Digital Sanskrit Buddhist Canon

अन्तःपुरविलापो नामाष्टमः सर्गः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
CANTO VIII



ततस्तुरङ्गावचरः स दुर्मना-

स्तथा वनं भर्तरि निर्ममे गते।

चकार यत्नं पथि शोकनिग्रहे

तथापि चैवाश्रु न तस्य चिक्षिये॥१॥



यमेकरात्रेण तु भर्तुराज्ञया

जगाम मार्ग सह तेन वाजिना।

इयाय भर्तुर्विरहं विचिन्तयं-

स्तमेव पन्थानमहोभिरष्टभिः॥२॥



हयश्च सौजा विचचार कन्थक-

स्तताम भावेन बभूव निर्मदः।

अलंकृतश्चापि तथैव भूषणै-

रभूद्गतश्रीरिव तेन वर्जितः॥३॥



निवृत्य चैवाभिमुखस्तपोवनं

भृशं जिहेषे करुणं मुहुर्मुहुः।

क्षुधान्वितोऽप्यध्वनि शष्पमम्बु वा

यथा पुरा नाभिनन्द नाददे॥४॥



ततो विहीनं कपिलाव्हयं पुरं

महात्मना तेन जगद्धितात्मना।

क्रमेण तौ शून्यमिवोपजग्मतु-

र्दिवाकरेणेव विनाकृतं नभः॥५॥



सपुण्डरीकैरपि शोभितं जलै-

रलंकृतं पुष्पधरैर्नगैरपि।

तदेव तस्योपवनं वनोपमं

गतप्रहर्षैर्न रराज नागरैः॥६॥



ततो भ्रमद्भिर्दिशि दीनमानसै-

रनुज्ज्वलैर्बाष्पहतेक्षणैर्नरैः।

निर्वायमाणाविव तावुभौ पुरं

शनैरपस्नातमिवाभिजग्मतुः॥७॥



निशाम्य च स्रस्तशरीरगामिनौ

विनागतौ शाक्यकुलर्षभेण तौ।

मुमोच बाष्पं पथि नागरो जनः

पुर रथे दाशरथेरिवागते॥८॥



अथ ब्रुवन्तः समुपेतमन्यवो

जनाः पथि च्छन्दकमागताश्रवः।

क्व राजपुत्रः पुरराष्ट्रनन्दनो

हृतस्त्वयासाविति पृष्ठतोऽन्वयुः॥९॥



ततः स तान् भक्तिमतोऽब्रवीज्जना-

न्नरेन्द्रपुत्रं न परित्यजाम्यहम्।

रुदन्नहं तेन तु निर्जने वने

गृहस्थवेशश्च विसर्जिताविति॥१०॥



इदं वचस्तस्य निशम्य ते जनाः

सुदुष्करं खल्विति निश्चयं ययुः।

पतद्धि जह्रुः सलिलं न नेत्रजं

मनो निनिन्दुश्च फलोत्थमात्मनः॥११॥



अथोचुरद्यैव विशाम तद्वनं

गतः स यत्र द्विपराजविक्रमः।

जिजीविषा नास्ति हि तेन नो विना

यथेन्द्रियाणां विगमे शरीरिणाम्॥१२॥



इदं पुरं तेन विवर्जितं वनं

वनं च तत्तेन समन्वितं पुरम्।

न शोभते तेन हि नो विना पुरं

मरुत्वता वृत्रवधे यथा दिवम्॥१३॥



पुनः कुमारो विनिवृत्त इत्यथो

गवाक्षमालाः प्रतिपेदिरेऽङ्गनाः।

विविक्तपृष्ठं च निशाम्य वाजिनं

पुनर्गवाक्षाणि पिधाय चुक्रुशुः॥१४॥



प्रविष्टदीक्षस्तु सुतोपलब्धये

व्रतेन शोकेन च खिन्नमानसः।

जजाप देवायतने नराधिप-

श्चकार तास्ताश्च यथाशयाः क्रियाः॥१५॥



ततः स बाष्पप्रतिपूर्णलोचन-

स्तुरङ्गमादाय तुरङ्गमानुगः।

विवेश शोकाभिहतो नृपक्षयं

युधापिनीते रिपुणेव भर्तरि॥१६॥



विगाहमानश्च नरेन्द्रमन्दिरं

विलोकयन्नश्रुवहेन चक्षुषा।

स्वरेण पुष्टेन रुराव कन्थको

जनाय दुःखं प्रतिवेदयन्निव॥१७॥



