Digital Sanskrit Buddhist Canon

मारविजयो नाम त्रयोदशः सर्गः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Māravijayo nāma trayodaśaḥ sargaḥ
CANTO XIII



तस्मिन्विमोक्षाय कृतप्रतिज्ञे

राजर्षिवंशप्रभवे महर्षौ।

तत्रोपविष्टे प्रजहर्ष लोक-

स्तत्रास सद्धर्मरिपुस्तु मारः॥१॥



यं कामदेवं प्रवदन्ति लोके

चित्रायुधं पुष्पशरं तथैव।

कामप्रचाराधिपतिं तमेव

मोक्षद्विषं मारमुदाहरन्ति॥२॥



तस्यात्मजा विभ्रमहर्षदर्पा-

स्तिस्रोऽरतिप्रीतितृषश्च कन्याः।

पप्रच्छुरेनं मनसो विकारं

स तांश्च ताश्चैव वचोऽभ्युवाच॥३॥



असौ मुनिर्निश्चयवर्म बिभ्र-

त्सत्त्वायुधं बुद्धिशरं विकृष्य।

जिगीषुरास्ते विषयान्मदीया-

न्तस्मादयं मे मनसो विषादः॥४॥



यदि ह्यसौ मामभिभूय याति

लोकाय चाख्यात्यपवर्गमार्गम्।

शून्यस्ततोऽयं विषयो ममाद्य

वृत्ताच्च्युतस्येव विदेहभर्तुः॥५॥



तद्यावदेवैष न लब्धचक्षु-

र्मद्रोचरे तिष्ठति यावदेव।

यास्यामि तावद्‍व्रतमस्य भेत्तुं

सेतुं नदीवेग इवातिवृद्धः॥६॥



ततो धनुः पुष्पमयं गृहीत्वा

शरान् जगन्मोहकरांश्च पञ्च।

सोऽश्वत्थमूलं ससुतोऽभ्यगच्छ-

दस्वास्थ्यकारी मनसः प्रजानाम्॥७॥



अथ प्रशान्तं मुनिमासनस्थं

पारं तितीर्षु भवसागरस्य।

विषज्य सव्यं करमायुधाग्रे

क्रीडन् शरेणेदमुवाच मारः॥८॥



उत्तिष्ठ भोः क्षत्रिय मृत्युभीत

चर स्वधर्म त्यज मोक्षधर्मम्।

बाणैश्च यज्ञैश्च विनीय लोकं

लोकात्पदं प्राप्नुहि वासवस्य॥९॥



पन्था हि निर्यातुमयं यशस्यो

यो वाहितः पूर्वतमैर्नरेन्द्रैः।

जातस्य राजर्षिकुले विशाले

भैक्षाकमश्लाध्यमिदं प्रपत्तुम्॥१०॥



अथाद्य नोत्तिष्ठसि निश्चितात्मन्

भव स्थिरो मा विमुचः प्रतिज्ञाम्।

मयोद्यतो ह्येष शरः स एंव

यः शूर्पके मीनरिपौ विमुक्तः॥११॥



स्पृष्टः स चानेन कथंचिदैडः

सोमस्य नप्ताप्यभवद्विचित्तः।

स चाभवच्छन्तनुरस्वतन्त्रः

क्षीणे युगे किं बत दुर्बलोऽन्यः॥१२॥



तत्क्षिप्रमुत्तिष्ठ लभस्व संज्ञां

बाणो ह्ययं तिष्ठति लेलिहानः।

प्रियाविधेयेषु रतिप्रियेषु

यं चक्रवाकेष्विव नोत्सृजामि॥१३॥



इत्येवमुक्तोऽपि यदा निरास्थो

नैवासनं शाक्यमुनिर्बिभेद।

शरं ततोऽस्मै विससर्ज मारः

कन्याश्च कृत्वा पुरतः सुतांश्च॥१४॥



तस्मिंस्तु बाणेऽपि स विप्रमुक्ते

चकार नास्थां न धृतेश्चचाल।

दृष्ट्‍वा तथैनं विषसाद मार-

श्चिन्तापरीतश्च शनैर्जगाद॥१५॥



शैलेन्द्रपुत्रीं प्रति येन विद्धो

देवोऽपि शम्भुश्चलितो बभूव।

न चिन्तयत्येष तमेव बाणं

किं स्यादचित्तो न शरः स एषः॥१६॥



तस्मादयं नार्हति पुष्पबाणं

न हर्षणं नापि रतेर्नियोगम्।

अर्हत्ययं भूतगणैरसौम्यैः

संत्रासनातर्जनताडनानि॥१७॥



सस्मार मारश्च ततः स्वसैन्यं

विघ्नं शमे शाक्यमुनेश्चिकीर्षन्।

