Digital Sanskrit Buddhist Canon

कुमारान्वेषणों नाम नवमः सर्गः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
CANTO IX



ततस्तदा मन्त्रिपुरोहितौ तौ

बाष्पप्रतोदाभिहतौ नृपेण।

विद्धौ सदश्वाविव सर्वयत्ना-

त्सौहार्दशीघ्रं ययतुर्वनं तत्॥१॥



तमाश्रमं जातपरिश्रमौ ता-

वुपेत्य काले सदृशानुयात्रौ।

राजर्द्धिमुत्सृज्य विनीतचेष्टा-

वुपेयतुर्भार्गवधिष्ण्यमेव॥२॥



तौ न्यायतस्तं प्रतिपूज्य विप्रं

तेनार्चितौ तावपि चानुरूपम्।

कृतासनौ भार्गवमासनस्थं

छित्त्वा कथामूचतुरात्मकृत्यम्॥३॥



शुद्धौजसः शुद्धविशालकीर्ते-

रिक्ष्वाकुवंशप्रभवस्य राज्ञः।

इमं जनं वेत्तु भवानधीतं

श्रुतग्रहे मन्त्रपरिग्रहे च॥४॥



तस्येन्द्रकल्पस्य जयन्तकल्पः

पुत्रो जरामृत्युभयं तितीर्षुः।

इहाभ्युतेपः किल तस्य हेतो-

रावामुपेतौ भगवानवैतु॥५॥



तौ सोऽब्रवीदस्ति स दीर्घबाहुः

प्राप्तः कुमारो न तु नावबुद्धः।

धर्मोऽयमावर्तक इत्यवेत्य

यातस्त्वराडाभिमुखो मुमुक्षुः॥६॥



तस्मात्ततस्तावुपलभ्य तत्त्वं

तं विप्रमामन्त्र्य तदैव सद्यः।

खिन्नावखिन्नाविव राजभक्त्या

प्रसस्रतुस्तेन यतः स यातः॥७॥



यान्तौ ततस्तौ मृजया विहीन-

मपश्यतां तं वपुषोज्ज्वलन्तम्।

उपोपविष्टं पथि वृक्षमूले

सूर्य घनाभोगमिव प्रविष्टम्॥८॥



यानं विहायोपययौ ततस्तं

पुरोहितो मन्त्रधरेण सार्धम्।

यथा वनस्थं सहवामदेवो

रामं दिदृक्षुर्मुनिरावैर्वशेयः॥९॥



तावर्चयामासतुरर्हतस्तं

दिवीव शुक्राङ्गिरसौ महेन्द्रम्।

प्रत्यर्चयामास स चार्हतस्तौ

दिवीव शुक्राङ्गिरसौ महेन्द्रः॥१०॥



कृताभ्यनुज्ञावभितस्ततस्तौ

निषेदतुः शाक्यकुलध्वजस्य।

विरेजतुस्तस्य च संनिकर्षे

पुनर्वसू योगगताविवेन्दोः॥११॥



तं वृक्षमूलस्थमभिज्वलन्तं

पुरोहितो राजसुतं बभाषे।

यथोपविष्टं दिवि पारिजाते

बृहस्पतिः शक्रसुतं जयन्तम्॥१२॥



त्वच्छोकशल्ये हृदयावगाढे

मोहं गतो भूमितले मुहूर्तम्।

कुमार राजा नयनाम्बुवर्षो

यत्त्वामवोचत्तदिदं निबोध॥१३॥



जानामि धर्म प्रति निश्चयं ते

परैमि ते भाविनमेतमर्थम्।

अहं त्वकाले वनसंश्रयात्ते

शोकाग्निनाग्निप्रतिमेन दह्ये॥१४॥



तदेहि धर्मप्रिय मत्प्रियार्थ

धर्मार्थमेव त्यज बुद्धिमेताम्।

अयं हि मा शोकरयः प्रवृद्धौ

नदीरयः कूलमिवाभिहन्ति॥१५॥



मेघाम्बुकक्षाद्रिषु या हि वृत्तिः

समीरणार्काग्निमहाशनीनाम्।

तां वृत्तिमस्मासु करोति शोको

विकर्षणोच्छोषणदाहभेदैः॥१६॥



तद्‍भुङ्क्ष्व तावद्वसुधाधिपत्यं

काले वनं यास्यासि शास्त्रदृष्टे।

