Digital Sanskrit Buddhist Canon

अभिनिष्क्रमणो नाम पञ्चमः सर्गः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
CANTO V



स तथा विषयैर्विलोभ्यमानः।

परमार्हैरपि शाक्यराजसूनुः।

न जगाम धृतिं न शर्म लेभे

हृदये सिंह इवातिदिग्धविद्धः॥१॥



अथ मन्तिसुतैः क्षमैः कदाचि-

त्सखिभिश्चित्रकथैः कृतानुयात्रः।

वनभूमिदिदृक्षया शमेप्सु-

र्नरदेवानुमतो बहिः प्रतस्थे॥२॥



नवरुक्मखलीनकिङ्किणीकं

प्रचलच्चारमरचारुहेमभाण्डम्।

अभिरुह्य स कन्थकं सदश्वं

प्रययौ केतुमिव द्रुमाब्जकेतुः॥३॥



स विकृष्टतरां वनान्तभूमिं

वनलोभाच्च ययौ महीगुणाच्च।

सलिलोर्मिविकारसीरमार्गां

वसुधां चैव ददर्श कृष्यमाणाम्॥४॥



हलभिन्नविकीर्णशष्पदर्भा

हतसूक्ष्मक्रिमिकीटजन्तुकीर्णाम्।

समवेक्ष्य रसां तथाविधां तां

स्वजनस्येव वधे भृशं शुशोच॥५॥



कृषतः पुरुषांश्च वीक्षमाणः

पवनार्काशुरजोविभिन्नवर्णान्।

वहनक्लमविक्लवांश्च धुर्यान्

परमार्यः परमां कृपां चकार॥६॥



अवतीर्य ततस्तुरङ्गपृष्ठा-

च्छनकैर्गा व्यचरच्छुचा परीतः।

जगतो जननव्ययं विचिन्वन्

कृपणं खल्विदमित्युवाच चार्तः॥७॥



मनसा च विविक्ततामभीप्सुः

सुहृदस्ताननुयायिनो निवार्य।

अभितश्चलचारुपर्णवत्या

विजने मूलमुपेयिवान् स जम्ब्वाः॥८॥



निषसाद स यत्र शौचवत्यां

भुवि वैदूर्यनिकाशशाद्वलायाम्।

जगतः प्रभवव्ययौ विचिन्व-

न्मनसश्च स्थितिमार्गमाललम्बे॥९॥



समवाप्तमनःस्थितिश्च सद्यो

विषयेच्छादिभिराधिभिश्च मुक्तः।

सवितर्कविचारमाप शान्तं

प्रथमं ध्यानमनास्रवप्रकारम्॥१०॥



अधिगम्य ततो विवेकजं तु

परमप्रीतिसुखं मनःसमाधिम्।

इदमेव ततः परं प्रदध्यौ

मनसा लोकगतिं निशाम्य सम्यक्॥११॥



कृपणं बत यज्जनः स्वयं स-

न्नवशो व्याधिजराविनाशधर्मा।

जरयार्दितमातुरं मृतं वा

परमज्ञो विजुगुप्सते मदान्धः॥१२॥



इह चेदहमीदृशः स्वयं स-

न्विजुगुप्सेय परं तथास्वभावम्।

न भवेत्सदृशं हि तत्क्षमं वा

परमं धर्ममिमं विजानतो मे॥१३॥



इति तस्य विपश्यतो यथाव-

ज्जगतो व्याधिजराविपत्तिदोषान्।

बलयौवनजीवितप्रवृत्तो

विजगामात्मगतो मदः क्षणेन॥१४॥



न जहर्ष न चापि चानुतेपे

विचिकित्सां न ययौ न तन्द्रिनिद्रे।

न च कामगुणेषु संररञ्जे

न विदिद्वेष परं न चावमेने॥१५॥



इति बुद्धिरियं च नीरजस्का

ववृधे तस्य महात्मनो विशुद्धा।

पुरुषैरपरैरदृश्यमानः

पुरुषश्चोपससर्प भिक्षुवेषः॥१६॥



नरदेवसुतस्तमभ्यपृच्छ-

द्वद कोऽसीति शशंस सोऽथ तस्मै।

नरपुंगव जन्ममृत्युभीतः

श्रमणः प्रव्रजितोऽस्मि मोक्षहेतोः॥१७॥