ननाश्रयाश्चानुचराः परीयुः

शलद्रुमप्रासगदासिहस्ताः॥१८॥



वराहमीनाश्वखरोष्ट्रवक्त्रा

व्याघ्रर्क्षसिंहद्विरदाननाश्च।

एकेक्षणा नैकमुखास्त्रिशीर्षा

लम्बोदराश्चैव पृषोदराश्च॥१९॥



अजानुसक्था घटजानवश्च

दंष्ट्रायुधाश्चैव नखायुधाश्च।

करङ्कवक्त्रा बहुमूर्तयश्च

भग्नार्धवक्त्राश्च महामुखाश्च॥२०॥



भस्मारुणा लोहितबिन्दुचित्राः

खट्वाङ्गहस्ता हरिधूम्रकेशाः।

लम्बस्रजो वारणलम्बकर्णा-

श्चर्माम्बराश्चैव निरम्बराश्च॥२१॥



श्वेतार्धवक्त्रा हरितार्धकाया-

स्ताम्राश्च ध्रूम्रा हरयोऽसिताश्च।

व्यालोत्तरासङ्गभुजास्तथैव

प्रघुष्टाघण्टाकुलमेखलाश्च॥२२॥



तालप्रमाणाश्च गृहीतशूला

दंष्ट्राकरालाश्च शिशुप्रमाणाः।

उरभ्रवक्त्राश्च विहंगमाक्षा

मार्जारवक्त्राश्च मनुष्यकायाः॥२३॥



प्रकीर्णकेशाः शिखिनोऽर्धमुण्डा

रक्ताम्बरा व्याकुलवेष्टनाश्च।

प्रहृष्टवक्त्रा भृकुटीमुखाश्च

तेजोहराश्चैव मनोहराश्च॥२४॥



केचिद्‍व्रजन्तो भृशमाववल्गु-

रन्योऽन्यमापुप्लुविरे तथान्ये।

चिक्रीडुराकाशगताश्च केचि-

त्केचिच्च चेरुस्तरुमस्तकेषु॥२५॥



ननर्त कश्चिद्‍भ्रमयंस्त्रिशूलं

कश्चिद्विपुष्फूर्ज गदां विकर्षन्।

हर्षेण कश्चिद्‍वृषवन्ननर्द

कश्चिचत्प्रजज्वाल तनूनरुहेभ्यः॥२६॥



एवंविधा भूतगणाः समन्ता-

त्तद्‍बोधिमूलं परिवार्य तस्थुः।

जिघृक्षवश्चैव जिघांसवश्च

भर्तुर्नियोगं परिपालयन्तः॥२७॥



तं प्रेक्ष्य मारस्य च पूर्वरात्रे

शाक्यर्षभस्यैव च युद्धकालम्।

न द्यौश्चकाशे पृथिवी चकम्पे

प्रजज्वलुश्चैव दिशः सशब्दाः॥२८॥



विष्वग्ववौ वायुरुदीर्णवेग-

स्तारा न रेजुर्न बभौ शशाङ्कः।

तमश्च भूयो विततान रात्रिः

सर्वे च संचुक्षुभिरे समुद्राः॥२९॥



महीभृतो धर्मपराश्च नागा

महामुनेर्विघ्नममृष्यमाणाः।

मारं प्रति क्रोधविवृत्तनेत्रा

निःशश्वसुश्चैव जजृम्भिरे च॥३०॥



शुद्धाधिवासा विबुधर्षयस्तु

सद्धर्मसिद्ध्यर्थमभिप्रवृत्ताः।

मारेऽनुकम्पां मनसा प्रचक्रु-

र्विरागभावात्तु न रोषमीयुः॥३१॥



तद्‍बोधिमूलं समवेक्ष्य कीर्ण

हिंसात्मना मारबलेन तेन।

धर्मात्मभिर्लोकविमोक्षकामै-

र्बभूव हाहाकृतमन्तरीक्षे॥३२॥



उपप्लवं धर्मविधेस्तु तस्य

दृष्ट्वा स्थितं मारबलं महर्षिः।

न चुक्षुभे नापि ययौ विकारं

मध्ये गवां सिंह इवोपविष्टः॥३३॥



मारस्ततो भूतचमूमुदीर्णा-

माज्ञापयामास भयाय तस्य।

स्वैः स्वैः प्रभावैरथ सास्य सेना

तद्धैर्यभेदाय मतिं चकार॥३४॥



केचिच्चलन्नैकविलम्बिजिव्हा-

स्तीक्ष्णाग्रदंष्ट्रा हरिमण्डलाक्षाः।

विदारितास्याः स्थिरशङ्कुकर्णाः

संत्रासयन्तः किल नाम तस्थुः॥३५॥



तेभ्यः स्थितेभ्यः स तथाविधेभ्यः

रूपेण भावेन च दारुणेभ्यः।

न विव्यथे नोद्विविजे महर्षिः

