Digital Sanskrit Buddhist Canon

अराडदर्शनो नाम द्वादशः सर्गः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
CANTO XII



ततः शमविहारस्य

मुनेरिक्ष्वाकुचन्द्रमाः।

अराडस्याश्रमं भेजे

वपुषा पूरयन्निव॥१॥



स कालामसगोत्रेण

तेनालोक्यैव दूरतः।

उच्चैः स्वागतमित्युक्तः

समीपमुपजग्मिवान्॥२॥



तावुभौ न्यायतः पृष्ट्‍वा

धातुसाम्यं परस्परम्।

दारव्योर्मेध्ययोर्वृष्योः

शुचौ देशे निषेदतुः॥३॥



तमासीनं नृपसुतं

सोऽब्रवीन्मुनिसत्तमः।

बहुमानविशालाभ्यां

दर्शनाभ्यां पिबन्निव॥४॥



विदितं मे यथा सौम्य

निष्क्रान्तो भवनादसि।

छित्त्वा स्नेहमयं पाशं

पाशं दृप्त इव द्विपः॥५॥



सर्वथा धृतिमच्चैव

प्राज्ञं चैव मनस्तव।

यस्त्वं प्राप्तः श्रियं त्यक्त्वा

लतां विषफलामिव॥६॥



नाश्चर्य जीर्णवयसो

यज्जग्मुः पार्थिवा वनम्।

अपत्येभ्यः श्रियं दत्त्वा

भुक्तोच्छिष्टामिव स्रजम्॥७॥



इदं मे मतमाश्चर्यं

नवे वयसि यद्भवान्।

अभुक्त्वैव श्रियं प्राप्तः

स्थितो विषयगोचरे॥८॥



तद्विज्ञातुमिमं धर्म

परमं भाजनं भवान्।

ज्ञानप्लमवधिष्ठाय

शीघ्रं दुःखार्णवं तर॥९॥



शिष्ये यद्यपि विज्ञाते

शास्त्रं कालेन वर्ण्यते।

गाम्भीर्याद्‍व्यवसायाच्च

न परीक्ष्यो भवान्मम॥१०॥



इति वाक्यमराडस्य

विज्ञाय स नरर्षभः।

बभूव परमप्रीतः

प्रोवाचोत्तरमेव च॥११॥



विरक्तस्यापि यदिदं

सौमुख्यं भवतः परम्।

अकृतार्थोऽप्यनेनास्मि

कृतार्थ इव संप्रति॥१२॥



दिदृक्षुरिव हि ज्योति-

र्यियासुरिव दैशिकम्।

त्वद्दर्शनमहं मन्ये

तितीर्षुरिव च प्लवम्॥१३॥



तस्मादर्हसि तद्वक्तुं

वक्तव्यं यदि मन्यसे।

जरामरणरोगेभ्यो

यथायं परिमुच्यते॥१४॥



इत्यराडः कुमारस्य

माहात्म्यादेव चोदितः।

संक्षिप्तं कथयांचक्रे

स्वस्य शास्त्रस्य निश्चयम्॥१५॥



श्रूयतामयमस्माकं

सिद्धान्तः शृण्वतां वर।

यथा भवति संसारो

यथा चैव निवर्तते॥१६॥



प्रकृतिश्च विकारश्च

जन्म मृत्युर्जरेव च।

तत्तावत्सत्त्वमितुक्तं

स्थिरसत्त्व परेहि तत्॥१७॥



तत्र तु प्रकृतिं नाम

विद्धिं प्रकृतिकोविद।

पञ्च भूतान्यहंकारं

बुद्धिमव्यक्तमेव च॥१८॥



विकार इति बुध्यस्व

विषयानिन्द्रियाणि च।

पाणिपादं च वादं च

पायूपस्थं तथा मनः॥१९॥



अस्य क्षेत्रस्य विज्ञाना-

त्क्षेत्रज्ञ इति संज्ञि च।

क्षेत्रज्ञ इति चात्मानं

