Digital Sanskrit Buddhist Canon

स्त्रीविघातनो नाम चतुर्थः सर्गः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Strīvighātano nāma caturthaḥ sargaḥ

CANTO IV



ततस्तस्मात्पुरोद्याना-

त्कौतूहलचलेक्षणाः।

प्रत्युज्जग्मुर्नृपसुतं

प्राप्तं वरमिव स्त्रियः॥१॥



अभिगम्य च तास्तस्मै

विस्मयोत्फुल्ललोचनाः।

चक्रिरे समुदाचारं

पद्मकोशनिभैः करैः॥२॥



तस्थुश्च परिवार्यैनं

मन्मथाक्षिप्तचेतसः।

निश्चलैः प्रीतिविकचैः

पिबन्त्य इव लोचनैः॥३॥



तं हि ता मेनिरे नार्यः

कामो विग्रहवानिति।

शोभितं लक्षणैर्दीप्तैः

सहजैर्भूषाणैरिव॥४॥



सौम्यत्वाच्चैव धैर्याच्च

काश्चिदेनं प्रजज्ञिरे।

अवतीर्णो मही साक्षाद्

गुढांशुश्चन्द्रमा इति॥५॥



तस्य ता वपुषाक्षिप्ता

निगृहीतं जजृम्भिरे।

अन्योन्यं दृष्टिभिर्हत्वा

शनैश्च विनिशश्वसुः॥६॥



एवं ता दृष्टिमात्रेण

नार्यो ददृशुरेव तम्।

न व्याजहुर्न जहसुः

प्रभावेणास्य यन्त्रिताः॥७॥



तास्तथा नु निरारम्भा

दृष्ट्वा प्रणयविक्लवाः।

पुरोहितसुतो धीमा-

नुदायी वाक्यमब्रवीत्॥८॥



सर्वाः सर्वकलाज्ञाः स्थ

भावग्रहणपण्डिताः।

रुपचातुर्यसंपन्नाः

स्वगुणैर्मुख्यतां गताः॥९॥



शोभयेत गुणैरेभि-

रपि तानुत्तरान् कुरून्।

कुबेरस्यापि चाक्रीडं

प्रागेव वसुधामिमाम्॥१०॥



शक्ताश्चलियितुं यूयं

वितरागानुषीनपि।

अप्सरोभिश्च कलितान्

ग्रहीतुं विबुधानपि॥११॥



भावज्ञानेन हावेन

रूपचातुर्यसंपदा।

स्त्रीणामेव च शक्ताः स्थ

संरागे किं पुनर्नृणाम्॥१२॥



तासामेवंविधानां वो

वियुक्तानां स्वगोचरे।

इयमेवंविधा चेष्टा

न तुष्टोऽस्म्यार्जवेन वः॥१३॥



इदं नववधूनां वो

ह्रीनीकुञ्चितचक्षुषाम्।

सदृशं चेष्टितं हि स्या-

दपि वा गोपायोषिताम्॥१४॥



यदपि स्यादयं धीरः

श्रिप्रभावान्महानिति।

स्त्रीणामपि महत्तेज

इतः कार्योऽत्र निश्चयः॥१५॥



पुरा हि काशिसुन्दर्या

वेशवध्वा महानृषिः।

ताडितोऽभूत्पदा व्यासो

दुर्धर्षो देवतैरपि॥१६॥



मन्थालगौतमो भिक्षु-

र्जङ्घया वारमुख्यया।

पिप्रीषुश्च तदर्थार्थं

व्यसून्निरहरत्पुरा॥१७॥



गौतमं दीर्घतपसं

महर्षि दीर्घजीविनम्।

योषित्संतोषयामास

वर्णस्थानावरा सती॥१८॥



ऋष्यशृङ्गं मुनिसुतं

तथैव स्त्रीष्वपण्डितम्।

उपायैर्विविधैः शान्ता

जग्राह च जहार च॥१९॥



विश्वामित्रो महर्षिश्च

विगाढोऽपि महत्तपः।

दश वर्षाण्यहर्मेने

घृताच्याप्सरसा हृतः॥२०॥