क्रीडत्सुबालेभ्य इवोद्धतेभ्यः॥३६॥



कश्चित्ततो रोषविवृत्तदृष्टि-

स्तस्मै गदामुद्यमयांचकार।

तस्तम्भ बाहुः सगदस्ततोऽस्य

पुरंदरस्येव पुर सवज्रः॥३७॥



केचित्समुद्यम्य शिलास्तरूंश्च

विषेहिरे नैव मुनौ विमोक्तुम्।

पेतुः सवृक्षाः सशिलास्तथैव

वज्रावभग्ना इव विन्ध्यपादाः॥३८॥



कैश्चित्समुत्पत्य नभो विमुक्ताः

शिलाश्च वृक्षाश्च परश्वधाश्च।

तस्थुर्नभयस्येव न चावपेतुः

संध्याभ्रपादा इव नैकवर्णाः॥३९॥



चिक्षेप तस्योपरि दीप्तमन्यः

कडङ्गरं पर्वतशृङ्गमात्रम्।

यन्मुक्तपात्रं गगनस्थमेव

तस्यानुभावाच्छतधा पफाल॥४०॥



कश्चिज्ज्वलन्नर्क इवोदितः खा-

दङ्गारवर्ष महदुत्ससर्ज।

चूर्णानि चामीकरकन्दराणां

कल्पात्यये मेरुरिव प्रदीप्तः॥४१॥



तद्‍बोधिमूले प्रविकीर्यमाण-

मङ्गारवर्ष तु सविस्फुलिङ्गम्।

मैत्रीविहारादृषिसत्तमस्य

बभूव रक्तोत्पलपत्त्रवर्षः॥४२॥



शरीरचित्तव्यसनातपैस्तै-

रेवंविधैस्तैश्च निपात्यमानैः।

नैवासनाच्छाक्यमुनिश्चचाल

स्वनिश्चयं बन्धुमिवोपगुह्य॥४३॥



अथापरे निर्जिगिलुर्मुखेभ्यः

सर्पान्विजीर्णेभ्य इव द्रुमेभ्यः।

ते मन्त्रबद्धा इव तत्समीपे

न शश्वसुर्नोत्ससृपुर्न चेलुः॥४४॥



भूत्वापरे वारिधरा बृहन्तः

सविद्युतः साशनिचण्डघोषाः।

तस्मिन्द्रुमे तत्यजुरश्मवर्षं

तत्पुष्पवर्षं रुचिरं बभूव॥४५॥



चापेऽथ बाणो निहितोऽपरेण

जज्वाल तत्रैव न निष्पपात।

अनीश्वरस्यात्मनि धूयमानो

दुर्मर्षणस्येव नरस्य मन्युः॥४६॥



पञ्चेषवोऽन्येन तु विप्रमुक्ता-

स्तस्थुर्नभस्येव मुनौ न पेतुः।

संसारभीरोर्विषयप्रवृत्तौ

पञ्चेन्द्रियाणीव परिक्षकस्य॥४७॥



जिघासयान्यः प्रससार रुष्टो

गदां गृहीत्वाभिमुखो महर्षेः।

सोऽप्राप्तकामो विवशः पपात

दोषेष्विवानर्थकरेषु लोकः॥४८॥



स्त्री मेघकाली तु कपालहस्ता

कर्तु महर्षेः किल चित्तमोहम्।

बभ्राम तत्रानियतं न तस्थौ

चलात्मनो बुद्धिरिवागमेषु॥४९॥



कश्चित्प्रदीप्तं प्रणिधाय चक्षु-

र्नेत्राग्निनाशीविषवद्दिधक्षुः।

तत्रैव नासीनमृषिं ददर्श

कामात्मकः श्रेय इवोपदिष्टम्॥५०॥



गुर्वी शिलामुद्यमयंस्तथान्यः

शश्राम मोघं विहतप्रयत्नः।

निःश्रेयसं ज्ञानसमाधिगम्यं

कायक्लमैर्धर्ममिवाप्तुकामः॥५१॥



तरक्षुसिंहाकृतयस्तथान्ये

प्रणेदुरुच्चैर्महतः प्रणादान्।

सत्त्वानि यैः संचुकुचुः समन्ता-

द्वज्राहता द्यौः फलतीति मत्त्वा॥५२॥



मृगा गजाश्चार्तरवान् सृजन्तो

विदुद्रुवुश्चैव निलिल्यिरे च।

रात्रौ च तस्यामहनीव दिग्भ्यः

खगा रुवन्तः परिपेतुरार्ताः॥५३॥



तेषां प्रणादैस्तु तथाविधैस्तै

सर्वेषु भूतेष्वपि कम्पितेषु।

मुनिर्न तत्रास न संचुकोच

रवैर्गरुत्मानिव वायसानाम्॥५४॥



भयावहेभ्यः परिषद्‍गणेभ्यो

यथा यथा नैव मुनिर्बिभाय।

तथा तथा धर्मभृतां सपत्नः

