Digital Sanskrit Buddhist Canon

तपोवनप्रवेशो नाम सप्तमः सर्गः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Tapovanapraveśo nāma saptamaḥ sargaḥ

CANTO VII



ततो विसृज्याश्रुमुखं रुदन्तं

छन्दं वनच्छन्दतया निरास्थः।

सर्वार्थसिद्धो वपुषाभिभूय

तमाश्रमं सिद्ध इव प्रपेदे॥१॥



स राजसूनुर्मृगराजगामी

मृगाजिरं तन्मृगवत्प्रविष्टः।

लक्ष्मीवियुक्तोऽपि शरीरलक्ष्म्या

चक्षूंषि सर्वाश्रमिणां जहार॥२॥



स्थिता हि हस्तस्थयुगास्तथैव

कौतूहलाच्चक्रधराः सदाराः।

तमिन्द्रकल्पं ददृशुर्न जग्मु-

र्धुर्या इवार्धावनतैः शिरोभिः॥३॥



विप्राश्च गत्वा बहिरिध्महेतोः

प्राप्ताः समित्पुष्पवित्रहस्ताः।

तपःप्रधानाः कृतबुद्धयोऽपि

तं द्रष्टुमीयुर्न मठानभीयुः॥४॥



हृष्टाश्च केका मुमुचुर्मयूरा

दृष्ट्वाम्बुदं नीलमिवोन्नमन्तः।

शष्पाणि हित्वाभिमुखाश्च तस्थु-

र्मृगाश्चलाक्षा मृगचारिणश्च॥५॥



दृष्ट्वा तमिक्ष्वाकुकुलप्रदीपं

ज्वलन्तमुद्यन्तमिवांशुमन्तम्।

कृतेऽपि दोहे जनितप्रमोदाः

प्रसुस्रुवुर्होमदुहश्च गावः॥६॥



कश्चिद्वसूनामयमष्टमः स्या-

त्स्यादाविश्वनोरन्यतरश्च्युतो वा।

उच्चेरुरुच्चैरिति तत्र वाच-

स्तद्दर्शनाद्विस्मयजा मुनीनाम्॥७॥



लेखर्षभस्येव वपुर्द्वितीयं

धामेव लोकस्य चराचरस्य।

स द्योतयामास वनं हि कृत्स्नं

यदृच्छया सूर्य इवावतीर्णः॥८॥



ततः स तैराश्रमिभिर्यथाव-

दभ्यर्चितश्चोपनिमन्त्रितश्च।

प्रत्यर्चयां धर्मभृतो बभूव

स्वरेण साम्भोऽम्बुधरोपमेन॥९॥



कीर्णं तथा पुण्यकृता जनेन।

स्वर्गाभिकामेन विमोक्षकामः।

तमाश्रमं सोऽनुचचार धिर-

स्तपांसि चित्राणि निरीक्षमाणः॥१०॥



तपोविकारांश्च निरीक्ष्य सौम्य-

स्तपोवने तत्र तपोधनानाम्।

तपस्विनं कंचिदनुव्रजन्तं

तत्त्वं विजिज्ञासुरिदं बभाषे॥११॥



तत्पूर्वमद्याश्रमदर्शनं मे

यास्मादिमं धर्मविधिं न जाने।

तस्माभ्दवानर्हति भाषितुं मे

यो निश्चयो यत्प्रति वः प्रवृत्तः॥१२॥



ततो द्विजातिः स तपोविहारः

शाक्यर्षभायर्षभविक्रमाय।

क्रमेण तस्मै कथयांचकार

तपोविशेषांस्तपसः फलं च॥१३॥



अग्राम्यमन्नं सलिले प्ररूढं

पर्णीन तोयं फलमूलमेव।

यथागमं वृत्तिरियं मुनीनां