एवमादीनृषीस्तांस्ता-

ननयन्विक्रियां स्त्रियः।

ललितं पूर्ववयसं

किं पुनर्नृपतेः सुतम्॥२१॥



तदेवं सति विश्रब्धं

प्रयतध्वं तथा यथा।

इयं नृपस्य वंशश्री-

रितो न स्यात्पराङ्मुखी॥२२॥



या हि काश्चिद्युवतयो

हरन्ति सदृशं जनम्।

निकृष्टोत्कृष्टयोर्भावं

या गृह्‍णन्ति तु ताः स्त्रियः॥२३॥



इत्युदायिवचः श्रुत्वा

ता विद्धा इव योषितः।

समारुरुहुरात्मानं

कुमारग्रहणं प्रति॥२४॥



ता भ्रूमिः प्रेक्षितैर्हावै-

र्हसितैलीडितैर्गतैः।

चक्रुराक्षेपिकाश्चेष्टा

भीतभीता इवाङ्गनाः॥२५॥



राज्ञस्तु विनियोगेन

कुमारस्य च मार्दवात्।

जहुः क्षिप्रमविश्रम्भं

मदेन मदनेन च॥२६॥



अथ नारीजनवृतः

कुमारो व्यचरद्वनम्।

वासितायूथसहितः

करीव हिमवद्वनम्॥२७॥



स तस्मिन् कानने रम्ये

जज्वाल स्त्रीपुरःसरः।

आक्रीड इव विभ्राजे

विवस्वानप्सरोवृतः॥२८॥



मदेनावर्जिता नाम

तं काश्चित्तत्र यिषितः।

कठिनैः पस्पृशुः पीनैः

संहतैर्वल्गुभिः स्तनैः॥२९॥



स्रस्तांसकोमलालम्ब-

मृदुबाहुलताबला।

अनृतं स्खलितं काचि-

त्कृत्वैनं सस्वजे बलात्॥३०॥



काचित्ताम्राधरोष्ठेन

मुखेनासवगन्धिना।

विनिशश्वास कर्णेऽस्य

रहस्यं श्रूयतामिति॥३१॥



काचिदाज्ञापयन्तीव

प्रोवाचार्द्रानुलेपना।

इह भक्तिं कुरुष्वेति

हस्तसंश्लेषलिप्सया॥३२॥



मुहुर्मुहुर्मदव्याज-

स्रस्तनीलांशुकापरा।

आलक्ष्यरशना रेजे

स्फुरद्विद्युदिव क्षपा॥३३॥



काश्चित्कनककाञ्चीभि-

र्मुखराभिरितस्ततः।

बभ्रमुर्दर्शयन्त्योऽस्य

श्रोणीस्तन्वंशुकावृताः॥३४॥



चूतशाखां कुसुमितां

प्रगृह्यान्या ललम्बिरे।

सुवर्णकलशप्रख्या-

न्दर्शयन्त्यः पयोधरान्॥३५॥



काचित्पद्मवनादेत्य

सपद्मा पद्मलोचना।

पद्मवक्त्रस्य पार्श्वेऽस्य

पद्मश्रीरिव तस्थुषी॥३६॥



मधुरं गीतमन्वर्थं

काचित्साभिनयं जगौ।

तं स्वस्थं चोदयन्तीव

वञ्चितोऽसीत्यवेक्षितैः॥३७॥



शुभेन वदनेनान्या

भ्रूकार्मुकविकर्षिणा।

प्रावृत्यानुचकारास्य

चेष्टितं धीरलीलया॥३८॥



पीनवल्गुस्तनी काचि-

द्धासाघूर्णितकुण्डला।

उच्चैरवजहासैनं

समाप्नोतु भवानिति॥३९॥



अपयान्तं तथैवान्या

बबन्धुर्माल्यदामभिः।

काश्चित्साक्षेपमधुरै-

र्जगृहर्वचनाङ्‍कुशैः॥४०॥



प्रतियोगार्थिनी काचिद्

गृहीत्वा चूतवल्लरीम्।

इदं पुष्पं तु कस्येति।

पप्रच्छ मदविक्लवा॥४१॥



काचित्पुरुषवत्कृत्वा

गतिं संस्थानमेव च।

उवाचैनं जितः स्त्रीभी-

र्जय भो पृथिवीमिमाम्॥४२॥