अनिष्टबन्धौ कुरु मय्यपेक्षां

सर्वेषु भूतेषु दया हि धर्मः॥१७॥



न चैष धर्मो वन एव सिद्धः

पुरेऽपि सिद्धिर्नियता यतीनाम्।

बुद्धिश्च यत्नश्च निमित्तमत्र

वन च लिङ्गं च हि भीरुचिन्हम्॥१८॥



मौलीधरैरसविषक्तहारैः

केयूरविष्टब्धभुजैर्नरेन्द्रैः।

लक्ष्भ्यङ्कमध्ये परिवर्तमानैः

प्राप्तो गृहस्थैरपि मोक्षधर्मः॥१९॥



ध्रुवानुजौ यौ बलिवज्रबाहू

वैभ्राजमाषाढमथान्तिदेवम्।

विदेहराजं जनकं तथैव

शाल्वद्रुमं सेनजितश्च राज्ञः॥२०॥



एतान् गृहस्थान्नृपतीनवेहि

नैःश्रेयसे धर्मविधौ विनीतान्।

उभेऽपि तस्माद्युगपद्भजस्व

चित्ताधिपत्यं च नृपश्रियं च॥२१॥



इच्छामि हि त्वामुपगुह्य गाढं

कृताभिषेकं सलिलार्द्रमेव।

धृतातपत्त्रं समुदीक्षमाण-

स्तेनैव हर्षेण वनं प्रवेष्टुम्॥२२॥



इत्यब्रवीद्‍भूमिपतिर्भवन्तं

वाक्येन बाष्पग्रथिताक्षरेण।

श्रुत्वा भवानर्हति तत्प्रियार्थ

स्नेहेन तस्नेहमनुप्रयातुम्॥२३॥



शोकाम्भसि त्वत्प्रभवे ह्यगाधे

दुःखार्णवे मज्जति शाक्यराजः।

तस्मात्तमुत्तारय नाथहीनं

निराश्रयं मग्नमिवार्णवे नौः॥२४॥



भीष्मेण गङ्गोदरसंभवेन

रामेण रामेण च भार्गवेण।

श्रुत्वा कृतं कर्म पितुः प्रियार्थ

पितुस्त्वमप्यर्हसि कर्तुमिष्टम्॥२५॥



संवर्धयित्री समवेहि देवी-

मगस्त्यजुष्टां दिशमप्रयाताम्।

प्रनष्टवत्सामिव वत्सलां गा-

मजस्रमार्ता करुणं रुदन्तीम्॥२६॥



हंसेन हंसीमिव विप्रयुक्तां

त्यक्तां गजेनेव वने करेणुम्।

अर्ता सनाथामपि नाथहीनां

त्रातुं वधूमर्हसि दर्शनेन॥२७॥



एकं सुतं बालमनर्हदुःखं

संतापमन्तर्गतमुद्वहन्तम्।

तं राहुलं मोक्षय बन्धुशोका-

द्राहूपसर्गादेव पूर्णचन्द्रम्॥२८॥



शोकाग्निना त्वद्विरहेन्धनेन।

निःस्वासधूमेन तमःशिखेन।

त्वद्दर्शनाम्ब्विच्छति दह्यमान-

मन्तःपुरं चैव पुरं च कृत्स्नम्॥२९॥



स बोधिसत्त्वः परिपूर्णसत्त्वः

श्रुत्वा वचस्तस्य पुरोहितस्य।

ध्यात्वा मुहूर्तं गुणवद्‍गुणज्ञः

प्रत्युत्तरं प्रश्रितमित्युवाच॥३०॥



अवैमि भावं तनये पितॄणां

विशेषतो यो मयि भूमिपस्य।

जानन्नपि व्याधिजराविपद्‍भ्यो

भीतस्त्वगत्या स्वजनं त्यजामि॥३१॥



द्रष्टुं प्रियं कः स्वजनं हि नेच्छे-

न्नान्ते यदि स्यात्प्रियविप्रयोगः।

यदा तु भूत्वापि चिरं वियोग-

स्ततो गुरुं स्निन्धमपि त्यजामि॥३२॥



मद्धेतुकं यत्तु नराधिपस्य

शोकं भवानाह न तत्प्रियं मे।

यत्स्वप्नभूतेषु समागमेषु

संतप्यते भाविनि विप्रयोगे॥३३॥



एवं च ते निश्चयमेतु बुद्धि-

