Digital Sanskrit Buddhist Canon

छन्दकनिवर्तनो नाम षष्ठः सर्गः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
CANTO VI



ततो मुहूर्ताभ्युदिते

जगच्चक्षुषि भास्करे।

भार्गवस्याश्रमपदं

स ददर्श नृणां वरः॥१॥



सुप्तविश्वस्तहरिणं

स्वस्थस्थितविहङ्गमम्।

विश्रान्त इव यद्‍दृष्ट्वा

कृतार्थ इव चाभवत्॥२॥



स विस्मयनिवृत्त्यर्थ

तपःपूजार्थमेव च।

स्वां चानुवर्तिता रक्ष-

न्नश्वपृष्ठादवतारत्॥३॥



अवतीर्य च पस्पर्श

निस्तीर्णमिति वाजिनम्।

छन्दकं चाव्रवीत्प्रीतः

स्नापयन्निव चक्षुषा॥४॥



इमं तार्क्ष्योपमजवं

तुरङ्गमनुगच्छता।

दर्शिता सौम्य मद्भक्ति-

र्विक्रमश्चायमात्मनः॥५॥



सर्वथास्म्यन्यकार्योऽपि

गृहीतो भवता हृदि।

भर्तुस्नेहश्च यस्याय-

मीदृशः शक्तिरेव च॥६॥



अस्निग्धोऽपि समर्थोऽस्ति

निःसामर्थ्योऽपि भक्तिमान्।

भक्तिमांश्चैव शक्तश्च

दुर्लभस्त्वद्विधो भुवि॥७॥



तत्प्रीतोऽस्मि तवानेन

महाभागेन कर्मणा।

यस्य ते मयि भावोऽयं

फलेभ्योऽपि पराङ्मुखः॥८॥



को जनस्य फलस्थस्य

न स्यादभिमुखो जनः।

जनीभवति भूयिष्ठं

स्वजनोऽपि विपर्यये॥९॥



कुलार्थ धार्यते पुत्रः

पोषार्थ सेव्यते पिता।

आशयाच्छिलष्यति जग-

न्नास्ति निष्कारणा स्वता॥१०॥



किमुक्त्‍वा बहु संक्षेपा-

त्कृतं मे सुमहत्प्रियम्।

निवर्तस्वाश्वमादाय

संप्राप्तोऽस्मीप्सितं पदम्॥११॥



इत्युक्त्‍वा स महाबाहु-

रनुशंसचिकीर्षया।

भूषणान्यवमुच्यास्मै

संतप्तमनसे ददौ॥१२॥



मुकुटाद्दीपकर्माणं

मणीमादाय भास्वरम्।

ब्रुवन्वाक्यमिदं तस्थौ

सांदित्य इव मन्दरः॥१३॥



अनेन मणिना छन्द

प्रणम्य बहुशो नृपः।

विज्ञाप्योऽमुक्तविश्रम्भं

संतापविनिवृत्तये॥१४॥



जन्ममरणनाशार्थ

प्रविष्टोऽस्मि तपोवनम्।

न खलु स्वर्गतर्षेण

नास्नेहेन न मन्युना॥१५॥



तदेवमभिनिष्क्रान्तं

न मां शोचितुमर्हसि।

भूत्वापि हि चिरं श्लेषः

कालेन न भविष्यति॥१६॥



ध्रुवो यस्माच्च विश्लेष-

स्तस्मान्मोक्षाय मे मतिः।

विप्रयोगः कथं न स्याद्

भूयोऽपि स्वजनादिति॥१७॥



शोकत्यागाय निष्क्रान्तं

न मां शोचितुमर्हसि।

शोकहेतुषु कामेषु

सक्ताः शोच्यास्तु रागिणः॥१८॥



अयं च किल पूर्वेषा-

मस्माकं निश्चयः स्थिरः।

इति दायाद्यभूतेन

न शोच्योऽस्मि पथा व्रजन्॥१९॥



भवन्ति ह्यर्थदायादाः

पुरुषस्य विपर्यये।

पृथिव्यां धर्मदायादाः

दुर्लभास्तु न सन्ति वा॥२०॥



यदपि स्यादसमये

यातो वनमसाविति।

अकालो नास्ति धर्मस्य

जीविते चञ्चले सति॥२१॥



तस्मादद्यैव मे श्रेय-

श्चेतव्यमिति निश्चयः।

जीविते को हि विश्रम्भो

मृत्यौ प्रत्यर्थिनि स्थिते॥२२॥



एवमादि त्वया सौम्य

विज्ञाप्यो वसुधाधिपः।

प्रयतेथास्तथा चैव

यथा मां न स्मरेदापि॥२३॥



अपि नैर्गुण्यमस्माकं

वाच्यं नरपतौ त्वया।

