Digital Sanskrit Buddhist Canon

तर्कभाषाटीका

Technical Details
  • Text Version:
    Devanagari
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2013
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Roman version

Tarkabhāṣāṭīkā

श्रीः
तर्कभाषाटीका

अप्रस्खलितलक्ष्येयमनुकूला मतिर्मम।
दर्शने दर्शने भूयाद्यथावदवबोधिनी॥ १॥

आप्तानां माननीयानामादेशमनुपालयन्।
करोमि तर्कभाषाया व्याख्यामनतिविस्तृताम्॥ २॥

प्रमाणनिरूपणप्रधानं प्रकरणमारभमाणः प्रथममारिप्सितस्य प्रकरणस्याभिधेयप्रयोजनं दर्शयन्नवतारयति प्रकरणम् -- इहेत्यादिना प्रमाणं निर्णेतव्यमित्यन्तेन। स्वरूपतो लक्षणतः फलश्च प्रमाणनिर्णयः प्रकरणस्यास्य साक्षात्प्रयोजनमिति गम्यते। प्रकरणस्यास्याभिधेयं च प्रमाणमित्यर्थसिद्धम्। यद्यपि निबन्धावसाने वैभाषिकादिमतभेदचतुष्टयं दिङ्मात्रेण ज्ञाप्यते। अथापि प्राधान्यं प्रमाणस्य। प्रमाणपथं निर्णीय प्रवर्त्तमानानां पुरुषार्थसिद्धिरिति परमं प्रयोजनं 'सर्वपुरुषार्थसिद्धिनिमित्तं प्रमाणमनुसरद्भि' रित्यनेन गम्यते, ये यतन्ते न ते सर्वेऽर्यमनु। अर्थविधुरेऽपि मन्दानामारम्भो हि दृश्यते। अर्थिनोऽपि न सर्वे प्रमाणमनुसरन्ति। पशूनामिव पामराणां बहूनामविचारितप्रमाणस्वरूपाणामप्यर्थाय प्रवृत्त्दृष्टा। प्रेक्षापूर्वकारिणोऽपि ये पुनरप्तकामा अकामा वा न तेषां प्रमाणापेक्षा। ये तु प्रेक्षापरायणा अर्थिनस्ते पुरुषार्थसिद्धये प्रमाणमनुसरेयुरेव। तदिदमभिप्रेत्याह -- प्रेक्षापरायनार्थिभिरिति। प्रेक्षावतां निबन्धे प्रवृत्यङ्गमभिधेयप्रयोजनमिति व्यक्तीकृतं भवति। यद्यपि पुरुषार्थसिद्धये प्रेक्षावद्भिः प्रमेयस्वरूपमपि निर्णेतव्यम्। अथापि प्रमेयसिद्धिः प्रमाणाधीनेति प्रमेयनिर्णयतः प्राक् प्रमाणस्वरूपं निर्णेतव्यम्, इदमभिप्रेत्योच्यते -- आदाविति। एतेन प्रमेयस्वरूपनिरूपणपरान्निबन्धात् प्रमाणस्वरूपनिरूपणपरस्यास्य निबन्धस्य प्राधान्यं गम्यते।

अथ प्रमाणसामान्यलक्षणमाह -- प्रमाणं सम्यग्ज्ञानमपूर्वगोचरमिति। प्रमाणमिति लक्ष्यनिर्देशः। सम्यग्ज्ञानमपूर्वगोचरमिति लक्षणनिर्देशः। ज्ञाने सम्यक्त्वं निरवक्ति- अविसंवादकमिति। सम्यक्त्वविशेषणस्य प्रयोजनं निरूपयन्नाह -- संशयेति। संशयविपर्ययौ यद्यप्यपूर्वगोचरौ, अथाप्यविसंवादकत्वं नास्तीति नातिप्रसङ्ग इति भावः। संशयविपर्यययोरविसंवादकता नास्तीत्येतदुपपादयन्नविसंवादकत्वं व्याचष्टे -- गोचरे तु तत्स्थाने घटादौ सतीति। प्रदर्शितमर्थे प्रापयद् ज्ञानमविसंवादकमिति यावत्। नञ्द्वयनिवेशाच्चलद्वक्षादिभ्रमो व्यावर्त्यते। जलादिप्रत्यक्षं जलाय प्रवर्त्तयत् पुरुषं जलं प्रापयति। मरीचिकाजलंभ्रमस्तु जलाय प्रवर्त्तयत् पुरुषं जलं न प्रापयति। अतो नाप्रसङ्गातिप्रसङ्गौ।

प्रापणयोग्यत्वमिति योग्यत्वनिवेशान्नाव्याप्तिशङ्कावकाश इत्येतच्छङ्कापरिहारमुखेन निरूपयति -- नन्वित्यादिना। कदाचित् -- असति लिप्सादौ। प्रापयत् जनयद्वा प्रापयेत्, प्रवर्तयद्वा, यथा विद्या विवेकं जनयन्ती प्रापयति, देवदत्तो यज्ञदत्तं कर्मसु प्रवर्त्तयन् धनं प्रापयति। तत्र सतश्चार्य न सम्यक्ज्ञानेन जननम्, नापि प्रवर्त्तयत् प्रापयत्यंअर्थं सर्वमेव ज्ञानम्, अवधृतेऽप्यर्थेऽप्रवृत्तिदर्शनात्, तत् अर्थप्राप्त्याधायकत्वरूपमविसंवादित्वमव्याप्तमिति भावः। परिहरति-नति। अयं भावः - अविसंवादकत्वं नार्थप्राप्त्याधायकत्वम्, अपि त्वर्थप्रापणयोग्यत्वमेव, तच्च प्रवर्त्तनशक्ततालक्षणं, सा चार्थनिर्णयाधानमेव। येन निर्णयेन प्रवृत्तः पुरुषोऽसति प्रतिबन्धे प्रदर्शितमर्थं प्राप्नुयादेवेति। आह च धर्मोत्तराचार्यः -- ' प्रवर्त्तकत्वमपि प्रवृत्तिविषयप्रदर्शकत्वमेव, न हि पुरुष इव हठात् प्रवर्तयितुं शक्नोति विज्ञानम् ' इति, (न्यायबिन्दुटीका. प. ३) आह च कमलशीलः -- अविसंवादित्वं चार्थक्रियासमर्थार्यप्रापणशक्तिकत्वं न त्वर्यप्रापणमेव' इति ( तत्त्वसंग्रहपञ्जिका प. ३१२).

प्रमाणकार्यमर्थपरिच्छित्तिविशेषं निरूपयंस्तदाधानमात्रेणैव प्रमाणस्यार्थक्रियासमर्थवस्तुप्रापणयोग्यतासम्पत्तिमुपपादयति -- अपित्वेवंभूतेऽस्मिन्नित्यादिना। एवं स्फुटमवभासमानेऽस्मिन्निर्भास्यमान आकारो नान्यस्मिन्नित्यवधारणं कार्यम्, इदमेवावधारणं प्रमाणकार्यमिति भवः। आह च कमलशीलस्तत्वसंग्रहपञ्चिकायाम् ' प्रत्यक्षं कल्पनापोढमपि सजातीयविजातीयव्यावृत्तमनलादिकमर्थं तदाकारनिर्भासोत्पत्तितः परिच्छिन्ददुत्पद्यते तच्च नियतरूपवस्तुग्राहित्वाद्विजातीयव्यावृत्तवस्त्वाकारानुगतत्त्वाच्च तत्रैव वस्तुनि विधिप्रतिषेधावाविर्भावयति ' अनलोऽयं नासौ कुसुमस्तबकादिरिति' इति ( तत्त्व. प. प. ३९०) आह च तत्रैवानुपदम् -- ' ज्ञानं हि विषयाकारमुत्पद्यमानं विषयं परिच्छिन्ददिव सव्यापारमिव भवति' अयमेवार्थप्रापणव्यापारो ज्ञानस्येति। (तत्वसं-पञ्चि. प. ३९९) इदं चाहोत्तरत्र -- 'अर्थक्रियार्थिनोऽभिमतमर्थं प्रापयत् प्रमाणमुच्यते, न चार्थदेशं पुरुषमुपसर्पयदर्थं वा पुरुषदेशमानयत् प्रापकं भवति, अपि तु पुरुषं प्रवर्त्तयत्, तं च पुरुषं न हस्तेन गृहीत्वा प्रवर्त्तयति, किं तर्हि ?, प्रवृत्तिविषयमुपदर्शयत्, तथोपदर्शनं प्रतिभासमानार्थावसायान्नान्यत्' इति। (तत्त्वः पञ्चि. प. ७८३) एतावतैव -- निश्चयोत्पादनादेव। प्रामाण्यमविरुद्धम् -- प्रापणशक्तिमत्त्वात् प्रामाण्यमक्षतमिति यावत्।

क्वचित्प्रवृत्त्यभावः क्वचित्प्रवृत्तावप्यर्थालाभः स्वस्वसामग्र्यभावप्रयुक्त इति प्रमाणस्य प्रामाण्यमक्षतमेवेत्येतदुपपादयति -- पुरुषस्त्विति। प्रमाणफलमर्थनिर्णयः, निर्णीते प्रयोजनत्वबुद्धिः प्रवृत्तौ कारणं, प्रवृत्तावपि तदलाभः प्रतिबन्धादिति फलफलिभावे भेदादलाभादप्रवृत्तेर्वा प्रमाणस्य प्रामाण्यं न प्रतिरुध्यत इति भावः। इदमेवाभिप्रेत्याह -- तदा ज्ञानस्य किमायातमिति। आह च शान्तरक्षितः-

'विषयाधिगतिश्चात्र प्रमाणफलमिष्यते' इति (तत्त्वसं. प. ३९८)

शङ्कते-नन्विदमिति। अयमाशयः-पुरतः सन्निहितमवलोकयतः सपदि भवति प्रत्यक्षं नामजात्यादिकल्पनारहितं निर्विकल्पकमनिर्धारणात्मकम्, इदमिदमेवेति निश्चयस्तु सविकल्पकः प्रत्ययः, तत् जातमात्रे प्रत्येक्षे यत्प्रामाण्यस्मविसंवादकत्वमर्थप्रापणयोग्यत्वं तदर्थक्रियाप्राप्तिमन्तरेण न विज्ञायते, अथ कथमुच्यते सम्यक् ज्ञानमिति। अवगते हि सम्यक्तवे प्रवृत्तिर्भवेदिति। परिहरति - नैष दोष इति। अयमाशयः-एषः-जातमात्रे प्रत्यक्षे अर्थप्रापणयोग्यत्वानवगमः, दोषो न, न हि तस्य तावता नैसर्गिकमर्थक्रियाप्रापणयोग्यत्वमपैति। प्रवृत्तिस्त्वर्थप्राप्तिसंभावनया भवेदेव। इयांस्तु विशेषः-यो मन्दबुद्धिः जातमात्रे जलप्रत्यक्षे न तस्य प्रामाण्यमवधारयितुं शक्नोति; स्नानपानादिक्रियां दूरात् परेषां पश्यन्नवधारयति जलमिति, भवति चार्थप्रापणयोग्यत्वग्रहः। अमन्दबुद्धिस्तु प्रकाशवशद्येन इदमिदमेवेति सपद्यवधारयति अवधरयति च सपदि प्रामाण्यमिति।

शङ्कते-ननु यद्यपीति। अयमाशयः-यद्यपि चाक्षुषं प्रत्यक्षं स्वगोचरमर्थमर्थक्रियासमर्थं प्रापयतीत्यर्थक्रियाप्रापणलक्षणमविसंवादित्वं तस्यास्ति। श्रावणे तु प्रत्यक्षे न तद् घटते, श्रोत्रेणावभास्यते शब्दः केवलम्, यदा कश्चित् कस्मैचित् किमप्युपदिशति तदा तद्वचनमवधार्यते केवलम्, चक्षुषा प्रकाशित इवार्थे नार्थक्रियास्थितिः काऽपीति। परिहरति-नेति। अयमभिप्रायः-अर्थस्वभावनिर्धारणमेवाविसंवादित्वं सैव क्वचिदर्थक्रियास्थितिः। चन्द्रसूर्यमेघचित्रादीनवलोकयतो भवति चन्द्राद्यवभासः, न तत्र जलादिषु दृष्टेषु स्नानपानादिक्रियेव काऽप्यर्थक्रियास्थितिः, 'ज्ञेयस्वरूपविद्यैव तत्रेष्टक्रिया स्थिता।' तथैव शब्दाकर्णनमात्रेण भवत्यवभास्यार्थावधारणम्, तत् चाक्षुषज्ञानस्येव श्रावणज्ञानस्यापि अवभास्यार्थावधारणलक्षणं प्रामाण्यं समानमेवेति।

'ज्ञानानं प्रामाण्यां स्वत एव गृह्यते' इति मीमांसकमतं निरस्यन्नाह-अत एवेति। यतो मन्दबुद्धेर्जातमात्रे प्रत्यक्षे अनिर्धारितविशेषस्यार्थक्रियासिद्ध्यनन्तरं प्रामाण्यावधारणं, अमन्दबुद्धेस्तु जातमात्रे प्रत्यक्षे निर्धारितविशेषस्य प्रथमत एव प्रामाण्यग्रहः, अत एवेत्यर्थः। प्रत्यक्षस्येति। कस्यचित्त्विति। मन्दबुद्धेरिति यावत्। परतः-अर्थक्रियादिना लिङ्गेनेत्यर्थः। योगिज्ञानस्येति। योगबलाज्जायमानं प्रत्यक्षं हि विशदावभासरूपमेवेति तस्य प्रामाण्यं स्वत एव गृह्यते। स्वसंवेद्यज्ञानस्य चेति। सुखादिप्रत्यक्षस्येति यावत्। न हि सुखे साक्षात्क्रियमाणे तस्मिन् संशयः। अनुमानस्य तु निश्चयात्मकत्वादिति। निर्धारितविशेषत्वादिति यावत्। एतेन ज्ञानस्य प्रामाण्यं स्वत एव गम्यत्त इति नियमो नास्माकमित्युक्तं भवति। उक्तं च शान्तरक्षितेन-

' येनैकैः स्वत एवेति प्राच्यैर्नियम उच्यते।
किञ्चित्स्वतोऽन्यतः किञ्चित् परैश्चानियमो मतः'। इति

व्याख्यातं च कमलशीलेन 'एकैः-मीमांसकैः, परैः-बौद्धैः, तैः किञ्चित् स्वतः प्रमाणमिष्टम् यथा-स्वसंवेदनं योगिज्ञानम् अर्थक्रियाज्ञानम् अनुमानम् अभ्यासवच्च प्रत्यक्षम्। तद्धि स्वत एव निश्चीते, अभ्यासबलेनापहस्तितभ्रान्तिकारणत्वात्। किञ्चिदन्यतः-विवादास्पदीभूतं चोदनाजनितं ज्ञानं, प्रत्यक्षं चानपगतभ्रान्तिनिमित्तम्' इति। (तत्त्वसं. प. ७७५)

प्रमाणलक्षणे अपूर्वगोचरत्वनिवेशस्य फलमाह-प्रथमत एवेत्यादिना। अयमाशयः-प्रमाणस्य हि प्रयोजनं प्रेक्षावतामर्थक्रियासु प्रवर्त्तनम्, प्रवर्त्तकता चार्थप्रदर्शकतया, अर्थप्रदर्शकता च यद्यपि प्रथमोत्पन्नज्ञानस्येव धारावाहिनि द्वितीयादिज्ञानेऽप्यविशिष्टा, अथापि प्रथमोत्पन्नज्ञानेनैवार्थः परिच्छिन्नः, अतो द्वितीयादिज्ञानमनपेक्ष्यैव तत एवं प्रवर्त्तते पुरुष इति द्वितीयादिज्ञानमन्यथासिद्धं प्रवृत्तावनङ्गमिति न तस्य प्रामाण्यम्। अतस्तब्व्द्यावृत्तयेऽपूर्वगोचरमिति प्रमाणलक्षणे विशेषणमिति। उक्तं च धर्मोत्तराचार्येण-'अत एवानधिगतविषयं प्रमाणम्, येनैव हि ज्ञानेन प्रथममधिगतोऽर्थस्तेनैव प्रवर्त्तितः पुरुषः, प्रापितश्चार्थः। तत्रैवार्थे किमन्येन ज्ञानेनाधिकं कार्यम्' इति। (न्या. बि. प.४) व्याख्यातं चैतदन्यत्रास्माभिः-अर्थक्रियासु प्रवर्त्तमाना अनवगततत्तत्समर्थार्थास्तदर्थावगतये तदर्थावभासकं प्रमाणं प्रतीक्षन्ते, न त्वधिगतार्थाः, अकिञ्चित्करं हि तेषां तत्। अथ यत्तथाविधमर्थमवभासथदपनीय तदज्ञानमुपकरोति तस्मै पुंसे तत् तं प्रमातारमपेक्ष्य तस्मिन्नर्थे प्रमाणम् यत्तु न किञ्चिदप्युपकरोति न तदर्थावभासकमपि प्रमाणव्यवहारपदमधिगच्छति। इदमेव तु प्रमाणतः संपाद्यं फलमर्थानवगतिविधूननम्। प्रमाणादर्थावधारणात् पूर्वं या तदर्थानवगतिरज्ञानलक्षणा सा हि विनाश्यते प्रथमेन प्रमाणेन तदर्थावधारणलक्षणेन। अधिगतार्थावभा सकस्तु न तत्फलमापाद्यते। अज्ञानस्यैवाभावात्। तत् अकिञ्चित्करतयाऽप्रमाणमुच्यते इति।

ननु साक्षात्कारः प्रमा, तत्करणमिन्द्रियं तु प्रमाणं, तत्साधारणं तु प्रमाणलक्षणं वक्तव्यमित्याशङ्कां निरस्यन्नाह-सम्यक् ज्ञानं प्रमाणमित्युक्त इति। जडस्येन्द्रियस्य प्रामाण्यमेवानुपपन्नं, प्रमाणस्य ह्येष स्वभावः, यदर्थपरिच्छेदकत्वम्, अर्थपरिच्छेदश्च ज्ञानस्यैव स्वभावः, चक्षुः संयुज्यते केवलमर्थेन सहालोक इव, अर्थपरिच्छेदस्तु ज्ञानेनैव, अतस्तस्य प्रमाणकोटावनन्तर्भावान्न तत्साधारणं लक्षणं कार्यमिति भावः। नन्वेवं सति साक्षात्कार एव प्रमाणमित्युक्तं भवति, तथा सति इयं प्रमा, इदं प्रमाकरणं यत्प्रमाणमुच्यते इत्ययं फलफलिविभागो नोपपद्येतेति चेद् अनुपदं प्रत्यक्षलक्षणनिरूपणावसरे वक्ष्यामः। एतेन प्रमाणस्वरुपे विप्रतिपत्तिर्निरस्ता।

अथ संख्यायां विप्रतिपत्तिं निरस्यन्नाह-तद् द्विविधमिति। प्रत्यक्षशब्दस्य व्युत्पत्तिमाह-प्रतिगतमिति। प्रतिगतमित्येतद्व्याचष्टे-आश्रितमिति। इन्द्रियाश्रितत्वं चिन्द्रियसम्बद्धतैव, सम्बन्धश्च तदुत्पत्तिः, तादात्म्यतदुत्पत्तिभ्यां नापरः सम्बधः कोऽप्यस्ति वस्तुनः। तदिदमभिप्रेत्यह-तस्मादुत्पन्नं ज्ञानं प्रत्यक्षमित्यर्थ इति। ननु रूपदिज्ञाने अक्षाणामिवार्थानामपि हेतुत्वमस्तीति अर्थाश्रितत्वमभिप्रेत्य प्रत्यर्थमिति कुतोन व्यपदेशः। मैवम्। अर्थेन सह सम्भन्धो मनोविज्ञानसाधारणः। अक्षेण त्वसाधारणः इर्ति प्रत्यक्षशब्देनैव व्यपदेशो युज्यते। आह च दिङ्नागः-

'असाधारणहेतुत्वाद् व्यपदेश्यं तदिन्द्रियैः'

इति। (प्रमाणसमुच्चये. श्लोक. ४). वृत्तिश्च-'व्द्याश्रयादुत्पन्नं विज्ञानं, अक्षाश्रयमिति कुतः; विषयाश्रयं न भवति किं? इति चेद् आह-असाधारणेत्यादि। रूपादिविषयास्तत्रान्तरे मनोविज्ञानसाधारणाः, असाधारणाच्च व्यवहारो दृश्यते यथा यवशब्दो यवाङ्कुरे' इति। शङ्कते-नन्विति। मानसादाविति। आदिशब्दात् स्वसंवेदनयोगिप्रत्यक्षयोः संग्रहः। परिहरति - अत्रोच्यत इति। अयं भवः- अक्षाश्रितत्वं प्रत्यक्षशब्दस्य व्युत्पत्तौ निमित्तं न तु प्रवृत्तिनिमित्तं, प्रवृत्तिनिमित्तं तु अर्थसाक्षात्कात्कारित्वम्, प्रत्यक्षशब्दस्य व्युत्पत्तिप्रदर्शनमात्रं कृतं प्रतिगतमक्षमित्यनेन। तेन च व्युत्पत्तिनिमित्तेन एकार्थसमवेतं प्रवृत्तिनिमित्तं साक्षात्कारित्वमुपलक्ष्यते। यथा पङ्कजशब्दव्युत्पत्तिनिमित्तेन पङ्कजनिकर्त्तृत्वेन तदेकार्थसमवेतं पद्मत्वं तथा। उक्तं च धर्मोत्तराचार्यण - ' आश्रितत्वं च व्युत्पत्तिनिमित्तं शब्दस्य, न तु प्रवृत्तिनिमित्तम्, अनेन त्वक्षाश्रितत्वेनैकार्थसमवेतमर्थसाक्षात्कारित्वं लक्ष्यते। तदेव शब्दस्य प्रवृत्तौ निमित्तम्। ततश्च यदेव यत्किञ्चिदर्थस्य साक्षात्कारिज्ञानं तत्प्रत्यक्षमुच्यते' इति।