कथयन्त्यात्मचिन्तकाः॥२०॥



सशिष्यः कपिलश्चेह

प्रतिबुद्ध इति स्मृतिः।

सपुत्रोऽप्रतिबुद्धस्तु

प्रजापतिरिहोच्यते॥२१॥



जायते जीर्यते चैव

बाध्यते म्रियते च यत्।

तद्‍व्यक्तमिति विज्ञेय-

मव्यक्तं तु विपर्ययात्॥२२॥



अज्ञानं कर्म तृष्णा च

ज्ञेयाः संसारहेतवः।

स्थितोऽस्मिंस्त्रितये जन्तु-

स्तत्सत्त्वं नातिवर्तते॥२३॥



विप्रत्ययादहंकारा-

त्संदेहादभिसंप्लवात्।

अविशेषानुपायाभ्यां

सङ्गादभ्यवपाततः॥२४॥



तत्र विप्रत्ययो नाम

विपरीतं प्रवर्तते।

अन्यथा कुरुते कार्यं

मन्तव्यं मन्यतेऽन्यथा॥२५॥



ब्रवीम्यहमहं वेद्मि

गच्छाम्यहमहं स्थितः।

इतीहैवमहंकार-

स्त्वनहंकार वर्तते॥२६॥



यस्तु भावानसंदिग्धा-

नेकीभावेन पश्यति।

मृत्पिण्डवदसंदेह

संदेहः स इहोच्यते॥२७॥



य एवाहं स एवेदं

मनो बुद्धिश्च कर्म च।

यश्चैवैष गणः सोऽह-

मिति यः सोऽभिसंप्लवः॥२८॥



अविशेषं विशेषज्ञ

प्रतिबुद्धाप्रबुद्धयोः।

प्रकृतीनां च यो वेद

सोऽविशेष इति स्मृतः॥२९॥



नमस्कारवषट्कारौ

प्रोक्षणाभ्युक्षणादयः।

अनुपाय इति प्राज्ञै-

रुपायज्ञ प्रवेदितः॥३०॥



सज्जते येन दुर्मेधा

मनोवाग्बुद्धिकर्मभिः।

विषयेष्वनभिष्वङ्ग

सोऽभिष्वङ्ग इति स्मृतः॥३१॥



ममेदमहमस्येति

यद्‍दुःखमभिमन्यते।

विज्ञेयोऽभ्यवपातः स

संसारे येन पात्यते॥३२॥



इत्यविद्यां हि विद्वान्स

पञ्चपर्वा समीहते।

तमो मोहं महामोहं

तामिस्रद्वयमेव च॥३३॥



तत्रालस्यं तमो विद्धि

मोहं मृत्युं च जन्म च।

महामोहस्त्वसंमोह

काम इत्येव गम्यताम्॥३४॥



यस्मादत्र च भूतानि

प्रमुह्यन्ति महान्त्यपि।

तस्मादेष महाबाहो

महामोह इति स्मृतः॥३५॥



तामिस्रमिति चाक्रोध

क्रोधमेवाधिकुर्वते।

विषादं चान्धतामिस्र-

मविषाद प्रचक्षते॥३६॥



अनयाविद्यया बालः

संयुक्तः पञ्चपर्वया।

संसारे दुःखभूयिष्ठे

जन्मस्वभिनिषिच्यते॥३७॥



द्रष्टा श्रोता च मन्ता च

कार्यकरणमेव च।

अहमित्येवमागम्य

संसारे परिवर्तते॥३८॥



इहैभिर्हेतुभिर्धीमन्

जन्मस्त्रोतः प्रवर्तते।

हेत्वभावात्फलाभाव

इति विज्ञातुमर्हसि॥३९॥



तत्र सम्यङ्मतिर्विद्या-

न्मोक्षकाम चतुष्टयम्।

प्रतिबुद्धाप्रबुद्धौ च

व्यक्तमव्यक्तमेव च॥४०॥



यथावदेतद्विज्ञाय

क्षेत्रज्ञो हि चतुष्टयम्।

आजवंजवतां हित्वा

प्राप्नोति पदमक्षरम्॥४१॥



इत्यर्थ ब्राह्मणा लोके