ततः खगाश्च क्षयमध्यगोचराः

समीपबद्धास्तुरगाश्च सत्कृताः।

हयस्य तस्य प्रतिसस्वनुः स्वनं

नरेन्द्रसूनोरुपयानशङ्किनः॥१८॥



जनाश्च हर्षतिशयेन वञ्चिता

जनाधिपान्तःपुरसंनिकर्षगाः।

यथा हयः कन्थक एष हेषते

ध्रुवं कुमारो विशतीति मेनिरे॥१९॥



अतिप्रहर्षादथ शोकमूर्छिताः

कुमारसंदर्शनलोललोचनाः।

गृहाद्विनिश्चक्रमुराशया स्त्रियः

शरत्पयोदादिव विद्युतश्चलाः॥२०॥



विलम्बकेश्यो मलिनांशुकाम्बरा

निरञ्जनैर्बाष्पहतेक्षणैर्मुखैः।

स्त्रियो न रेजुर्मृजया विनाकृता

दिवीव तारा रजनीक्षयारुणाः॥२१॥



अरक्तताम्रैश्चरणैरनूपुरै-

रकुण्डलैरार्जवकन्धरैर्मुखैः।

स्वभावपीनैर्जघनैरमेखलै-

रहारयोक्त्रैर्मुषितैरिव स्तनैः॥२२॥



निरीक्ष्य ता बाष्पपरीतलोचना

निराश्रयं छन्दकमश्वमेव च।

विषण्णवक्त्रा रुरुदुर्वराङ्गना

वनान्तरे गाव इवर्षभोज्झिताः॥२३॥



ततः सबाष्पा महीषी महीपतेः

प्रनष्टवत्सा महिषीव वत्सला।

प्रगृह्य बाहू निपपात गौतमी

विलोलपर्णा कदलीव काञ्चनी॥२४॥



हतत्विषोऽन्याः शिथिलांसबाहवः

स्त्रियो विषादेन विचेतना इव।

न चुक्रुशुर्नाश्रु जहुर्न शश्वसु-

र्न चेलुरासुर्लिखिता इव स्थिताः॥२५॥



अधीरमन्याः पतिशोकमूर्च्छिता

विलोचनप्रस्रवणैर्मुखैः स्त्रियः।

सिषिञ्चिरे प्रोषितचन्दनान् स्तना-

न्धराधरः प्रस्रवणैरिवोपलान्॥२६॥



मुखैश्च तासां नायनाम्बुताडितैं

रराज तद्राजनिवेशनं तदा।

नवाम्बुकालेऽम्बुदवृष्टिताडितैः

स्रवज्जलैस्तामरसैर्यथा सरः॥२७॥



सुवृत्तपिणाडगुलिभिर्निरन्तरै-

रभूषणैर्गूढसिरैर्वराङ्गनाः।

उरांसि जघ्नुः कमलोपमैः करैः

स्वपल्लवैर्वातचला लता इव॥२८॥



करप्रहारप्रचलैश्च ता बभु-

स्तथापि नार्यः सहितोन्नतैः स्तनैः।

वनानिलाघूर्णितपद्मकम्पितै

रथाङ्गनाम्नां मिथुनैरिवापगाः॥२९॥



यथा च वक्षांसि करैरपीडयं-

स्तथैव वक्षोभिरपीडयन् करान्।

अकारयंस्तत्र परस्परं व्यथाः

कराग्रवक्षांस्यबला दयालसाः॥३०॥



ततस्तु रोषप्रविरक्तलोचना

विषादसंबन्धिकषायगद्गदम्।

उवाच निश्वासचलत्पयोधरा

विगाढशोकाश्रुधरा यशोधरा॥३१॥



निशि प्रसुप्तामवशां विहाय मां

गतः क्व स छन्दक मन्मनोरथः।

उपागते च त्वयि कन्थके च मे

समं गतेषु त्रिषु कम्पते मनः॥३२॥



अनार्यमस्निग्धममित्रकर्म मे

नृशंस कृत्वा किमिहाद्य रोदिषि।

नियच्छ बाष्पं भव तुष्टमानसो

न संवदत्यश्रु च तच्च कर्म ते॥३३॥



प्रियेण वश्येन हितेन साधुना

त्वया सहायेन यथार्थकारिणा।

गतोऽर्यपुत्रो ह्यपुनर्निवृत्तये

रमस्व दिष्ट्या सफलः श्रमस्तव॥३४॥



वरं मनुष्यस्य विचक्षणो रिपु-

र्न मित्रमप्राज्ञमयोगपेशलम्।

सुहृद्‍ब्रुवेण ह्यविपश्चिता त्वया