अनुमानशब्दस्य व्युत्पत्तिनिमित्तमाह-मीयते इत्यादिना पश्चन्मानमनुमानमित्यन्तेन। अथ प्रवृत्तिनिमित्तमाह-लिङ्गेत्यादिना इतीत्यन्तेन। रूढिवशादिति। सामान्ये व्युत्पन्नोऽयं शब्दो रूढ्या विशेषं बोधयतीत्येतत्। उक्तं चाचार्यदिङ्नागेन 'अनुमानं लिङ्गादर्थदर्शन' मिति। (न्यायप्रवेश. प. ७)

मीमांसकः-कुमारिलभट्टः। सामान्यशब्दो विशेषपर्यवसायी।

चार्वाकाभिमतं प्रत्यक्षमात्रप्रामाण्यवादं निरस्यति-तत्रेत्यादिना। अयमाशयः-परस्याप्रतिपत्तिं विप्रतिपत्तिं वा निवारयन् यथास्वसमयं तत्तल्लक्षणं प्रणयन्नयं परस्याप्रतिपत्तिविप्रतिपत्ती कथमवगच्छति? परस्य कायवाग्व्यापाररिति। तथाचाभ्युपगतमजानतापि कार्यात्कारणानुमानम्। तथा परं स्वाभिप्रायं ज्ञापयन्नयं वाक्यं यदा प्रयुङ्क्ते तदा प्रयुज्यमानवाक्यस्य विवक्षायां लिङ्गत्वमजानताऽप्यभ्युपगतमेवेति। उक्तं च शान्तरक्षितेन-

'न प्रमाणमिति प्राहुरनुमानं तु केचन।
विवक्षामर्पयन्तोऽपि वाग्भिराभिः कुदृष्टयः॥ इति। (तत्त्वसं. ४२५)

साङ्ख्याद्यभिमतं शब्दप्रामाण्यं निरस्यति-शाब्दं च ज्ञानमित्यादिना। एष्टव्यमिति। शाब्दं ज्ञानं प्रमाणमिति वदता बाह्यार्थाविसंवादित्वेन प्रामाण्यमङ्गीकर्त्तव्यम्, अविसंवादश्च तदर्थप्रापणयोग्यतया सा च तदर्थपरिच्छेदकतया, अर्थविशेषपरिच्छित्तौ शब्दविशेषस्य हेतुत्वं च तयोः शब्दार्थयोः सम्बन्धमन्तरेण न संभवति, चक्षुष इव रूपादिपरिच्छेदकत्वं न नैसर्गिकम्। उन्मीलितमात्रे चक्षुषि नीलादिपरिच्छित्तिवत् श्रुतमात्रे शब्दविशेषेऽर्थपरिच्छित्तिः सर्वेषामेव (अव्युत्पन्नानामपि) स्यात्। अतः सम्बन्धः शब्दार्थयोर्वाच्यः स क इति विकल्प्य दूषयति-शब्दार्थयोः सम्बन्धो भवन्नित्यादिना।

भिन्नप्रतिभासेऽपीति। देशभेदात् कालभेदादर्थभेदाच्च तयोर्नैकः प्रतिभासः, शब्दः श्रोत्रेणार्थश्चक्षुषा, शब्दः श्रूयतेऽन्यस्मिन् देशे, अर्थो दृश्यतेऽन्यत्र, एवं कालभेदः। तस्मादेकधीगोचरत्वाभावान्न शब्दार्थयोस्तादात्म्यमिति भावः। आह च शान्तरक्षितः-

भिन्नाक्षग्रहणादिभ्यो नैकात्म्यं न तदुद्भवः।
व्यभिचारान्न चान्यस्य युज्यतेऽव्यभिचारिता॥ इति (तत्त्वसं. ४४०)

अर्थं प्रति शब्दस्य, शब्दं प्रति वाऽर्यस्य हेतुत्वे सति तयोः कार्यकारणभावः सम्बन्धो घटेत, तदुभयमपि नास्तीत्याह-नापीत्यादिना ताल्वादिव्यापारादेव तदुत्पत्तेरित्यन्तेन।

यद्यपि तादात्म्यतदुत्पत्तिभ्यमन्यः सम्बन्धो वस्तुनोर्नाभिमतः, अथापि पराभ्युपगतमनूद्य निरस्यति-अथेत्यादिना। प्रदीपघटयोः प्रकाश्यप्रकाशकभावस्य नैसर्गिकतया प्रदीपः सत्तामात्रेण यथा प्रकाशयत्यर्थं तथा शब्दार्थयोः वाच्यवाचकभावाख्ये सम्बन्धे नैसर्गिके सति श्रुतमात्रः शब्दोऽविशेषेणासङ्केतज्ञानपि बोधयेदर्थमित्याह-एवं तर्हीति। लौकिकोऽपि पुरुषोऽर्थविशेषशब्दविशेषयोः सङ्केतानभिज्ञः कः स्यादित्यत्र पुरुषविशेषं निदर्शयन्नाह - अभिनवेति। यत्र द्वीपेऽग्निशब्दस्य व्यवहार एव न ततो द्वीपादागत इति यावत्। ननु यद्यपि शब्दार्थयोरस्ति वाच्यवाचकभावो नैसर्गिकः सम्बन्धः; अथाप्यर्थप्रत्यायनयोग्यता तु सङ्केतसापेक्षा, तदग्रहे नाऽर्थप्रत्यय इत्याशयेनाशङ्कते-अथेति। योग्य एवेति। सङ्केतमपेक्ष्यैवार्थप्रत्यायनयोग्यो जायत इति भिन्नक्रमेणान्वयः। निरस्यति-तन्नेति। न ह्येवमस्य प्रामाण्यमवतिष्ठत इति। एवं सत्यस्य प्रामाण्यं न ह्यवतिष्ठत इत्यर्थः। कस्मात् ? आह-सङ्केतस्यैवेति। आह च कमलशील - ' न हि प्रकृत्याऽर्थप्रतीतिहेतवो दीपादयः सङ्केतमपेक्षन्ते, अन्यथा सङ्केतस्यैवान्वयव्यतिरेकाभ्यामर्थप्रतीतौ सामर्थ्यं स्यात् न स्वाभाविकस्य सम्बन्धस्य' इति (तत्त्वसं. प. ४३८). अत इति। शब्दार्थयोः सम्बन्धाभावादित्यर्थः। न ज्ञायते इति। निश्चेतुं न शक्यते इति यावत्। सम्बन्धे सति ह्यनेन शब्देनायमेवार्थो बोध्य इति निर्णयः स्यात्। सम्बन्धाभावादविशेषाद्विवक्षितार्थ एवानेन शब्देन बोध्येतेति निर्णयो नैव भवेदिति भावः। अनुपपद्यमानमपि सम्बन्धं तुष्यत्विति न्यायेनाभ्युपगम्यापि दूषयति-अस्तु वेति। अय एव - तादात्म्यतदुत्पत्तिभ्यामन्य एव।

नियते वस्तुनः स्वभावे नाक्षेपावसर इत्यभिप्रायेण शङ्कते-अथ वक्तव्यमिति। प्रतिक्षिपति - तदयुक्तमिति। प्रमाणसिद्धे वस्तुनः स्वभावे नाक्षेपावसरः, कल्प्यमाने तु स्यादेवाशङ्कावसर इति भावः। यथा।ग्निरुत्पद्यमानो निसर्गत एव दाहकशक्तिविशिष्ट एवोत्पद्यते तथा शब्दविशेषोऽर्थविशेषप्रत्यायकशक्तिविशिष्ट एवोत्पद्यते इत्यभिप्रायेण परेण क्रियमाणां शङ्कामनूद्य प्रतिक्षिपति-नचैवं वक्तव्यमित्यादिना। नियतार्थव्यभिचारित्वमिति। नचैवं वक्तव्यमित्यन्वयः। तत्र हेतुमाह-तथाहीस्यादिना। यच्च परैराप्तोच्चारितं वाक्यं प्रमाणमित्युच्यते तद् दूषयति-नाप्याप्तप्रणीतशब्दानामिति। अनाप्तानुच्चारितं वाक्यं प्रमाणमिति वदतां वेदस्यापौरुषेयत्वेन स्वतः प्रामाण्यं वर्णयतां मीमांसकानां पक्षं दूषयति-सम्बन्धदूषणेनैवति। शब्दप्रामाण्ये निरस्यमाने लोकव्यवहारमात्रोच्छेदप्रसङ्गमाशङ्क्य परिहरति-कथं तर्हीत्यादिना। विवक्षावशादिति। प्रयोक्तुरर्थविवक्षाया वचो लिङ्गतया ज्ञापकं भवतीति भावः। आहच शान्तरक्षितः-

वचोभ्यो निखिलेभ्योऽपि विवक्षैषाऽनुमीयते।
प्रत्यक्षानुपलम्भाभ्यां तद्धेतुः सा हि निश्चिता॥ इति। (तत्त्वसं. प. ४४१)

सा विवक्षा तद्धेतुः तस्य प्रयुज्यमानस्य वचसो हेतुः, प्रत्यक्षानुपलम्भाभ्यां तयोर्म्हेतुहेतुमद्भावो निश्चीयत इति तदर्थः।

अथ नैयायिकाभिमतमुपमानप्रामाण्यं निरस्यन् तत्पक्षमनुवदति-नैयायिकस्येति। प्रपञ्च इति। निरूप्यते। इति शेषः। आप्तातिदेशवाक्यार्थस्मरणसहकारीति। अतिदेशवाक्यार्थस्मरणं सहकारि यस्येत्यर्थः। सारूप्यज्ञानमिति। आप्तवाक्यजन्यमिति यावत्। विषयवत्तया व्याप्तमिति। अपूर्वविषयं प्रकाशयत् प्रमाणं भवति, असति तस्मिन् कथं ज्ञानस्य प्रामाण्यमिति भावः।

विषयासंभवमुपपादयति-तथाहीति। समाख्यासम्बन्ध इति। अयमाशयः, अतिदेशवाक्यं श्रुत्वा वनं गतः पिण्डविशेषं यदा पश्यति तदाऽस्य पिण्डापरोक्षमात्रम्। सारूप्यं तु स्मर्यते केवलम्। स्मृतिस्तु न प्रमाणं गृहीतग्राहित्वात्। ननु पिण्डदर्शनसमनन्तरमयं गवयपदवाच्य इति भवति समाख्यासंबन्धग्रहः, इयमेवोपमा उपमानफलमुच्यते, अतोऽस्ति विषयो यः शब्दार्थयोः सम्बन्धः समाख्येति। निरस्यति-सच परमार्थतो नास्तीति। यश्चायं सम्बन्ध इति प्रवादः, स वाङ्मात्रम्। न सम्भन्धिभ्यां भिन्नः कश्चिदर्थं उपलभ्यते। यः सम्भन्ध इत्यर्थतत्त्वमिष्येतेति भावः। सम्भन्धमात्रं विकल्प्य दूषयति-दृश्यत्व इत्यादिना। इमौ सम्भन्धिनौ अनयोश्चायं सम्भन्ध इति वदता वक्तव्यं किमसौ सम्भन्धो दृश्य उताधृश्यः। अदृश्य सत्ता न सिद्धयति, यदि दृश्यः, सम्भन्धी यदा दृश्यते तदा दृश्येत सोऽपि, न च दृश्यते, तस्मात् सम्भन्धो न पारमार्थिक इति शब्दार्थयोः समाख्या सम्बन्धस्तत्प्रकाशकतयोपमायाः प्रामाण्यमित्येतन्नैव घटत इतिभावः।

ननु यत्र सम्बन्ध्युपलम्भसामग्र्येव सम्बन्धोपलम्भसामग्री, तत्र सम्बन्धिधर्शनकाल एव सम्बन्धोऽप्युपलम्म्येत। यत्र तु भिन्ना तत्र न तदैव तदुपलभ्येत, न ततः सर्वथा तस्यादृश्यत्वम्, इत्यतो दूषणान्तरमाह--किञ्चिति। अथ सम्बद्धबुद्धिजनत्वं सम्बन्ध इति। अयमाशयः- ननु सम्बन्धिभ्यामन्य एव सम्बन्धः, स हि सम्बद्धबुद्धिहेतुत्वलक्षणः। न हि घटपटयोः सत्तामात्रं घटपटौ संयुक्ताविति बुद्धौ हेतुः, विश्लिष्टावस्थायामपि तथा प्रतीत्यापातात्, अतः संयोगो नाम ताभ्यामन्यो वैशिष्ट्यप्रतीतिनियामकः स्वीकार्यः, तथैव गवयशब्दपिण्डविशेषयोः सतोरपि न समाख्याप्रतिपत्तिः, यं समाख्यासम्बन्धमाप्तातिदेशवाक्यार्थज्ञानपिण्डविशेषदर्शनसमन्तरं प्रतिपद्यत इति। प्रतिक्षिपति--तन्न युक्तमिति। सम्बद्धवस्तुद्वयादपीति। सम्बन्धाख्यवस्त्वन्तरनिरपेक्षाद् वस्तुद्वयादेवेत्यर्थः। अयमाशयः- सर्वेषामेव सतां क्षणिकत्वेन संयुक्तप्रतीतिगोचरर्योविश्लिष्तप्रतीतिगोचराभ्यां भिन्नत्वेन तयोरेव च सम्बद्धप्रत्ययहेतुत्वेन ताभ्यमतिरिक्तस्य सम्बद्दस्यानपेक्षणाद् विशिष्टबुद्धिः सम्बन्धमतिरिक्तं कल्पयितुं न प्रभवतीति। इदमत्र बोध्यम् -- यो गोसदृशः स गवय इति तु श्वावणं प्रत्यक्षं। तत्तु शब्दविशेषप्रकाशकतया शब्दमात्रे प्रमाणम्, पीण्डविशेषदर्शनं तु तदनन्तरभावि पिण्डविशेषप्रकाशकतया तन्मात्रे प्रमाणम्। उपदेशावगतसारूप्यस्मरणं यद् भवति पिण्डविशेषदर्शनेन, तत् स्मृतिरूपतया गृहीतग्रहीततया न प्रमाणम्, दृष्टे पिण्डविशेषे ततः पश्चाद् यश्च समाख्यासम्बन्धग्रहः सोऽपि गवयसामान्ये बौद्ध एव वस्तुनीति स्मृतितो न बहिर्भवति। अपि च समाख्यासम्बन्धग्रहोपायाश्चान्येऽपि सन्ति यथा--कं पिक इति पृष्टे कश्चिदाह, यो मधुरं रौति स पिक इति, मधुर्रुतश्रवणानन्तरं पिकसमाख्याग्रहो बौद्धे पिकसामान्याकारे भवति, एवमादेरपि पृथक् प्रामाण्यमापतेदिति। उक्तं च शान्तरक्षितेन -

'उच्यते क्षणिकत्त्वेन नाविशेषा जलादयः'। (तत्त्वसं. प. २२०)

तथा-

'न सम्भन्ध्यतिरिक्तश्च सम्बन्धोऽस्तीति साधितम्।
प्रागेव समये शब्दो गृहीतः श्रोत्रचेतसा॥

चक्षुषा दृष्यते चासावग्रतोऽवस्थितः पशुः।
पृथग्विज्ञातयोरेषा युक्ता न घटना प्रमा॥

ग्रहीतप्रतिसन्धानात्सुगन्धिमधुरत्ववत्।
तन्नाम् योगसंवित्तिः स्मार्ततां नातिवर्तते॥

अनन्तोपायजन्याश्च समाख्यायोगसंविदः।
साधर्म्यमनपेक्ष्यापि जायन्ते नरपादिषु॥

सितातपत्रापिहितब्रघ्नपादो नराधिपः।
तेषां मध्य इति प्रोक्त उपदेशविशेषतः॥

कालान्तरेण तदृष्टौ तन्नामास्येति या मतिः'।
सा तदान्या प्रमा प्राप्ता साधर्म्याद्यनपेक्षणात्॥ इति॥ (तत्त्वसं. प. ४५४)

अथ मीमांसकानामुपमानप्रामाण्योपपादनं निरस्यति--एवमित्यादिना। मीमांसकोपवर्णितस्यापीति। उपमानस्येति शेषः। सादृष्यविशिष्टः पिण्डः पिण्डविशिष्टं वा सादृष्यमुपमानविषयस्तेन वर्ण्यते इति। अयमाशयः- पूर्वं ग्रामे गां दृष्ट्वा पश्चात् जातु वनं गतो गवयं पश्यति, तदा तस्य भवति सपदि पिण्डविशेषप्रत्यक्षमालोचनात्मकं ज्ञानं, ततश्च गोसदृशोऽयं पशुरिति विशेषतो विनिश्चयः सविकल्पकः। अयं चेन्द्रियजन्यत्वेनाध्यलक्षण एव। ततश्च भवति ' अनेन पशुना सदृशो गौ' रिति ज्ञानम्। इदमेव ज्ञानमुपमानं प्रमाणमुच्यते, अस्य च विषयो गवयसादृश्यविशिष्टो गौः गोनिष्ठं वा सादृश्यम्। ननु सादृश्यं प्रत्येक्षेणावगतं, गौश्च स्मृतेर्विषयः। अथ किमपूर्वमुपमानप्रमाणविषयतयोच्यते। सत्यम्। सादृश्यविशिष्टतात्त्वनधिगता सोपमानस्य विषयः। तथाचोक्तं कुमारिलेन -

तस्माद् यत् स्मर्यते तत् स्यात् सादृश्येन विशेषितम्।
प्रमेयमुपमानस्य सादृश्यं वा विशेषितम्॥

प्रत्यक्षेणावरुद्धे च सादृश्ये च गवि स्मृते।
विशिष्टस्यान्यतोऽसिद्धेरुपमायाः प्रमाणता॥ इति। (श्लोकवा. प. ४४४)

उपमानप्रमाणविषयतया पराभिमतं सादृश्यं निरस्यति-नचेत्यादिना। यौ मिथः सदृशौगौर्गवयश्च तौ प्रत्यक्षसिद्धौ, एको दृष्टपूर्वः अपरश्चाधुना। अथाभ्यामुभाभ्यामतिरिक्तं किं सादृश्यमस्ति, यदुपमानस्य विषय उच्येत्। भूयोऽवयवसाम्यमिति यत्, तदवयवसन्निवेशतो नातिरिच्यते। स च दृष्ट एव, तद् दृष्टाभ्यां पिण्डाभ्याममन्यत् सादृश्यं नाम न प्रमाणगोचरमिति यावत्। प्रमाणासिद्धतामेवोपपादयति-तथाहीत्यादिना। दृश्यानुपलम्भग्रस्तमेव तदिति। उपलम्भयोग्यस्यानुपलम्भो ह्यसत्तामेव वस्तुनो गमयति। सादृश्यप्रत्ययस्त्विति। अयमाशयः-नन्वयमनेन सदृश इति येयं प्रतीतिः सैव सादृश्ये लिङ्गम्, विषयजन्यत्वात् प्रतीतेः। तस्मात् कार्यलिञ्गकानुमानेन तत्सिद्धिरिति चेन्न। यौ सदृशतया प्रतीयमानौ गोगवयौ, तौ स्वहेतोरुत्पन्नौ तावेवायमनेन सदृशाविति प्रत्यये हेतू, इति न ततोऽतिरिक्तं सादृश्यं वस्तु सिद्ध्यति। भूयोऽवयवसारूप्यमवयवसन्निवेशविशेषान्नातिरिक्तमिति न कार्यलिङ्गकानुमानात्तत्सिद्धिरिति। तेन वादिनेति। मीमांसकेनेत्यर्थः। स्वयमेव प्रमाणान्तरसिद्धयोः सादृश्यपिण्डयोर्विशेष्यविशेषणभावमात्रस्योपमानप्रमाणविषयतां ब्रुवन् सादृश्यं केन प्रमाणेन सिद्ध्यतीति पुष्टे अनेनैवोपमानप्रमाणेनेति कथं ब्रुयात्, व्याहतं हि वच इति भावः। इदमत्र बोध्यम्-गोसदृशे गवये दृष्टे अनुभूतपूर्वे गवि एतत्सदृशो गौरितिवत् एतद्विसदृशस्तुरग इति भवत्यनुभूतपूर्वे तुरगे, तदस्या वैसादृश्यप्रतीतेरपि प्रमानान्तरता किं न स्यात्। न चाभावप्रमाणेऽन्तर्भाः, भावावलम्बिनी ह्येषा प्रतीतिः। एवं तरुश्रेण्यां दृश्यमानायां प्रथमतरुदर्शनेऽनधिगतमाद्यत्वं द्वितीयतरुदर्शनान्तरं दृष्टपूर्वे तरावाद्यत्वमधिगम्यते 'स तरुराद्य' इति। तदस्या अपि प्रतीतेः प्रमाणान्तरत्वमापतेदपूर्वविषयत्वादिति। उक्तं र शान्तरक्षितेन -