परमब्रह्मवादिनः।

ब्रह्मचर्य चरन्तीह

ब्राह्मणान्वासयन्ति च॥४२॥



इति वाक्यमिदं श्रुत्वा

मुनेस्तस्य नृपात्मजः।

अभ्युपायं च पप्रच्छ

पदमेव च नैष्ठिकम्॥४३॥



ब्रह्मचर्यमिदं चर्यं

यथा यावच्च यत्र च।

धर्मस्यास्य च पर्यन्तं

भवान्व्याख्यातुमर्हति॥४४॥



इत्यराडो यथाशास्त्रं

विस्पष्टार्थ समासतः।

तमेवान्येन कल्पेन

धर्ममस्मै व्यभाषत॥४५॥



अयमादौ गृहान्मुक्त्वा

भैक्षाकं लिङ्गमाश्रितः।

समुदाचारविस्तीर्ण

शीलमादाय वर्तते॥४६॥



संतोषं परमास्थाय

येन तेन यतस्ततः।

विविक्तं सेवते वासं

निर्द्वन्द्वः शास्त्रवित्कृती॥४७॥



ततो रागाद्भयं दृष्ट्वा

वैराग्याच्च परं शिवम्।

निगृह्‍णन्निन्द्रियग्रामं

यतते मनसः शमे॥४८॥



अथो विविक्तं कामेभ्यो

व्यापादादिभ्य एव च।

विवेकजमवाप्नोति

पूर्वध्यानं वितर्कवत्॥४९॥



तच्च ध्यानसुखं प्राप्य

तत्तदेव वितर्कयान्।

अपूर्वसुखलाभेन

ह्रियते बालिशो जनः॥५०॥



शमेनैवंविधेनायं

कामद्वेषविगर्हिणा।

ब्रह्मलोकमवाप्नोति

परितोषेण वञ्चितः॥५१॥



ज्ञात्वा विद्वान्वितर्कास्तु

मनःसंक्षोभकारकान्।

तद्वियुक्तमवाप्नोति

ध्यानं प्रीतिसुखान्वितम्॥५२॥



ह्रियमाणस्तया प्रीत्या

यो विशेषं न पश्यति।

स्थानं भास्वरमाप्नोति

देवेष्वाभास्वरेषु सः॥५३॥



यस्तु प्रीतिसुखात्तस्मा-

द्विवेचयति मानसम्।

तृतीयं लभते ध्यानं

सुखं प्रीतिविवर्जितम्॥५४॥



यस्तु तस्मिन्सुखे मग्नो

न विशेषाय यत्नवान्।

शुभकृत्स्नैः स सामान्यं

सुखं प्राप्नोति दैवतैः॥५५॥



तादृशं सुखामासाद्य

यो न रज्यत्युपेक्षकः

चतुर्थ ध्यानमाप्नोति

सुखदुःखविवर्जितम्॥५६॥



तत्र केचिद्‍व्यवस्यन्ति

मोक्ष इत्यभिमानिनः।

सुखदुःखपरित्यागा-

दव्यापाराच्च चेतसः॥५७॥



अस्य ध्यानस्य तु फलं

समं देवैर्बृहत्फलैः।

कथयन्ति बृहत्कालं

बृहत्प्रज्ञापरीक्षकाः॥५८॥



समाधेर्व्युत्थितस्तस्माद्

दृष्त्वा दोषांश्छरीरिणाम्।

ज्ञानमारोहति प्राज्ञः

शरीरविनिवृत्तये॥५९॥



ततस्तद्‍ध्यानमुत्सृज्य

विशेषे कृतनिश्चयः।

कामेभ्य इव स प्राज्ञो

रूपादपि विरज्यते॥६०॥



शरीरे खानि यान्यस्मि-

न्तान्यादौ परिकल्पयन्।

घनेष्वपि ततो द्रव्ये-

ष्वाकाशमधिमुच्यते॥६१॥



आकाशगतमात्मानं

संक्षिप्य त्वपरो बुधः।

तदेवानन्ततः पश्य-

न्विशेषमधिगच्छति॥६२॥



अध्यात्मकुशलस्त्वन्यो

