थयतैव सा पुनः॥२२॥

निरीक्ष्य जिह्मानिमिषेण चक्षुषा
निहत्य गाढं चरणं भुवस् तले।
मुहुर् मुहुर् दंशितकोमलाधरा
प्रकर्षम् उत्क्षिप्य विकम्प्य तर्जनीम्॥२३॥

अरे-त्वयार्यस्य गृहाभिनिष्क्रमः
श्रुतो न दृष्टः वद किं निराकुलम्।
इति प्रतीहारभटं रुषोच्चकै
रवेण पप्रच्छ सबाष्पलोचना॥२४॥

भवान् स आर्ये नृपवंशशेखरो
मया न दृष्टः प्रतिहारम् आगतः।
वराङ्गनाभिः सह केलिकानने
गते निशीथे ऽरमतेति मे श्रुतम्॥२५॥

अवीतरागो ननु राजनन्दनो
ववाञ्छ तस्मान् ननु नूतनप्रियाम्।
मिथः स कां चित् परिणीय नाटिकां
बहिर् गतो ऽद्धेति वितर्कयाम्य् अहम्॥२६॥

पुरा हि मन्धात्व्-अभिधो महायशाः
स सार्वभौमो ऽपि सुराङ्गनागणे।
कृतानुरागो परिवर्ज्य मानुषीं
श्रियं प्रपेदे नु दिवौकसां पुरम्॥२७॥

मनो-ऽभिरामं सुरसुन्दरीगणं
विहाय विन्ध्या-वनतापसाश्रमे।
अगस्तिपत्नीं परिरभ्य तापसीं
ललास रन्तुं निशि पाकशासनः॥२८॥

प्रतीत-लङ्काविजिते ऽग्रभूपतिर्
दशाननो दण्डककाननं गतः।
विगृह्य सीतां जनकात्मजाम् अपि
निजप्रियावद् व्यदधात् तदात्मसात्॥२९॥

महेश्वरश् चापि पुरा तपश् चरन्न्
उमामहिष्या सह कलिकानने।
अपास्य सातत्यसमाधिभावनं
व्यरीरमच् चाजनयत् सुतौ ननु॥३०॥

शुचाकुलां सान्त्वयितुं वधूत्तमाम्
इति प्रतीहार उरः-स्थले ऽञ्जलिम्।
विधाय वल्गुध्वनिनानुकम्पया
नतेन मूर्ध्ना वचसा व्यजिज्ञपत्॥३१॥

अरे-त्वम् एतर्हि भवन्तम् उत्तमं
गृहे बहिर् वोपवने ऽपि कुत्र चित्।
अहर्मुखे किं निशि वा ददर्शिथ
व्यपृच्छद् इत्थं निजसेविकां रुषा॥३२॥

निधाय वामेतरजानुमण्डलं
क्षितौ भुजौ चापि ललाटमस्तके।
नतार्धकायं निजगाद सेविका
श्रुतं च दृष्टं न न वेद्मि किं चन॥३३॥

अतः-परं हर्म्यम् उपेयुषी सती
प्रमार्ज्य निस्यन्दजलं विलोचने।
अरे-किम् आर्यो ऽत्र समागतो न वा
व्यपृच्छद् अन्तःपुरपालपण्डकम्॥३४॥

प्रशस्यरूपेण गिरा च वल्गुना
श्रिया ऽपि धृत्या तव कक्षम् आगताः।
महोत्तमे सर्वजनेन मानिता
भवन्ति तस्य त्रितयाः प्रियाङ्गनाः॥३५॥

मनो-ऽभिरामा भवती च भारती
तथैव लक्ष्मीर् इति ताः प्रियाङ्गनाः।
सदैव ताभी रमते कुमारकः
कदा चिद् अन्यत्र मनो ऽस्य नो रजेत्॥३६॥

जुगुप्सिते सत्पुरुषैर् मनस्विभिः
सदोषकामे विमुखो नु ते पतिः।
ततो ऽस्य शुद्धान्तगतिः कदा चन
श्रुता न दृष्टा न दिवा वा निशि॥३७॥

तपोधनानां समताम् उपेयिवान्
रतिं न कुर्यात् स भवत्रये क्व चित्।
अमेध्यगेहेन समे ऽवरोधने
कथं विधत्ते रतिम् एष ते पतिः॥३८॥