गवयस्योपलम्भे तु तुरङ्गादौ प्रवर्तते।
तद्वैसादृश्यविज्ञानं यत् तदन्या प्रमा न किम्।

अभावान्तर्गतं नो चेन्नैवं भावावलम्बनात्।
अन्योन्याभावतायां च समं सादृश्यबुद्धिषु॥

तरुपङ्क्त्यादिसंदृष्टावेकपादपदर्शनात्।
द्वितीयशाखिविज्ञानादाद्योऽसाविति निश्चयः॥

प्रमाणान्तरमासक्तं सादृश्यादनपेक्षणात्॥' (तत्त्वसं. प. ४५०)

इति। पृथङ्नोपपद्येत् इति। अनुमानात् पृथगित्यर्थः। अर्थापत्तेः प्रामाण्यमेव न, यदि प्रामाण्यं तदाऽनुमान एवान्तर्भाव इति यावत्। तदिदमुपपादयन्नाह - अत्रेदं चिन्त्यत इति। योऽसौ प्रमाणदृष्तोऽर्थ इति। प्रमाणदृष्टोऽर्थः- दिवाऽभुञ्जानस्य पीनत्वं जीवतो गृहेऽभाव इत्यादिः। परिकल्प्यमानोऽर्थः-रात्रिभोजनं बहिर्भाव इत्यादिः। प्रतिबन्धोऽस्तीति। यः कल्पकः प्रमाणदृष्टः, यश्च परिकल्प्यः परोक्षस्तयो सति प्रतिबन्धेऽनुमानेऽन्तर्भावः, असति च तस्य तस्मिन्नर्थे प्रामाण्यमेव न। यथा दिवाऽभुञ्जानस्य यत् पीनत्वं तस्य च रात्रिभोजनस्य च कार्यकारणभावः प्रबिबन्धोऽस्तीति रात्रिभोजने कारणे पीनत्वं कार्यं लिङ्गं भवितुमर्हतीत्यनुमानान्न पृथगर्थापत्तेस्तत्र प्रामाण्यम्। यत्तु मीमांसकः प्राह - दिवाऽभुञ्जानस्य पीनत्वश्रवणाद् रात्रौ भुङ्क्ते इति वाक्यं परिकल्प्यते इति। तदेतदसम्बन्धान्नोपपद्यते इति न तत्र प्रमणं किमपि। उक्तं च शान्तरक्षितेन-

'क्षपाभोजनसम्बन्धी पुमानिष्टः प्रतीयते।
दिवाभोजनवैकल्पपीनत्वेन तदन्यवत्॥

भोजने सति पीनत्वमन्वयव्यतिरेकतः।
निश्चितं तेन सम्बन्धाद् वस्तुनो वस्तुतो गतिः॥

सर्वसम्बन्धशून्यं हि कथं वाक्यं प्रतीयते।
एकस्माद् वाक्यतः सर्वं प्रतीयतेतान्यथा पुनः'॥(तत्त्वसं. प. ४६५)

इति। अथाभावाख्यं प्रमाणं निरस्यति-अभावस्येत्यादिना। स्वरूपमेव न वीक्षामहे इति। अवस्तुत्वादिति शेषः। प्रत्यक्षादीनामिति। आदिशब्दादनुमानोपमानशब्दार्थापत्तयो गृह्यन्ते। मीमांसकैरभिधीयते इति। आह च शबरस्वामी - 'अभावोऽपि प्रमाणाभावः नास्तीत्यर्थस्यासन्निकृष्टस्य' इति। कुमारिलश्च-

'प्रमाणपञ्चकं यत्र वस्तुरूपे न जायते।
वस्तुबोधावबोधार्थं तत्राभावप्रमाणता'॥ (श्लोक. वा. प. ४७३)

इति। अभावप्रमाणतयाभिमतां प्रमाणपञ्चकानुत्पत्तिं विकल्प्य दूषयति - तत्र केयमित्यादिना। सर्वशक्तिशून्यत्वादिति। उत्पत्तिप्रतिषेधमात्रस्याभावरूपतया तस्यावस्तुत्वादित्यर्थः। अत एवेति। अवस्तुत्वादेवेत्यर्थः। न ह्यभावः कस्यचित् प्रतिपत्तिरिति। कस्यचिद् विषयस्य प्रतिपत्तिरित्यर्थः। तस्यापि कथं प्रतिपत्तिरिति। अभावस्यावस्तुतया तस्य प्रतिपत्तिर्वा कथं भवेदित्यर्थः। ननु प्रमाणानुत्पत्तिः प्रमातुरात्मनोऽवस्थाविशेष एव। आह र कुमारिलः-

'प्रत्यक्षादेरनुत्पतिः प्रमाणाभाव इष्यते।
सा।आत्मनोऽपरिणामो वा' (श्लोक वा. प. ४७५)

इति। सा प्रत्यक्षादेरनुत्पत्तिः, आत्मनोऽपरिणामो-निषेध्याभिमतघटादिज्ञानरूपेणापरिणामित्वम्, साम्यावस्थमात्मद्रव्यमिति तदर्थः। इत्थं च तस्य नावस्तुत्वमिति चेत्, किं तेन सुषुप्त्यवस्थासाधारणेन। तथा चोक्तं शान्तरक्षितेन -

'अस्तु वाऽपरिणामोऽस्य तथापि व्यभिचारिता।
स्वापमुर्च्छाद्यवस्थासु तद्भावेऽयर्थसंभवात्'॥ (तत्त्वसं. प. ४७४)

इति। ननु पर्युदासंवृत्त्या ब्रूमः-प्रत्यक्षादीनामनुत्पत्तिरिति। सा च ज्ञानान्तरावस्थितिः। उक्तं च कुमारिलेन-'विज्ञानं वाऽन्यवस्तुनि' इति, इति चेन्निरस्यते चैतन्नापीत्यादिना द्वितीयविकल्पनिरसनेन।

प्रत्यक्षाद्यनुत्पत्तिरित्यत्र किं ज्ञानमात्रं विवक्षितमुत ज्ञानविशेष इति विकल्पमभिप्रेत्य ज्ञानसामान्यपक्षं निरस्यति-देशकालेत्यादिना। देशविप्रकृष्टः सुमेरुः, कालविप्रकृष्टः शङ्खचक्रवर्ती, स्वभावविप्रकृष्टः विशाचादिः। ज्ञानविशेषपक्षं दूषयति-अथैकज्ञानसंसर्गीति। एकस्मिन् ज्ञाने घटविशिष्तप्रत्यक्षे यद्विषयतया सम्बद्धं भूतलं-भूतलमात्रं तस्य वस्तुनः प्रत्यक्षमेव प्रत्यक्षाद्यनुत्पत्तिरित्यनेनोच्यते इति यावत्। एकविषयकत्वमभिप्रेत्यैकज्ञानमित्युक्तिः। यत्प्रदेशविषयकं विशिष्टप्रत्यक्षं तत्प्रदेशविशेषविषयकमेव भूतलमात्रप्रत्यक्षमपीति तदिदं प्रत्यक्षमभावप्रमाणमुच्यते इति भावः। अत्राह-तदेति।

प्रत्यक्षं लक्षयति - तत्र प्रत्यक्षमिति। तत्र - प्रत्यक्षानुमानयोर्मध्ये। यत्कल्पनापोढमभ्रान्तं तत्प्रत्यक्षमित्युद्देश्यविधेयभावेनान्वयः। कल्पनापोढमभ्रान्तमिति प्रतिषेधादर्थतो ज्ञानमिति सिद्धिम्। ननु विधीयमानं प्रत्यक्षत्वमुद्देश्याकारतो भिन्नं वक्तव्यम्। उच्यते - यत् साक्षात्कारिज्ञानत्वमुभयवादिसंप्रतिपन्नंतत् प्रत्यक्षशब्दवाच्यम्। का नाम कल्पना, यदपोढं प्रत्यक्षमुच्यते तामाह - पूर्वापरमित्यादिना। शब्दसंयुक्ताकारेति। संयोगश्च नामतो यथा - डित्थ इति, दण्डीती विविधो बोध्यः। उक्तं च दिङ्नागेन 'नामजात्यादियोजने'ति। व्याख्यातं चैतद्वृत्तौ - 'अथ कल्पना कीदृशीत्याह -- नामजात्यादियोजना, यदृच्छाशब्देषु नाम्ना डित्थ इति जातिशब्देषु तथा गौरिति ' त्यादिना (प्रमाण. १२)। बालमूकादीनां शब्दसंस्पर्शयोग्या प्रतीतिर्नास्तीत्यत आह - अन्तर्जल्पाकारावेति। आप्तसंवादं प्रमाणयति तथाचोक्तमिति। धर्मकीर्तिनेति यावत्। अभिलापसंसर्गयोग्यः प्रतिभासो यस्यां प्रतीतौ सा अभिलापसंसर्गयोग्यप्रतिभासा। योग्यत्वनिवेशाद् बालमूकादीनां या कल्पनाऽन्तर्जल्पाकारा तस्याः संग्रहः। व्याख्यातं चैतद् धर्मोत्तराचार्येण -- 'अभिलप्यतेऽनेनेत्यभिलापो वाचकः शब्दः, अभिलापेन संसर्ग एकस्मिन् ज्ञाने अभिधेयाकारस्याभिधानाकारेण सह ग्राह्याकारतया शीलनम्, ततो यदेकस्मिन् ज्ञाने यदभिधेयाभिधाकारौ संनिविष्टौ भवतः तदा संसृष्टेऽभिधानाभिधेये भवतः। अभिलापसंसर्गाय योग्योऽभिधेयावभासो यस्यां प्रतीतौ सा तथोक्ते ' ति। (न्यायबिन्दुटीका --प. १०) बालमूकादीनानामप्यन्तर्जल्पाकारं ज्ञानमस्तीत्येतत् समर्थयति - विकल्पार्थस्येत्यादिना। आह च शान्तरक्षितः -

'शब्दार्थघटनायोग्या वृक्ष इत्यादिरूपतः।
या वाचामप्रयोगेऽपि साभिलापेव जायते॥

अतीतभवनामार्थभावनावासनान्वयात्।
सद्यो जातोऽपि यद्योगादितिकर्त्तव्यतापटुः'॥ (तत्त्वसं. प. ३६७)

इति। सेयं कल्पना स्मितरुदितस्तनपानादिव्यापारविशेषैर्बालेष्वप्यस्तीति निश्चीयते।

ननु कस्माच्चिद् गौरेवायमित्यवधारणात् सविकल्पकाद् भवत्यर्थप्राप्तिः, तथा चलद्वृक्षदर्शनेन पीतशङ्खदर्शनेन वा भ्रमेण प्रवृत्तस्याप्यर्थप्राप्तिर्दृष्टा, तत्तयोः प्रामाण्यं नेति कथमवधारितमित्याशयेन शङ्कते - किं पुनरिति। न प्रमाणमिति। न प्रमाणमित्यत्रेत्यर्थः। न प्रत्यक्षप्रमाणमित्यत्र किं प्रमाणमिति यावत्। सर्वेषां सम्मतमिति। प्रत्यक्षस्य लक्षणे तु विप्रतिपत्तिर्वादिनां, प्रत्यक्षस्वरूपस्य तु अर्थसाक्षात्कारात्मकत्वे न विप्रतिपत्तिरित्याशयः। कल्पनाज्ञानस्य भ्रमस्य च तथात्वं नेत्याह -- नचेत्यादिना। अर्थं साक्षात्कर्तुं यत् क्षमते ज्ञानं तदर्थसाक्षात्कारीति युक्तम् , यत्तु न क्षमते तस्य कथमर्थ-साक्षात्कारिज्ञानात्मता, कल्पनाज्ञानस्य भ्रमस्य च न तत्क्षमतेत्याह -- नच कल्पनाविभ्रमाविति। असामर्थ्यमुपपादयति--तथाहीत्यादिना। ग्राह्यतां विदुः। हेतुत्वमेवेति। युक्तिज्ञा हेतुत्वमेव ग्राह्यतं विदुरित्यन्वयः। हेतुत्वमुपपादयति - ज्ञानाकारार्पणक्षममिति। यस्माद् ग्राह्यं वस्तु ज्ञाने स्वाकारार्पणक्षमं भवतीत्यर्थः। कल्पनाज्ञानं त्विति। यदिदं नामजात्यादिकल्पनायुक्तं ज्ञानं तद् विनैव नीलादिस्वलक्षणमर्थं वासनामात्रेण जायते इति न तस्यार्थकार्यता, यस्मान्नार्थकार्यं तत् तस्मान्नार्थग्राहिता तस्येति कथं तदर्थसाक्षात्कारि भवितुमर्हतीति भावः। कल्पनाज्ञानस्यार्थजन्यत्वेऽनिष्टमापादयति-ततश्चेति। नामजात्याद्यभिलापिनी कल्पनाप्रतीतिर्नीलादिशब्दं शृण्वतोऽन्धस्यापि भवत्येवेति कल्पनाया अप्यर्थजन्यत्वाभ्युपंगमे तस्यापि रूपदर्शित्वमापतेत्। हेतुहेतुमद्भावान्नान्यो ग्राह्यग्राहकभाव इति चोक्तमेवेति भावः।

अत्राप्तसंवादं प्रमाणयति-अत एवोक्तमिति। प्रत्यक्ष इव प्रतिभासाभावादित्यर्थः। वैयाकरणमतमनूद्य निरस्यति - एतेनेत्यादिना। एतेन - वक्ष्यमाणदूषणेतेत्यर्थः।

तथाहीति। अयमाशयः--पुरःस्थितं पश्यतः पुरुषस्य भवतु नामायं घट इति नामानुविद्धप्रत्ययः, तेनैवं यदा घटोऽनुभूयते तदाऽऽश्रयीभूतं भूतलं नयनगोचरीभूतमनुभूयत एव, न च तन्नाम्नोच्चार्यते, तन्नोपपद्यते सर्वं एव प्रत्ययो नामानुविद्ध इति। अभ्युपगम्येदं दूषणमुक्तम्। वस्तुतो विकल्परहित एव साक्षात्कारः, उन्मीलितमात्रे नयते पुरःस्थितं स्वलक्षणं वस्तु साक्षात्क्रियत एव, अनन्तरमेव तु विकल्पावभासः, स च निमील्य नयने विचारयतोऽपि भवत्येव, न चात्राक्षार्थापेक्षा। भ्रमस्य प्रत्यक्षत्वासंभवमुपपादयति-भ्रान्तमपीत्यादिना। अर्थक्रियाक्षमे वस्तुनि यद्विपर्यस्तमुत्पद्यते तदेव भ्रान्तमुच्यते भ्रान्तिस्वरूपविद्भिरित्यर्थः। विपर्यस्तावभासकस्य ज्ञानस्य यथावस्थित-वस्तुग्राहकत्वाभावेन न प्रत्यक्षत्वमिति भावः।

अत एवाहाचार्य इति। आचार्यः धर्मकीर्त्तिः, आह--न्यायबिन्दाविति यावत्। तिमिरशब्दो नायनदोषोपलक्षकः। एतेन--तिमिरदोषाहितत्वेन।

आशङ्कते--ननु यदीति। अयमाशयः -- यदि गच्छद्वृक्षपीतशङ्खादिदर्शनं भ्रान्तमिति न तत् प्रत्यक्षं, प्रमाणमविसंवादि ज्ञानमित्येतत् प्रमाणलक्षणं नोपपद्यते। तत्राति-प्रसङ्गात्। तदपि ह्यर्थक्रियाकार्यर्थप्रापकम्, चलद्वृक्षदर्शनेन प्रवृत्तो वृक्षं तद्वद्देशं वा प्राप्नोति। पीतशङ्खावभासेन प्रवृत्तः शङ्खम्। अतः प्रमाणलक्षणाक्रान्ततया प्रमाणविशेषेऽन्तर्भावोऽस्यावश्यं वक्तव्यः। प्रत्यक्षानुमानाभ्यां च नान्यत् प्रमाणम्, नचेदमनुमानम् तत् प्रत्यक्ष एवान्तर्भावो वाच्यः। तदभ्रान्त्वं विशेषणं प्रत्यक्षलक्षणे न योज्यमिति।

परिहरति - न ततो वस्तुप्राप्तिः, किं तर्हि, ज्ञानान्तरादेवेति। ततः-चलद्वृक्षादि-दर्शनाद् अवभासितस्य वस्तुनो न प्राप्तिः किंतर्हि, अन्यस्यैव, यदेव ज्ञानान्तरादवभास्यम्। अर्थक्रियासमर्थमेव वस्तुशब्दवाच्यम्, चलद्वक्षादि नार्थक्रियासमर्थम्, नियतदेशवृक्षाद्येव त्वर्थक्रियासमर्थम्, ज्ञानन्तरादेव तु तदवभास्यमित्यर्थः। अयमाशयः-चलद्वृक्ष-दर्शनं नाविसंवादि, न प्राप्यते हि तेन यथावभासं वस्तु, ज्ञानान्तरावभास्यो वृक्षो नियतदेशः प्राप्यते, देशस्चाचलद्वृक्षः। तथा पीतशङ्खावभासो नाविसंवादी, पीतं तु दृष्टं, प्राप्यते शुक्लम्, पीतादन्यदेव तु शुक्लम् , तन्न स्वेनावभासितमर्थं प्रापयति। यथावभासमर्थं प्रापयदेव त्वविसंवादि। ननु प्राप्यते शङ्खः स एव, यः पीत इत्यवभासपथमुपगतः। न। रूपादनन्य एव तु शङ्ख, न रूपरूपिणार्भेदः। उक्तं च शान्तरक्षितेन -

'न वर्णव्यतिरिक्तं च संस्थानमुपजायते।
भासमानस्य वर्णस्य न च संवाद इष्यते'। (तत्त्वसं. प. ३९५)

इति। एतेन सन्तानैक्यादविसंवादकत्वोपपादनमपि निरस्तं वेदितव्यम्। आह च कमलशीलः- 'प्रमाणं भवद् द्वाभ्यामाकाराभ्यां भवति। यथाप्रतिभासमविसंवादात्, यथाध्यवसायं वा। तत्रेह न यथाप्रतिभासमविसंवादः, पीतस्य प्रतिभासनात्, तस्य यथाभूतस्याप्राप्तेः। नापि यथाध्यवसायमविसंवादः, पीतस्यैव विशिष्टार्थक्रियाकारित्वेनाध्यवसायात्, न च तद्रूपार्थक्रियाप्राप्तिरस्ति' इति (तत्त्वसं. पं. ३९५) आह च धर्मोत्तराचार्यः - 'यदि मिथ्याज्ञानं कथं ततो वृक्षावाप्तिरिचेत्, न ततो वृक्षावाप्तिः, नानादेशगामी वृक्षस्तेन परिच्छिन्नः, एकदेशनियतश्च वृक्षोऽवाप्यते। ततो यद्देशो गच्छद्वृक्षो दृष्टस्तद्देशो नावाप्यते, यद्देशस्चावाप्यते स न दृष्ट इति' इति। तथाच यथावभासं वस्तुप्रापकत्वस्यैव प्रमाणलक्षणत्वेन नातिव्याप्तिरिति। इदमभिहितं भवति -- अवभास्यमानश्चलद्वृक्षादिरर्थक्रियासमर्थाज्ज्ञानान्तरावभास्यान्नियतदेशवृक्षादन्य एवेत्यर्थक्रियासमर्थार्थावभासकत्वस्य तथाविधाध्यवसायहेतुत्वस्य वाऽभावेन न चलद्वृक्षादिदर्शनस्य प्रामाण्यम्, तस्यैवाविसंवादकत्वरूपत्वादिति। अनुमानेऽतिप्रसङ्गवारणाय कल्पनापोढमिति। अनुमानस्य सामान्यमेव विषय इति न तत्कल्पनापोढम्।

ननु--कल्पनापोढमेव चेत् प्रत्यक्षप्रमाणं तस्य कथं व्यवहाराङ्गता। न ह्यनिर्देश्यमवभासयत् प्रवृत्तये निवृत्तये वा प्रभवति। सत्यम्। कल्पनाविरहितमनिर्देश्यमवभासयदपि प्रवृत्त्याधायकस्य गौरयमित्यस्य सविकल्पकस्योत्पादकतया भवति व्यवहाराङ्गम्। आह च शान्तरक्षितः -

'अविकल्पमपि ज्ञानं विकल्पोत्पत्तिशक्तिमत्।
निःशेषव्यवहाराङ्गं तद्द्वारेण भवत्यतः'॥ (तत्त्वसं. प. ३९०)