अथ लोलेक्षणा काचि-

ज्जिघ्रन्ती नीलमुत्पलम्।

किंचिन्मदकलैर्वाक्यै

र्नृपात्मजमभाषत॥४३॥



पश्य भर्तीश्चितं चूतं

कुसुमैर्मधुगन्धिभिः।

हेमपञ्जररुद्धो वा

कोकिलो यत्र कूजति॥४४॥



अशोको दृश्यतामेष

कामिशोकविवर्धनः।

रुवन्ति भ्रमरा यत्र

दह्यमाना इवाग्निना॥४५॥



चूतयष्ट्या समाश्लिष्टो

दृश्यतां तिलकद्रुमः।

शुक्लवासा इव नरः

स्त्रिया पीताङ्गरागया॥४६॥



फुल्लं कुरुबकं पश्य

निर्भुक्तालक्तकप्रभम्।

यो नखप्रभया स्त्रीणां

निर्भीर्त्सत इवानतः॥४७॥



बालाशोकश्च निचितो

दृश्यतामेष पल्लवैः।

योऽस्माकं हस्तशोभाभि-

र्लज्जमान इव स्थितः॥४८॥



दीर्घिका प्रावृतां पश्य

तीरजैः सिन्दुवारकैः।

पाण्डुरांशुकसंवीतां

शयानां प्रमदामिव॥४९॥



दृश्यतां स्त्रीषु माहात्म्यं

चक्रवाको ह्यसौ जले।

पृष्ठतः प्रेष्यवद्भार्या-

मनुवर्त्यनुगच्छति॥५०॥



मत्तस्य परपुष्टस्य

रुवतः श्रूयतां ध्वनिः।

अपरः कोकिलोऽन्वक्षं

प्रतिश्रुत्केव कूजति॥५१॥



अपि नाम विहङ्गानां

वसन्तेनाहृतो मदः।

न तु चिन्तयतोऽचिन्त्यं

जनस्य प्राज्ञमानिनः॥५२॥



इत्येवं ता युवतयो

मन्मथोद्दामचेतसः।

कुमारं विविधैस्तैस्तै-

रुपचक्रमिरे नयैः॥५३॥



एवमाक्षिप्यमाणोऽपि।

सतु धैर्यावृतेन्द्रियः।

मर्तव्यमिति सोद्वेगो

न जहर्ष न विव्यथे॥५४॥



तासां तत्त्वेऽनवस्थानं

दृष्ट्वा स पुरुषोत्तमः।

समं विग्नेन धीरेण

चिन्तयामास चेतसा॥५५॥



किं त्विमा नावगच्छन्ति

चपलं यौवनं स्त्रियः।

यतो रूपेण संमत्तं

जरा यन्नाशयिष्यति॥५६॥



नूनमेता न पश्यन्ति

कस्यचिद्रोगसंप्लवम्।

तथा हृष्टा भयं त्यक्त्वा

जगति व्यधिधर्मिणि॥५७॥



अनभिज्ञाश्च सुव्यक्तं

मृत्योः सर्वापहारिणः।

ततः स्वस्था निरुद्विग्नाः

क्रीडन्ति च हसन्ति च॥५८॥



जरां व्याधिं च मृत्युं च

को हि जानन्सचेतनः।

स्वस्थस्तिष्ठेन्निषीदेद्वा

शयेद्वा किं पुनर्हसेत्॥५९॥



यस्तु दृष्ट्वा परं जीर्ण

व्याधितं मृतमेव च।

स्वस्थो भवति नोद्विग्नो

यथाचेतास्तथैव सः॥६०॥



वियुज्यमाने हि तरौ

पुष्पैरपि फलैरपि।

पतति च्छिद्यमाने वा

तरुरन्यो न शोचते॥६१॥



इति ध्यानपरं दृष्ट्वा

विषयेभ्यो गतस्पृहम्।

उदायी नीतिशास्त्रज्ञ-

स्तमुवाच सुहृत्तया॥६२॥



अहं नृपतिना दत्तः

सखा तुभ्यं क्षमः किल।

यास्मात्त्वयि विवक्षा मे

तया प्रणयवत्तया॥६३॥



अहितात्प्रतिषेधश्च

हिते चानुप्रवर्तनम्।

व्यसने चापरित्याग-