भिन्नास्तु ते ते तपसां विकल्पाः॥१४॥



उञ्छेन जीवन्ति खगा इवान्ये

तृणानि केचिन्मृगवच्चरन्ति।

केचिद्‍भुजङ्गैः सह वर्तयन्ति

वल्मीकभूता वनमारुतेन॥१५॥



आश्मप्रयत्नार्जितवृत्तयोऽन्ये

केचित्स्वदन्तापहतान्नभक्षाः।

कृत्वा परार्थ श्रपणं तथान्ये

कुर्वन्ति कार्यं यदि शेषमस्ति॥१६॥



केचिज्जलक्लिन्नजटाकलापा

द्विः पावकं जुव्हति मन्त्रपूर्वम्।

मीनैः समं केचिदपो विगाह्य

वसन्ति कूर्मोल्लिखितैः शरीरैः॥१७॥



एवंविधैः कालचितैस्तपोभिः

परैर्दिवं यान्त्यपरैर्नृलोकम्।

दुःखेन मार्गेण सुखं ह्युपैति

सुखं हि धर्मस्य वदन्ति मूलम्॥१८॥



इत्येवमादि द्विपदेन्द्रवत्सः

श्रुत्वा वचस्तस्य तपोधनस्य।

अदृष्टतत्त्वोऽपि न संतुतोष।

शनैरिदं चात्मगतं बभाषे॥१९॥



दुःखात्मकं नैकविधं तपश्च

स्वर्गप्रधानं तपसः फलं च।

लोकाश्च सर्वे परिणामवन्तः

स्वल्पे श्रमः खल्वयमाश्रमाणाम्॥२०॥



प्रियांश्च बन्धून्विषयांश्च हित्वा

ये स्वर्गहेतोर्नियमं चरन्ति।

ते विप्रयुक्ताः खलु गन्तुकामा

महत्तरं बन्धनमेव भूयः॥२१॥



कायक्लमैर्यश्च तपोऽभिधानैः

प्रवृत्तिमकाङ्क्षति कामहेतोः।

संसारदोषानपरीक्षमाणो

दुःखेन सोऽन्विच्छति दुःखमेव॥२२॥



त्रासश्च नित्यं मरणात्प्रजानां

यत्नेन चेच्छन्ति पुनःप्रसूतिम्।

सत्यां प्रवृत्तौ नियतश्च मृत्यु-

स्तत्रैव मग्ना यत एव भीताः॥२३॥



इहार्थमेके प्रविशन्ति खेदं

स्वर्गार्थमन्ये श्रममाप्नुवन्ति।

सुखार्थमाशाकृपणोऽकृतार्थः

पतत्यनर्थे खलु जीवलोकः॥२४॥



न खल्वयं गर्हित एव यत्नो

यो हीनमृत्सृज्य विशेषगामि।

प्राज्ञैः समानेन परिश्रमेण

कार्यं तु तद्यत्र पुनर्न कार्यम्॥२५॥



शरीरपीडा तु यदीह धर्मः

सुखं शरीरस्य भवत्यधर्मः।

धर्मेण चाप्नोति सुखं परत्र

तस्मादधर्म फलतीह धर्मः॥२६॥



यतः शरीरं मनसो वशेन

प्रवर्तते चापि निवर्तते च।

युक्तो दमश्चेतस एव तस्मा-

च्चित्तादृते काष्ठसमं शरीरम्॥२७॥



आहारशुद्ध्या यदि पुण्यमिष्टं

तस्मान्मृगानामपि पुण्यमस्ति।

ये चापि बाह्याः पुरुषाः फलेभ्यो

भाग्यापराधेन पराङ्मुखार्थाः॥२८॥



दुःखेऽभिसंधिस्त्वथ पुण्यहेतुः

सुखेऽपि कार्यो ननु सोऽभिसंधिः।

अथ प्रमाणं न सुखेऽभिसंधि-

र्दुःखे प्रमाणं ननु नाभिसंधिः॥२९॥