इति। यद्यपि दृष्टमेवान्यत् विकल्पश्चान्यः, क्षणिकं हि सर्वम्, दृष्टं स्वलक्षणम्, विकल्पश्च सामान्यात्मा, तथाऽपि दृश्यविकल्पयोरनन्यताध्यवसायाद् भवति प्रवृत्तिः। तद्युक्तं स्वावभासितार्थाध्यवषयोत्पादनशक्तिमत्तया व्यवहाराङ्गत्वम्। ननु सविकल्पस्यापि सम्यक्ज्ञानतया प्रामाण्यमभ्युपेयम्। न। अपूर्वगोचरमेव सम्यक्ज्ञानं प्रमाणं, सविकल्पकश्च नापूर्वगोचरः, प्रत्यक्षगृहीतमेव हि गृःणाति, अनन्यतयैव तु ग्रहः। उक्तं च कमलशीलेन-'प्रत्यक्षं कल्पनापोढमपि सजातीयविजातीयव्यावृत्तमनलादिकमर्थं तदाकारनिर्भासोत्पत्तितः परिछिन्ददुर्पद्यते। तच्च नियतरूपव्यवस्थितवस्तुग्राहित्वाद् विजातीयव्यावृत्तवस्त्वाकारानुगतत्वाच्च तत्रैव वस्तुनि विधिप्रतिषेधावाविर्भावयति--अनलोऽयं नासौ कुसुमस्तबक इति, तयो श्च विकल्पयोः पारम्पर्येण वस्तुनि प्रतिबन्धादविसंवादित्वेऽपि न प्रामाण्यमिष्टम्। दृश्यविकल्पयोरेकत्वाध्यवसायेन प्रवृत्तेरनधिगतवस्तुरूपाधिगमाभावात्' इति। (तत्त्वसं. प. ३९०)

ननु दृष्टादध्यवसिताच्चान्यदेव यत् प्राप्यते, तन्न स्वावभासितार्थप्रापकत्वं प्रत्यक्षस्येति कथमस्य प्रामाण्यमितिचेन्न। सन्तानैक्यात्तदुपपत्तेः। उक्तं च पार्श्वदेवेन -- 'प्रापणीयश्च प्रत्यक्षस्य सन्तान एवेअति (न्यायप्रवेशवृत्तिपञ्चिका ७७)

प्रत्यक्षं विभजते-तच्चतुर्विधमिति। चक्षुरादीन्द्रियपञ्चकाश्रयेणेति। आश्रयता चैषामसाधारणकारणतया। रूपविषयमिति। रूप्यते इति रूपं दृश्यमात्रम्। रूपादिप्रत्यक्षे वषस्यापि हेतुतया विषयाश्रयमित्यपि वक्तुं शक्येतेत्येतां शङ्कां परिहरन्नाह-इन्द्रियप्रत्यक्षमिति व्यपदेशस्येति। उक्तं च - 'असाधारणहेतुत्वादक्षैस्तद् व्यपदिश्यते' ति कल्पनापोढस्यास्य चाक्षुषादेर्विकल्पोत्पादनद्वारेणैव स्वावभासितेऽर्थे प्रमाणता, अनुत्पन्ने तु विकल्पे न प्रामाण्यं, न तावता क्षतिः, व्यवहाराङ्गतया हि प्रमाणं निरूप्यते। व्यपेतसकलवासनस्य संभवत्यपि निर्विकल्पके प्रत्यक्षे सविकल्पानुत्पादेन न तमपेक्ष्य प्रमाणम्। द्वारानुत्पत्तेः न च द्वारेण द्वारिणोऽन्यथासिद्धिरित्यभिप्रायेणाह--इदं चेत्यादिना।

अथ मानसप्रत्यक्षं लक्षयति--स्वविषयेति। उक्तं चेदं लक्षणं न्यायबिन्दौ धर्मकीर्तिना। लक्षणवाक्यं व्याचष्टे--स्वशब्देनेत्यादिना। विशेषणघटकस्य स्वशब्दस्य विशेष्यपरता हि युक्ता। सहकारिणेति। सहारित्वं चास्यैककार्यकारितया। इन्द्रियज्ञानं, तद्विषयसन्तानवर्ती तदनन्तरसमुत्पन्नो घटादिद्वितीयक्षणश्चेत्युभयं मिलित्वा मानसं प्रत्यक्षं जनयतीति यावत्। समनन्तरप्रत्ययसंज्ञकेनेति। प्रत्ययः-कारणम्, उक्तंच-'हेतुः प्रत्ययो निमित्तं करणxxमिति पर्यायाः' इति। समन्तरः - समित्यनेन समानत्वं गम्यते। साम्यं च ज्ञानत्वेन। अनन्तरः-अव्यवहितः-अव्यवहितपूर्वः, उत्तरविज्ञाने हेतुभूतस्यैकसन्तानवर्तिनो ज्ञानस्य समनन्तर प्रत्यय इत्येषा संज्ञा। वक्ष्यति च - 'स्वसन्तानवर्तिन्युपादाने ज्ञाने रूढ्याप्रसिद्ध' इति। उपरते चक्षुर्व्यापारे अनुक्षणं यद्विज्ञानं तेन चक्षुर्विज्ञानेन स्वविषयानन्तरविषयसहकृतेनोत्पाद्यते, तन्मानसप्रत्यक्षमिति पर्यवसितमिति। अव्यवहारित्वं पुनरस्येति। अस्योक्तलक्षणलक्षितस्य मानसप्रत्यक्षस्य व्यहारपथागोचरत्वमित्येष दोषो न भवति। न ह्यतिप्रसङ्गोऽप्रसङ्गो वा लक्षणस्य, सत्यां सामग्र्यां व्यवहारपथगोचरता, असत्यां च न, तावताऽस्य कोऽवगुण इति भावः। व्यवहारागोचरं व्यवहारानङ्गभूतं किमितीष्यते ईत्याशङ्कायामाह--आगमप्रसिद्धमिति। आगम एव तत्सद्भावे प्रमानमिति यावत्। आगममेव दर्शयति -- यथोक्तमिति।

ननु आगमे व्यवाहारे सर्वथानुपयुक्तस्यास्याभ्युपगमो निरर्थक इत्याशयेनाशङ्कते--नन्विति। परिहरति--ईदृग्लक्षणेति। अयमाशयः -- नहि लोकव्यवहारेऽनुपयुक्ततामात्रेण वस्तु अपह्नोतुं शक्यते। अस्ति चेदं प्रत्यक्षं, वस्तु विवेचनीयं तु लक्षणेन। उक्तेन च लक्षणेन तत् प्रत्यक्षं विवेचितं भवति। तदनेन विवेचनेन आगमे परेषामविशुद्ध्याशङ्कापि निरस्ता भवतीति।

आहच धर्मोत्तराचार्यः--'एतच्च सिद्धान्तसिद्धं मानसप्रत्यक्षं, नचास्य प्रसाधकं प्रमाणमस्ति; एवंजातीयकं यदि स्यात् न कश्चित् दोषः स्यादिति वक्तुं लक्षणमाख्यातमस्येतीऽति। (न्यायबि. टीका १४)

अथ स्वसंवेदनप्रत्यक्षं निरूपयति-सर्वचित्तचैत्तानामित्यादिना। यच्चित्तचैत्तानामात्मसंवेदनं भवति तदेव स्वसंवेदनमुच्यते इत्यर्थः। तदेतद् व्याचष्टे--चित्तमित्यादिना। वस्तुमात्रग्राहीति--नीलादिबाह्यवस्तुमात्रग्राहिप्रत्यक्षमित्यर्थः। चित्ते भवाश्चैत्ताः--नैते बाह्याः, अन्य एव नीलादिभ्यो बाह्येभ्यः सातादय आभ्यन्तराः, दृश्यमानस्य नीलादेर्वस्तुनो विशेषावस्थाग्राहका ज्ञानप्रभेदाः सुखदुःखोपेक्षालक्षणा नीलादिवस्तुषु साक्षात्क्रियमाणेषु जायन्ते, तान्येतानि येन रूपेण संवेद्यन्ते तत् स्वसंवेदनप्रत्यक्षमुच्यते। तदंपि हि कल्पनापोढमभ्रान्तं च। इदमभिहितं भवति--नीलादिबाह्यवस्तुसाक्षात्कारसमये स साक्षात्कारो नानवभासमानस्तिष्ठति नीलादिवत्, तथा सातादिकमपि, तदेषामवभासः स्वेनैवोत्पन्न इति स्वसंवेदनं प्रत्यक्षमुच्यते इति। आह चाचार्यदिङ्नागः --

'चित्तमप्यर्थरागादि स्वसंविन्निर्विकल्पकम्' इति। वृत्तिश्च--'चित्तमपि रूपादीनुपलब्ध्वा यदनुभवाकारेण वर्तते, तन्निर्विकल्पकमेव। इच्छाक्रोधमोहसुखदुःखादिकं हि इन्द्रियमनपेक्ष्य भवतीति स्वसंवेदनं प्रत्यक्षमिति। (प्रमाणसमुच्चय। १७)

ननु स्वसंवेदनमित्यनेन स्वेनैव स्वयं संवेद्यत इत्युक्तं भवति नचैकस्यामेव क्रियायामेकस्यैव कर्तृत्वं कर्मत्वं चोपपद्यते इत्याशयेन शङ्कते -- अत्र केचिदाहुरिति। नावयवार्थयोगेनायं शब्दोऽत्र प्रवर्तते, किन्तु--प्रकाशकान्तरनिरपेक्षप्रकाशस्वभावतामभिप्रेत्य स्वसंवेदनमित्युच्यते इत्याशयेन समाधत्ते -- अत्रोच्यते इत्यादिना।

व्यवस्थाप्यव्यवस्थापकभावेनेति। सर्वमेव वस्तु हेतुबलादुत्पद्यमानं भिन्नभिन्नस्वभावमुत्पद्यते इति वस्तूनां स्वभावविशेषे व्यवस्थापकस्तत्तद्धेतुरेव, तस्मात् वस्तुस्वभावव्यवस्थापको हेतुविशेषः, तद्व्यवस्थाप्यश्च वस्तुस्वभावविशेष इति भावः। प्रकाशकान्तरनिरपेक्षप्रकाशस्वभावतामुपपादयति--यथेत्यादिना।

नैयायिकाभिमतां ज्ञानस्य जडरूपतां प्रतिक्षिपति--नचेत्यादिना। ज्ञानस्य ज्ञानान्तर प्रकाश्यत्वे किं समकालवर्तिना ज्ञानान्तरेण प्रकाश्यते उत भिन्नकालवर्तिनेति विकल्प्य क्रमाद् दूषयति--न तावदिति। प्रकाश्यप्रकाशकभावो ह्युपकार्योपकारकभावलक्षणः, स च समकालभाविनोर्न घटते। न हि वामदक्षिणविषाणयोर्मिथ उपकार्योपकारकभाव इति भावः। नापीति। ज्ञानं स्वानन्तरोत्पन्नेन ज्ञानान्तरेण अहमिदं जानामीत्यनुव्यवसायात्मकेनावभास्यते इत्येतन्नोपपद्यते। वस्तुमात्रस्य क्षणिकत्वेन द्वितीयक्षणे तस्य विनाशात् क्व प्रकाशावसरः, अतो ज्ञानमात्रमप्रकाशात्मकं स्यात्। काणादा हि ज्ञानस्य क्षणद्वयावस्थायित्वमभ्युपगच्छन्तोऽनुव्यवसायगोचरत्वमुपपादयन्ति। वस्तुमात्रस्य क्षणभङ्गसमर्थनेन न तद्वादस्यावकाशः।

परोक्षं यदि तत् ज्ञानमिति। क्षणिकस्यास्य ज्ञानस्य ज्ञानान्तरसंवेद्यत्वासंभवात् स्वसंवेद्यत्वस्य चानभ्युपगमे घटादिवत् परोक्षत्वात् घटादिबाह्यार्थसधर्मतया ज्ञानमिति कोऽयमर्थविलक्षणो व्यपदेशः। परोक्षस्यास्य प्रकाशकं न किमपीति तत्स्वरूपं केन वा लक्ष्येतेत्यर्थः।

ज्ञानस्य स्वसंवेद्यत्वानभ्युपगमेऽनिष्टं प्रसञ्जयति--अपिचेत्यादिना। नागृहीतेति। विशिष्टज्ञाने विशेषणज्ञानस्य हेतुत्वादिति यावत्।

ननु भवति चाक्षुषं रूपमिति ज्ञानं, चक्षुश्चाप्रत्यक्षम्, अगृहीतमपि तच्चक्षुर्विज्ञायते रूपस्य विशेषणतया। तन्नागृहीतविशेषणा विशिष्टबुद्धिरिति नायं नियमः, तस्मादसंविदितस्यापि ज्ञानस्य ज्ञातोऽर्थ इत्यर्थविशेषणतयाऽवभासो युज्यत इत्याशयेन शङ्कते -- यच्चोक्तमिति। चाक्षुषं रूपमिति विज्ञाने न चक्षुर्विशेषणतयाऽवभासते, अपितु चक्षुर्विज्ञानम्, इदं च विज्ञानस्य स्वसंवेद्यत्वमन्तरा नोपपद्यते इति नः पक्ष एव सिद्ध्यतीत्याशयेन प्रतिविधत्ते -- तदसाध्विति।

ज्ञानस्य स्वसंवेद्यत्वं न कर्मकर्तृभावेन, किन्तु व्यवस्थाप्यव्यवस्थापकभावेनेत्येतदुपसंहरति--तस्मादिति। आप्तवचनं स्वोक्तार्थे संवादयति--यथाक्तमिति। विज्ञानं जडस्वरूपेभ्यो नीलाद्यर्थेभ्यो व्यावृत्तं--विलक्षणमहडरूपमेव--प्रकाशस्वभावमेव स्वहेतोर्जायते। अस्य ज्ञानस्य येयमजडरूपता सैवास्य ज्ञानस्य आत्मसंवित्तिः स्वसंवेद्यतेत्यर्थः। इयं च कारिका शान्तरक्षितस्य (तत्त्वसंग्रह ५५९)

व्याख्याता च कमलशीलेन-'नहि ग्राहकभावेनात्मसंवेदनमभिप्रेतम्, किं तर्हि, स्वयं--प्रकृया प्रकाशात्मतया नभस्तलालोकवद्' इति।

ननु दीपस्य परप्रकाशकस्य स्वप्रकाशस्वभावतेवास्तु नीलादिबाह्यार्थप्रकाशकस्य ज्ञानस्य स्वप्रकाशता, अर्थानवभासकस्य सुखस्य सा कथम्। सुखादयस्तु स्वाश्रयाश्रित ज्ञानावभास्याः ज्ञानतो भिन्नाः।

अत्रोच्यते--रूपाद्यनुभवसमकालमेव भवति सुखानुभवोऽपि। एवं सति केनावभास्यते सुखमिति वक्तव्यम्। नन्वनेनैव रूपावभासेनेति न वक्तुं शक्यम्, बाह्यालम्बनेनानेनाभ्यन्तरस्य सुखक्यावभासः कथं घटेत। ननु मानसेनान्येन ज्ञानेनेतिचेत् ज्ञानानां क्रमिकत्वनियमोऽभ्युपगतो विहन्येत। ननु नीलावलबिविज्ञानसमनन्तरं मानसं विज्ञानमुत्पद्यते, येन सुखमवभास्यते, ज्ञानानामुत्पत्तावेव तु क्रमनियमः, स्थितिस्तु युगपदपि, बाह्यरूपानुभवसमकालमेव सुखानुभवो भवतीत्यपि नोपहतमिति। न। वस्तुमात्रस्य क्षणिकत्वेन तदनुपपत्तेः। किञ्च--नीलादिवत् सुखस्य ज्ञानान्तरावभास्यत्वे नीलादिवद्विच्छिन्नप्रभासित्वमापद्येत। प्रपञ्चितं चैतत् शान्तरक्षितेन--

'अवेदकाः परस्यामी स्वविद्भाजः कथं नु ते।
एकार्थाश्रितविज्ञानवेद्यास्त्वेते भवन्ति चेत्।
नैरन्तर्यप्रवृत्ते हि बाह्यवस्तूपलम्भने।
सुखादि वेद्यते कस्मात् तस्मिन् काले निरन्तरम्। (तत्त्वसं. ३९६)

इत्यादिना।

योगिज्ञानं निरूपयति-भूतार्थेति। भूतार्थभावनाप्रकर्षपर्यन्तजं यज्ज्ञानं तद् योगिज्ञानमित्यर्थः। लक्ष्यवाक्यं व्याचष्टे--योग इत्यादिना। निःशेषेति। चित्तैकाग्रतया साध्यते निःशेषतत्त्वविवेचिका प्रज्ञा, सैव योगशब्देनोच्यते, साध्ये साधनोपचारादिति भावः। तत्प्रत्यक्षमिति। तस्य योगिनो जायमानं प्रत्यक्षमित्यर्थः। लक्षणवाक्यं व्याचष्टे--भूतार्थ इत्यादिना। भूतशब्दस्य कालविशेषपरताभ्रमं व्यावर्तयन् व्याचष्टे--प्रमाणोपपन्नार्थ इति। तस्य भावना, का भावना, आह--पुनः पुनश्चेतसि समारोप इति। तस्याः प्रकर्षः - भाव्यमानार्थस्य स्फुटाभत्वारम्भावस्था, तस्य पर्यन्तः--स्फुटभत्वाव्यजहितपूर्वावस्था स्फुटत्वोन्मुखीभूता, तामवस्थां निदर्शनेन प्रदर्शयति धर्मोत्तराचार्यः--'अभ्रकव्य--वहितमिव यदा भाव्यमानं वस्तु पश्यति सा प्रकर्षपर्यन्तजावस्थेति। (न्याय बि. टीका १५) तस्मात् प्रकर्षपर्यन्ताज्जातं यत् ज्ञानं भूतार्थस्फुटावभासात्मकं करतलामलकावभासवद्भवति तदिदं योगिप्रत्यक्षमिति यावत्। तच्चेदं निविर्कल्पकमिति कल्पनापोढमभ्रान्तमिति प्रत्यक्षलक्षणमुपपन्नम्। तदिदमभिप्रेत्याह--कल्पनापोढमभ्रान्तमिति।

उक्तं चाचार्यदिङ्नागेन--'योगिनां गुरुनिर्देशादसंकीर्णार्थमात्रदृक्'। (प्रमाणसमुच्चय १७) 'यथा चित्तं निर्विकल्पकं तथा योगिनां ज्ञानमपि भवति। योगः समाधिः स यस्यास्ति स योगी। अत्र विषयेण विषयिनिर्देशः। आगमस्य सविकल्पत्वं निर्देशशब्देनोक्तं तेनासंकीर्णं रहितमित्यर्थः। अनेन स्फुटाभत्वमपि गम्यते। मात्रशब्दः आरोपितव्यवच्छेदार्थः' इति टीकायां व्याख्यातम्।

प्रसङ्गाद् भूतार्थान्निरूपयति -- भूतार्थ इत्यादिना। के भूतार्थाः, ते च कथं भावयितव्याः, यद्भावनाप्रकर्षपर्यन्तजं योगिज्ञानम्, तदेतदाह--भूतार्थाश्चतुरार्यसत्यमित्यादिना प्रतिपत्तव्यमित्यन्तेन। चत्वार्यार्यसत्यानि दुःखं समुदयो निरोधो मार्गश्चेति। तत्र दुःखं यदिदं भूतचतुष्टयं ये चेमे विषया रूपादयः, यानि च चक्षुरादीनीन्द्रियाणि, सर्वमिदं दुःखपरिणतित्वेनैकराश्येन दुःखमित्युच्यते। येन हेतुनाऽस्य भवति समुदयः, स समुदय उच्यते। यश्चास्य दुःखस्य निरोधो निर्वाणकक्षणः स निरोध उच्यते। यो निरोधस्य द्वारं सम्यग् ज्ञानादिः स मार्ग उच्यते। पञ्चस्कन्धस्वभावमिति। रूपस्कन्धो वेदनास्कन्धः संज्ञास्कन्धः संस्कारस्कन्धो विज्ञानस्कन्ध इति पञ्चस्कन्धाः। दुःखसमुदयनिरोधमार्गाणामेतेष्वन्यतमतया पञ्चस्कन्धस्वभावमित्युच्यते। रूपस्कन्धादीनां विवेकस्तु अन्यतो बोध्यः।

ननु तदेवेदमिति प्रत्यभिज्ञायमानस्य सर्वस्य क्षणिकत्वभावनं कथमित्यत्राह--यत्सत्तत्क्षणिकमित्यनुमानेनेति। सेयं दीपज्वालेति प्रत्यभिज्ञानमिवेदमपि प्रत्यभिज्ञानमनुमानप्रमाणबाधिततया भ्रमरूपमिति यावत्। एतदनुमानविचारोऽन्यतो बोध्यः।