निवर्त्यात्मानमात्मना।

किंचिन्नास्तीति संपश्य-

न्नाकिंचन्य इति स्मृतः॥६३॥



ततो मुञ्जादिषीकेव

शकुनिः पञ्जरादिव।

क्षेत्रज्ञो निःसृतो देहा-

न्मुक्त इत्यभिधीयते॥६४॥



एतत्तत्परमं ब्रह्म

निर्लिङ्ग ध्रुवमक्षरम्।

यन्मोक्ष इति तत्त्वज्ञाः

कथयन्ति मनीषिणः॥६५॥



इत्युपायंश्च मोक्षश्च

मया संदर्शितस्तव।

यदि ज्ञातं यदि रुचि-

र्यथावत्प्रतिपद्यताम्॥६६॥



जैगीषव्योऽथ जनको

वृद्धश्चैव पराशरः।

इमं पन्थानमासाद्य

मुक्ता ह्यन्ये च मोक्षिणः॥६७॥



इति तस्य स तद्वाक्यं

गृहीत्वा तु विचार्य च।

पूर्वहेतुबलप्राप्तः

प्रत्युत्तरमुवाच ह॥६८॥



श्रुतं ज्ञानमिदं सूक्ष्मं

परतः परतः शिवम्।

क्षेत्रज्ञस्यापरित्यागा-

दवैम्येतदनैष्ठिकम्॥६९॥



विकारप्रकृतिभ्यो हि

क्षेत्रज्ञं मुक्तमप्यहम्।

मन्ये प्रसवधर्माणं

बीजधर्माणमेव च॥७०॥



विशुद्धो यद्यपि ह्यात्मा

निर्मुक्त इति कल्प्यते।

भूयः प्रत्ययसद्भावा-

दमुक्तः स भविष्यति॥७१॥



ऋतुभूम्यम्बुविरहा-

द्यथा बीजं न रोहति।

रोहति प्रत्ययैस्तैस्तै-

स्तद्वत्सोऽपि मतो मम॥७२॥



यत्कर्माज्ञानतृष्णानां

त्यागान्मोक्षश्च कल्प्यते।

अत्यन्तस्तत्परित्यागः

सत्यात्मनि न विद्यते॥७३॥



हित्वा हित्वा त्रयमिदं

विशेषस्तूपलभ्यते।

आत्मनस्तु स्थितिर्यत्र

तत्र सूक्ष्ममिदं त्रयम्॥७४॥



सूक्ष्मत्वाच्चैव दोषाणा-

मव्यापाराच्च चेतसः।

दीर्घत्वादायुषश्चैव

मोक्षस्तु परिकल्प्यते॥७५॥



अहंकारपरित्यागो

यश्चैष परिकल्प्यते।

सत्यात्मनि परित्यागो

नाहंकारस्य विद्यते॥७६॥



संख्यादिभिरमुक्तश्च

निर्गुणो न भवत्ययम्।

तस्मादसति नैर्गुण्ये

नास्य मोक्षोऽभिधीयते॥७७॥



गुणिनो हि गुणानां च

व्यतिरेको न विद्यते।

रूपोष्णाभ्यां विरहितो

न ह्यग्निरुपलभ्यते॥७८॥



प्राग्देहान्न भवेद्देही

प्राग्गुणेभ्यस्तथा गुणी।

तस्मादादौ विमुक्तः सन्

शरीरी बध्यते पुनः॥७९॥



क्षेत्रज्ञो विशरीरश्च

ज्ञो वा स्यादज्ञ एव वा।

यदि ज्ञो ज्ञेयमस्यास्ति

ज्ञेये सति न मुच्यते॥८०॥



अथाज्ञ इति सिद्धो वः

कल्पितेन किमात्मना।

विनापि ह्यात्मनाज्ञानं

प्रसिद्धं काष्ठकुड्यवत्॥८१॥



परतः परतस्त्यागो

यस्मात्तु गुणवान् स्मृतः।

तस्मात्सर्वपरित्यागा-

न्मन्ये कृत्स्नां कृतार्थताम्॥८२॥



इति धर्ममराडस्य

विदित्वा न तुतोष सः।