कृतः कुलस्यास्य महानुपप्लवः॥३५॥



इमा हि शोच्या व्यवमुक्तभूषणाः

प्रसक्तबाष्पाविलरक्तलोचनाः।

स्थितेऽपि पत्यौ हिमवन्महीसमे

प्रनष्टशोभा विधवा इव स्त्रियः॥३६॥



इमाश्च विक्षिप्तविटङ्कबाहवः

प्रसक्तपारावतदीर्घनिस्वनाः।

विनाकृतास्तेन सहावरोधनै-

र्भृशं रुदन्तीव विमानपङ्‍क्तयः॥३७॥



अनर्थकामोऽस्य जनस्य सर्वथा

तुरङ्गमोऽपि ध्रुवमेष कन्थकः।

जहार सर्वस्वमितस्तथा हि मे

जने प्रसुप्ते निशि रत्नचौरवत्॥३८॥



यदा समर्थः खलु सोढुमागता-

निषुप्रहारानपि किं पुनः कशाः।

गतः कशापातभयात्कथं न्वयं

श्रियं गृहीत्वा हृदयं च मे समम्॥३९॥



अनार्यकर्मा भृशमद्य हेषते

नरेन्द्रधिष्ण्यं प्रतिपूरयन्निव।

यदा तु निर्वाहयति स्म मे प्रियं

तदा हि मूकस्तुरगाधमोऽभवत्॥४०॥



यदि ह्यहेषिष्यत बोधयन् जनं

खुरैः क्षितौ वाप्यकरिष्यत ध्वनिम्।

हनुस्वनं वाजनयिष्यदुत्तमं

न चाभविष्यन्मम दुःखमीदृशम्॥४१॥



इतीह देव्याः परिदेविताश्रयं

निशम्य बाष्पग्रथिताक्षरं वचः।

अधोमुखः साश्रुकलः कृताञ्जलिः

शनैरिदं छन्दक उत्तरं जगौ॥४२॥



विगर्हितुं नार्हसि देवि कन्थकं

न चापि रोषं मयि कर्तुमर्हसि।

अनागसौ स्वः समवेहि सर्वशो

गतो नृदेवः स हि देवि देववत्॥४३॥



अहं हि जानन्नपि राजशासनं

बलात्कृतः कैरपि दैवतैरिव।

उपानयं तूर्णमिमं तुरङ्गमं

तथान्वगच्छं विगतश्रमोऽध्वनि॥४४॥



व्रजन्नयं वजिवरोऽपि नास्पृश-

न्मही खुराग्रैर्विधृतैरिवान्तरा।

तथैव दैवादिव संयताननो

हनुस्वनं नाकृत नाप्यहेषत॥४५॥



यतो बहिर्गच्छति पार्थिवात्मजे

तदाभवद्द्वारमपावृतं स्वयम्।

तमश्च नैशं रविणेव पाटितं

तपोऽपि दैवो विधिरेष गृह्यताम्॥४६॥



यदप्रमत्तोऽपि नरेन्द्रशासनाद्

गृहे पुरे चिव सहस्रशो जनः।

तदा स नाबुध्यत निद्रया हृत-

स्ततोऽपि दैवो विधिरेष गृह्यताम्॥४७॥



यतश्च वासो वनवाससंमतं

निसृष्टमस्मै समये दिवौकसा।

दिवि प्रविद्धं मुकुटं च तद्‍धृतं

ततोऽपि दैवो विधिरेष गृह्यताम्॥४८॥



तदेवमावां नरदेवि दोषतो

न तत्प्रयातं प्रति गन्तुमर्हसि।

न कामकारो मम नास्य वाजिनः

कृतानुयात्रः स हि दैवतैर्गतः॥४९॥



इति प्रयाणं बहुदेवमद्‍भूतं

निशम्य तास्तस्य महात्मनः स्त्रियः।

प्रनष्टशोका इव विस्मयं ययु-

र्मनोज्वरं प्रव्रजनात्तु लेभिरे॥५०॥



विषादपारिप्लवलोचना ततः

प्रनष्टपोता कुररीव दुःखिता।

विहाय धैर्य विरुराव गौतमी

तताम चैवाश्रुमुखी जगाद च॥५१॥



महोर्मिमन्तो मृदवोऽसिताः शुभाः

पृथक्‍पृथङ्मूलरुहाः समुद्गताः।

प्रवेरितास्ते भुवि तस्य मुर्धजा

नरेन्द्रमौलीपरिवेष्टनक्षमाः॥५२॥



प्रलम्बबाहुर्मृगराजविक्रमो