विषये विप्रतिपत्तिं निरस्यन्नाह--तस्येत्यादिना। व्याचष्टे तदेव स्ववाक्यं--'तस्य-चतुर्विधस्येति। लक्षणं--लक्ष्यते वस्तु येन रूपेण तल्लक्षणं--वस्तुनो रूपम्। यदसाधारणं रूपं तत् स्वमुच्यते, असाधारणं वस्तुनस्तत्त्वं स्वलक्षणमित्युक्तं भवति। तदेतदाह--स्वलक्षणमित्यसाधारणं वस्तुरूपं देशकालाकारनियतमिति। यत्सामान्यं परैः प्रत्यक्षस्य विषय इष्यते तत्तु अनियतदेशकालाकारम्, तन्न प्रत्यक्षस्य विषय इति यावत्। इदमेव विशदयति -- घटादिरित्यादिना। प्रमाणगोचरो हि द्विविधः, ग्राह्यः प्रापणीयश्चेति, यदाकारं ज्ञानमुत्पद्यते स ग्राह्यः, येन रूपेणाध्यवस्यति स प्रापणीयः, तत्र प्रत्यक्षं देशकालाकारनियतेन घटादिस्वलक्षणाकारेणैवोत्पद्यते इति प्रत्यक्षस्य गोचरः स्वलक्षणमुच्यते। तत्सन्तानवर्ती अन्यो घटक्षणोऽध्यवस्यते प्रत्यक्षसमनन्तरभाविनाऽध्यवसायेन। अनित्यत्वाद्यनेकधर्मोदासीन इति। अनित्यत्वादिभिर्धर्भैरविशेषित इति यावत्।

एतेनेति। स्वलक्षणस्यैव प्रत्यक्षविषयत्वोपपादनेनेत्यर्थः। द्रव्यादिषु षत् सु द्रव्यं गुणः कर्म चेति त्रयाणां सत्ताजातियोगेनैकराश्यं पराभिमतं व्यञ्जयन्नाह -- यथाऽवयवि द्रव्यं गुणः कर्मेति। सामान्यविशेषयोः समवायप्रतियोगित्वमेव, न समवायानुयोगिता, इति तयोरैकराश्यम्। समवाये तु न तदुभयमपीति तेभ्यो विषेषः। पराभिमता इति। परैः --काणादैराक्षपादैश्चेत्यर्थः।

परैर्द्वयं नित्यानित्यविभागेन द्वेधा इष्यते। तत्र सर्वस्य वस्तुनः क्षणिकत्वसमर्थनेनैव नित्यद्रव्यनिरासात् तस्य प्रत्यक्षविषयत्वं निरस्तं भवति। अथ यदवयवि द्रव्यं तस्य प्रत्यक्षविषयत्वं निरस्यति -- तथाहि घटादावित्यादिना।

अयमाशयः--दृश्यते नाम घटादि स्थूलं वस्तु, न स्थूलमित्येतावताऽवयवि वस्त्वन्तरं तत्। ये नामाणवस्त एव संहताः स्थूलतयाऽवभासन्ते, न चाणवोऽदृश्यस्वभावाः। परमाणवो नित्या अदृश्या इति च यत्सत्तत्क्षणिकमित्यतो निरस्तम्। यदुपलभ्यते स्थूलमिति तत्र भागा एव अंशा एव हि दृश्यन्ते नत्वंशी कश्चिदवयवी, पूर्वापरादिविभागेषु यदा पूर्वो भागो दृश्यते तदा तु नापरः, अपरे विभागे तु चक्षुःपथागोचरे नैव भवति नीलाद्यवधारणम्। किमपरो विभागो नीलो वा शुक्ल इति संशय एव। यद्यवयवी दृष्टः, अवधारितानवधारितभागभेदव्यवस्था नोपपद्येत्। तस्मात् केश एको नोपलभ्यते स एव संहत उपलभ्यते, एवमिमे चाणवो भागाः संहता उपलभ्यन्ते। भागेभ्योऽन्यो भगी कोऽप्यवयवी स्यात्, मक्षिकादिनांशतस्तिरोहितोऽयमवयवी तिरोहित एवेति नैवोपलभ्येत। अतो युक्तं भागा एव भासन्त इति।

अत्राप्तसंवादं दर्शयति--यदाह न्यायपरमेश्वर इति। तथा तथा संनिविष्टाः-पूर्वापरात्मना संनिविष्टाः, (ग्रीवात्मना कम्ब्वात्मना संनिविष्टाः) आभ्यो भागेभ्योऽन्यस्तद्वान्--भागवान् विभागः--अवयविविभागो नैव दृश्यते। न हि तन्तुभ्योऽन्यः पतो नामावयवी दृश्यते, तथा तथा संनिविष्टास्तन्तव एव तु दृश्यन्ते। एवमेव तन्तुष्वप्यूह्यम्।

गुणकर्मादीनां च दूषणं प्रत्येतव्यमिति। दूषणप्रकारश्चायं--गृहाब्यन्तरस्थिते घटादौ महति कुञ्चिकादिसूक्ष्मविवरवर्तिनाऽऽलोकेन दृश्यमाने समुपलभ्यते नीलमंशतः, तच्चैकमवयविसमवेतमनंशमभ्युपगच्छतामेकांशोपलम्भो न स्यात्, सर्वत एवोपलभ्येत। तथा आम्रफले कस्मिंश्चिदास्वाद्यमाने आस्वाद्यमानांशे समुपलभ्यमानो मधुररसः सर्वांशेनोपलभ्येत, न च भवति तथा, तत् न रूपरूपिविभागः, अंशा एव तूपलभ्यन्त इति तु सुस्यितम्। एवं गुणान्तरनिरसनमन्वतो बोध्यम्। क्षणविनाशिषु सर्वेषु भावेषु क्रियायाः कः प्रसङ्गः। सामान्यादिनिरासोऽप्यन्यतो बोध्यः।

अथ प्रमाणे फलविप्रतिपत्तिं निरस्यन्नुपक्रमते--ननु प्रमितिरूपामित्यादिना। प्रमीयतेऽनेनेति प्रमाणपदव्युत्पत्त्यनुरोधात्। प्रमितौ यत् करणं तत् प्रमाणमिति सिद्ध्यति। प्रमाणं च ज्ञानमिष्टम्। काऽसौ प्रमितिः, तत्करणं च ततोऽन्यत् प्रमाणभूतं ज्ञानं किं, भेदेन हि तयोः फलफलिभावो निरूपणीयः। प्रत्यक्षप्रमाणतया भवदभिमते प्रमाणतत्फलयोर्भेदो दुर्निरूप इत्याशङ्कितुराशयः।

आशङ्कां परिहरति--उच्यते इत्यादिना। नीलादेरर्थादिति। नीलादिबाह्यार्थावलम्बि यद्विज्ञानमुत्पद्यते, तद् द्विरूपमुत्पद्यते इत्यर्थः। द्वैरूप्यमाह--नीलाकारनीलबोधस्वरूपं चेति। तदेवमेकस्यैव प्रत्यक्षस्य द्वैरूप्यते सति तत्र यांईलाकारव्यावृत्तिलक्षणा नीलाकारता ज्ञानस्य, तदेव प्रामाण्यम्, या चानीलबोधव्यावृत्तिलक्षणा नीलबोधात्मता सैव तस्य फलरूपता, इति फलफलिभेद इत्याशयेनाह--तत्रेत्यादिना।

निर्गलितमर्थमाह--यथोक्तमर्थेत्यादिना। अस्य -- नीलादिबाह्यालम्बनस्य प्रत्यक्षस्य यथोक्तमर्थसारूप्यं--नीलादिसारूप्यमनीलाकारव्यावृत्तिलक्षणं, प्रमाणमुच्यते। यथोक्ता--अनीलबोधव्यावृत्तिलक्षणा नीलार्थावगतिः फलमुच्यते इत्यर्थः।

नन्वेकस्मिन्नेव प्रत्यक्षे फलफलिभेदः कथं, साध्यसाधनभावनिबन्धनो हि स इति शङ्कां व्युदस्यन्नाह--एतच्चेत्यनेन। अयमाशयः--न साध्यसाधनभावनियतः फलफलिभावः, एकस्याप्याकारभेदेन स ह्युपपद्यते यद्यप्यत्र नास्ति परमार्थतो भेदो वस्तुनः, प्रत्यक्षं तु वस्तुत एकमेव। अथापि इदं प्रमाणमिदं प्रमाणफलमित्याकारभेदाद्भिन्नं व्यवस्थाप्यते। इयं च फलफलिभावव्यवस्था प्रत्यक्षसमनन्तरसमुत्पन्नेन सविकल्पकेन व्यवस्थाप्यत इति। आह च धर्मोत्तराचार्यः--'तस्मादसारूप्यव्यावृत्त्या सारूप्यं ज्ञानस्य व्यवस्थापनहेतुः अनीलबोधव्यावृत्त्या च नीलबोधरूपत्वं व्यवस्थाप्यं, व्यवस्थापकश्च विकल्पप्रत्ययः प्रत्यक्षबलोत्पन्नो द्रष्टव्य' इति। (न्यायबिन्दुटीका १९) आहचेदमत्र शान्तरक्षितः--

'विषयाधितगिश्चात्र प्रमाणफलमिष्यते।
स्ववित्तिर्वा प्रमाणं तु सारूप्यं योग्यतऽपिवा'॥
(तत्वसंप-३९८)

इति। व्याख्यातं चैतत् कमलशीलेन--'बाह्येऽर्थे प्रमेये विषयाधिगमः प्रमाणफलं, सारूप्यं तु प्रमाणम्'। 'ज्ञानात्मनि तु प्रमेये स्वसंवित्तिः फलं, योग्यता प्रमाणम् इति। समनन्तरश्लोकव्याख्याने च --नीलास्पदं संवेदनं न पीतस्येति विषयाधिगति-व्यवस्थाया अर्थसारूप्यमेव निबन्धनं नान्यदिति व्यवस्थाप्यव्यवस्थापकभावेन साध्यसाधनव्यवस्था, ' ' तस्मात् साकारमेव ज्ञानं प्रमाणं न निराकारं..................... व्यवस्था च तत्पृष्ठलब्धेन विकल्पेन वेदितव्ये'ति।

इदमत्र बोध्यं--नीलादिबाह्यविषयसारूप्यं प्रमाणं, नीलादिविषयावगतिः फलम्, इति वैभाषिकाः। नीलादिना बाह्येन ज्ञाने आहितः स्वाकारः प्रमाणं स्वसंवित्तिः फलं, न विषयावभासः इति सौत्रान्तिकाः। अप्रत्यक्षो ह्येषां बाह्यो विषयः, अनुमेयार्थवादिनो ह्येते। अनादिवासनोपप्लावितो योऽयं ज्ञानस्यैव बहिर्वदवभासमान आकारः, स एव तु प्रमेयः, प्रमाणं तु ज्ञानस्य स्वाकारः, या ग्राहकता योग्यतेति चोच्यते, स्वसंवित्तिः फलमिति योगाचाराः। एते विज्ञानमात्रवादिनः। इमं मतभेदः मनसि निधायाचार्यदिङ्नाग इदमाह --

'सव्यापारप्रतीतत्वात् प्रमाणं फलमेव तत्।
प्रमाणत्वोपचारस्तु निर्व्यापारे न विद्यते।
विषयाकार एवास्य प्रमाणं तेन मीयते।
स्वसंवित्तिः फलं वाऽत्र तद्रूपादर्थनिश्चयात्॥
यदाभासं प्रमेयं तत् प्रमाणमथ तत्फलम्।
ग्राहकाकारसंवित्ती त्रयं नातः पृथक्कृतम् '॥ प्रमाणस. श्लो. ९-१०-११

इति। प्रत्यक्षे प्रमाणतत्फलयोर्वस्तुभेदो नास्तीत्यत्र धर्मकीर्तवचनं प्रमाणयति-यथोक्तमिति। ननु किं सारूप्यं ज्ञानस्यार्थेन, निराकारं तु ज्ञानमित्याशङ्कां निरस्यन्नाह-यदि पुनरिति।

इति प्रत्यक्षपरिच्छेदः

६१
अनुमानपरिच्छेदः

अथानुमानं विभजते--अनुमानं द्विधेति। नन्वनिरूप्यानुमानसामान्यलक्षणं तद्विभजनमनुचितम्, लक्षण एव हि प्रथमतो जिज्ञासा समुदेति। सत्यम्। सति समनुगते लक्षणे प्रथमं तदेव निरूपणियम्। असति तु विशेषयोरेव। स्वार्थं ज्ञानात्मकं परार्थं तु वचनात्मकम्, तदेनयोर्विसजातीययोर्नैकं लक्षणं घटते। तत् प्रथमं विभज्यैव तयोर्लक्षणं वक्तव्यमिति युक्तो विभागः।

स्वार्थमित्येतद् व्युत्पादयति--स्वस्मै यत् तत् स्वार्थमिति। परार्थानुमानाद्भेदमाह-ज्ञानात्मकमिति। स्वार्थतामुपपादयति-पर्वतादावित्यादिना। परार्थमित्येतत् व्युत्पादयति--परस्मै यत्तत्परार्थानुमानमिति। परार्थतामुपपादयति--त्रिरूपेत्यादिना। ज्ञानविशेषबोधकस्यानुमानशब्दस्य शब्दे प्रवृत्तीः कथमित्यत आह--उपचारादिति।

ननु--त्रिरूपलिङ्गावबोधकमेकत्र दर्शनमन्यत्र शब्दः, तावता कथमनुमानद्वैविध्यम्, यद्येवं चक्षुषोऽपि परार्थानुमानत्वं प्रसजेत्। मैवम्। त्रिरूपलिङ्गसूचकः शब्दः, शब्दो ह्यर्थस्य विवक्षाद्वारेण भवति सूचकः। चक्षुस्तु साक्षात् त्रिरूपलिङ्गप्रत्यायकः। सूचक एव तु परार्थानुमानमित्यस्माकं परिभाषेति। तथाचोक्तं शान्तरक्षितेन --

'त्रिरूपलिङ्गवचसः सत्तासंसूचकत्वतः।
यत्परार्थानुमानत्वमुक्तं तच्छ्रोत्रपेक्षया॥
गौणं साङ्केतिकं चैवमनुमानत्वमाश्रितम्।
सक्तसंसूचकत्वेन तेन नातिप्रसज्यते'॥ (तत्त्वसं. प. ४३१)

इति। व्याख्यातं च कमलशीलेन--'वचनस्य यत्परार्थानुमानत्वमुक्तम्, तच्छ्रोत्रपेक्षया। तेन वक्त्रपेक्षाभावी दोषो न भवति। श्रोत्रपेक्षयाऽपि त्रिरूपलिङ्गसूचनादुपचारेणानुमानकारणत्वात् समयाद्वाऽनुमानत्वमुक्तम्। सक्तसंसूचक एवानुमानसंज्ञानिवेशात् तेनेन्द्रियस्याविनाभावित्वसंबन्धज्ञानस्य च परार्थानुमानत्वप्रसङ्गादतिप्रसङ्गो न भवति। तयोः सक्तसंसूचकत्वाभावा'दिति।

स्वार्थानुमनं निरूपयति--तत्र स्वार्थमिति। त्रिरूपलिङ्गजन्यमनुमेयार्थविज्ञानं स्वार्थानुमानमिति यावत्। किं तदनुमेयार्थविज्ञानम्, यत्त्रिरूपलिङ्गज्ञानाद्भवति तदाह--तच्चेति। धर्मिविशेषेति। धर्मिविशेषः--पक्षः, साध्याविनाभावित्वनिश्चयः। लिङ्गे इति शेषः। सपक्षेषु संबद्धं विपक्षेभ्यो व्यावृत्तं पक्षे च संबद्धं लिङ्गं पश्यतः पक्षांशेन भवति लिङ्गे साध्याविनाभावित्वनिश्चय इति भावः। अग्न्यध्यवसाय इत्यन्ये इति। अत्राग्निरयमग्निमान्वेति निश्चय इति यावत्। सामान्यमस्य विषय इति तु पूर्वमेवोक्तम्।

अनुमानलक्षणे त्रिरूपं लिङ्गं प्रसक्तम्; प्रसक्तं त्रैरूप्यं निरूपयति--संप्रतीत्यादिना। तत्र पक्षधर्मतासंज्ञकं प्रथमं रूपमाह--अनुमेये सत्त्वमेव निश्चितमिति। कोऽयमनुमेयः ? आह--पर्वतादौ धर्मिणीति। यद्यपि पर्वतः प्रत्यक्षेणैवावगतः, अथापि नाग्निधर्मा, अतोऽयमग्निमान् पर्वत इत्यग्निविशिष्टतया भवत्यनुमेयः, तदिदं ज्ञापयितुमुक्तं पर्वते धर्मिणीति। सत्यपि त्रैरूप्येऽनिश्चिते तस्मिन् नानुमानोदय इत्येतदवगमयन्नाह--निश्चितमिति। अत्र सत्त्वग्रहणेनेति। लिङ्गस्यानुमेयार्थावबोधने सपक्षसत्त्वादीनि त्रीणि भवन्ति रूपाण्यङ्गानि। एतेष्वन्यतमेनापि विकलो भवति लिङ्गाभासः। तत्र पक्ष-सत्त्वं चेद्रूपं नेष्यते तदाऽसिद्धे लिङ्गाभासेऽतिप्रसङ्गः स्यात्तन्निमसाय तद्रूपमुपात्तमिति भावः। सत्त्वमेवेत्ययोगव्यच्छेदार्थस्यैवकारस्य प्रयोजनमाह--एवकारेणेत्यादिना। व्यावर्थं पक्षैकदेशासिद्धमुदाहरति--यथा दिगम्बरप्रयोग इति। न सर्वेषु तरुष्विति। योऽयं हेतुतया निर्दिष्टः स्वापः पत्रसङ्कोचलक्षणः, स सर्वेषु तरुषु पक्षेषु नास्ति, केचन ह्यसङ्कुचितपत्रा एवाहर्निशम्, नानेन सर्वेषु तरुषु सिषाधयिषितं चेतनत्वं सिद्ध्येत्, तस्मात् पक्षैकदेशासिद्धः असर्त्येवकारे कस्मिंश्चित्तरौ विवक्षितस्य स्वापस्य सत्त्वादतिप्रसङ्गः स्यात्। एवकारेण पक्षेऽसत्त्वस्य व्यवच्छेदान्नातिप्रसङ्ग इति भावः।

निश्चितमित्यस्य प्रयोजनमाह--निश्चितग्रहणेनेति। अयमाशयः -- अस्ति नाम पर्वते धूमः, पश्यतोऽस्य तं धूमो वा बाष्पो वेति यदा संशयोऽभूत्, तदाऽयं धूमादित्वेन संदिह्यमानो भूतसङ्घातः सन्दिग्धासिद्धः, बास्प एव वा तया सन्दिग्धः। अत्र पक्षसत्त्वं मात्रज्ञातमिति भवत्यतिप्रसङ्ग इति भावः। इदमत्र बोध्यम्--लिङ्गेन त्रिरूपेण भाव्यम्, एकरूपवैकल्येऽप्यसल्लिङ्गमेव। त्ररूप्यांशे चेद् भ्रमस्तेन जायमानं ज्ञानं नानुमानं भ्रम एव, त्ररूप्यांशे चेत् संशयो न भवेदेवानुमानम्, न ह्यक्षमिव सत्तयैव लिङ्गं ज्ञानं जनयितुं प्रभवति। एवं स्थिते किं लिङ्गलक्षणविचारे निश्चयपदग्रहणविचारेणेति।

सत्त्वाशब्दात्पश्चादेवकारेणेति। अयमाशयः--अनुमेय एव सत्त्वं चेल्लिङ्गस्य रूपमुच्येत, पक्षादन्यतो व्यावर्त्येत, तथासति सपक्षसत्त्वं रूपमपरं व्याहतं भवति, तथा च सति भवत्यसाधारणे सपक्षविपक्षव्यावृत्ते पक्षमात्रवृत्तावसाधारणेऽतिप्रसङ्ग इति।

अथ द्वितीयं रूपं निरूपयति--सपक्ष एवेत्यादिना। इति वर्तते इति। इति च वर्तत इत्यर्थः -- लिङ्गस्येदं द्वितीयं रूपमपि वर्तत इति भावः। तत्र सत्त्वग्रहणेनेति। अगृहीते द्वितीयं रूपमेव परित्यक्तम्, तथासति--शब्दो नित्यः कृतकत्वादित्यस्मिन्विरुद्धेऽतिप्रसङ्गः, कृतकत्वं ह्यस्ति पक्षे शब्दे, यद्यपि तृतीयं रूपं विपक्षेऽसत्त्वमित्येतन्न विरुद्ध इति न तत्रातिप्रसङ्गावकाशः। अथापि तद्रूपमधुनाऽनुपात्तमित्यभिप्रेत्येदं प्रयोजनमुक्तम्। संपक्ष एव सत्त्वमिति द्वितीयरूपगम्यं तु तत्। उपात्ते तु विपक्षासत्त्वे सपक्षे सत्त्वोपादानस्य असाधारणव्यावृत्तिः प्रयोजनम्। शब्दो नित्यः श्रावणत्वादित्यत्र पक्षमात्रवृत्ति श्रावणत्वं विपक्षत इव सपक्षतोऽपि हि व्यावृत्तम्।