तथैव ये कर्मविशुद्धिहेतोः

स्पृशन्त्यपस्तीर्थमिति प्रवृत्ताः।

तत्रापि तोषो हृदि केवलोऽयं

न पावयिष्यन्ति हि पापमापः॥३०॥



स्पृष्टं हि यद्यद्गुणवद्भिरम्भ-

स्तत्तत्पृथिव्यां यदि तीर्थमिष्टम्।

तस्माद्‍गुणानेव परैमि तीर्थ-

मापस्तु निःसंशयमाप एव॥३१॥



इति स्म तत्तद्‍बहुयुक्तियुक्तं

जगाद चास्तं च ययौ विवस्वान्।

ततो हविर्धूमविवर्णवृक्षं

तपःप्रशान्तं स वनं विवेश॥३२॥



अभ्युद्‍धृतप्रज्वलिताग्निहोत्रं

कृताभिषेकर्षिजनावकिर्णम्।

जाप्यस्वनाकूजितदेवकोष्ठं

धर्मस्य कर्मान्तमिव प्रवृत्तम्॥३३॥



काश्चिन्निशास्तत्र निशाकराभः

परीक्षमाणश्च तपांस्युवास।

सर्व परिक्षेप्य तपश्च मत्वा

तस्मात्तपःक्षेत्रतलाज्जगाम॥३४॥



अन्वव्रजन्नाश्रमिणस्ततस्तं

तद्‍रूपमाहात्म्यगतैर्मनोभिः।

देशादनार्यैरभिभूयमाना-

न्महर्षयो धर्ममिवापयान्तम्॥३५॥



ततो जटावल्कलचीरखेलां-

स्तपोधनांश्चैव स तान्ददर्श।

तपांसि चैषामनुरुध्यमान-

स्तस्थौ शिवे श्रीमति वृक्षमूले॥३६॥



अथोपसृत्याश्रमवासिनस्तं

मनुष्यवर्य परिवार्य तस्थुः।

वृद्धश्च तेषां बहुमानपूर्वं

कलेन साम्ना गिरमित्युवाच॥३७॥



त्वय्यागते पूर्ण इवाश्रमोऽभू-

त्संपद्यते शून्य एव प्रयाते।

तस्मादिमं नार्हसि तात हातुं

जिजीविषोर्देहमिवेष्टमायुः॥३८॥



ब्रह्मर्षिराजर्षिसुरर्षिजुष्टः

पुण्यः समीपे हिमवान् हि शैलः।

तपांसि तान्येव तपोधनानां

यत्संनिकर्षाद्‍बहुलीभवन्ति॥३९॥



तीर्थानि पुण्यायान्यभितस्तथैव

सोपानभूतानि नभस्तलस्य

जुष्टानि धर्मात्मभिरात्मवद्भि-

र्देवर्षिभिश्चैव महर्षिभिश्च॥४०॥



इतश्च भूयः क्षममुत्तरैव

दिक्सेवितुं धर्मीवशेषहेतोः।

न तु क्षमं दक्षिणतो बुधेन

पदं भवेदेकमपि प्रयातुम्॥४१॥



तपोवनेऽस्मिन्नथ निष्क्रियो वा

संकीर्णधर्मापतितोऽशुचिर्वा।

दृष्टस्त्वया येन न ते विवत्सा

तद्‍ब्रूहि यावद्‍रुचितोऽस्तु वासः॥४२॥



इमे हि वाञ्छन्ति तपःसहायं

तपोनिधानप्रतीमं भवन्तम्।

वासस्त्वया हीन्द्रसमेन सार्ध

बृहस्पतेरभ्युदयावहः स्यात्॥४३॥



इत्येवमुक्ते स तपस्विमध्ये

तपस्विमुख्येन मनीषिमुख्यः।

भवप्रणाशाय कृतप्रतिज्ञः

स्वं भावामन्तर्गतमाचचक्षे॥४४॥



ऋज्वात्मनां धर्मभृतां मुनीना-

