Digital Sanskrit Buddhist Canon

अन्तःपुरविहारो नाम द्वितीयः सर्गः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
CANTO II



आ जन्मनो जन्मजरान्तकस्य

तस्यात्मजस्यात्मजितः स राजा।

अहन्यहन्यर्थगजाश्वमित्रै-

र्वृद्धिं ययौ सिन्धुरिवाम्बुवेगैः॥१॥



धनस्य रत्नस्य च तस्य तस्य

कृताकृतस्यैव च काञ्चनस्य।

तदा हि नैकान्स निधीनवाप

मनोरथस्याप्यतिभारभूतान्॥२॥



ये पद्मकल्पैरपि च द्विपेन्द्रै-

र्न मण्डलं शक्यमिहाभिनेतुम्।

मदोत्कटा हैमवता गजास्ते

विनापि यत्नादुपतस्थुरेनम्॥३॥



नानाङ्कचिन्हैर्नवहेमभाण्डै-

र्विभूषितैर्लम्बसटैस्तथान्यैः।

संचुक्षुभे चास्य पुरं तुरङ्गै-

र्बलेन मैत्र्या च धनेन चाप्तैः॥४॥



पुष्टाश्च तुष्टाश्च तथास्य राज्ये

साध्व्योऽरजस्का गुणवत्पयस्काः।

उदग्रवत्सैः सहिता बभूवु-

र्बव्ह्यो बहुक्षीरदुहश्च गावः॥५॥



मध्यस्थतां तस्य रिपुर्जगाम

मध्यस्थभावः प्रययौ सुहृत्त्वम्।

विशेषतो दार्ढ्यमियाय मित्रं

द्वावस्य पक्षावपरस्तु नास॥६॥



तथास्य मन्दानिलमेघशब्दः

सौदामिनीकुण्डलमण्डिताभ्रः।

विनाश्मवर्षाशनिपातदोषैः

काले च देशे प्रववर्ष देवः॥७॥



रुरोह सस्यं फलवद्यथर्तु

तदाकृतेनापि कृषिश्रमेण।

ता एव चास्यौषधयो रसेन

सारेण चैवाभ्यधिका बभूवुः॥८॥



शरीरसंदेहकरेऽपि काले

संग्रामसंमर्द इव प्रवृते।

स्वस्थाः सुखं चैव निरामयं च

प्रजज्ञिरे कालवशेन नार्यः॥९॥



पृथग्व्रतिभ्यो विभवेऽपि गर्ह्ये

न प्रार्थयन्ति स्म नराः परेभ्यः।

अभ्यर्थितः सूक्ष्मधनोऽपि चार्य-

स्तदा न कश्चिद्विमुखो बभूव॥१०॥



नागौरवो बन्धुषु नाप्यदाता

नैवाव्रतो नानृतिको न हिंस्रः।

आसीत्तदा कश्चन तस्य राज्ये

राज्ञो ययातेरिव नाहुषस्य॥११॥



उद्यानदेवायतनाश्रमाणां

कूपप्रपापुष्करिणीवनानाम्।

चक्रुः क्रियास्तत्र च धर्मकामाः

प्रत्यक्षतः स्वर्गीमवोपलभ्य॥१२॥



मुक्तश्च दुर्भिक्षभयामयेभ्यो

हृष्टो जनः स्वर्ग इवाभिरेमे।

पत्नीं पतिर्वा महिषी पतिं वा

परस्परं न व्यभिचेरतुश्च॥१३॥



कश्चित्सिषेवे रतये न कामं

कामार्थमर्थं न जुगोप कश्चित्।

कश्चिद्धनार्थं न चचार धर्म

धर्माय कश्चिन्न चकार हिंसाम्॥१४॥



स्तेयादिभिश्चाप्यरिभिश्च नष्टं

स्वस्थं स्वचक्रं परचक्रमुक्तम्।

क्षेमं सुभिक्षं च बभूव तस्य

पुरानरण्यस्य यथैव राष्ट्रे॥१५॥



तदा हि तज्जन्मनि तस्य राज्ञो

मनोरिवादित्यसुतस्य राज्ये।

चचार हर्षः प्रणनाश पाप्मा

जज्वाल धर्मः कलुषः शशाम॥१६॥



एवंविधा राजकुलस्य संप-

त्सर्वार्थसिद्धिश्च यतो बभूव।

ततो नृपस्तस्य सुतस्य नाम

सर्वार्थसिद्धिऽयमिति प्रचक्रे॥१७॥



देवी तु माया विबुधर्षिकल्पं

दृष्ट्वा विशालं तनयप्रभावम्।

जातं प्रहर्ष न शशाक सोढुं

ततो निवासाय दिवं जगाम॥१८॥



ततः कुमारं सुरगर्भकल्पं

स्नेहेन भावेन च निर्विशेषम्।