शोकाच्च रोषाच्च ससाद मारः॥५५॥



भूतं ततः किंचिद्‍दृश्यरूपं

विशिष्टभूतं गगनस्थमेव।

दृष्टवर्षये दुग्धमवैररुष्टं

मारं बभाषे महता स्वरेण॥५६॥



मोघं श्रमं नार्हसि मार कर्तुं

हिंस्रात्मतामुत्सृज गच्छ शर्म।

नैष त्वया कम्पयितुं हि शक्यो

महागिरिर्मेरुरिवानिलेन॥५७॥



अप्युष्णभावं ज्वलनः प्रजह्या-

दापो द्रवत्वं प्रथिवी स्थिरत्वम्।

अनेककल्पाचितपुण्यकर्मा

न त्वेव जह्याद्‍व्यवसायमेषः॥५८॥



यो निश्चयो ह्यस्य पराक्रमश्च

तेजश्च यद्या च दया प्रजासु।

अप्राप्य नोत्थास्यति तत्त्वमेष

तमांस्यहत्वेव सहस्ररश्मिः॥५९॥



काष्ठं हि मथ्नन् लभते हुताशं

भूमिं खनन्विन्दति चापि तोयम्।

निर्बन्धिनः किंचन नास्त्यसाध्यं

न्यायेन युक्तं च कृतं च सर्वम्॥६०॥



तल्लोकमार्त करुणायमानो

रोगेषु रागादिषु वर्तमानम्।

महाभिषङ्ग नार्हति विघ्नमेष

ज्ञानौषधार्थ परिखिद्यमानः॥६१॥



हृते च लोके बहुभिः कुमार्गैः

सन्मार्गमन्विच्छति यः श्रमेण।

स दैशिकः क्षोभयितुं न युक्तं

सुदेशिकः सार्थ इव प्रनष्टे॥६२॥



सत्त्वेषु नष्टेषु महान्धकारे

ज्ञानप्रदीपः क्रियमाण एषः।

आर्यस्य निर्वापयितुं न साधु

प्रज्वाल्यमानस्तमसीव दीपः॥६३॥



दृष्ट्वा च संसारमये महौघे

मग्नं जगत्पारमविन्दमानम्।

यश्चेदमुत्तारयितुं प्रवृत्तः

कश्चिन्तयेत्तस्य तु पापमार्यः॥६४॥



क्षमाशिफो धैर्यविगाढमूल-

श्चारित्रपुष्पः स्मृतिबुद्धिशाखः।

ज्ञानद्रुमो धर्मफलप्रदाता

नोत्पाटनं ह्यर्हति वर्धमानः॥६५॥



बद्धां दृढैश्चेतसि मोहपाशै-

र्यस्य प्रजां मोक्षयितुं मनीषा।

तस्मिन् जिघांसा तव नोपपन्ना

श्रान्ते जगद्‍बन्धनमोक्षहेतोः॥६६॥



बोधाय कर्माणि हि यान्यनेन

कृतानि तेषां नियतोऽद्य कालः।

स्थाने तथास्मिन्नुपविष्ट एष

यथैव पूर्वे मुनयस्तथैव॥६७॥



एषा हि नाभिर्वसुधातलस्य

कृत्स्नेन युक्ता परमेण धाम्ना।

भूमेरतोऽन्योऽस्ति हि न प्रदेशो

वेगं समाधेर्विषहेत योऽस्य॥६८॥



तन्मा कृथा शोकमुपेहि शान्तिं

मा भून्महिम्ना तव मार मानः।

विश्रम्भितुं न क्षममधुवा श्री-

श्चले पदे विस्मयमभ्युपैषि॥६९॥



ततः स संश्रुत्य च तस्य तद्वचो

महामुनेः प्रेक्ष्य च निष्प्रकम्पताम्।

जगाम मारो विमनो हतोद्यमः

शरैर्जगच्चेतसि यैर्विहन्यते॥७०॥



गतप्रहर्षा विफलीकृतश्रमा

प्रविद्धपाषाणकडङ्गरद्रुमा।

दिशः प्रदुद्राव ततोऽस्य सा चमू-

र्हताश्रयेव द्विषता द्विषच्चमूः॥७१॥



द्रवति सपरिपक्षे निर्जितै पुष्पकेतौ

जयतिजितमस्के नीरजस्के महर्षौ।

युवतिरिव सहासा द्यौश्चकाशे सचन्द्रा

सुरभि च जलगर्भ पुष्पवर्ष पपात॥७२॥



इति बुद्धचरिते महाकाव्येऽश्वघोषकृते

मारविजयो नाम त्रयोदशः सर्गः॥१३॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project