सत्त्वशब्दात्पूर्वस्मिन्नेवकारेणेति सपक्षे सत्त्वमेवेत्यनुक्त्वा सपक्ष एव सत्त्वमित्युक्त्येत्यर्थः। सत्त्वमेवेत्युक्तावयोगव्यवच्छेदेन सर्वेषु सपक्षेषु सत्त्वं विवक्षितं स्यात्, तथा च सति--प्रयत्नानन्तरीयकत्वेन लिङ्गेन शब्देऽनित्यत्वसाधनं व्याहन्येत। यद्यत्प्रयत्नानन्तरीयकं तत्तदनित्यं दृष्टं यथा घटादि। नहि विद्युदादावनित्यतया निश्चते प्रयत्नानन्तरीयकत्वं नेत्येतावता तस्यानित्यत्वसाधकत्वं हीयते। सपक्षेषु सत्त्वमेवेत्ययोगव्यवच्छेदार्थकैवकारग्रहणे तु विद्युदादौ प्रयत्नानन्तरीयकत्वाभावेन तस्य हेतुत्वं हीयते इति भावः। न विद्युद्वदिति। घटादयः सपक्षा ग्राह्या येषु लङ्गमिदमस्ति, न विद्युदादय इत्यर्थः।

अथ तृतीयं रूपमाह--असपक्षे चेत्ति। असत्त्वग्रहणेनेति। अयमाशयः-विपक्षेऽसत्त्वमेव निश्चितमित्यस्मिंस्तृतीये रूपेऽसत्त्वं चेन्नोपादीयेत, असपक्षे निश्चितमित्यर्थः स्यात्। तथासति विरुद्धस्येदं रूपम्, कथं लिङ्गस्य रूपं भवितुमर्हतीति। एतेन -- विरुद्धे लिङ्गलक्षणस्य कथमतिप्रसङ्गापादनं घटेत, द्वितीयस्य रूपस्य सपक्षे सत्त्वस्याभावादिति शङ्का परास्ता। एवकारेण साधारणस्येति। विपक्षैकदेशवृत्तेरितिशेषः धूमे साध्येऽग्नौ हेतौ साधारणेऽस्ति पक्षे सत्त्वं सपक्षे च महानसादौ सत्त्वम्, विपक्षे च क्वचित् ह्रदेऽसत्त्वं चेति त्रयाणामपि रूपाणां सत्त्वादतिप्रसङ्गः। एवकारग्रहणे चायोगव्यवच्छेदलाभात् सर्वेभ्यो विपक्षेभ्यो व्यावृत्तत्वलाभात् विपक्षेऽयोगोलके वह्नेः सत्त्वान्नातिप्रसङ्ग इति भावः। ननु सपक्ष एव सत्त्वमित्यवधारणगर्भं द्वितीयं रूपमुक्तम्, तच्च न साधारणे स्यात्, कथमतिप्रसङ्गावसरः। न। द्वितीयरूपान्तर्गतावधारणर्थ एव तु तृतीय रूपम्, तदेव तु निरूप्यते, तत् अधुना अवधारणाघटितमेव तु द्वितीयं रूपं बोध्यम्।

निश्चितग्रहणस्य प्रयोजनमाह--निश्चितग्रणेनेति। वीतरागोऽपि लोककल्याणायेदं वक्तीति वदन्तं वादिणं प्रयोगेण निरस्यति कश्चित्--अवीतरागोऽयं पुरुषः वक्तृत्वात् रथ्यापुरुषवत् इति। अयं च हेतुः सन्दिग्धानैकान्तिकः, वीतरागोऽपि किमिति न ब्रूयादित्यस्त्येव सन्देहः, यो नावीतरागः, स न वक्ता इति उपलखण्डादिनिदर्शनेन व्यतिरेके समर्थ्यमाने भवति संशयः उपलग्वण्डस्यावक्तृत्वं किं वीतरागत्वकृतमुत स्वत एवेति, तत् विपक्षेऽसत्त्वं न निश्चितमिति सन्दिग्धानैकान्तिकोऽयम्, एतद्व्यावृत्तये निश्चितपदमिति भावः।

एवकारेण विपक्षैकदेशवृत्तेरित्यादि। इदं च वाक्यं 'निश्चितग्रहणेने'त्यतः प्राक् 'एवकारेण साधारणस्ये'त्यत्रैव स्थानमर्हति। इह तु--एवकारः असत्त्वग्रहणात्प्रागेव 'असपक्ष एवासत्त्व'मिति कुतो नोपात्त इत्यस्य प्रयोजनं वक्तव्यम्, तच्च धर्मोद्धराचार्येणो दाहृतम्--'असत्त्ववचनात् पूर्वस्मिन्नवधारणेऽयमर्थः स्यात् विपक्षे एव यो नाऽस्ति स हेतुः। तथा च प्रयत्नानन्तरीयकत्वं सपक्षेऽपि सर्वत्र नास्ति। ततो न हेतुः स्यात्। ततः पूर्वं न कृत'मिति। (न्यायबिं. टी. २३)

शङ्कते--नन्विति। परिहरति--नेति पूर्ववृद्धा इत्यादि। अयमाशयः--त्रिधा भवन्ति विपक्षाः साध्याभाववान् साध्यवदन्य साध्यविरुद्धश्चेति। तदनुरोधेन व्यतिरेकावधारणमपि भवति त्रेधा, यत्र नाग्निर्न तत्र धूमः, यो निरग्निः स निर्धूमः यत्राग्निविरुद्धं (जलं) न तत्र धूम इति। एषु त्रिविधेष्वन्यतमनियमज्ञापनाय पुनरुपादानमिति भावः। यद्वा--साध्यहेत्वोर्नियमो हि सम्बद्धयोरेव, संबन्धश्च तादात्म्यं तदुत्पत्तिर्वा, यत्र तदुत्पत्तिः--वह्नेर्धूमस्य, यत्र न वह्निस्तत्र न धूम इत्यभावतो भवति विपक्षः, यत्र तु तादात्म्यं--वृक्षतादात्म्यं शिशुपायां तत्र यो न वृक्षः स न शिशुपेति भेदतः। उष्णोऽयं प्रदेशो वह्नेरित्यत्र उष्णविरुद्धः शीतः प्रदेशो भवति विपक्षः, य उष्णः स वह्निमान्, यस्तु शीतो न स तद्वान्, तद्विरुद्धहिमवानिति। तेष्वेतेषु विपक्षेषु यथायोग्यं व्यतिरेको बोध्य इति विवेकद्योतनाय तृतीयस्य पृथगुपादानमिति भावः। प्रयोगनियमार्थमिति केचिदिति। परार्थानुमाने प्रयोगे कार्ये नियमार्थम्, अन्वययिरूपवत् व्यतिरेकिरूपमपि यो धूमवान् सोऽग्निमान् यो निरग्नः स निर्धूम इति प्रयोक्तव्यमित्येतज्ज्ञापनायेति भावः।

यद्वा--प्रयोगे कर्तव्ये नियमज्ञापनार्थम्--अयमाशयः--प्रयोगे हि अन्वयो व्यतिरेको वा नियमवानेव प्रयोक्तव्यो न तद्विरहितः। अन्यथा श्यामोऽयं तत्पुत्रत्वादित्यपि प्रयोगः साधुः स्यात्, यस्तत्पुत्रः स श्यामः पुत्रान्तरवत्, यस्तु न श्यामः स न तत्पुत्र इति अन्वयव्यतिरेकयोः प्रयोगसंभवात्। परं न श्यामत्वतत्पुत्रत्वयोरस्ति कश्चन प्रतिबन्धः, यत्तयोर्न प्रयोज्यप्रयोजकभावो न वा तादात्म्यं, तदन्वयव्यतिरेकौ नियमवतोरेव प्रयोक्तव्यौ, सति नियमे द्वयोरन्यतरप्रयोग एव तु पर्याप्तः, नोभयमप्यपेक्षितमिति द्योतनाय पृथगुक्तमिति भावः। धर्मोत्तराचार्यश्चेदमाह--तदुच्यते इत्यादिना। (न्यायबिं. टी. २४)

लिङ्गं विभजते--त्रिरूपाणि चेति। त्रैरूप्यलक्षणलक्षितानि लिङ्गानि त्रिप्रकाराणि भवन्तीत्यर्थः। त्रिरूपाणीति पदं व्याचष्टे--त्रीणि रूपाणि येषां तानीति। प्रकारभेद माह--अनुपलब्धिरित्यादिना। लिङ्गानां पर्यायशब्दानाह--साधनमित्यादिना। सुखप्रतिपत्तेः प्रसिद्धेश्च विभजनक्रमव्युत्क्रमेण त्रीणि तानि निरूपयति--तत्र कार्यमित्यादिना प्रयोगमुखेन। कार्यं लिङ्गं दर्शयति--यत्र धूमस्तत्राग्निरित्यनेन। धूमो ह्यग्नेः कार्यम्, तेनेदं कार्यलिङ्गमुच्यते, कार्यं भवति हेतोर्गमकम्। परार्थानुमाने वक्तव्यं न्यायावयवविभागनिर्णयमत्रैव प्रसङ्गादाह--व्याप्तिपक्षधर्मतासंज्ञकं द्वयमेवति।

अत्र परेषां पक्षं निरस्यन्ननुवदति--अन्ये त्वित्यादिना। निरस्यति--एतच्चायुक्तत्यादिना। अयमाशयः--प्रतिज्ञेयमनुपयोगिनी, नहि साधनाङ्गं प्रतिज्ञा, ननु सिषाधयिषितस्य साध्यस्यावबोधनाय तदपेक्षेति चेत्, कथमसम्बद्धमभिदध्यात् शब्दः, नह्यस्ति शब्दार्थयोः सम्बन्धः, शब्दप्रमाणनिराकरणावसरे संबन्धाभावः समर्थितः प्राक्। ननु विवक्षामवगमयति शब्दः। अतः पारम्पर्येण साध्याधिगतिहेतुत्वाद्भवति प्रतिज्ञा साधनाङ्गम्। अथापि तदनङ्गमेव तत्। नहि सक्तः संसूच्यते तया। न हि प्रथमं सिषाधयिषितावबोधनमवश्यमपेक्ष्यते। तस्मादसक्तसंसूचकत्वात्प्रतिज्ञा नानुमानाङ्गम्। व्याप्तिपक्षधर्मतावचनाभ्यामेवानुमाननिष्पत्तेः। नन्वनवयवभूतमपि यथा महानसे इति दृष्टान्तपदं प्रयुज्यते, तथा प्रतिज्ञावचनं प्रथमं प्रयोगे सिषाधयिषितज्ञापनाय प्रयोक्तव्यमितिचेत् एवं सति वादिनं प्रतिवादिनं वा प्रयोगनिर्देशे प्रवर्तयत् 'शब्दस्यानित्यत्वं साधय, नित्यत्वं साधये' त्यादि प्रेरयितुर्वचनमपि तथा स्यात्। आहचात्र शान्तरक्षितः --

'प्रतिज्ञादिवचोऽयन्यैः परार्थमिति वर्ण्यते।
असाधनङ्गभूत्वात्प्रतिज्ञाऽनुपयोगिनी॥
असंबद्धान्न साक्षाद्धि सा युक्ताऽर्थोपपादिका।
असक्तसूचनान्नापि पारम्पर्येण युज्यते॥
साध्यसाधनधर्मस्य विषयस्योपदर्शनात्।
दृष्टान्तपदवत्त्वेषा साधनाङ्गं यदीष्यते॥
अभ्यनुज्ञादिवाक्येन नन्वत्र व्यभिचारिता।
निष्फलं च तदा तत्र विषयस्योपदर्शनम्'॥
(तत्त्वसं. प. -४१८)

इति। प्रतिज्ञाया अवयवानङ्गत्वेनानुपयुक्तत्वे सिद्धे पञ्चम्यन्तहेतुप्रयोगस्य क्वोपयोग इत्याह -- प्रतिज्ञामन्तरेणेति। निगमनस्यावयवानङ्गतामाह--यत्र प्रतिज्ञैव नास्तीत्यादिना। अत्रदं बोध्यम्--प्रतिज्ञावचनान्नाधिकोऽर्थः सिद्ध्यति निगमनेन। तत् निगमनं प्रतिज्ञामभ्युपगच्छतां मते पुनरुक्तमापद्यते। तथाचाचार्यदिङ्नागः--'निगमनं पुनरुक्तत्वादेव न साधन'मिति। ननु--अधिकार्थं निगमनम्, प्रतिज्ञा हि केवलं साध्यनिर्देशः, प्रतिज्ञाहेतूदाहरणोपनयैर्येऽर्था अभिहितास्ते एकवाक्यतया निगम्यन्तेऽनेन, अतएव च निगमनमुच्यते अनेन चाबाधितत्वाशङ्का निरस्यत इति चेत्। नैवम्। यत् शङ्कावकाश-एव नास्तिः व्याप्तिपक्षधर्मतावचनाभ्यामेव पक्षे साध्यस्य निश्चयात्। नहि ताभ्यामप्यनिरस्यमाना शङ्काऽनेन वार्येत। तदिदमुत्प्रेक्षणं स्वगोष्ट्यामेव शोभते। उक्तं च शान्तरक्षितेन --

'त्रिरूपहेतुनिर्देशसामर्थ्यादेव सिद्धितः।
न विपर्ययशङ्काऽस्ति व्यर्थं निगमनं वचः॥' इति।
(तत्वसं. प. - ४२१)

अग्न्यादौ साध्य इति। दृश्ये अग्न्यादौ साध्ये दृश्यो धूमादिरिति यावत्। अग्नौ सति धूमो दृश्यते, असति न दृश्यते, यदि धूमो नाग्नेः कार्यं, असत्यग्नावुपलभ्येत्, नचोपलभ्यते, तस्मात् प्रत्यक्षानुपलब्धा अग्नेः कार्यं धूम इति निश्चीयत इति भावः। चक्षुरादौ साध्य इति। चक्षुरादेरदृश्यत्वेन प्रत्यक्षानुपलम्भस्यासंभवात् कादाचित्कत्वेन रूपादिज्ञानस्य चक्षुरादिकार्यत्वं निश्चीयते इति भावः।

ननु-सम्बद्धयोरेव नियमः, नासम्बद्धयोः, सम्बन्धश्च नापरस्तादात्म्यतदुत्पत्तिभ्याम्, तत् कारणं कार्येणानुमीयेत्, स्वभवेन वा तादात्म्यलक्षणेन तदात्माऽनुमीयेत। अथ कथं रसात् रूपानुमानम्, नहि तयोः कार्यकारणभावः, न च रूपात्मा रस इति परेषामाशङ्कायामुच्यते -- एकसामग्र्यधीनत्वेन भवति रसेन रूपानुमानमिति। तदिदमुदाहरति--रूपादिवित्यादिना। एकसामग्र्यधीनत्वमुपपादयति--अत्रेत्यादिना। पूर्वकमिति। अव्यवहितपूर्वकमित्यर्थः। पूर्वपूर्वरूपादुत्तरोत्तररूपोत्पत्तिरिति यावत्।

पूर्वपूञ्जादुत्तरपुञ्जोत्पत्ताविति। अयमाशयः-- न काणादाद्यभिमतोऽवयवावयिभावः सौगतसंमतः, नवाऽवयवरूपमवयविरूपे अवयवरसोऽवयविरसे कारणमिति। नापि रूपरूपिभेदः। किन्तु--पूर्वपूर्वरूपादिलक्षणात्पुञ्जादुत्तरोत्तररूपादिलक्षणपुञ्जान्तरोत्पत्तिः, तत्रोत्तररूपापेक्षया पूर्वपूर्वत्वं रसस्यापि तुल्यम्। अथापि उत्तरोत्तररूपाणां पूर्वपूर्वरूपसन्तानतैव, तथा रसानाम् रससन्तानानतैव, तथा च स्वसन्तानापेक्षया उत्तरस्य स्वयमेवोपादानम्, तस्मिन् रूपसन्तानलक्षणे पुञ्जे पूर्वरसः सहकारिकारणमिस्यते उत्तरपुञ्जे रसानुभवात्। एवं रससन्ताने पूर्वरूपं सहकारिकारणम्। एवं च सति रूपसामग्री रसघटिता रससामग्री रूपघटिता, उपादाननिमित्तभावे तु विनिमयः, तत् रसे समुपलभ्यमाने तत्सामग्रीसाध्यं रूपमनुमीयेतैवेति।

अथ स्वभावं लिञ्गं निरूपयति--स्वभाव इत्यादिना। स्वसत्तामात्रभाविनीति स्वं--हेतुः, हेतोर्या सत्ता तयैव भवितुं शीलं यस्य स स्वसत्तामात्रभावी, तस्मिन् साध्ये स हेतुः स्वभाव उच्यते। शिंशुपासत्तामपेक्ष्यैव वृक्षसत्ता, न ततोऽन्यदपेक्षते वृक्षः स्वभवने। सोऽयं स्वसत्तामात्रभावी। तस्मिन् साध्ये स्वभावो हेतुरुच्यते इति संबन्धः। उदाहरति --यथेत्यादिना।

शङ्कते--नन्विति। एकत्वे--अभेद इत्यर्थः। प्रतिज्ञातार्थैकदेशत्वादिति। प्रतिज्ञातः--साध्यतया।भिमतो योऽर्थो वृक्षः, तदेकदेशत्वात्--तेष्वन्यतमत्वादित्यर्थः। अयमाशयः--साधनेन ह्यवगतेन भाव्यम्, साधनतया विवक्षिता शिंशुपा पत्रशाखादिविशेषसंस्थानलक्षणा चेदवगता, अवगत एव स वृक्ष इति सिद्धस्य कथं साध्यतेति। परिहरतिनेति। मूढं प्रति स्वभावहेतुरुपयुज्यत इत्येततत्। आह च धर्मोत्तराचार्यः--'प्रचुरशिंशुपे देशेऽविदितशिंशुपाव्यवहारो जडः केनचिदुच्चां शिंशुपामुपदर्श्योच्यते वृक्षोऽयमिति, तदाऽसौ जाड्याच्छिंशुपाया उच्चत्वमपि वृक्षव्यवारनिमित्तमवस्यति। तदा यामेवानुच्चां शिंशुपां पश्यति तामेवावृक्षमवस्यति। तदा स मूढः शिंशुपात्वमात्रनिमित्ते वृक्षव्यवहारे प्रवर्त्यते' इति। (न्यायबिं. टी. २८)

अनुपलब्धिंलिङ्गं निरूपयति--अनुपलब्धिर्यथेति। उपलब्धिलक्षणप्राप्तस्येति। उपलब्धिः--ज्ञानम्, तस्या लक्षणम्--सामग्री, तत्र प्राप्तः, जनकतया सामग्र्यनुप्रविष्टः। दृश्य इति यावत्। विषयोऽपि ज्ञानसामग्र्यन्तर्भूतः। शङ्कते--नन्विति। दृश्यता--दृशिगोचरता। दृश्यति न दृशिगोचरत्वं विवक्षितम्, अपि तु दृशिगोचरत्वेन संभाव्यमानत्वमेव। तदेवोपलब्धिलक्षणप्राप्तमित्युच्यते इत्यभिप्रायेण समाधत्ते--एकेन्द्रियेत्यादिना। घटस्तदाश्रयः प्रदेशश्चैकेन्द्रियग्राह्यौ, सति घटे आश्रयेण सहव सोऽप्युपलभ्येत, यदि नोपलभ्यते दर्शनयोग्यस्यापि तस्य न दृशिगोचरतेत्येतददर्शनमनुपलब्धिरुच्यते, सेयमनुपलब्धिर्घटाभावे लिङ्गं भवतीत्यर्थः। उपलम्भप्रत्ययान्तरेति। प्रत्ययः कारणम्, उपलम्भस्य यानि प्रत्ययान्तराणि--आलम्बनादन्यानि कारणानि इन्द्रियादीनि तत्साकल्यात्।