मातृष्वसा मातृसमप्रभावा

संवर्धयामात्मजवद्‍बभूव॥१९॥



ततः स बालार्क इवोदयस्थः

समीरितो वन्हिरिवानिलेन।

क्रमेण सम्यग्ववृधे कुमार-

स्ताराधिपः पक्ष इवातमस्के॥२०॥



ततो महार्हाणि च चन्दनानि

रत्नावलीश्चौषधिभिः सगर्भाः।

मृगप्रयुक्तान् रथकांश्च हैमा-

नाचक्रिरेऽस्मै सुहृदालयेभ्यः॥२१॥



वयोऽनुरूपाणि च भूषणानि

हिरण्मयान् हस्तिमृगाश्वकांश्च।

रथांश्च गोपुत्रकसंप्रयुक्तान्

पुत्रीश्च चामीकररूप्यचित्राः॥२२॥



एवं स तैस्तैर्विषयोपचारै-

र्वयोऽनुरूपैरुपचर्यमाणः।

बालोऽप्यबालप्रतिमो बभूव

धृत्या च शौचेन धिया श्रिया च॥२३॥



वयश्च कौमारमतीत्य सम्यक्

संप्राप्य काले प्रतिपत्तिकर्म।

अल्पैरहोभिर्बहुवर्षगाम्या

जग्राह विद्याः स्वकुलानुरूपाः॥२४॥



नैःश्रेयसं तस्य तु भव्यमर्थं

श्रुत्वा पुरस्तादसितान्महर्षेः।

कामेषु सङ्गं जनयांबभूव

वनानि यायादिति शाक्यराजः॥२५॥



कुलात्ततोऽस्मै स्थिरशीलयुक्ता-

त्साध्वीं वपुर्ह्रीविनयोपपन्नाम्।

यशोधरां नाम यशोविशालां

वामाभिधानां श्रियमाजुहाव॥२६॥



विद्योतमानो वपुषा परेण

सनत्कुमारप्रतिमः कुमारः।

सार्ध तया शाक्यनरेन्द्रवध्वा

शच्या सहस्राक्ष इवाभिरेमे॥२७॥



किंचिन्मनःक्षोभकरं प्रतीपं

कथं न पश्येदिति सोऽनुचिन्त्य।

वासं नृपो व्यादिशति स्म तस्मै

हर्म्योदरेष्वेव न भूप्रचारम्॥२८॥



ततः शरत्तोयदपाण्डरेषु

भूमौ विमानेष्विव रञ्जितेषु।

हर्म्येषु सर्वर्तुसुखाश्रयेषु

स्त्रीणामुदारैर्विजहार तूर्यैः॥२९॥



कलैर्हि चामीकरबद्धकक्षै-

र्नारीकराग्राभिहतैर्मृदङ्गैः।

वराप्सरोनृत्यसमैश्च नृत्यैः

कैलासवत्तद्भवनं रराज॥३०॥



वाग्भिः कलाभिर्लीलतैश्च हावै-

र्मदैः सखेलैर्मधुरैश्च हासैः।

तं तत्र नार्यो रमयांबभूवु-

र्भूवञ्चितैरर्धीनरीक्षितैश्च॥३१॥



ततः स कामाश्रयपण्डिताभिः

स्त्रीभिर्गृहीतो रतिकर्कशाभिः।

विमानपृष्ठान्न महीं जगाम

विमानपृष्ठादिव पुण्यकर्मा॥३२॥



नृपस्तु तस्यैव विवृद्धिहेतो-

स्तद्भाविनार्थेन च चोद्यमानः।

शमेऽभिरेमे विरराम पापा-

द्भेजे दमं संविबभाज साधून्॥३३॥



नाधीरवत्कामसुखे ससञ्जे

न संररञ्जे विषमं जनन्याम्।

धृत्येन्द्रियाश्वांश्चपलान्विजिग्ये

बन्धूंश्च पौरांश्च गुणैर्जिगाय॥३४॥



नाध्यैष्ट दुःखाय परस्य विद्यां

ज्ञानं शिवं यत्तु तदध्यगीष्ट।

स्वाभ्यः प्रजाभ्यो हि यथा तथैव

सर्वप्रजाभ्यः शिवमाशशंसे॥३५॥



भं भासुरं चाङ्गिरसाधिदेवं

यथावदानर्च तदायुषे सः।

जुहाव हव्यान्यकृशे कृशानौ

ददौ द्विजेभ्यः कृशनं च गाश्च॥३६॥



सस्नौ शरीरं पवितुं मनश्च

तीर्थाम्बुभिश्चैव गुणाम्बुभिश्च।

वेदोपदिष्टं सममात्मजं च

सोमं पपौ शान्तिसुखं च हार्दम्॥३७॥



सान्त्वं बभाषे न च नार्थवद्य-

ज्जजल्प तत्त्वं न च विप्रियं यत्।

सान्त्वं ह्यतत्त्वं परुषं च तत्त्वं

ह्रियाशकन्नात्मन एव वक्तुम्॥३८॥