जगति क्षयधर्मके मुमुक्ष-

र्मृगयेऽहं शिवमक्षयं पदं तत्।

स्वजनेऽन्यजने च तुल्यबुद्धि-

र्विषयेभ्यो विनिवृत्तरागदोषः॥१८॥



निवसन् क्वचिदेव वृक्षमूले

विजने वायतने गिरौ वने वा।

विचराम्यपरिग्रहो निराशः

परमार्थाय यथोपपन्नभैक्षः॥१९॥



इति पश्यत एव राजसूनो-

रिदमुक्त्वा स नभः समुत्पपात।

स हि तद्वपुरन्यबुद्धदर्शी

स्मृतये तस्य समेयिवान्दिवौकाः॥२०॥



गगनं खगवद्‍गते च तस्मि-

नृवरः संजहृषे विसिस्मिये च।

उपलभ्य ततश्च धर्मसंज्ञा-

मभिनिर्याणविधौ मतिं चकार॥२१॥



तत इन्द्रसमो जितेन्द्रियाश्वः

प्रविविक्षुः पुरमश्वमारुरोह।

परिवारजनं त्ववेक्षमाण-

स्तत एवाभिमतं वनं न भेजे॥२२॥



स जरामरणक्षयं चिकीर्षु-

र्वनवासाय मतिं स्मृतौ निधाय।

प्रविवेश पुनः पुरं न कामा-

द्वनभूमेरिव मण्डलं द्विपेन्द्रः॥२३॥



सुखिता बत निर्वृता च सा स्त्री

पतिरीदृक्ष इहायताक्ष यस्याः।

इति तं समुदीक्ष्य राजकन्या

प्रविशन्तं पथि साञ्जलिर्जगाद॥२४॥



अथ घोषमिमं महाभ्रघोषः

परिशुश्राव शमं परं च लेभे।

श्रुतवान्स हि निर्वृतेति शब्दं

परिनिर्वाणविधौ मतिं चकार॥२५॥



अथ काञ्चनशैलशृङ्गवर्ष्मा

गजमेघर्षभबाहुनिस्वनाक्षः।

क्षयमक्षयधर्मजातरागः

शशिसिंहाननविक्रमः प्रपेदे॥२६॥



मृगराजगतिस्ततोऽभ्यगच्छ-

न्नृपतिं मन्त्रिगणैरुपास्यमानम्।

समितौ मरुतामिव ज्वलन्तं

मघवन्तं त्रिदिवे सनत्कुमारः॥२७॥



प्रणिपत्य च साञ्जलिर्बभाषे

दिश मह्यं नरदेव साध्वनुज्ञाम्।

परिविव्रजिषामि मोक्षहेतो-

र्नियतो ह्यस्य जनस्य विप्रयोगः॥२८॥



इति तस्य वचो निशम्य राजा

करिणेवाभिहतो द्रुमश्चचाल।

कमलप्रतिमेऽञ्जलौ गृहीत्वा

वचनं चेदमुवाच बाष्पकण्ठः॥२९॥



प्रतिसंहर तात् बुद्धिमेतां

न हि कालस्तव धर्मसंश्रयस्य।

वयसि प्रथमे मतौ चलायां

बहुदोषां हि वदन्ति धर्मचर्याम्॥३०॥



विषयेषु कुतूहलेन्द्रियस्य

व्रतखेदेष्वसमर्थीनिश्चयस्य।

तरुणस्य मनश्चलत्यरण्या-

दनभिज्ञश्च विशेषतो विवेके॥३१॥



मम तु प्रियधर्म धर्मकाल-

स्त्वयि लक्ष्मीमवसृज्य लक्ष्मभूते।

स्थिरविक्रम विक्रमेण धर्म-

स्तव हित्वा तु गुरुं भवेदधर्मः॥३२॥



तदिमं व्यवसायमुत्सृज त्वं

भव तावन्निरतो गृहस्थधर्मे।

पुरुषस्य वयःसुखानि भुक्त्वा

रमणीयो हि तपोवनप्रवेशः॥३३॥



इति वाक्यमिदं निशम्य राज्ञः

कलविङ्कस्वर उत्तरं बभाषे।

यदि मे प्रतिभूतश्चतुर्षु राजन्

भवसि त्वं न तपोवनं श्रयिष्ये॥३४॥



न भवेन्मरणाय जीवितं मे

विहरेत्स्वास्थ्यमिदं च मे न रोगः।