नैर्गुण्यात्त्यज्यते स्नेहः

स्नेहत्यागान्न शोच्यते॥२४॥



इति वाक्यमिदं श्रुत्वा

छन्दः संतापविक्लवः।

बाष्पग्रथितया वाचा

प्रत्युवाच कृताञ्जलिः॥२५॥



अनेन त व भावेन

बान्धवायासदायिना।

भर्तः सीदति मे चेतो

नदीपङ्क इव द्विपः॥२६॥



कस्य नोत्पादयेद्‍बाष्पं

निश्चयस्तेऽयमीदृशः।

अयोमयेऽपि हृदये

किं पुनः स्नेहविक्लवे॥२७॥



विमानशयनार्हं हि

सौकुमार्यमिदं क्व च।

खरदर्भाङ्‍कुरवती

तपोवनमही क्व च॥२८॥



श्रुत्वा तु व्यवसायं ते

यदश्वोऽयं मयाहृतः।

बलात्कारेण तन्नाथ

दैवेनैवास्मि कारितः॥२९॥



कथं ह्यात्मवशो जानन्

व्यवसायमिमं तव।

उपानयेयं तुरगं

शोकं कपिलवास्तुनः॥३०॥



तन्नार्हसि महाबाहो

विहातुं पुत्रलालसम्।

स्निग्धं वृद्धं च राजानं

सद्धर्ममिव नास्तिकः॥३१॥



संवर्धनपरिश्रान्तां

द्वितीयां तां च मातरम्।

देवीं नार्हसि विस्मर्तु

कृतघ्न इव सत्क्रियाम्॥३२॥



बालपुत्रां गुणवर्ती

कुलश्लाध्यां पतिव्रताम्।

देवीमर्हसि न त्यक्तुं

क्लीबः प्राप्तामिव श्रियम्॥३३॥



पुत्रं याशोधरं श्लाध्यं

यशोधर्मभृतां वरम्।

बालमर्हसि न त्यक्तुं

व्यसनीवोत्तमं यशः॥३४॥



अथ बन्धुं च राज्यं च

त्यक्तुमेव कृता मतिः।

मां नार्हसि विभो त्यक्तुं

त्वत्पादौ हि गतिर्मम॥३५॥



नास्मि यातुं पुरं शक्तो

दह्यमानेन चेतसा।

त्वामरण्ये परित्यज्य

सुमन्त्र इव राघवम्॥३६॥



किं हि वक्ष्यति मां राजा

त्वदृते नगरं गतम्।

वक्ष्याम्युचितदर्शित्वा-

त्किं तवान्तःपुराणि वा॥३७॥



यदप्यात्थापि नैर्गुण्यं

वाच्यं नरपताविति।

किं तद्वक्ष्याम्यभूतं ते

निर्दोषस्य मुनेरिव॥३८॥



हृदयेन सलज्जेन

जिव्हया सज्जमानया।

अहं यदपि वा ब्रूयां

कस्तच्छ्रद्धातुमर्हति॥३९॥



यो हि चन्द्रमसस्तैक्ष्ण्यं

कथयेच्छ्रद्दधीत वा।

स दोषांस्तव दोषज्ञ

कथयेच्छ्रद्दधीत वा॥४०॥



सानुक्रोशस्य सततं

नित्यं करुणवेदिनः।

स्निग्धत्यागो न सदृशो

निवर्तस्व प्रसीद मे॥४१॥



इति शोकाभिभूतस्य

श्रुत्वा छन्दस्य भाषितम्।

स्वस्थः परमया धृत्या

जगाद वदतां वरः॥४२॥



मद्वियोगं प्रति च्छन्द

संतापस्त्यज्यतामयम्।

नानाभावो हि नियतं

पृथग्जातिषु देहिषु॥४३॥



स्वजनं यद्यपि स्नेहा-

न्न त्यजेयमहं स्वयम्।

मृत्युरन्योन्यमवशा-

नस्मान् संत्याजयिष्यति॥४४॥



महत्या तृष्णया दुःखै-

र्गर्भेणास्मि यया धृतः।

तस्या निष्फलयत्नायाः

क्वाहं मातुः क्व सा मम॥४५॥



वासवृक्षे समागम्य

विगच्छन्ति यथाण्डजाः।

नियतं विप्रयोगान्त-

स्तथा भूतसमागमः॥४६॥



समेत्य च यथा भूयो

व्यपयान्ति बलाहकाः।

संयोगो विप्रयोगश्च

तथा मे प्राणिनां मतः॥४७॥



यस्माद्याति च लोकोऽयं

विप्रलभ्य परंपरम्।

ममत्त्वं न क्षमं तस्मा-

त्स्वप्नभूते समागमे॥४८॥



सहजेन वियुज्यन्ते

पर्णरागेण पादपाः।