इष्टेष्वनिष्टेषु च कार्यवत्सु

न रागदोषाश्रयतां प्रपेदे।

शिवं सिषेवे व्यवहारशुद्धं

यज्ञं हि मेने न तथा यथा तत्॥३९॥



आशावते चाहिगताय सद्यो

देयाम्बुभिस्तर्षमचेच्छिदिष्ट।

युद्धादृते वृत्तपरश्वधेन

द्विड्दर्पमुद्‍वृत्तमबेभिदिष्ट॥४०॥



एकं विनिन्ये स जुगोप सप्त

सप्तैव तत्याज ररक्ष पञ्च।

प्राप त्रिवर्ग बुबुधे त्रिवर्ग

जज्ञे द्विवर्ग प्रजहौ द्विवर्गम्॥४१॥



कृतागसोऽपि प्रतिपाद्य वध्या-

न्नाजीघनन्नापि रुषा ददर्श।

बबन्ध सान्त्वेन फलेन चैतां-

स्त्यागोऽपि तेषां ह्यनयाय दृष्टः॥४२॥



आर्षाण्यचारीत्परमव्रतानि

वैराण्यहासीच्चिरसंभृतानि।

यशांसि चापद्‍गुणगन्धवन्ति

रजांस्यहार्षीन्मलिनीकराणि॥४३॥



न चाजिहीर्षिद्वलिमप्रवृत्तं

न चाचिकीर्षित्परवस्त्वभिध्याम्।

न चाविवक्षीद् द्विषतामधर्म

न चाविवाक्षीद्‍धृदयेन मन्युम्॥४४॥



तस्मिंस्तथा भूमिपतौ प्रवृत्ते

भृत्याश्च पौराश्च तथैव चेरुः।

शमात्मके चेतसि विप्रसन्ने

प्रयुक्तयोगस्य यथेन्द्रियाणि॥४५॥



काले ततश्चारुपयोधरायां

यशोधरायां स्वयशोधरायाम्।

शौद्धोदने राहुसपत्नवक्त्रो

जज्ञे सुतो राहुल एव नाम्ना॥४६॥



अथेष्टपुत्रः परमप्रतीतः

कुलस्य वृद्धिं प्रति भूमिपालः।

यथैव पुत्रप्रसवे ननन्द

तथैव पौत्रप्रसवे ननन्द॥४७॥



पुत्रस्य मे पुत्रगतो ममेव

स्नेहः कथं स्यादिति जातहर्षः।

काले स तं तं विधिमाललम्बे

पुत्रप्रियः स्वर्गमिवारुरुक्षन्॥४८॥



स्थित्वा पथि प्राथमकल्पिकानां

राजवर्षभाणां यशसान्वितानाम्।

शुक्लान्यमुक्त्‍वापि तपांस्यतप्त

यज्ञैश्च हिंसारहितैरयष्ट॥४९॥



अजाज्वलिष्टाथ स पुण्यकर्मा

नृपश्रिया चैव तपःश्रिया च।

कुलेन वृत्तेन धिया च दीप्त-

स्तेजः सहस्रांशुरिवोत्सिसृक्षुः॥५०॥



स्वायंभुवं चार्चिकमर्चयित्वा

जजाप पुत्रस्थितये स्थितश्रीः।

चकार कर्माणि च दुष्कराणि

प्रजाः सिसृक्षुः क इवादिकाले॥५१॥



तत्याज शस्त्रं विममर्श शास्त्रं

शमं सिषेवे नियमं विषेहे।

वशीव कंचिद्विषयं न भेजे

पितेव सर्वान्विषयान्ददर्श॥५२॥



बभार राज्यं स हि पुत्रहेतोः

पुत्रं कुलार्थं यशसे कुलं तु।

स्वर्गाय शब्दं दिवमात्महेतो-

र्धर्मार्थमात्मस्थितिमाचकाङ्क्ष॥५३॥



एवं स धर्म विविधं चकार

सिद्भिर्निपातं श्रुतितश्च सिद्धम्।

दृष्ट्वा कथं पुत्रमुखं सुतो मे

वनं न यायादिति नाथमानः॥५४॥



रिरक्षिषन्तः श्रियमात्मसंस्थां

रक्षन्ति पुत्रान् भुवि भूमिपालाः।

पुत्रं नरेन्द्रः स तु धर्मकामो

ररक्ष धर्माद्विषयेषु मुञ्चन्॥५५॥



वनमनुपमसत्त्वा बोधिसत्त्वास्तु सर्वे

विषयसुखरसज्ञा जग्मुरुत्पन्नपुत्राः।

अत उपचितकर्मा रूढमूलेऽपि हेतौ

स रतिमुपसिषेवे बोधिमापन्न यावत्॥५६॥



इति बुद्धचरिते महाकाव्ये

अन्तःपुरविहारो नाम द्वितीयः सर्गः॥२॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project