अकृत्स्नमिति विज्ञाय

ततः प्रतिजगाम ह॥८३॥



विशेषमथ शुश्रूषु-

रुद्रकस्याश्रमं ययौ।

आत्मग्राहाच्च तस्यापि

जगृहे न स दर्शनम्॥८४॥



संज्ञासंज्ञित्वयोर्दोषं

ज्ञात्वा हि मुनिरुद्रकः।

आकिंचन्यात्परं लेभे-

ऽसंज्ञासंज्ञात्मिकां गतिम्॥८५॥



यस्माच्चालम्बने सूक्ष्मे

संज्ञासंज्ञे ततः परम्।

नासंज्ञी नैव संज्ञीति

तस्मात्तत्रगतस्पृहः॥८६॥



यतश्च बुद्धिस्तत्रैव

स्थितान्यत्राप्रचारिणी।

सूक्ष्मापट्वी ततस्तत्र

नासंज्ञित्वं न संज्ञिता॥८७॥



यस्माच्च तदपि प्राप्य

पुनरावर्तते जगत्।

बोधिसत्त्वः परं प्रेप्सु-

स्तस्मादुद्रकमत्यजत्॥८८॥



ततो हित्वाश्रमं तस्य

श्रेयोऽर्थी कृतनिश्चयः।

भेजे गयस्य राजर्षे-

र्नगरीसंज्ञमाश्रमम्॥८९॥



अथ नैरञ्जनातीरे

शुचौ शुचिपराक्रमः।

चकार वासमेकान्त-

विहाराभिरतिर्मुनिः॥९०॥



आगतान् तत्र तत्पूर्व

पञ्चेन्द्रियवशोद्धतान्।

तपःप्रवृत्तान् व्रतिनो

भिक्षून् पञ्च निरैक्षत॥९१॥



ते चोपतस्त्थुर्दृष्ट्‍वात्र

भिक्षवस्तं मुमुक्षवः।

पुण्यार्जितधनारोग्य-

मिन्द्रियार्था इवेश्वरम्॥९२॥



संपूज्यमानस्तैः प्रव्है-

र्विनयादनुवर्तिभिः।

तद्वशस्थायिभिः शिष्यै-

र्लोलैर्मन इवेन्द्रियैः॥९३॥



मृत्युजन्मान्तकरणे

स्यादुपायोऽयमित्यथ।

दुष्कराणि समारेभे

तपांस्यनशनेन सः॥९४॥



उपवासविधीन्नैकान्

कुर्वन्नरदुराचरान्।

वर्षाणि षट् शमप्रेप्सु-

रकरोत्कार्श्यमात्मनः॥९५॥



अन्नकालेषु चैकैकैः

स कोलतिलतण्डुलैः।

अपारपारसंसार-

पारं प्रेप्सुरपारयत्॥९६॥



देहादपचयस्तेन

तपसा तस्य यः कृतः।

स एवोपचयो भूय-

स्तेजसास्य कृतोऽभवत्॥९७॥



कृशोऽप्यकृशकीर्तिश्री-

र्ल्हादं चक्रेऽन्यचक्षुषाम्।

कुमुदानामिव शर-

च्छुक्लपक्षादिचन्द्रमाः॥९८॥



त्वगस्थिशेषो निःशेषै-

र्मेदःपिशितशोणितैः।

क्षीणोऽप्यक्षीणगाम्भीर्यः

समुद्र इव स व्यभात्॥९९॥



अथ कष्टतपःस्पष्ट-

व्यर्थक्लिष्टतनुर्मुनिः।

भवभीरुरिमां चक्रे

बुद्धिं बुद्धत्वकाङ्क्षया॥१००॥



नायं धर्मो विरागाय

न बोधाय न मुक्तये।

जम्बुमूले मया प्राप्तो

यस्तदा स विधिर्ध्रुवः॥१०१॥



न चासौ दुर्बलेनाप्तुं

शक्यमित्यागतादरः।

शरीरबलवृद्ध्यर्थ-

मिदं भूयोऽन्वचिन्तयत्॥१०२॥



क्षुत्पिपासाश्रमक्लान्तः

श्रमादस्वस्थमानसः।

प्राप्नुयान्मनसावाप्यं

फलं कथमनिर्वृतः॥१०३॥