अन्येनान्यस्य विश्लेषः

किं पुनर्न भविष्यति॥४९॥



तदेवं सति संतापं

मा कार्षी सौम्य गम्यताम्।

लम्बते यदि तु स्नेहो

गत्वापि पुनराव्रज॥५०॥



ब्रूयाश्चास्मत्कृतापेक्षं

जनं कपिलवास्तुनि।

त्यज्यतां तग्दतः स्नेहः।

श्रूयतां चास्य निश्चयः॥५१॥



क्षिप्रमेष्यति वा कृत्वा

जन्ममृत्युक्षयं किल।

अकृतार्थो निरारम्भो

निधनं यास्यतीति वा॥५२॥



इति तस्य वचः श्रुत्वा

कन्थकस्तुरगोत्तमः।

जिव्हया लिलिहे पादौ

बाष्पमुष्णं मुमोच च॥५३॥



जालिना स्वस्तिकाङ्केन

चक्रमध्येन पाणिना।

आममर्श कुमारस्तं

बभाषे च वयस्यवत्॥५४॥



मुञ्च कन्थक मा बाष्पं

दर्शितेयं सदश्वता।

मृष्यतां सफलः शीघ्रं

श्रमस्तेऽयं भविष्यति॥५५॥



मणित्सरुं छन्दकहस्तसंस्थं

ततः स धीरो निशितं गृहीत्वा

कोशादसिं कञ्चनभक्तिचित्रं

बिलादिवशीविषमुद्‍बबर्ह॥५६॥



निष्कास्य तं चोत्पलपत्त्रनीलं

चिच्छेद चित्रं मुकुटं सकेशम्।

विकीर्यमाणांशुकमन्तरीक्षे

चिक्षेप चैनं सरसीव हंसम्॥५७॥



पूजाभिलाषेण च बाहुमान्या-

द्दिवौकसस्तं जगृहुः प्रविद्धम्।

यथावदेनं दिवि देवसङ्घा

दिव्यैर्विशेषैर्महयां च चक्रुः॥५८॥



मुक्त्‍वा त्वलंकारकलत्रवत्तां

श्रीविप्रवासं शिरसश्च कृत्वा।

दृष्ट्‍वांशुकं काञ्चनहंसचिन्हं

वन्यं स धीरोऽभिचकाङ्क्ष वासः॥५९॥



ततो मृगव्याधनपुर्दिवौका

भावं विदित्वास्य विशुद्धभावः।

काषायवस्त्रोऽभिययौ समीपं

तं शाक्यराजप्रभवोऽभ्युवाच॥६०॥



शिवं च काषायमृषिध्वजस्ते

न युज्यते हिंस्रमिदं धनुश्च।

तत्सौम्य यद्यस्ति न सक्तिरत्र

मह्यं प्रयच्छेदमिदं गृहाण॥६१॥



व्याधोऽब्रवीत्कामद काममारा-

दनेन विश्वास्य मृगाग्निहन्मि।

अर्थस्तु शक्रोपम यद्यनेन

हन्त प्रतीच्छानय शुक्लमेतत्॥६२॥



परेण हर्षेण ततः स वन्यं

जग्राह वासोऽशुकमुत्ससर्ज।

व्याधस्तु दिव्यं वपुरेव बिभ्र-

त्तच्छुक्लमादाय दिवं जगाम॥६३॥



ततः कुमारश्च स चाश्वगोप-

स्तस्मिंस्तथा याति विसिस्मियाते।

आरण्यके वाससि चैव भूय-

स्तस्मिन्नकार्ष्टा बहुमानमाशु॥६४॥



छन्दं ततः साश्रुमुखं विसृज्य

काषायसंभृद्‍धृतिकीर्तिभृत्सः।

येनाश्रमस्तेन ययौ महात्मा

संध्याभ्रसंवीत इवोडुराजः॥६५॥



ततस्तथा भर्तरि राज्यनिःस्पृहे

तपोवनं याति विवर्णवाससि।

भुजौ समुत्क्षिप्य ततः स वाजिभृद्

भृशं विचुक्रोश पपात च क्षितौ॥६६॥



विलोक्य भूयश्च रुरोद सस्वरं

हयं भुजाभ्यामुपगुह्य कन्थकम्।

ततो निराशो विलपनन्मुहुर्मुहु-

र्ययौ शरीरेण पुरं न चेतसा॥६७॥



क्वचित्प्रदध्यौ विललाप च क्वचित्

क्वचित्प्रचस्खाल पपात च क्वचित्।

अतो व्रजन् भक्तिवशेन दुःखित-

श्चचार बव्हीरवशः पथि क्रियाः॥६८॥



इति बुद्धचरिते महाकाव्ये

छन्दकनिवर्तनो नाम षष्ठः सर्गः॥६॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project