महर्षभाक्षः कनकोज्ज्वलद्युतिः।

विशालवक्षा घनदुन्दुभिस्वन-

स्तथाविधोऽप्याश्रमवासमर्हति॥५३॥



अभागिनी नूनमियं वसुंधरा

तमार्यकर्माणमनुत्तमं पतिम्।

गतस्ततोऽसौ गुणवान् हि तादृशो

नृपः प्रजाभाग्यगुणैः प्रसूयते॥५४॥



सुजातजालावतताङ्गुली मृदू

निगूढगुल्फौ बिसपुष्पकोमलौ।

वनान्तभूमिं कठिनां कथं नु तौ

सचक्रमध्यौ चरणौ गमिष्यतः॥५५॥



विमानपृष्ठे शयनासनोचितं

महार्हवस्त्रागुरुचन्दनार्चितम्।

कथं नु शीतोष्णजलागमेषु त-

च्छरीरमोजस्वि वने भविष्यति॥५६॥



कुलेन सत्त्वेन बलेन वर्चसा

श्रुतेन लक्ष्म्या वयसा च गर्वितः।

प्रदातुमेवाभ्युचितो न याचितुं

कथं स भिक्षां परतश्चरिष्यति॥५७॥



शुचौ शयित्वा शयने हिरण्मये

प्रबोध्यमानो निशि तूर्यनिस्वनैः।

कथं बत स्वप्स्यति सोऽद्य मे व्रती

पटैकदेशान्तरिते महीतले॥५८॥



इमं प्रलापं करुणं निशम्य ता

भुजैः परिष्वज्य परस्परं स्त्रियः।

विलोचनेभ्यः सलिलानि तत्यजु-

र्मधूनि पुष्पेभ्य इवेरिता लताः॥५९॥



ततो धरायामपतद्यशोधरा

विचक्रवाकेव रथाङ्गसाव्हया।

शनैश्च तत्तद्विललाप विक्लवा

मुहुर्मुहुर्गद्गदरुद्धया गिरा॥६०॥



स मामनाथां सहधर्मचारिणी-

मपास्य धर्म यदि कर्तुमिच्छति।

कुतोऽस्य धर्मः सहधर्मचारिणी

विना तपो यः परिभोक्तुमिच्छति॥६१॥



शृणोति नूनं स न पूर्वपार्थिवा-

न्महासुदर्शप्रभृतीन् पितामहान्।

वनानि पत्नीसहितानुपेयुष-

स्तथा हि धर्म मदृते चिकीर्षीते॥६२॥



मखेषु वा वेदविधानसंस्कृतौ

न दंपती पश्यति दीक्षिताबुभौ।

समं बुभुक्षू परतोऽपि तत्फलं

ततोऽस्य जातो मयि धर्ममत्सरः॥६३॥



ध्रुवं स जानन्मम धर्मवल्लभो

मनः प्रियेर्ष्याकलहं मुहुर्मिथः।

सुखं विभीर्मामपहाय रोषणां

महेन्द्रलोकेऽप्सरसो जिघृक्षति॥६४॥



इयं तु चिन्ता मम कीदृशं नु ता

वपुर्गुणं बिभ्रति तत्र योषितः।

वने यदर्थ स तपांसि तप्यते

श्रियं च हित्वा मम भक्तिमेव च॥६५॥



न खल्वियं स्वर्गसुखाय मे स्पृहा

न तज्जनस्यात्मवतोऽपि दुर्लभम्।

स तु प्रियो मामिह वा परत्र वा

कथं न जह्यादिति मे मनोरथः॥६६॥



अभागिनी यद्यहमायतेक्षणं

शुचिस्मितं भर्तुरुदीक्षितुं मुखम्।

न मन्दभाग्योऽर्हति राहुलोऽप्ययं

कदाचिदङ्के परिवर्तितुं पितुः॥६७॥



अहो नृशंसं सुकुमारवर्चसः

सुदारुणं तस्य मनस्विनो मनः।

कलप्रलापं द्विषतोऽपि हर्षणं

शिशुं सुतं यस्त्यजतीदृशं बत॥६८॥



ममापि कामं हृदयं सुदारुणं

शिलामयं वाप्ययसोऽपि वा कृतम्।

अनाथवच्छ्रीरहिते सुखोचिते

वनं गते भर्तरि यन्न दीर्यते॥६९॥



इतीह देवी पतिशोकमूर्छिता

रुरोद दध्यौ विललाप चासकृत्।

स्वभावधीरापि हि सा सती शुचा

धृतिं न सस्मार चकार नो ह्रियम्॥७०॥