अनुपलब्धिशब्देन विवक्षितमर्थमाह--सचेत्यादिना। सच -- अनुपलब्धिशब्दवाच्यो हेतुश्च। चस्त्वर्थे। एकज्ञानसंसर्गीति। इन्द्रियप्रणिधानयोग्यं प्रदेशतदाश्रय-वस्तुद्वयमन्योन्यसापेक्षमेकज्ञानसंसर्गीत्युच्यते, तयोर्मध्ये य एकः पदार्थः प्रदेशविशेषः, स केवलमुपलभ्यमानः, तस्मात् तदुपलम्भाच्चेत्यर्थः। कर्मकर्तृभावेनेति। विविक्तः प्रदेश आलम्बनभूतः कर्मोच्यते, उपलम्भस्तत्प्रकाशकत्वात् कर्तृ उच्यते। तदिदमुभयमिहानुपलब्धिशब्देन विवक्षितमिति भावः। उपलब्धिनिवृत्तिमात्रपरत्वे असाधकतामाह--न त्वित्यादिना। तद्धि स्वयमेवेति। ज्ञानाभावमात्रं हि असत्यां ज्ञानसामग्र्यामस्त्येवेत्यर्थः। न किचिदिति। अकिञ्चित्करमित्यर्थः। पर्युदासवृत्त्याश्रयणेन अन्यस्य यस्यकस्यचित् ज्ञानमनुपलभशब्दार्थतया न ग्राह्यमित्याह--नापीत्ति। अनुपलब्धिशब्दार्थमुपसंहरति--तस्मादिति। विशिष्टमेवेति। इतरव्यावृत्तमित्यर्थः--विविक्तः प्रदेशविशेषः, तज्ज्ञानविशेषश्च, न तु यः कश्चन प्रदेशो यत्किञ्चिद् ज्ञानमिति भावः। उक्तं च धर्मोत्तराचार्येण--'तस्मात् स एव घटविविक्तप्रदेशस्तदालम्बनं च ज्ञानं दृश्यानुपलम्भनिश्चयहेतुत्वाद् दृश्यानुपलम्भ उच्यते' इति। (न्यायबिं. टी. २६) सेयमनुपलब्धिर्नाभावे लिङ्गम्, अपित्वभावव्यवहारे इत्याह-- अतएवेत्यादिना। अभावे प्रत्यक्षेणावगम्यमाने तद्व्यवहारोऽपि नेनैव भवेदिति तस्य वा कुतः साधनापेक्षा, तत्राह--मूढं प्रतीत्यादि।

अनुपलब्धेर्लिन्ङ्गस्य साध्यस्यासद्रव्यवहारयोग्यत्वस्य च संबन्धं निरूपयति--अनुपलम्भस्येत्यादिना। कर्मधर्मपक्ष इति। पर्युदासवृत्त्याऽनुपलब्धिशब्दार्थविवेचनावसरे विविक्तप्रदेशविशेषस्योपलम्भकर्मतया तज्ज्ञानस्य तत्प्रकाशकस्य कर्तृतया चानुपलब्धिपदार्थत्वमुक्तम्। तमिमं भेदमभिप्रेत्य कर्मधर्मपक्षे स्वभावं संबन्धं कर्तृधर्मपक्षे कार्यत्वं संबन्धं चोपपादयति--तथाहीत्यादिना। ज्ञानं तु प्रदेशस्य कार्यमिति। आलम्बनस्य ज्ञाने कारणत्वात्। आशङ्कते नन्वति। परिहरति--प्रतिषेधसाधनाद्भेद इति। अत्राप्तसंवादं प्रमाणयति--यथोक्तमिति। आचार्यधर्मकीर्तिनेत्येतत्।

उपलब्धिलक्षणप्राप्तस्येत्यस्य प्रयोजनमाह--उपलब्धीति। देशतः कालतः स्वभावतो वा यो विप्रकृष्टः स हि नोपलब्धिलक्षणप्राप्तः, अतो न तदभावग्रहो भवेदुक्तानुपलब्ध्यभावादिति भावः।

इयं चानुपलब्धिर्वर्तमानकाल इवातीतकालेऽपि जातु प्रमाणम्, भविष्यत्काले तु नैव प्रमाणमित्याह--इयं चेत्यादिना।

यदाह--न्यायवादीति। इदं च ' अमूढस्मृतिसंस्कारस्ये'त्यादि 'साधिनी' त्यन्तं वचनमाचार्यधर्मकीर्तिना न्यायबिन्दावुक्तम्। (न्याय वि. १०५) अयमस्यार्थः--अमूढः अभ्रष्टः स्मृतिजनकः संस्कारो यस्मिन् घटादावर्थे सोऽयममूढस्मृतिसंस्कारः, एवम्भूतस्यातीतस्य, तथा वर्तमानस्य च प्रतिपत्तृप्रत्यक्षस्य--प्रतिपत्तुः प्रत्यक्षो घटादिरर्थः, तस्य निवृत्तिरनुपलब्धिरभावव्यवहारसाधिनीति। न्यायबिन्दुटीकायां चेदं वचनं विस्तरेण व्याख्यातम्। (न्याय वि. टी. ३३)

अनुपलभेः प्रकारभेदान्निरूपयति--तत्रत्यादिना। अत्रेति धर्मिनिर्देशः। नास्ति धूम इति साध्यनिर्देशः। स्वभावानुपलब्धेर्विविक्तप्रदेशतदुपलंभरूपत्वेन प्रदेशोपलम्भेनैवाभावोऽप्यलब्ध इति नाभावस्या साध्यता। अपित्वभावव्यवहारयोग्यत्वत्वस्यैव। उक्तंचेदं प्राकू। अन्यत्र कार्यानुपलब्ध्यादावभावस्य तद्व्यवहारस्य च साध्यता। १।

कार्यानुपलब्धिर्यथेति। प्रतिषेध्यस्य यत्कार्यं तस्यानुपलब्धिरित्यर्थः। धूमाभावादिति। यद्यप्यभावो लिङ्गम्, अथाप्यनुपलब्धिगम्यः स कार्याभाव इत्यनुपलब्धिविशेषेषु निरूपितः। सर्व एते कार्यानुपलब्ध्यादयः स्वभावहेतावेव समावेशमर्हन्ति, अथापि प्रयोगवैचित्र्यात्तु प्रपञ्चोऽयम्। वक्ष्यति च स्वयम् -- एते चेत्यादिना। प्रयुक्तिभेदेन परं भेद इति। दृश्यानुपलब्धेर्यत्रैवासंभवस्तत्रैव कार्यानुब्धिराश्रयणीया, अन्यथा तत एव तत्सिद्धेः। अत्र च धूमकारणस्य व्यवहितत्वेनादृश्यतया कार्यानुपलम्भो भवति लिङ्गम्। सत्यपि कारेणे प्रबन्धवशात्कार्यानुपलम्भो घटेत, अत उक्तमप्रतिबद्धसामर्थ्यानीति। २।

कारणानुपलब्धिर्यथेति। निषेध्यस्य धूमस्य यत्कारणं दहनस्तस्यानुपलब्धेरिदं साध्यते --नात्र धूमो दहनाभादिति। ननु दहनस्चेद् दृश्येत तत्प्रभवो धूमोऽपि दृश्येतैव, यदि स नोपलभ्यते सो।पीति दृश्यानुपलम्भेनैव धूमाभावस्यापि निश्चयसंभवात् किमिति तत्साधनप्रसङ्गः। उच्यते--विरलतमसि प्रभातसमये ह्रदे हेमन्तसमये अघिसलिलं परितः प्रसृतं बाष्पमवलोक्य धूमोऽयतिसन्दिहानः, दहनमपश्यन् कारणानुपलम्भादनुमानेनाध्यवस्यति। दहनो हि प्रज्वलनस्वभावः सति समुपलभ्येतैव, अनुपलम्भात्तदभावः प्रत्यक्षावगतः। ३।

व्यापकानुपलब्धिमुदाहरति--व्यापकानुपलब्धिर्यथेति। प्रतिषेध्यस्य यो व्यापकस्तस्यानुपलब्धिरित्यर्थः। इयं चानुपलब्धिरवगतवृक्षसामान्यस्यानवगतशिंशुपाविशेषस्य शिंशुपाभावसाधने भवति लिङ्गम्। यस्तु अवगतशिंशुपाविशेषः तस्य तु दृश्यानुपलब्ध्यैव तदभावः सिद्धति। ४।

स्वभावविरुद्धोपलब्धिर्यथेति। प्रतिषेध्यस्य यः स्वभावः, तद्विरुद्धोपलब्धिरित्यर्थः। ननूपलम्भः कथमनुपलब्धेः प्रकारभेदो भवितुमर्हति। उच्यते। न यस्य कस्यचिदुपलम्भः, अपितु निषेध्यस्वभावविरुद्धस्वभावस्य, नञा चाभाव इव विरोधोऽपिगम्यते। दृश्यानुपलम्भश्च पर्युदासवृत्त्या विविक्तप्रदेशोपलम्भे पर्वस्यति, एवं विरुद्धस्वभावोपलम्भिऽपि। इयं च विरुद्धोपलब्धिरसन्निकृष्टे शीते, सन्निकृष्टे तु दृश्यानुपलब्धिरेव। वह्निर्दूरादपि रूपविशेषप्रकाशाद् भवति दृश्यः, स्पर्शस्तु व्यवधानान्न दृशियोग्यः। ५।

कार्यविरुद्धोपलब्धिर्यथेति। प्रतिषेध्यस्य यत् कार्यं तद्विरुद्धस्योपलब्धिरित्यर्थः। अन्त्यदशाप्राप्तमेवेति। सर्वषां क्षणिकत्वन कारणसन्तानेषु पूर्वपूर्वेषु न सर्वमेव कार्योत्पादनसमर्यम्, तथा सति पूर्वपूर्यसमय एव कार्योत्पादप्रसङ्गात् तस्मात् पूर्वपूर्वक्षणात्मनि कारणसन्ताने यदन्तिमक्षणात्मकं कार्यादव्यहितपूर्वक्षणरूपं तदेवाप्रतिबद्धसामर्थ्यमित्याशयः। ६।

कारणविरुद्धोपलब्धिर्यथेति। निषेध्यस यत् कारणं तद्विरुद्धस्योपलब्धिरित्यर्थः। नास्येत्यादिना। अस्येति पुरुषविशेषो धर्मी। रोमहर्षादिविशेषाभावः साध्यम्, आदिशद्बाद् दन्तवीणदिकं ग्राह्यम्, सन्निहितदहनविशेषत्वादिति हेतुः। सन्निहितो दहनविशेषो यस्येति बहुव्ऱ्ईहिः। विशेषशब्दः प्रभूतपरः, तद्ग्रहणादत्यल्पानां शीताविरोधिनां दीपादीनां व्यावृत्तिः। यदा दूरात्पश्यति पुरुषं वह्निं च तत्रायं प्रयोगो भवति। तदा हि रोमहर्सादि नोपलम्भयोग्यम्, नापि शीतम्, कारणविरुद्धमात्रोपलम्भात् कार्याभावोऽनुमीयते। सन्निहिते तु पुरुषे उपलम्भयोग्यस्यापि रोमहर्षादिविशेषस्यानुपलम्भाद् दृश्यानुपलब्ध्यैव तदभावः सिध्येत्। तथोपलम्भयोग्यस्य शीतस्यानुपलब्ध्या कारणानुपलब्ध्यैव तस्य सिद्धिः स्यात्। ७।

व्यापकविरुद्धोपलब्धिर्यथेति--प्रतिषेध्यस्य यो व्यापकः, तद्विरुद्धस्योपलब्धिरित्यर्थः। उदाहरति--नात्र तुषारस्पर्शो दहनादिति। तुषारस्पर्शो यदा नोपलम्भयोग्यो नापि शीतं तत्र वह्निमात्रोपलम्भाद्भवत्ययं हेतुः। अन्यथा तु स्वभावानुपलब्धिः व्यापकानुपलब्धिर्वा स्यात्। ८।

स्वभावविरुद्धकार्योपलब्धिर्यथेति। प्रतिषेध्यस्य यः स्वभावः तस्य यो विरुद्धस्तस्य यत् कार्यं तस्योपलब्धिरित्यर्थः। उदारहरति--नात्र तुषारस्पशा धूमादिति। दूराद्धर्मिणि धूममात्रं पश्यतस्तुषारस्पर्शाभावप्रतिपत्तौ भवति हेतुरयम्। स्वभावे उपलम्भयोग्येऽनुपलभ्यमाने तु स्वभावानुपलब्ध्यैव प्रतिषेधः सिध्येत् तद्विरुद्धे चोपलभ्यमाने विरुद्धोपलम्भादेव प्रतिषेधः सिध्येत्। ९।

कार्यविरुद्धेति। प्रतिषेध्यस्य यत् कार्यं तस्य यो विरुद्धस्तस्य यत् कार्यं तस्योपलब्धिरित्यर्थः। उदाहरति--नेहेति। शीतकारणानां तत्कार्यस्य शीतस्य तद्विरुद्धस्य वह्नेश्च यदा नोपलम्भयोग्यता तदाऽयं हेतुः। अन्यथा तु स्वभावे उपलम्भयोग्येऽनुपलभ्यमाने स्वभावानुपलब्ध्यैव प्रतिषेधः सिध्येत्। कार्ये उपलम्भयोग्येऽनुपलभ्यमाने कार्यानुपलम्भादेव तत्प्रतिषेधः सिध्येत्। कार्यविरुद्धे तूपलभ्यमाने कार्यविरुद्धोपलम्भादेव प्रतिषेधः सिध्येत्। १०।

कारणविरुद्धकार्योपलब्धिर्यथेति। प्रतिषेध्यस्य यत् कारणं तस्य यो विरुद्धः, तस्य यत् कार्यं तस्योपलब्धेरित्यर्थः उदाहरति--न रोमहर्षादीति। प्रतिषेध्ये रोमहर्षादौ तत्कारणे कारणविरुद्धे चोपलम्भायोग्ये भवत्ययं हेतुः। अन्यथा तु--स्वभावे, कारणे वा उपलम्भयोग्येऽनुपलभ्यमाने स्वभावानुपलब्ध्या कारणानुपलब्ध्या वा कारणविरुद्धे उपलभ्यमाने कारणविरुद्धोपलम्भेन वा प्रतिषेधः सिध्येत्। ११।

व्यापकविरुद्धकार्योपलब्धिरिति। प्रतिषेध्यस्य यद् व्यापकं तस्य यद्विरुद्धं तस्य यत्कार्यं तदुपलब्धिरित्यर्थः। उदाहरति--नात्रेति। दूरादेव धूममात्रं पश्यतस्तेन भवति नात्र तुषारस्पर्श इति तत्प्रतिषेधानुमानम्। तुषारस्पर्शं तद्व्यापके शीते वोपलम्भयोग्येऽनुपलभ्यमाने तद्विरुद्धे वह्नौ वोपलभ्यमाने स्वभावानुपलब्धिर्व्यापकानुपलब्धिः व्यापकविरुद्धोपलब्धिर्वा स्यात्। १२।

स्वभावविरुद्धव्याप्तोपलब्धिर्यथेति। प्रतिषेध्यस्य यः स्वभावः तस्य यो विरुद्धस्तस्य यद्याप्तं तस्योपलब्धिरित्यर्थः। उदाहरति--नात्रेति। तुषारस्पर्शमात्रमनुभूयमानं वह्निप्रतिषेधे लिङ्गम्। अन्यथा स्वभावे उपलम्भयोग्येऽनुपलभ्यमाने स्वभावानुपलब्धिः स्यात्। उपलभ्यमाने तु शीते स्वभावविरुद्धोपलब्धिः स्यात्। १३।

कार्यविरुद्धव्याप्तोपलब्धिरिति। प्रतिषेध्यस्य यत् कार्यं तस्य यद्विरुद्धं तस्य यद्व्याप्तं तस्योपलब्धिरित्यर्थः। उदाहरति--नेहेति। वह्निकारणे उपलम्भयोग्येऽनुपलभ्यमाने तु स्वभावानुपलब्धिः स्यात्। कार्ये वह्नावुपलम्भयोग्येऽनुपलभ्यमाने तु कार्यानुपलब्धिः स्यात् तद्विरुद्धे शीते उपलभ्यमाने कार्यविरुद्धोपलब्धिरेव लिङ्ग स्यात्, शीतव्याप्यं तुषारमात्रमनुभूयते इति कार्यविरुद्धव्याप्तोपलब्धिलिङ्गम्। १४।

कारणविरुद्धव्याप्तोपलब्धिरिति। प्रतिषेध्यस्य यत् कारणं तस्य यत् विरुद्धं तस्य यद्व्याप्यं तदुपलब्धिरित्यर्थः। उदाहरति--नात्र धूम इति। धूमस्वभावे उपलम्भयोघेऽनुपलभ्यमाने स्वभावानुपलब्धिः, कारणे योग्येऽनुपलभ्यमाने कारणानुपलब्धिः स्यात्। कारणविरुद्धे तूपलभ्यमाने कारणविरुद्धोपलब्धिः स्यात्। इह तु कारणविरुद्धव्याप्ततुषारमात्रमनुभूयत इति तेन धूमप्रतिषेधात् कारणविरुद्धव्याप्तोपलब्धेर्भवति कार्यप्रतिषेधः। १५।

व्यापकविरुद्धव्याप्तोपलब्धिर्यथेति। प्रतिषेध्यस्य यब्द्यापकं तस्य यद्विरुद्धं तस्य यदव्याप्तं तस्योपलब्धिरित्यर्थः। उदाहरति--नायं नित्य इति। यदि व्यापकविरुद्धमुपलभ्येत व्यापकविरुद्धोपलम्भादेव प्रतिषेधः सिध्येत्। इह तु तद्विरुद्धव्याप्तोपलम्भात् व्यापकप्रतिषेध इति विशेषः। १६।

एतेचेति व्याख्यातप्रायम्। स्वभावानुपलब्धेरन्येषां विशेषमाह--अत्रेत्यादिना। इदमपि व्याख्यातप्रायम्।

इति स्वार्थानुमानपरिच्छेदः

७१
तृतीयः परार्थानुमानपरिच्छेदः।

परार्थानुमानं निरूपयति--त्रिरूपेति। त्रिरूपलिङ्गाख्यानमिति पदं व्याचष्टेन्वयेति। अन्वयः सपक्षे सत्त्वम्। व्यतिरेको विपक्षेऽसत्त्वम्। आख्यायतेऽनेनेव्याख्यानमिति करणे व्युत्पत्तिमभिप्रेत्य व्याचष्टे--येन वचनेनेति। उपचारादिति। कारणे कार्योपचारादित्यर्थः। शब्दाद् भवति त्रिरूपलिङ्गप्रतिपत्तिः; तेन च भवत्यनुमानम्। अतः परम्परया भवति वाक्यमनुमाने कारणम्। ननु उपचारादन्यदपि यत्किञ्चित् परार्थानुमानमस्तु, विचार्यतां च तदपि। मैवम्। अनुमाने यन्निमित्तं तदेव तु विचार्यं, तच्च त्रिरूपं लिङ्गं, तस्य स्वरूपं स्वार्थानुमाने विचारितं, इह तु तद्बोधकं वाक्यं विचार्यते, अतो न यस्य कस्यापीह विचारावसरः। तस्य द्वैविध्यमाह--तद् द्विविधमित्यादिना। साध्यदर्मी पक्षः। दृष्टान्तधर्मी महानसः, तयोर्हेतुमत्तया साधर्म्यं, यो धूमवान् सोऽग्निमान् यथा महानसः, धूमवांश्चायमित्यनेन साधनवाक्येन गम्यते, तदिदं साधर्म्यवत् साधनवाक्यम्। हेत्वसत्ताकृतं वैधर्म्यं--यो निरग्निः स निर्धूमः, धूमवांश्चायमित्यनेन गम्यते, तदिदं वैधर्म्यवत् साधनवाक्यम्.