न च यौवनमाक्षिपेज्जरा मे

न च संपत्तिमिमां हरेद्विपत्तिः॥३५॥



इति दुर्लभमर्थमूचिवांसं

तनयं वाक्यमुवाच शाक्यराजः।

त्यज बुद्धिमिमामतिप्रवृत्ता-

मवहास्योऽतिमनोरथोऽक्रमश्च॥३६॥



अथ मेरुगुरुर्गुरुं बभाषे

यदि नास्ति क्रम एष नास्मि वार्यः।

शरणाज्ज्वलनेन दह्यमाना-

न्न हि निश्चिक्रमिषुः क्षमं ग्रहीतुम्॥३७॥



जगतश्च यदा ध्रुवो वियोगो

ननु धर्माय वरं स्वयवियोगः।

अवशं ननु विप्रयोजयेन्मा-

मकृतस्वार्थमतृप्तमेव मृत्युः॥३८॥



इति भूमिपतिर्निशम्य तस्य

व्यवसायं तनयस्य निर्मुमुक्षोः।

अभिधाय न यास्यतीति भूयो

विदधे रक्षणमुत्तमांश्च कामान्॥३९॥



सचिवैस्तु निदर्शितो यथावद्

बहुमानात्प्रणयाच्च शास्त्रपूर्वम्।

गुरुणा च निवारितोऽश्रुपातैः

प्रविवेशावसथं ततः स शोचन्॥४०॥



चलकुण्डलचुम्बिताननाभि-

र्घननिश्वासविकम्पितस्तनीभिः।

वनिताभिरधीरलोचनाभि-

मृर्गशावाभिरिवाभ्युदीक्ष्यमाणः॥४१॥



स हि काञ्चनपर्वतावदातो

हृदयेन्मादकरो वराङ्गनानाम्।

श्रवणाङ्गविलोचनात्मभावा-

न्वचनस्पर्शवपुर्गुणैर्जहार॥४२॥



विगते दिवसे ततो विमानं

वपुषा सूर्य इव प्रदीप्यमानः।

तिमिरं विजिघांसुरात्मभासा

रविरुद्यन्निव मेरुमारुरोह॥४३॥



कनकोज्ज्वलदीप्तदीपवृक्षं

वरकालागुरुधूपपूर्णगर्भम्।

अधिरुह्य स वज्रभक्तिचित्रं

प्रवरं काञ्चनमासनं सिषेवे॥४४॥



तत उत्तममुत्तमाङ्गनास्तं

निशि तूर्यैरुपतस्थुरिन्द्रकल्पम्।

हिमवच्छिरसीव चन्द्रगौरे

द्रविणेन्द्रात्मजमप्सरोगणौघाः॥४५॥



परमैरपि दिव्यतूर्यकल्पैः

स तु तैर्नैव रतिं ययौ न हर्षम्।

परमार्थसुखाय तस्य साधो-

रभिनिश्चिक्रमिषा यतो न रेमे॥४६॥



अथ तत्र सुरैस्तपोवरिष्ठै-

रकनिष्ठैर्व्यवसायमस्य बुद्ध्वा।

युगपत्प्रमदाजनस्य निद्रा

विहितासीद्विकृताश्च गात्रचेष्टाः॥४७॥



अभवच्छयिता हि तत्र काचि-

द्विनिवेश्य प्रचले करे कपोलम्।

दयितामपि रुक्मपत्त्रचित्रां

कुपितेवाङ्कगतां विहाय वीणाम्॥४८॥



विबभौ करलग्नवेणुरन्या

स्तनविस्रस्तसितांशुका शयाना।

ऋजुषट्पदपङ्क्तिजुष्टपद्मा

जलफेनप्रहसत्तटा नदीव॥४९॥



नवपुष्करगर्भकोमलाभ्यां

तपनीयोज्ज्वलसंगताङ्गदाभ्याम्।

स्वपिति स्म तथापरा भुजाभ्यां

परिरभ्य प्रियवन्मृदङ्गमेव॥५०॥



नवहाटकभूषणास्तथान्या

वसनं पीतमनुत्तमं वसानाः।

अवशा घननिद्रया निपेतु-

र्गजभग्ना इव कर्णिकारशाखाः॥५१॥



अवलम्ब्य गवाक्षपार्श्वमन्या

शयिता चापविभुग्नगात्रयष्टिः।

विरराज विलम्बिचारुहारा

रचिता तोरणाशालभञ्जिकेव॥५२॥



मणिकुण्डलदष्टपत्त्रलेखं