र्दृष्ट्वा विचित्रं जगतः प्रचारम्।

संतापहेतुर्न सुतो न बन्धु-

रज्ञाननैमित्तिक एष तापः॥३४॥



यथाध्वगानमिह संगतानां

काले वियोगो नियतः प्रजानाम्।

प्राज्ञो जनः को तु भजेत शोकं

बन्धुप्रतिज्ञातजनैर्विहीनः॥३५॥



इहैति हित्वा स्वजनं परत्र

प्रलभ्य चेहापि पुनः प्रयाति।

गत्वापि तत्राप्यपरत्र गच्छ-

त्येवं जने त्यागिनि कोऽनुरोधः॥३६॥



यदा च गर्भात्प्रभृति प्रवृत्तः

सर्वास्ववस्थासु वधाय मृत्युः।

कस्मादकाले वनसंश्रयं मे

पुत्रप्रियस्तत्रभवानवोचत्॥३७॥



भवत्यकालो विषयाभिपत्तौ

कालस्तथैवार्थविधौ प्रदिष्टः।

कालो जगत्कर्षति सर्वकाला-

न्निर्वाहके श्रेयसि नास्ति कालः॥३८॥



राज्यं मुमुक्षुर्मयि यच्च राजा

तदप्युदारं सदृशं पितुश्च।

प्रतिग्रहीतुं मम न क्षमं तु

लोभादपथ्यान्नमिवातुरस्य॥३९॥



कथं नु मोहायतनं नृपत्वं

क्षमं प्रपत्तुं विदुषा नरेण।

सोद्वेगता यत्र मदः श्रमश्च

परापचारेण च धर्मपीडा॥४०॥



जाम्बूनदं हर्म्यमिव प्रदीप्तं

विषेण संयुक्तमिवोत्तमान्नम्।

ग्राहाकुलं चाम्ब्विव सारविन्दं

राज्यं हि रम्यं व्यसनाश्रयं च॥४१॥



इत्थं च राज्यं न सुखं न धर्मः

पूर्वे यथा जातघृणा नरेन्द्राः।

वयःप्रकर्षेऽपरिहार्यदुःखे

राज्यानि मुक्त्वा वनमेव जग्मुः॥४२॥



वरं हि भुक्तानि तृणान्यरण्ये

तोषं परं रत्नमिवोपगृह्य।

सहोषितं श्रीसुलभैर्न चैव

दोषैरदृश्यैरिव कृष्णसर्पैः॥४३॥



श्लाध्यं हि राज्यानि विहाय राज्ञां

धर्माभिलाषेण वनं प्रवेष्टुम्।

भग्नप्रतिज्ञस्य न तूपपन्नं

वनं परित्यज्य गृहं प्रवेष्टुम्॥४४॥



जातः कुले को हि नरः ससत्त्वो

धर्माभिलाषेण वनं प्रविष्टः।

काषायमुत्सृज्य विमुक्तलज्जः

पुरंदरस्यापि पुरं श्रयेत॥४५॥



लोभाद्धि मोहादथवा भयेन

यो वान्तमन्नं पुनराददीत।

लोभात्स मोहादथवा भयेन

संत्यज्य कामान् पुनराददीत॥४६॥



यश्च प्रदीप्ताच्छरणात्कथंचि-

न्निष्क्रम्य भूयः प्रविशेत्तदेव।

गार्हस्थ्यमुत्सृज्य स दृष्टदोषो

मोहेन भूयोऽभिलषेद्‍ग्रहीतुम्॥४७॥



या च श्रुतिर्मोक्षमवाप्तवन्तो

नृपा गृहस्था इति नैतदस्ति।

शमप्रधानः क्व च मोक्षधर्मो

दण्डप्रधानः क्व च राजधर्मः॥४८॥



शमे रतिश्चेच्छिथिलं च राज्यं

राज्ये मतिश्चेच्छमविप्लवश्च।

शमश्च तैक्ष्ण्यं च हि नोपपन्नं

शीतोष्णयोरैक्यमिवोदकाग्न्योः॥४९॥



तन्निश्चयाद्वा वसुधाधिपास्ते

राज्यानि मुक्त्‍वा शममाप्तवन्तः।

राज्याङ्गिता वा निभृतेन्द्रियत्वा-

दनैष्ठिके मोक्षकृताभिमानाः॥५०॥



तेषां च राज्येऽस्तु शमो यथाव-

