Digital Sanskrit Buddhist Canon

श्रेण्याभिगमनो नाम दशमः सर्गः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
CANTO X



स राजवत्सः पृथुपीनवक्षा-

स्तौ हव्यमन्त्राधिकृतौ विहाय।

उत्तीर्य गङ्गां प्रचलत्तरङ्गां

श्रीमद्गृहं राजगृहं जगाम॥१॥



शैलैः सुगुप्तं च विभूषितं च

धृतं च पूतं च शिवैस्तपोदैः।

पञ्चाचलाङ्कं नगरं प्रपेदे

शान्तः स्वयंभूरिव नाकपृष्ठम्॥२॥



गाम्भीर्यमोजश्च निशाम्य तस्य

वपुश्च दीप्तं पुरुषानतीत्य।

विसिस्मिये तत्र जनस्तदानीं

स्थाणूव्रतस्येव वृषाध्वजास्य॥३॥



तं प्रेक्ष्य योऽन्येन ययौ स तस्थौ

यस्तत्र तस्थौ पथि सोऽन्वगच्छत्।

द्रुतं ययौ यः स जगाम धीरं

यः कश्चिदास्ते स्म स चोत्पपात॥४॥



कश्चित्तमानर्च जनः कराभ्यां

सत्कृत्य कश्चिच्छिरसा ववन्दे।

स्निग्धेन कश्चिद्वचसाभ्यनन्द-

नैनं जगामाप्रतिपूज्य कश्चित्॥५॥



तं जिह्रियुः प्रेक्ष्य विचित्रवेषाः

प्रकीर्णवाचः पथि मौनमीयुः।

धर्मस्य साक्षादिव संनिकर्षे

न कश्चिदन्यायमतिर्बभूव॥६॥



अन्यक्रियाणामपि राजमार्गे

स्त्रीणां नृणां वा बहुमानपूर्वम्।

तं देवकल्पं नरदेवसूनुं

निरीक्षमाणा न ततर्प दृष्टिः॥७॥



भ्रुवौ ललाटं मुखमीक्षणे वा

वपुः करौ वा चरणौ गतिं वा।

यदेव यस्तस्य ददर्श तत्र

तदेव तस्याथ बबन्ध चक्षुः॥८॥



दृष्ट्वा च सोर्णभ्रुवमायताक्षं

ज्वलच्छरीरं शुभजालहस्तम्।

त भिक्षुवेषं क्षितिपालनार्ह

संचुक्षुभे राजगृहस्य लक्ष्मीः॥९॥



श्रेण्योऽथ भर्ता मगधाजिरस्य

बाह्याद्विमानाद्विपुलं जनौघम्।

ददर्श पप्रच्छ च तस्य हेतुं

ततस्तमस्मै पुरुषः शशंस॥१०॥



ज्ञानं परं वा पृथिवीश्रियं वा

विप्रैर्य उक्तोऽधिगमिष्यतीति।

स एष शाक्याधिपतेस्तनूजो

निरीक्ष्यते प्रव्रजितो जनेन॥११॥



ततः श्रुतार्थो मनसागतास्थो

राजा बभाषे पुरुषं तमेव।

विज्ञायतां क्व प्रतिगच्छतीति

तथेत्यथैनं पुरुषोऽन्वगच्छत्॥१२॥



अलोलचक्षुर्युगमात्रदर्शी

निवृत्तवाग्यन्त्रितमन्दगामी।

चचार भिक्षां स तु भिक्षुवर्यो

निधाय गात्राणि चलं च चेतः॥१३॥



आदाय भैक्षं च यथोपपन्नं

ययौ गिरेः प्रस्रवणं विविक्तम्।

न्यायेन तत्राभ्यवहृत्य चैन-

न्महीधरं पाण्डवमारुरोह॥१४॥



तस्मिन्नवौ लोध्रवनोपगूढे

मयूरनादप्रतिपुर्णकुञ्जे।

काषायवासाः स बभौ नृसूर्यो

यथोदयस्योपरि बालसूर्यः॥१५॥



तत्रैनमालोक्य स राजभृत्यः

श्रेण्याय राज्ञे कथयांचकार।

संश्रुत्य राजा स च बाहुमान्या-

त्तत्र प्रतस्थे निभृतानुयात्रः॥१६॥



स पाण्डवं पाण्डवतुल्यवीर्यः

शैलोत्तमं शैलसमानवर्ष्मा।

मौलीधरः सिंहगतिर्नृसिंह-

श्चलत्सटः सिंह इवारुरोह॥१७॥



ततः स्म तस्योपरि शृङ्गभूतं

शान्तेन्द्रियं पश्यति बोधिसत्त्वम्।

पर्यङ्कमास्थाय विरोचमानं

शशाङ्कमुद्यन्तमिवाभ्रकुञ्जात्॥१८॥



तं रुपलक्ष्म्या च शमेन चैव

धर्मस्य निर्माणमिवोपविष्टम्।

सविस्मयः प्रश्रयवान्नरेन्द्रः

स्वयंभूवं शक्र इवोपतस्थे॥१९॥



तं न्यायतो न्यायविदां वरिष्ठं

समेत्य पप्रच्छ च धातुसाम्यम्।

स चाप्यवोचत्सदृशेन साम्ना

नृपं मनःस्वास्थ्यमनामयं च॥२०॥



ततः शुचौ वारणकर्णनीले

शिलातले संनिषसाद राजा।

उपोपविश्यानुमतश्च तस्य