मुखपद्मं विनतं तथापरस्याः।

शतपत्त्रमिवार्धवक्रनाडं

स्थितकारण्डवघट्टितं चकाशे॥५३॥



अपराः शयिता यथोपविष्टाः

स्तनभारैरवनम्यमानगात्राः।

उपगुह्य परस्परं विरेजु-

र्भुजपाशैस्तपनीयपरिहार्यैः॥५४॥



महती परिवादिनी च काचि-

द्वनितालिङ्ग्य सखीमिव प्रसुप्ता।

विजुघूर्ण चलत्सुवर्णसूत्रा

वदनेनाकुलकर्णिकोज्ज्वलेन॥५५॥



पणवं युवतिर्भुजांसदेशा-

दवविस्रंसितचारूपाशमन्या।

सविलासरतान्ततान्तमूर्वो-

र्विवरे कान्तमिवाभिनीय शिश्ये॥५६॥



अपरा बभूवुर्निमीलिताक्ष्यो

विपुलाक्ष्योऽपि शुभभ्रुवोऽपि सत्यः।

प्रतिसंकुचितारविन्दकोशाः

सवितर्यस्तमिते यथा नलिन्यः॥५७॥



शिथिलाकुलमूर्धजा तथान्या

जघनस्रस्तविभूषणांशुकान्ता।

अशयिष्ट विकीर्णकण्ठसूत्रा

गजभग्ना प्रतियातनाङ्गनेव॥५८॥



अपरास्त्ववशा ह्रिया वियुक्ता

धृतिमत्योऽपि वपुर्गुणैरुपेताः।

विनिशश्वसुरुल्बणं शयाना

विकृताः क्षिप्तभूजा जजृम्भिरे च॥५९॥



व्यपविद्धविभूषणस्रजोऽन्या

विसृताग्रन्थनवाससो विसंज्ञाः।

अनिमीलितशुक्लनिश्चलाक्ष्यो

न विरेजुः शयिता गतासुकल्पाः॥६०॥



विवृतास्यपुटा विवृद्धगात्री

प्रपतद्वक्त्रजला प्रकाशगुह्या।

अपरा मदघूर्णितेव शिश्ये

न बभासे विकृतं वपुः पुपोष॥६१॥



इति सत्त्वकुलान्वयानुरूपं

विविधं स प्रमदाजनः शयानः।

सरसः सदृशं बभार रूपं

पवनावर्जितरुग्नपुष्करस्य॥६२॥



समवेक्ष्य तथा तथा शयाना

विकृतास्ता युवतीरधीरचेष्टाः।

गुणवद्वपुषोऽपि वल्गुभाषा

नृपसूनुः स विगर्हयांबभूव॥६३॥



अशुचिर्विकृतश्च जीवलोके

वनितानामयमीदृशः स्वभावः।

वसनाभरणैस्तु वञ्च्यमानः

पुरुषः स्त्रीविषयेषु रागमेति॥६४॥



विमृशेद्यदि योषितां मनुष्यः

प्रकृतिं स्वप्नविकारमीदृशं च।

ध्रुवमत्र न वर्धयेत्प्रमादं

गुणसंकल्पहतस्तु रागमेति॥६५॥



इति तस्य तदन्तरं विदित्वा

निशि निश्चिक्रमिषा समुद्‍बभूव।

अवगम्य मनस्ततोऽस्य देवै-

र्भवनद्वारमपावृतं बभूव॥६६॥



अथ सोऽवततार हर्म्यपृष्ठा-

द्युवतीस्ताः शयिता विगर्हमाणः।

अवतीर्य ततश्च निर्विशङ्को

गृहकक्ष्यां प्रथमां विनिर्जगाम॥६७॥



तुरगावचरं स बोधयित्वा

जविनं छन्दकमित्थमित्युवाच।

हयमानय कन्थकं त्वरावा-

नमृतं प्राप्तुमितोऽद्य मे यियासा॥६८॥



हृदि या मम तुष्टिरद्य जाता

व्यवसायश्च यथा मतौ निविष्टः।

विजनेऽपि च नाथवानिवास्मि

ध्रुवमर्थोऽभिमुखः समेत इष्टः॥६९॥



ह्रियमेव च संनतिं च हित्वा

शयिता मत्प्रमुखे यथा युवत्यः।

विवृते च यथा स्वयं कपाटे

नियतं यातुमतो ममाद्य कालः॥७०॥