असाध्यरोगायतने सुखेतरे
बुभुक्षया नित्यनिपीडितोदरे।
अतर्पणीये विविधान्नपानकैः
स्पृहां न देहे प्रकरोति पण्डितः॥३९॥

विकीर्णघर्मोदकविप्रुषि त्वचि
विचित्रवर्णं शमलेन संस्कृते।
शरीर आलोक्य जनो विनश्यते
पतङ्गवद् दीपशिखोज्ज्वलप्रभाम्॥४०॥

ततो नृपान्तः-पुरपालकोदिते
कृतावधाना वचने यशोधरा।
दिवौकसां नन्दनकाननोपमं
जगाम राजोपवनं चलात्मना॥४१॥

अथाभिरामोपवनस्य रक्षकः
पुरः प्रगम्योरसि बद्धपाणिना।
किमर्थम् आर्ये ऽत्र समागतिस् तव
भवामि जिज्ञासुर् इति न्यवेदयत्॥४२॥

सखे ममार्यो रहसारुणोदये
समागतो वात्र न किं समागतः।
किम् अत्र दृष्टः स न वा श्रुतस् त्वया
विचिन्त्य सम्यग् वद मां यथातथम्॥४३॥

गतस्पृहः पञ्चसु कामवस्तुषु
स आर्यपुत्रो विजितेन्द्रियो भवेत्।
ततो ऽभिरामोपवनं समागमो
न दृष्ट आर्ये न हि वा श्रुतो मया॥४४॥

विधित्समानो ऽभ्युदयं जगत्त्रये
दिवौकसानाम् अधिगम्य याचनम्।
दिवो ऽवतीर्णो ननु पुण्यतेजसा
मनुष्यजन्मन्य् अजनिष्ट स प्रभुः॥४५॥

महामहे सत्य् असितर्षिर् ईयिवान्
दिवं किम् इत्य् अस्य विमृश्य कारणम्।
स्वमित्र-शुद्धोदनभूपतेः सुतो
ऽजनीति हर्षात् तम् अवेक्षितुं ययौ॥४६॥

ततो ऽसितर्षिर् नृपसौधम् आगतः
कुमारकं वीक्ष्य सपुण्यसम्पदम्।
अतीन्द्रियज्ञानमयेन चक्षुषा
परीक्षमाणो ऽस्य शरीरलक्षणम्॥४७॥

जगाद वाक्यं शिशुर् एष पुण्यवान्
भवेद् धि बुद्धो हत-मारबन्धनः।
प्रतारयेत् सर्वनरामरासुरान्
अपारसंसारमहार्णवाद् इति॥४८॥

द्विजेषु पञ्चस्व् अथ देहलक्षणं
परीक्ष्य कौण्डण्यबुधो ऽब्रवीद् इति।
विनश्य तृष्णादिमलान्य् अयं शिशुर्
अनुत्तरं बुद्धपदं गमिष्यति॥४९॥

तदा प्रसूतक्षण एव लुम्बिनी-
वने स सप्ताम्बुजमूर्ध्न्य् अभिव्रजन्।
अभीतनादं न्यनदज् जगत्त्रये
भवेयम् अग्रस् त्व् इति सिंहपोतवत्॥५०॥

भ्रमद्द्विरेफश्रुतिरम्यनिस्वनः
सुगन्धिनः पुष्पपरागराशिना।
तरंगिणीशीकरमिश्रमारुतो
ववौ समन्ताद् विपिने शनैः तदा॥५१॥

महात्मनस् तस्य परार्ध्यजन्मनि
वसुंधराया निधयः समुद्गताः।
धराङ्गना तर्ह्य् अतिमात्रमोदिता
सविस्मयां सिद्धिम् अदर्शयद् भुवि॥५२॥

ततः परं लुम्बिनिकाननाद् गृहं
विचित्रजाम्बूनदबिम्बसंनिभम्।
कुमारकं तौ पितरौ सवत्सलौ
सबन्धुवर्गं परिवार्य निन्यतुः॥५३॥

गुरुप्रदिष्टं विधिवद् गुरुप्रियः
समस्तविद्यासमयं च दर्शनम्।
भवे भवे संचितपुण्यतेजसा
समध्यगीष्टाचिरम् एष बुद्धिमा॥५४॥

श्रुतेन धृत्या नवयौवनश्रियम्
उपेयुषो ऽस्यार्य-सुतस्य जन्मनः।
सह त्वया षोडशमे हि हायने
विवाहदीक्षां विधिवच् चकार नु॥५५॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project