मिष्टातिथित्वात्स्वजनोपमानाम्।

एवंविधैर्मा प्रति भावजातैः

प्रीतिः परा मे जनितश्च मानः॥४५॥



स्निग्धाभिराभिर्हृदयंगमाभिः

समासतः स्नात इवास्मि वाग्भिः।

रतिश्च मे धर्मनवग्रहस्य

विस्पन्दिता संप्रति भूय एव॥४६॥



एवं प्रवृत्तान् भवतः शरण्या-

नतीव संदर्शितपक्षपातान्।

यास्यामि हित्वेति ममापि दुःखं

यथैव बन्धूंस्त्यजतस्तथैव॥४७॥



स्वर्गाय युष्माकमयं तु धर्मो

ममाभिलाषस्त्वपुनर्भवाय।

अस्मिन्वने येन न मे विवत्सा

भिन्नः प्रवृत्त्या हि निवृत्तिधर्मः॥४८॥



तन्नारतिर्मे न परापचारो

वनादितो येन परिव्रजामि।

धर्मे स्थिताः पूर्वयुगानुरूपे

सर्वे भवन्तो हि महर्षिकल्पाः॥४९॥



ततो वचः सूनृतमर्थवच्च

सुश्लक्ष्णमोजस्वि च गर्वित च।

श्रुत्वा कुमारस्य तपस्विनस्ते

विशेषयुक्तं बहुमानमीयुः॥५०॥



कश्चिद्‍द्विजस्तत्र तु भस्मशायी

प्रांशुः शिखी दारवचीरवासाः।

आपिङ्गलाक्षस्तनुदीर्घघोणः

कुण्डैकहस्तो गिरमित्युवाच॥५१॥



धीमन्नुदारः खलु निश्चयस्ते

यस्त्वं युवा जन्मनि दृष्टदोषः।

स्वर्गापवर्गौ हि विचार्य सम्य-

ग्यस्यापवर्गे मतिरस्ति सोऽस्ति॥५२॥



यज्ञैस्तपोभिर्नियमैश्च तैस्तैः

स्वर्ग यियासन्ति हि रागवन्तः।

रागेण सार्ध रिपुणेव युद्ध्वा

मोक्षं परीप्सन्ति तु सत्त्ववन्तः॥५३॥



तद्‍बुद्धिरेषा यदि निश्चिता ते

तूर्णं भवान् गच्छतु विन्ध्यकोष्ठम्।

असौ मुनिस्तत्र वसत्यराडो

यो नैष्ठिके श्रेयसि लब्धचक्षुः॥५४॥



तस्माद्भवाञ्च्छ्रोष्यति तत्त्वमार्ग

सत्यां रुचौ संप्रतिपत्स्यते च।

यथा तु पश्यामि मतिस्तथैषा

तस्यापि यास्यत्यवधूय बुद्धिम्॥५५॥



स्पष्टोच्चघोणं विपुलायताक्षं।

ताम्राधरौष्ठं सिततीक्षणदंष्ट्रम्।

इदं हि वक्तुं तनुरक्तजिव्हं

ज्ञेयार्णवं पास्यति कृत्स्नमेव॥५६॥



गम्भीरता या भवतस्त्वगाधा

या दीप्तता यानि च लक्षणानि।

आचार्यकं प्राप्स्यसि तत्पृथिव्यां

यन्नर्षिभिः पूर्वयुगेऽप्यवाप्तम्॥५७॥



परममिति ततो नृपात्मज-

स्तमृषिजनं प्रतिनन्द्य निर्ययौ।

विधिवदनुविधाय तेऽपि तं

प्रविविशुराश्रमिणस्तपोवनम्॥५८॥



इति बुद्धचरिते महाकाव्ये

तपोवनप्रवेशो नाम सप्तमः सर्गः॥७॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project