ततस्तथा शोकविलापविक्लवां

यशोधरां प्रेक्ष्य वसुंधरागताम्।

महारविन्दैरिव वृष्टिताडितै-

र्मुखैः सबाष्पैर्वनिता विचुक्रुशुः॥७१॥



समाप्तजाप्यः कृतहोममङ्गलो

नृपस्तु देवायतनाद्विनिर्ययौ।

जनस्य तेजार्तरवेण चाहत-

श्चचाल वज्रध्वनिनेव वारणः॥७२॥



निशाम्य च च्छन्दककन्थकावुभौ

सुतस्य संश्रुत्य च निश्चयं स्थिरम्।

पपात शोकाभिहतो महीपतिः

शचीपतेर्वृत्त इवोत्सवे ध्वजः॥७३॥



ततो मुहूर्त सुतशोकमोहितो

जनेन तुल्याभिजनेन धारितः।

निरीक्ष्य दृष्ट्या जलपूर्णया हयं

महीतलस्थो विललाप पार्थिवः॥७४॥



बहूनि कृत्वा समरे प्रियाणि मे

महत्त्वया कन्थक विप्रियं कृतम्।

गुणप्रियो येन वने स मे प्रियः

प्रियोऽपि सन्नप्रियवत्प्रवेरितः॥७५॥



तदद्य मां वा नय तत्र यत्र स

व्रज द्रुतं वा पुनरेनमानय।

ऋते हि तस्मान्मम नास्ति जीवितं

विगाढरोगस्य सदौषधादिव॥७६॥



सुवर्णनिष्ठीविनि मृत्युना हृते

सुदुष्करं यन्न ममार संजयः।

अहं पुनर्धर्मरतौ सुते गते

मुमुक्षुरात्मानमनात्मवानिव॥७७॥



विभोर्दशक्षत्रकृतः प्रजापतेः

परापरज्ञस्य विवस्वदात्मनः।

प्रियेण पुत्रेण सता विनाकृतं

कथं न मुह्येद्धि मनो मनोरपि॥७८॥



अजस्य राज्ञस्तनयाय धीमते

नराधिपायेन्द्रसखाय मे स्पृहा।

गते वनं यस्तनये दिवं गतो

न मोघबाष्पः कृपणं जिजीव ह॥७९॥



प्रचक्ष्व मे भद्र तदाश्रमाजिरं

हृतस्त्वया यत्र स मे जलाञ्जलिः।

इमे परीप्सन्ति हि तं पिपासवो

ममासवः प्रेतगतिं यियासवः॥८०॥



इति तनयवियोगजातदुःख

क्षितिसदृशं सहजं विहाय धैर्यम्।

दशरथ इव रामशोकवश्यो

बहु विललाप नृपो विसंज्ञकल्पः॥८१॥



श्रुतविनयगुणान्वितस्ततस्तं

मतिसचिवः प्रवया पुरोहितश्च।

समधृतमिदमूचतुर्यथाव-

न्न च परिप्तमुखौ न चाप्यशोकौ॥८२॥



त्यज नरवर शोकमेहि धैर्य

कुधृतिरिवार्हसि धीर नाश्रु मोक्तुम्।

स्रजमिव मृदितामपास्य लक्ष्मीं

भुवि बहवो हि नृपा वनान्यभीयुः॥८३॥



अपि च नियत एष तस्य भावः

स्मर वचनं तदृषेः पुरासितस्य।

न हि स दिवि न चक्रवर्तिराज्ये

क्षणमपि वासयितुं सुखेन शक्यः॥८४॥



यदि तु नृवर कार्य एव यत्न-

स्त्वरितमुदाहर यावदत्र यावः।

बहुविधिमिह युद्धमस्तु ताव-

त्तव तनयस्य विधेश्च तस्य तस्य॥८५॥



नरपतिरथ तौ शशास तस्माद्

द्रुतमित एव युवामभिप्रयातम्।

न हि मम हृदयं प्रयाति शान्तिं

वनशकुनेरिव पुत्रलालसस्य॥८६॥



परममिति नरेन्द्रशासनात्तौ

ययतुरमात्यपुरोहितौ वनं तत्।

कृतमिति सवधूजनः सदारो

नृपतिरपि प्रचकार शेषकार्यम्॥८७॥



इति बुद्धचरिते महाकाव्येऽन्तःपुरविलापो

नामाष्टमः सर्गः॥८॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project