भावं विजिज्ञासुरिदं बभाषे॥२१॥



प्रीतिः परा मे भवतः कुलेन

क्रमागता चैव परीक्षिता च।

जाता विवक्षा स्ववयो यतो मे

तस्मादिदं स्नेहवचो निबोध॥२२॥



आदित्यपूर्व विपुलं कुलं ते

नवं वयो दीप्तमिदं वपुश्च।

कस्मादियं ते मतिरक्रमेण

भैक्षाक एवाभिरता न राज्ये॥२३॥



गात्रं हि ते लोहितचन्दनार्हं

काषायसंश्लेषमनर्हमेतत्।

हस्तः प्रजापालनयोग्य एष

भोक्तुं न चार्हः परदत्तमन्नम्॥२४॥



तत्सौम्य राज्यं यदि पैतृकं त्वं

स्नेहात्पितुर्नेच्छसि विक्रमेण।

न च क्रमं मर्षयितुं मतिस्ते

भुङ्क्ष्वार्धमस्माद्विषयस्य शीघ्रम्॥२५॥



एवं हि न स्यात्स्वजनावमर्दः

कालक्रमेणापि शमश्रया श्रीः।

तस्मात्कुरुष्व प्रणयं मयि त्वं

सद्भिः सहीया हि सतां समृद्धिः॥२६॥



अथ त्विदानी कुलगर्वितत्वा-

दस्मासु विश्रम्भगुणो न तेऽस्ति।

व्यूढान्यनीकानि विगाह्य बाणै-

र्मया सहायेन परान् जिगीष॥२७॥



तद्‍बुद्धिमत्रान्यतरां वृणीष्व

धर्मार्थकामान्विधिवद्भजस्व।

व्यत्यस्य रागादिह हि त्रिवर्ग

प्रेत्येह च भ्रंशमवाप्नुवन्ति॥२८॥



यो ह्यर्थधर्मौ परिपीड्य कामः

स्याद्धर्मकामौ परिभूय चार्थः।

कामार्थयोश्चोपरमेण धर्म-

स्त्याज्यः स कृत्स्नो यदि काङ्क्षितोऽर्थः॥२९॥



तस्मात्त्रिवर्गस्य निषेवणेन

त्वं रूपमेतत्सफलं कुरुष्व।

धर्मार्थकामाधिगमं ह्यनूनं

नृणामनूनं पुरुषार्थमाहुः॥३०॥



तन्निष्फलौ नार्हसि कर्तुमेतौ

पीनौ भुजौ चापविकर्षणार्हौ।

मान्धातृवज्जेतुमिमौ हि योग्यौ

लोकानपि त्रीनिह किं पुनर्गाम्॥३१॥



स्नेहेन खल्वेतदहं ब्रवीमि

नैश्वर्यरागेण न विस्मयेन।

इमं हि दृष्ट्वा तव भिक्षुवेषं

जातानुकम्पोऽस्म्यपि चागताश्रुः॥३२॥



यावत्स्ववंशप्रतिरूप रूपं

न ते जराभ्येत्यभिभूय भूयः।

तद्‍भुङ्क्ष्व भिक्षाश्रमकाम कामान्

कालेऽसि कर्ता प्रियधर्म धर्मम्॥३३॥



शक्नोति जीर्णः खलु धर्ममाप्तुं

कामोपभोगेष्वगतिर्जरायाः।

अतश्च यूनः कथयन्ति कामा-

न्मध्यस्य वित्तं स्थविरस्य धर्मम्॥३४॥



धर्मस्य चार्थस्य च जीवलोके

प्रत्यर्थिभुतानि हि यौवनानि।

संरक्ष्यमाणान्यपि दुर्ग्रहाणि

कामा यतस्तेन पथा हरन्ति॥३५॥



वयांसि जीर्णानि विमर्शवन्ति

धीराण्यवस्थानपरायणानि।

अल्पेन यत्नेन शमात्मकानि

भवन्त्यगत्यैव च लज्जया च॥३६॥



अतश्च लोलं विषयप्रधानं

प्रमत्तमक्षान्तमदीर्घदर्शि।

बहुच्छलं यौवनमभ्यतीत्य

निस्तीर्य कान्तारमिवाश्वसन्ति॥३७॥



तस्मादधीरं चपलप्रमादि

नवं वयस्तावदिदं व्यपैतु।

कामस्य पूर्व हि वयः शरव्यं

न शक्यते रक्षितुमिन्द्रियेभ्यः॥३८॥



अथो चिकीर्षा तव धर्म एव

यजस्व यज्ञं कुलधर्म एषः।

यज्ञैरधिष्ठाय हि नागपृष्ठं

ययौ मरुत्वानपि नाकपृष्ठम्॥३९॥



सुवर्णकेयूरविदष्टबाहवो

मणिप्रदीपोज्ज्वलचित्रमौलयः।

नृपर्षयस्तां हि गतिं गता मखैः

श्रमेण यामेव महर्षयो ययुः॥४०॥



इत्येवं मगधपतिर्वचो बभाषे

यः सम्यग्वलाभिदिव ब्रुवन् बभासे।

तच्छ्रुत्वा न स विचचाल राजसूनुः

कैलासो गिरिरिव नैकचित्रसानुः॥४१॥



इति बुद्धचरिते महाकाव्येऽश्वघोषकृते

श्रेण्याभिगमनो नाम दशमः सर्गः॥१०॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project