स्त्रिविधं मित्रलक्षणम्॥६४॥



सोऽहं मैत्रीं प्रतिज्ञाय

पुरुषार्थात्पराङ्मुखः।

यदि त्वा समुपेक्षेय

न भवेन्मित्रता मयि॥६५॥



तद्‍ब्रवीमि सुहृद्‍भूत्वा

तरुणस्य वपुष्मतः।

इदं न प्रतिरूपं ते

स्त्रीष्वदाक्षिण्यमीदृशम्॥६६॥



अनृतेनापि नारीणां

युक्तं समनुवर्तनम्।

तद्‍व्रीडापरिहारार्थ-

मात्मरत्यर्थमेव च॥६७॥



संनतिश्चानुवृत्तिश्च

स्त्रीणां हृदयबन्धनम्।

स्नेहस्य हि गुणा योनि-

र्मानकामाश्च योषितः॥६८॥



तदर्हसि विशालाक्ष

हृदयेऽपि पराङ्मुखे।

रूपस्यास्यानुरूपेण

दाक्षिण्येनानुवर्तितुम्॥६९॥



दाक्षिण्यमौषधं स्त्रीणां

दाक्षिण्यं भूषणं परम्।

दाक्षिण्यरहितं रूपं

निष्पुष्पमिव काननम्॥७०॥



किं वा दाक्षिण्यमात्रेण

भावेनास्तु परिग्रहः।

विषयान्दुर्लभाँल्लब्ध्वा

न ह्यवज्ञातुमर्हसि॥७१॥



कामं परमिति ज्ञात्वा

देवोऽपि हि पुरंदरः।

गौतमस्य मुनेः पत्नी-

महल्यां चकमे पुरा॥७२॥



अगस्त्यः प्रार्थयामास

सोमभार्या च रोहिणीम्।

तस्मात्तत्सदृशी लेभे

लोपामुद्रामिति श्रुतिः॥७३॥



उतथ्यस्य च भार्यायां

ममातायं महातपः।

मारुत्यां जनयामास

भरद्वाजं बृहस्पतिः॥७४॥



बृहस्पतेर्महिष्यां च

जुव्हत्यां जुव्हतां वरः।

बुधं विबुधकर्माणं

जनयामास चन्द्रमाः॥७५॥



कालीं चैव पुरा कन्यां

जलप्रभवसंभवाम्।

जगाम यमुनातीरे

जातरागः पराशरः॥७६॥



मातङ्गयामक्षमालायां

गर्हितायां रिरंसया।

कपिञ्जलादं तनयं

वसिष्ठोऽजनयन्मुनिः॥७७॥



ययातिश्चैव राजर्षि-

र्वयस्यपि विनिर्गते।

विश्वाच्याप्सरसा सार्धं

रेमे चैत्ररथे वने॥७८॥



स्त्रीसंसर्ग विनाशान्तं

पाण्डुर्ज्ञात्वापि कौरवः।

माद्रीरूपगुणाक्षिप्तः

सिषेवे कामजं सुखम्॥७९॥



करालजनकश्चैव

हृत्वा ब्राह्मणकन्यकाम्।

अवाप भ्रंशमप्येवं

न तु सेजे न मन्मथम्॥८०॥



एवमाद्या महात्मानो

विषयान् गर्हितानपि।

रतिहेतोर्बुभुजिरे

प्रागेव गुणसंहितान्॥८१॥



त्वं पुनर्न्यायतः प्राप्तान्

बलवान् रूपवान्युवा।

विषयानवजानासि

यत्र सक्तमिदं जगत्॥८२॥



इति श्रुत्वा वचस्तस्य

श्लक्ष्णमागमसंहितम्।

मेघस्तनितनिर्घोषः

कुमारः प्रत्यभाषत॥८३॥



उपपन्नमिदं वाक्यं

सौहार्दव्यञ्जकं त्वयि।

अत्र च त्वानुनेष्यामि

यत्र मा दुष्ठु मन्यसे॥८४॥



नावजानामि विषयान्

जाने लोकं तदात्मकम्।

अनित्यं तु जगमत्वा

नात्र मे रमते मनः॥८५॥



जरा व्याधिश्च मृत्युश्च

यदि न स्यादिदं त्रयम्।