निर्वृतिः प्राप्यते सम्यक्

सततेन्द्रियतर्पणात्।

संतर्पितेन्द्रियतया

मनःस्वास्थ्यमवाप्यते॥१०४॥



स्वस्थप्रसन्नमनसः

समाधिरुपपद्यते।

समाधियुक्तचित्तस्य

ध्यानयोगः प्रवर्तते॥१०५॥



ध्यानप्रवर्तनाद्धर्माः

प्राप्यन्ते यैरवाप्यते।

दुर्लभं शान्तमजरं

परं तदमृतं पदम्॥१०६॥



तस्मादाहारमूलोऽय-

मुपाय इतिनिश्चयः।

आहारकरणे धीरः

कृत्वामितमतिर्मतिम्॥१०७॥



स्नातो नैरञ्जनातीरा-

दुत्ततार शनैः कृशः।

भक्त्यावनतशाखाग्रै-

र्दत्तहस्तस्तटद्रुमैः॥१०८॥



अथ गोपाधिपसुता

दैवतैरभिचोदिता।

उद्‍भुतहृदयानन्दा

तत्र नन्दबलागमत्॥१०९॥



सितशङ्खोज्ज्वलभुजा

नीलकम्बलवासिनी।

सफेनमालानीलाम्बु-

र्यमुनेव सरिद्वरा॥११०॥



सा श्रद्धावर्धितप्रीति-

र्विकसल्लोचनोत्पला।

शिरसा प्रणिपत्यैनं

ग्राहयामास पायसम्॥१११॥



कृत्वा तदुपभोगेन

प्राप्तजन्मफलां स ताम्।

बोधिप्राप्तौ समर्थोऽभू-

त्संतर्पितषडिन्द्रियः॥११२॥



पर्याप्ताप्यानमूर्तिश्च

सार्ध स्वयशसा मुनिः।

कान्तिधैर्ये बभारैकः

शशाङ्कार्णवयोर्द्वयोः॥११३॥



आवृत्त इति विज्ञाय

तं जहुः पञ्च भिक्षवः।

मनीषिणमिवात्मानं

निर्मुक्तं पञ्च धातवः॥११४॥



व्यवसायद्वितीयोऽथ

शाद्वलास्तीर्णभूतलम्।

सोऽश्वत्थमूलं प्रययौ

बोधाय कृतनिश्चयः॥११५॥



ततस्तदानीं गजराजविक्रमः

पदस्वनेनानुपमेन बोधितः।

महामुनेरागतबोधिनिश्चयो

जगाद कालो भुजगोत्तमः स्तुतिम्॥११६॥



यथा मुने त्वच्चरणावपीडिता

मुहुर्मुहुर्निष्टनतीव मेदिनी।

यथा च ते राजति सूर्यवत्प्रभा

ध्रूवं त्वमिष्टं फलमद्य भोक्ष्यसे॥११७॥



यथा भ्रमन्त्यो दिवि चाषपङ्क्तयः

प्रदक्षिणं त्वां कमलाक्ष कुर्वते।

यथा च सौम्या दिवि वान्ति वायव-

स्त्वमद्य बुद्धो नियतं भविष्यसि॥११८॥



ततो भुजङ्गप्रवरेण संस्तुत-

स्तृणान्युपादाय शुचीनि लावकात्।

कृतप्रतिज्ञो निषसाद बोधये

महातरोर्मूलमुपाश्रितः शुचेः॥११९॥



ततः स पर्यङ्कमकम्प्यमुत्तमं

बबन्ध सुप्तोरगभोगपिण्डितम्।

भिनद्मि तावद्‍भुवि नैतदासनं

न यामि यावत्कुतकृत्यतामिति॥१२०॥



ततो ययुर्मदमतुलां दिवौकसो

ववाशिरे न मृगगणा न पक्षिणः।

न सस्वनुर्वनतरवोऽनिलाहताः

कृतासने भगवति निश्चितात्मनि॥१२१॥



इति बुद्धचरिते महाकाव्येऽराडदर्शनो

नाम द्वादशः सर्गः॥१२॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project