त्प्राप्तो वनं नाहमनिश्चयेन।

छित्त्वा हि पाशं गृहबन्धुसंज्ञं

मुक्तः पुनर्न प्रविविक्षुरस्मि॥५१॥



इत्यात्मविज्ञानगुणानुरूपं

मुक्तस्पृहं हेतुमदूर्जितं च।

श्रुत्वा नरेन्द्रात्मजमुक्तवन्तं

प्रत्युत्तरं मन्त्रधरोऽप्युवाच॥५२॥



यो निश्चयो धर्मविधौ तवायं

नायं न युक्तो न तु कालयुक्तः।

शोकाय दत्त्वा पितरं वयःस्थं

स्याद्धर्मकामस्य हि ते न धर्मः॥५३॥



नूनं च बुद्धिस्तव नातिसूक्ष्मा

धर्मार्थकामेष्वविचक्षणा वा।

हेतोरदृष्टस्य फलस्य यस्त्वं

प्रत्यक्षमर्थ परिभूय यासि॥५४॥



पुनर्भवोऽस्तीति च केचिदाहु-

र्नास्तीति केचिन्नियतप्रतिज्ञाः।

एवं यदा संशयितोऽयमर्थ-

स्तस्मात्क्षमं भोक्तुमुपस्थिता श्रीः॥५५॥



भूयः प्रवृत्तिर्यदि काचिदस्ति

रंस्यामहे तत्र यथोपपत्तौ।

अथ प्रवृत्तिः परतो न काचि-

त्सिद्धौऽप्रयत्नाज्जगतोऽस्य मोक्षः॥५६॥



अस्तीति केचित्परलोकमाहु-

र्मोक्षस्य योगं न तु वर्णयन्ति।

अग्नेर्यथा ह्यौष्ण्यमपां द्रवत्वं

तद्वत्प्रवृत्तौ प्रकृतिं वदन्ति॥५७॥



केचित्स्वभावादिति वर्णयन्ति

शुभाशुभं चैव भवाभवौ च।

स्वाभाविकं सर्वमिदं च यस्मा-

दतोऽपि मोघो भवति प्रयत्नः॥५८॥



यदिन्द्रियाणां नियतः प्रचारः

प्रियाप्रियत्वं विषयेषु चैव।

संयुज्यते यज्जरयार्तिभिश्च

कस्तत्र यत्नो ननु स स्वभावः॥५९॥



अद्भिर्हुताशः शममभ्युपैति

तेजांसि चापो गमयन्ति शोषम्।

भिन्नानि भूतानि शरीरसंस्था-

न्यैक्यं च गत्वा जगदुद्वहन्ति॥६०॥



यत्पाणिपादोदरपृष्ठमूर्ध्ना

निर्वर्तते गर्भगतस्य भावः।

यदात्मनस्तस्य च तेन योगः

स्वाभाविकं तत्कथयन्ति तज्ज्ञाः॥६१॥



कः कण्टकस्य प्रकरोति तैक्ष्ण्यं

विचित्रभावं मृगपक्षिणां वा।

स्वभावतः सर्वमिदं प्रवृत्तं

न कामकारोऽस्ति कुतः प्रयत्नः॥६२॥



सर्ग वदन्तीश्वरतस्तथान्ये

तत्र पर्यत्ने पुरुषस्य कोऽर्थः।

य एव हेतुर्जगतः प्रवृत्तौ

हेतुर्निवृत्तौ नियतः स एव॥६३॥



केचिद्वदन्त्यात्मनिमित्तमेव

प्रादुर्भवं चैव भवक्षयं च।

प्रादुर्भवं तु प्रवदन्त्ययत्ना-

द्यत्नेन मोक्षाधिगमं ब्रुवन्ति॥६४॥



नरः पितृणामनृणः प्रजाभि-

र्वेदैऋषीणां क्रतुभिः सुराणाम्।

उत्पद्यते सार्धमृणैस्त्रिभिस्तै-

र्यस्यास्ति मोक्षः किल तस्य मोक्षः॥६५॥



इत्येवमेतेन विधिक्रमेण

मोक्षं सयत्नस्य वदन्ति तज्ज्ञाः।

प्रयत्नवन्तोऽपि हि विक्रमेण

मुमुक्षवः खेदमवाप्नुवन्ति॥६६॥



तत्सौम्य मोक्षे यदि भक्तिरस्ति

न्यायेन सेवस्व विधिं यथोक्तम्।

एवं भविष्यत्युपपत्तिरस्य