ममापि हि मनोज्ञेषु

विषयेषु रतिर्भवेत्॥८६॥



नित्यं यदपि हि स्त्रीणा-

मेतदेव वपुर्भवेत्।

दोषवत्स्वपि कामेषु

कामं रज्येत मे मनः॥८७॥



यदा तु जरयापीतं

रूपमासां भविष्यति।

आत्मनोऽप्यनभिप्रेतं

मोहात्तत्र रतिर्भवेत्॥८८॥



मृत्युव्याधिजराधर्मा

मृत्युव्याधिजरात्मभिः।

रममाणो ह्यसंविग्नः

समानो मृगपक्षिभिः॥८९॥



यदप्यात्थ महात्मान-

स्तेऽपि कामात्मका इति।

संवेगोऽत्रैव कर्तव्यो

यदा तेषामपि क्षयः॥९०॥



माहात्म्यं न च तन्मन्ये

यत्र सामान्यतः क्षयः।

विषयेषु प्रसक्तिर्वा

युक्तिर्वा नात्मवत्तया॥९१॥



यदप्यात्थानृतेनापि

स्त्रीजने वर्त्यतामिति।

अनृतं नावगच्छामि।

दाक्षिण्येनापि किंचन॥९२॥



न चानुवर्तनं तन्मे

रुचितं यत्र नार्जवम्।

सर्वभावेन संपर्को

यदि नास्ति धिगस्तु तत्॥९३॥



अधृतेः श्रद्दधानस्य

सक्तस्यादोषदर्शिनः।

किं हि वञ्चयितव्यं स्या-

ज्जातरागस्य चेतसः॥९४॥



वञ्चयन्ति च यद्येवं

जातरागाः परस्परम्।

ननु नैव क्षमं द्रष्टुं

नराः स्त्रीणां नृणां स्त्रियः॥९५॥



तदेवं सति दुःखार्त

जरामरणभागिनम्।

न मां कामेष्वनार्येषु

प्रतारयितुमर्हसि॥९६॥



अहोऽतिधीरं बलवच्च ते मन-

श्चलेषु कामेषु च सारदर्शिनः।

भयेऽतितीव्रे विषयेषु सज्जसे

निरीक्षमाणो मरणाध्वनि प्रजाः॥९७॥



अहं पुनर्भीरुरतीवविक्लवो

जराविपद्‍व्याधिभयं विचिन्तयन्।

लभे न शान्तिं न धृतिं कुतो रतिं

निशामयन्दीप्तमिवाग्निना जगत्॥९८॥



असंशयं मृत्युरिति प्रजानतो

नरस्य रागो हृदि यस्य जायते।

अयोमयीं तस्य परैमि चेतनां

महाभये रज्यति यो न रोदिति॥९९॥



अथो कुमारश्च विनिश्चयात्मिकां

चकार कामाश्रयघातिनीं कथाम्।

जनस्य चक्षुर्गमनीयमण्डलो

महीधरं चास्तमियाय भास्करः॥१००॥



ततो वृथाधारितभूषणस्रजः

कलागुणैश्च प्रणयैश्च निष्फलैः।

स्व एव भावे विनिगृह्य मन्मथं

पुरं ययुर्भग्नमनोरथाः स्त्रियः॥१०१॥



ततः पुरोद्यानगतां जनश्रियं

निरीक्ष्य सायं प्रतिसंहृतां पुनः।

अनित्यतां सर्वगतां विचिन्तय-

न्विवेश धिष्णयं क्षितिपालकात्मजः॥१०२॥



ततः श्रुत्वा राजा

विषयविमुखं तस्य तु मनो

न शिश्ये तां रात्रिं

हृदयगतशल्यो गज इव।

अथ श्रान्तो मन्त्रे

बहुविविधमार्गे ससचिवो

न सोऽन्यत्कामेभ्यो

नियमनमपश्यत्सुतमतेः॥१०३॥



इति बुद्धचरिते महाकाव्ये स्त्रीविघातनो

नाम चतुर्थः सर्गः॥४॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project