प्रतिगृह्य ततः स भर्तुराज्ञां

विदितार्थोऽपि नरेन्द्रशासनस्य।

मनसीव परेण चोद्यमान-

स्तुरगस्यानयने मतिं चकार॥७१॥



अथ हेमखलीनपूर्णवक्त्रं

लघुशय्यास्तरणोनपूर्णवक्त्रं

लघुशय्यास्तरणोपगूढपृष्ठम्।

बलसत्त्वजवान्वयोपपन्नं

स वराश्वं तमुपानिनाय भर्त्रे॥७२॥



प्रतत्रिकपुच्छमूलपार्ष्णि

निभृतहृस्वतनूजपुच्छकर्णम्।

विनतोन्नतपृष्ठकुक्षिपार्श्व

विपुलप्रोथललाटकट्युरस्कम्॥७३॥



उपगुह्य स तं विशालवक्षाः

कमलाभेन च सान्त्वयन् करेण।

मधुराक्षरया गिरा शशास

ध्वजिनीमध्यमिव प्रवेष्टुकामः॥७४॥



बहुशः किल शत्रवो निरस्ताः

समरे त्वामधिरुह्य पार्थिवेन।

अहमप्यमृतं पदं यथाव-

त्तुरगश्रेष्ठ लभेय तत्कुरुष्व॥७५॥



सुलभाः खलु संयुगे सहाया

विषयावाप्तसुखे धनार्जने वा।

पुरुषस्य तु दुर्लभाः सहायाः

पतितस्यापदि धर्मसंश्रये वा॥७६॥



इह चैव भवन्ति ये सहायः

कलुषे कर्मणि धर्मसंश्रये वा।

अवगच्छैत् मे यथान्तरात्मा

नियतं तेऽपि जनास्तदंशभाजः॥७७॥



तदिदं परिगम्य धर्मयुक्तं

मम निर्याणमितो जगद्धिताय।

तुरगोत्तम वेगविक्रमाभ्यां

प्रयतस्वात्महिते जगद्धिते च॥७८॥



इति सुहृदमिवानुशिष्य कृत्ये

तुरगवरं नृवरो वनं यियासुः।

सितमसितगतिद्युतिर्वपुष्मान्

रविरिव शारदमभ्रमारुरोह॥७९॥



अथ स परिहरन्निशीथचण्डं

परिजनबोधकरं ध्वनीं सदश्वः।

विगतहनुरवः प्रशान्तहेष-

श्चकितविमुक्तपदक्रमो जगाम॥८०॥



कनकवलयभूषितप्रकोष्ठैः

कमलनिभैः कमलानिव प्रविध्य।

अवनततनवस्ततोऽस्य यक्षा-

श्चकितगतैर्दीधरे खुरान् कराग्रैः॥८१॥



गुरुपरिघकपाटसंवृता या

न सुखमपि द्विरदैरपाव्रियन्ते।

व्रजति नृपसुते गतस्वनास्ताः

स्वयमभवन्विवृताः पुरः प्रतोल्यः॥८२॥



पितरमभिमुखं सुतं च बालं

जनमनुरक्तमनुत्तमां च लक्ष्मीम्।

कृतमतिरपहाय निर्व्यपेक्षः

पितृनगरात्स ततो विनिर्जगाम॥८३॥



अथ स विमलपङ्कजायताक्षः

पुरमवलोक्य ननाद सिंहनादम्।

जननमरणयोरदृष्टपारो

न पुरमहं कपिलाव्हयं प्रवेष्टा॥८४॥



इति वचनमिदं निशम्य तस्य

द्रविणपतेः परिषद्‍गणा ननन्दुः।

प्रमुदितमनसश्च देवसङ्घा

व्यवसितपारणमाशशंसिरेऽस्मै॥८५॥



हुतवहवपुषोः दिवौकसोऽन्ये

व्यवसितमस्य सुदुष्करं विदित्वा।

अकृषत तुहिने पथि प्रकाशं

घनविवरप्रसृता इवेन्दुपादाः॥८६॥



हरितुरगतुरङ्गवत्तुरङ्गः

स तु विचरन्मनसीव चोद्यमानः।

अरुणपरुषतारमन्तरिक्षं

स च सुबहूनि जगाम योजनानि॥८७॥



इति बुद्धचरिते महाकाव्येऽभिनिष्क्रमणो

नाम पञ्चमः सर्गः॥५॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project