संतापनाशश्च नराधिपस्य॥६७॥



या च प्रवृत्ता तव दोषबुद्धि-

स्तपोवनेभ्यो भवनं प्रवेष्टुम्।

तत्रापि चिन्ता तव तात मा भूत

पूर्वेऽपि जग्मुः स्वगृहान्वनेभ्यः॥६८॥



तपोवनस्थोऽपि वृतः प्रजाभि-

र्जगाम राजा पुरमम्बरीषः।

तथा महीं विप्रकृतामनार्यै-

स्तपोवनादेत्य ररक्ष रामः॥६९॥



तथैव शाल्वाधिपतिर्द्रुमाख्यो

वनात्ससूरनुर्नगरं विवेश।

ब्रह्मार्षिभूतश्च मुनेर्वसिष्ठा-

द्दध्रे श्रियं सांकृतिरन्तिदेवः॥७०॥



एवंविधा धर्मयशःप्रदीप्ता

वनानि हित्वा भवनान्यतीयुः।

तस्मान्न दोषोऽस्ति गृहं प्रयातुं

तपोवनाद्धर्मनिमित्तमेव॥७१॥



ततो वचस्तस्य निशम्य मन्त्रिणः

प्रियं हितं चैव नृपस्य चक्षुषः।

अनूनमव्यस्तमसक्तमद्रुतं

धृतौ स्थितो राजसुतोऽब्रवीद्वचः॥७२॥



इहास्ति नास्तीति य एष संशयः

परस्य वाक्यैर्न ममात्र निश्चयः।

अवेत्य तत्त्वं तपसा शमेन च

स्वयं ग्रहीष्यामि यदत्र निश्चितम्॥७३॥



न मे क्षमं संशयजं हि दर्शनं

ग्रहीतुमव्यक्तपरस्पराहतम्।

बुधः परप्रत्ययतो हि को व्रजे-

ज्जनोऽन्धकारेऽन्ध इवान्धदेशिकः॥७४॥



अदृष्टतत्त्वस्य सतोऽपि किं तु मे

शुभाशुभे संशयितु शुभे मतिः।

वृथापि खेदो हि वरं शुभात्मनः

सुखं न तत्त्वेऽपि विगर्हितात्मनः॥७५॥



इमं तु दृष्ट्वागममव्यवस्थितं

यदुक्तमाप्त्तैस्तदवेहि साध्विति।

प्रहीणदोषत्वमवेहि चाप्ततां

प्रहीणदोषो ह्यनृतं न वक्ष्यति॥७६॥



गृहप्रवेशं प्रति यच्च मे भवा-

नुवाच रामप्रभृतीन्निदर्शनम्।

न ते प्रमाणं न हि धर्मनिश्चयै-

ष्वलं प्रमाणाय परिक्षतव्रताः॥७७॥



तदेवमप्येव रविर्मही पते-

दपि स्थिरत्वं हिमवान् गिरिस्त्यजेत्।

अदृष्टतत्त्वो विषयोन्मुखेन्द्रियः

श्रयेय न त्वेव गृहान् पृथग्जनः॥७८॥



अहं विशेयं ज्वलितं हुताशनं

न चाकृतार्थः प्रविशेयमालयम्।

इति प्रतिज्ञां स चकार गर्वितो

यथेष्टमुत्थाय च निर्ममो ययौ॥७९॥



ततः सबाष्पौ सचिवद्विजाबुभौ

निशम्य तस्य स्थिरमेव निश्चयम्।

विषण्णवक्त्रावनुगम्य दुःखितौ

शनैरगत्या पुरमेव जग्मतुः॥८०॥



तत्स्नेहादथ नृपतेश्च भक्तितस्तौ

सापेक्षं प्रतिययतुश्च तस्थतुश्च।

दुर्धर्ष रविमिव दीप्तमात्मभासा

तं द्रष्टुं न हि पथि शेकतुर्न मोक्तुम्॥८१॥



तौ ज्ञातुं परमगतेर्गतिं तु तस्य

प्रच्छन्नांश्चरपुरुषाञ्छुचीन्विधाय।

राजानं प्रियसुतलालसं नु गत्वा

द्रक्ष्यावः कथमिति जग्मतुः कथंचितु॥८२॥



इति बुद्धचरिते महाकाव्ये

कुमारान्वेषणों नाम नवमः सर्गः॥९॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project