तत्र साधर्म्यवन्तं प्रयोगमुदाहरति--तत्रेत्यादिना। साधर्म्यवन्तं प्रयोगं प्रदर्शयितिमिति। इयं वाक्यशैली प्रामादिकीति प्रतिभाति। न हि भगवान् प्रयोगभेदनिरूपणाय प्रवृत्तः, अपि तु सर्वस्य क्षणिकतां समर्थयितुं, इदं च स्वभावहेतोः साधर्म्यवतः प्रयोगस्योदाहरणं भवितुमर्हति, नापि सौत्रान्तिकमतमाश्रित्य भगवतेदमुक्तम्। सौत्रान्तिक-प्रभेदो हि भगवतः समनन्तरकालभावी। सौत्रान्तिकं मतमाश्रित्येत्यनेन बोध्यं त्वेतावत् सर्वास्तित्ववादाश्रयणेनेति। ज्ञानमात्रास्तित्वे तु सर्वमिति निर्देशो नातीव स्वरसः। यद्वा--साधर्म्यवन्तं प्रयोगं प्रदर्शयितुं सौत्रान्तिकमतमाश्रित्य व्युत्पाद्यते इत्यन्वयः। किं व्युत्पाद्यते, तत्राह--भगवता यदुक्तमित्यादि। यत् संस्कृतं तत् क्षणिकं, संस्कृतं चेदं सर्वमिति तु भवद्वचनाशयः। तदेतद् भगवद्वचनं व्याख्यातुमारभते--तद् व्युत्पाद्यते इति। समित्युपसर्गेण विवक्षितमर्थमाह--संभूय हेतुभिरिति। हेतवो यावन्न समवयन्ति, तावन्न कार्यनिष्पत्तिः, समवेतैस्तु तैतन्निष्पत्तिः। त एते समवेता हेतवः प्रत्यया उच्यन्त इत्यभिप्रेत्याह--प्रेत्ययैरिति। हेतुं हेतुं प्रति अयन्ते हेत्वन्तराणीति तेषामयमानानां यो भावः स प्रत्यय उच्यते। समवेता हेतव इति यावत्। संस्कृतस्यैष स्वभावः क्षणिकता, यथा शीशुपायाः स्वभावो वृक्षता। अतश्चायं स्वभावहेतुः। स्वभावहेतोरस्य क्षणप्रभायां साधर्म्यं बोध्यम्। तत्रापि क्षणिकत्वं नेति परेषां वादस्तु प्रत्यक्षोपहतः। सौगतंमन्याः वात्सीपुत्रीयाः पुनः बुद्धिशब्दादीनां क्षणिकत्वं घटादीनामक्षणिकत्वं चाभ्युपगच्छन्ति। तान् प्रत्येष प्रयोगः -- बुद्धिशब्दादय इव सर्वमेव क्षणिकम् संस्कृतत्वादिति। क्षणिकमित्येतद् व्याचष्टे--उत्पत्तिक्षाण एवेति उत्पत्तिक्षणमात्रस्थायिता क्षणिकत्वमिति यावत्।

ननु कथं क्षणिकत्वं घटादीनां तिष्ठन्ति खलु ते समुत्पन्ना उत्पत्त्यनन्तरमपीति-शङ्कां निरस्यन्नाह--सर्वं तावदित्यादिना। अयमाशयः--स्वहेतुभिरुत्पद्यमानोऽयं घटादिर्विनश्वरस्वभाव उत्पाद्यते किमविनश्वरस्वभावः, अविनश्वरस्वभावश्चेन्न मुद्गराद्यभिधातेऽपि तस्य नाशो भवेत्। अथ विनश्वरस्वभाव एव चेदुत्पाद्यते, उत्पत्त्यनन्तरं तेन विनश्यता भाव्यमिति। ननु नाविनश्वरस्वभावा न वा विनश्वरस्वभावा उत्पद्यन्ते किन्तु कियन्तं कालं स्थितिस्वभावा उत्पाद्यन्ते इत्याशङ्कामनूद्य निरस्यति--अथेदृश एव स्वभाव इति। मुद्गरादिसन्निधानकालेऽप्येष एव स्वभाव इति। अयमाशयः-- कियन्तं कालं स्थित्वेति या किल मर्यादा कल्प्यते सेयमनियतेति पुनरपि तावन्तं कालं कुतोऽयं न तिष्ठेत् स्वभावानियतेरनवस्थितेरिति। क्षणद्वयस्थायित्ववादिनोऽप्येषैवानवस्थेत्याशयेनाह--तस्मादिति।

उत्पादकसामग्री स्थिरस्वभावमेवोत्पादयति, नाशकसामग्री तु ततोऽपि प्रबला विनाशयतीत्यभिप्रायेणाशङ्कते--स्यादेतदित्यादिना ंइरस्यति--तदसदित्यादिना। अयमाशयः -- स्थिरस्वभावमेव वस्तु नश्यतीत्यनुपपन्नम्। न ह्येकस्वभावं वस्तु तद्विरुद्ध-स्वभावतां प्राप्नुयात्। तस्मादुत्पादकाद्विनाशकस्य प्राबल्यमित्येषा कल्पना नोपपद्येतेति।

ननु--कोऽयं विकल्पः, किं स्थिरस्वभाव उत्पद्यते उतास्थिरस्वभाव इति। कार्यं कारणसापेक्षं, घटादिकार्यं यथा स्वोत्पत्तौ कारणसापेक्षं, तथा नाशाख्यं कार्यं स्वोत्पत्तौ कारणसापेक्षम्। तस्मात् नाशकसमवधाने नाशो जायते नोचेन्नेति कथं क्षणभङ्गप्रसाधनमितिचेत्। उच्यते। सत्यं कार्यं कारणसापेक्षमिति। कार्यकारणभावस्तु भावयोरेव, न च विनाशो नाम किमपि वस्तु। अवस्तुनोऽभावस्य का नाम कारणापेक्षा। उत्पादकाद्भवति वस्तुन उत्पत्तिः, उत्पन्नं सपदि स्वयमेव निवर्तते। उक्तं च शान्तरक्षितेन --

"तत्र ये कृतका भावास्ते सर्वं क्षणभङ्गिनः।
विनाशं प्रति सर्वेषमनपेक्षतया स्थितेः॥
यद्भावं प्रति यन्नैव हेत्वन्तरमपेक्षते।
तत्तत्र नियतं ज्ञेयं स्वहेतुभ्यस्तथोदयात्॥
निर्निबन्धा हि सामग्री स्वकार्योत्पादने यथा।
विनाशं प्रति सर्वेऽपि निरपेक्षाश्च जन्मिनः॥"
(तत्त्वसं. १३२)

आह च कमलशीलः--'भावस्य हि करणं भवति, नाभावस्य, निमित्तीकर्तव्य-सकलस्वभावविरहलक्षणत्वान्न किञ्चिदुत्पाद्यं रूपमस्ति। अतो भावाभावात्मकः-- भावनिषेधात्मको नाशो न केनचित् क्रियते अवस्तुत्वात् खरविषाणवत् ' इति।
(तत्त्वसं. प. १३६)

मुद्गरादिसंनिधाने तु कपालादिविसज्तीयसन्तानारम्भः, अतश्च स्थूलो निरोध उच्यते।

विनश्वरस्वभावस्य क्षणिकतां प्रयोगेण साधयन्नाह--प्रयोगः पुनरः कर्तव्य इति। यथाऽन्त्यक्षणवर्तीति। कपालादिविसजातीयसन्तानोत्पादकमुद्गरादिसंनिधिक्षाणोऽन्त्यक्षण उच्यते।

भावानां क्षणिकत्वे प्रत्यभिज्ञाविरोधमाशङ्कते--यदीति। परिहरति--निरन्तरसदृशेत्यादिना। निरन्तरेत्युत्पादविशेषणम्। सादृश्यं च पूर्वपूर्वपेक्षया। उत्पादे नैरन्तर्यं अपरेषु पूर्वसादृश्यं च विशदयन्नाह--पूर्वक्षाणविनाशकालएव तत्सदृशं क्षणान्तरमुदयत इति। घटात्मको यः पूर्वक्षाणः तद्विनाशकाल एव तत्सदृशं घटात्मकं क्षाणान्तरमुदयत इत्यर्थः। विनाशकाल एवेत्यवधारणात् पूर्वापरयोरव्यवधानं गम्यते। अभावेनाव्यवधानादिति। पूर्वघटक्षणविनाशापरघटक्षाणयोर्मध्ये घटक्षणशून्यः समयविशेषो नास्तीति भावः। यदि स्यात्तदा भेदग्रहः पूर्वापरयोर्जातु गृह्येतापि, व्यवधानाभावादभेदभ्रमस्यावसर इति। सादृश्यं नैरन्तर्यं चाभेदाध्यवसाये कारणमिति भावः। तदेतन्निरूपयति--तेनाकारविलक्षणत्वाभावादभावेनाव्यवधानाच्चेति अभावेन व्यवधानाभावादित्यर्थः। प्रत्यय इति। भ्रमात्मकः प्रत्यय इत्यर्थः। अभेदभ्रमे निदर्शनं प्रदर्शयति--अत्यन्तभिन्नेष्वपीति। व्यक्तभेदेष्वपीति यावत्। इहापीति। अव्यक्तभेदे इह तु किंपुनर्न्याय-सिद्धोऽभेदभ्रम इति भावः।

निर्वेशेषणस्य स्वभावहेतोरयं प्रयोग इति। संस्कृतत्वं हि भावानां स्वभाव एव, निर्वेशेषणता चास्य सविशेषणस्वभावहेतुविवेचनावसरे व्यक्तीभविष्यति। स्फुटप्रतिपत्तये प्रयोगान्तरं प्रदर्शयति -- तथाऽपरोऽपीति। यत्सदिति। सत्ता हि सर्वेषां स्वभावः। ननु--'यत्सत्तत्क्षाणिकं' इति व्याप्तिर्न सिध्यति, आत्माकाशादयो हि नित्या भावाः सन्तीति परपक्षवासनामूलकां शङ्कां परिहरन् सर्वशब्देन क्रोडीकृतं विशदयति--प्रमाणप्रतीताः पदार्था इति। आत्मादिषु प्रमाणं नास्तीति ते शसशृङ्गायन्त इति भावः।

सविशेषणप्रयोगो यथेति। सविशेषणस्य स्वभावहेतोः प्रयोग इत्यर्थः। सविशेषणतामुपपादयति--अनुत्पन्नेभ्य इत्यादिना।

अयमाशयः--यथा अगोव्यावृत्तो गौरित्युच्यते, अनीलव्यावृत्तो नील उच्यते एवमनुत्पन्नेभ्यो व्यावृत्तमात्रमुत्पन्नमित्युच्यते। उत्पत्तिरियमुत्पत्तिमांश्चायमिति न धर्मधर्मिभेदः। व्यावृत्तिश्च व्यावृत्तस्य स्वभाव एव, व्यावृत्तान्नातिरिच्यते। सैव व्यावृत्तिः कल्पितं धर्मभेदमाश्रित्य नीलस्योत्पत्तिरिति अनीलव्यावृत्त्यात्मनो व्यवच्छेदेन व्यतिरिक्तेवोच्यते। तथेह शब्दस्योत्पत्तिरिति। तमिमं कल्पितं विशेष्यविशेषणभेदमाश्रित्य उत्पत्तिमत्त्वादिति हेतुरयं प्रयुक्त इति सविशेषणस्वभावहेतुरयं भवतीति।

शङ्कते--नन्विति। सर्वेएव शब्दां अपोहमुखेनैव प्रवर्तन्ते। तत् सन्निति शब्दोऽपि असद्व्यावृत्तेऽसद्व्यावृत्त्या प्रवर्तते तत् सत्वादिति यः स्वभावहेतुः प्राक् प्रदर्शितः सोऽप्युत्पत्तिमत्त्वमिव सविशेषणहेतुर्भवितुमर्हतीति भावः।

परिहरति--नैतदस्तीति। सत एवेति। पूर्वस्मिन् 'यत्सत्तदनित्यं सन्तश्चामी भावा' इत्यस्मिन् प्रयोगे सदित्येव धर्मी निर्दिश्यते। सत्त्वं चास्य स्वभावः, नात्र सत्त्वेनासत्त्वव्यावृत्तिरूपेण कल्पितेन धर्मभेदेन किमपि विशेष्यते, येन सविशेषणतायाः प्रसङ्गः। इह तु यदुत्पत्तिमत्तदनित्यं, उत्पत्तिमांश्च शब्द इत्यत्र यदुत्पत्तिमदित्युत्पत्त्या विशेषतो धर्मी निर्दिश्यते अनुत्पत्तिव्यावृत्तिलक्षणयोत्पत्त्या विशेषितस्ततो व्यतिरिक्त इव धर्मी निर्दिश्यते। उत्पत्तिमांश्च शब्द इति शब्दस्य धर्मिणो धर्म इव समारोपितभेदा उत्पत्तिर्निर्दिश्यते। तदयं प्रयोगः सविशेषणस्वभावहेतुको भवितुमर्हति, यदि यदुत्पन्नं तदनित्यं, उत्पन्नाश्चामी भावा इति स्यात्प्रयोगः, तदा स्यादवैषम्यमिति।

सविशेषणहेतुप्रयोगे प्रकारान्तरमाह--भिन्नविशेषणस्येति। भिन्नत्वं च स्वभावानन्तर्गतता। कृतकशब्दार्थमजानन् शङ्कते--ननु चित्रगुरितीति। देवदत्ताद्धर्मिणो बहिर्भूताश्चित्रा गावो विशेषणतया विशेषणतया विवक्षिता इति भिन्नविशेषणता तत्र व्यक्तं गम्यते, कृतकमिति निर्देशस्तु कार्यमिति निर्देशादविशिष्टः कार्यस्वभावं कार्यतामेव गमयतीति कथं भिन्नविशेषणतेति भावः। परिहरति--अपेक्षितेत्यादिना। न कार्यशब्दवत् पर्यायः कृतकशब्दः, किन्तु परव्यापारसापेक्षस्वनिष्पत्तिकत्वलक्षणं स्वभावविशेषं बोधयति। इत्थं च चित्रगुशब्दवत् धर्मिस्वरूपानन्तर्गतपरव्यापारसापेक्षत्वस्य विशेषणस्यावबोधनात् भिन्नविशेषणस्वभावहेतोरयं प्रयोगो भवितुमर्हतीति भावः। आह च धर्मकीर्तिर्न्यायबिन्दौ--'यत्कृतकं तदनित्यमित्युपाधिभेदेन। अपेक्षितपरव्यापारो हि भावः कृतक' इति (न्या. बि. प. १०९)। व्याख्यातं चैतत् धर्मोत्तराचार्येण--'उपाधिभेदेन स्वभावस्य प्रयोग इति संबन्धः उपाधिर्विशेषणं, तस्य भेदेन भिन्नोपाधिना विशिष्टः स्वभावहेतुः प्रयुक्त इत्यर्थः। इह कदाचिच्छुद्ध एवार्थ उच्यते, कदाचिदव्यतिरिक्तेन विशेषणेन विशिष्टः, कदाचिद्व्यतिरिक्तेन। देवदत्त इति शुद्धः, लम्बकर्ण इत्यभिन्नकर्णद्वयविशिष्टः, चित्रगुरिति व्यतिरिक्तचित्रगवीविशिष्टः। तद्वत्सत्त्वं शुद्धं, उत्पत्तिमत्त्वमव्यतिरिक्तविशेषणं, कृतकत्वं व्यतिरिक्तविशेषणम् x x x x x यस्मादपेक्षितपरव्यापारः कृतक उच्यते तस्माद् व्यतिरिक्तेन विशेषणेन विशिष्टः स्वभावः उच्यते। यद्यपि व्यतिरिक्तं विशेषणपदं न प्रयुक्तं, तथाऽपि कृतकशब्देनैव व्यतिरिक्तं विशेषणमन्तर्भावितम्। अतएव संज्ञाप्रकारोऽयं कृतकशब्दः, यस्मात्संज्ञायामयं कन्प्रत्ययो विहितः।' इति ( न्या. बि. टी. प. ३०)

अथापरं प्रकारमाह स्वभावहेतोः--प्रयुक्तविशेषणस्येति। भिन्नपदोपात्तविशेषणस्येति यावत्। विशेष्योपस्थापकेन कृतकपदेनैव विशेषणमप्युपस्थाप्यते। इह तु पदान्तरेण प्रत्ययभेदेत्यनेन।

तदिदं प्रयुक्तविशेषणत्वमुपपादयति--प्रत्ययभेदशब्दस्यत्यादिना। स्वभावहेतुप्रदर्शनं चेति। सविशेषणस्वभावहेतूनां त्रयाणां प्रदर्शनं चेत्यर्थः। स्वभावहेतुप्रपञ्चप्रदर्शनं चेति वाऽर्थः। व्यामोहनिवृत्तय इति। मन्दस्य नायं स्वभाव इति व्यामोहः स्यात्, तन्निवृत्तये इत्यर्थः। व्यामोहे कारणमनुवदंस्तन्निवृत्तिप्रकारमाह--धर्मभेदकल्पनयाऽपि स्वभावहेतुरेव प्रसज्यत इति। आह च धर्मोत्तराचार्यः--' तदेवं त्रिविधः स्वभावहेतुप्रयोगो दर्शितः, शुद्धोऽव्यतिरिक्तविशेषणो व्यतिरिक्तविशेषणश्चेति। एवमर्थं चैतदाख्यातम्। माभूद्वाचकभेदात्क्वचित्स्वभावहेतावपि प्रयुक्ते व्यामोह इति ' इति (न्या. बि. टी. ३१)

अथ स्वभावहेतोर्वैधर्म्यवन्तं प्रयोगमुदाहरति--स्वभावहेतोरित्यादिनां। यद्यदाऽनन्तरानवस्थायि न भवति न तद्विनश्वरस्वरूपमिति। यद्विनश्वरस्वरूपं तदनन्तरानवस्थायि, यथाऽन्त्यक्षणवृत्तिघट इति स्वभावहेतोः साधर्म्यवानयं प्रयोगः, तस्यास्य वैधर्म्यवानयं प्रयोगः--'यद्यदाऽन्तरानवस्थायि न भवतीति। यथाऽऽकाशमिति। इदं च निदर्शनं सर्वास्तित्ववादिभिः सौगतैकदेशिभिः संस्कृतासंस्कृतभेदेन संगृह्य द्वेधा विभक्ते आर्यसत्येऽसंस्कृतकोटौ आकाशप्रतिसंख्यानिरोधाप्रतिसंख्यानिरोधानां त्रयाणां गणनात् बोध्यम्। आकाशानभ्युपगमपक्षे तु शशशृङ्गादिनिदर्शनतुल्यं बोध्यम्। व्यतिरेकप्रयोगे इति। व्यतिरेकव्याप्तिप्रयोग इत्यर्थः। साध्याभावः--अन्वयेन सिषाधयिषितं यत्साध्यं, तस्याभावः, साधनाभावेन--अन्वयेन सिषाधयिषितं यत् साधनं तस्याभावेन, व्याप्तत्वात् व्याप्तिविशिष्टत्वात्। अन्वये साध्यव्याप्यं भवति साधनं, व्यतिरेके साधनाभावव्याप्यो भवति साध्याभावः। तथात्वात् स साध्याभावः साधनाभावे नियतः साधनाभाववतोऽन्यत्र नेत्येतत्। यथा स्वकर्मण्येव नियत इत्युक्ते स्वकर्मणोऽन्यत्रानन्वयो गम्यते तथा तेन साधनाभावे साध्याभावव्यापकता लभ्यते। तथा च व्यापकनिवृत्त्या व्याप्यनिवृत्तिः सिध्यतीति बोध्यम्।

अनन्तरानवस्थायित्वाभावस्य यद्व्यापकमविनश्वरस्वरूपत्वं तद्रूपादिभ्यो निवर्तमानमनन्तरानवस्थायित्वाभावं तेभ्यो निवर्तयत् तेषामन्तन्तरानवस्थायितां साधयति--तदेतत्प्रतिपादितं विनश्वररूपं च रूपादिकमुदयकाल इति।

यत्र क्षणिकत्वं नास्तीति। सत्त्वेन क्षणिकत्वे साध्ये वैधर्म्यप्रयोगोऽयं। अयं च शुद्धस्य स्वभावहेतोर्वैधर्म्यप्रयोगः। उत्पत्तिमत्त्वेनानित्यत्वे साध्ये वैधर्म्यप्रयोगं प्रदर्शयति--यत्रानित्यत्वं निवृत्तं तत्रोत्पत्तिमत्त्वमपीति। निवृत्तमित्यनेन संबन्धः। अयं चाव्यतिरिक्तविशेषणस्य स्वभावहेतोर्वैधर्म्यप्रयोगः। कृतकत्वेनानित्यत्वे साध्ये वैधर्म्यप्रयोगं प्रदर्शयति -- यत्रानित्यत्वं निवृत्तं तत्र कृतकत्वमपीति। नास्तीति पूर्वेण सम्बन्धः। अथं च व्यतिरिक्तविशेषणस्य स्वभावहेतोर्वैधर्म्यप्रयोगः। पदान्तरोपस्थापितव्यतिरिक्तविशेषणस्य स्वभावहेतोर्वैधर्म्यं दर्शयति--यत्र कृतकत्वं नास्ति तत्र प्रत्ययभेदभेदित्वमपीति। नास्तीति पूर्वेण संबन्धः।

अथ कार्यहेतोः साधर्म्यवैधर्म्यप्रयोगौ प्रदर्शयति--यथत्यादिना। प्रत्यक्षानुपलम्भाभ्यामिति। प्रत्यक्षेणानुपलम्भेन चेत्यर्थः। वह्नावुपलभ्यमाने नियमेन धूमस्योपलम्भः प्रत्यक्षमुच्यते। वह्नावनुपलभ्यमाने धूमस्यानुपलम्भोऽनुपलम्भ उच्यते। प्रत्यक्षेण कार्यकारणयोरन्वयसचारो निश्चीयते। सति वह्नौ धूमोऽस्तीति। अनुपलभ्यमाने वह्नौ धूमस्यानुपलम्भेन तयोर्व्यतिरेकसहचारो निश्चीयते। एवं प्रत्यक्षानुपलम्भाभ्यां ययोरन्वयव्यतिरेकसहचाराववधार्येते तयोः कार्यकारणभावोऽवगम्यते इति। अनवधारिते च कार्यकारणभावे परेणापाद्यमानाप्रयोजकाशङ्का न निवारयितुं शक्येतेति कार्यहेतुं प्रयुञ्जता प्रथमं कार्यकारणभावः प्रत्यक्षानुपलम्भाभ्यामवधार्य इति भावः।

यथाऽवयविनिराकरणयेति। प्रयुज्यत इति शेषः। अवयेवेभ्योऽतिरिक्तः कश्चिदवयवी अवयवेषु समवेत इति वदतो निराकरणायानुपलब्धिहेतुः प्रयुज्यते।

तस्यास्य साधर्म्यवतः प्रयोगोऽयं--यद्यत्रेत्यादि। असद्व्यवहारयोग्यत्वं साध्यं, उपलब्धिलक्षणप्राप्तत्वे सत्यनुपलभ्यमानत्वं हेतुः। तत्र यद्यत्रोपलब्धिलक्षणप्राप्तं सन्नोपलभ्यते तत्तत्रासद्व्यवहारयोग्यं यथा नरशिरसि शृङ्गम्, इति व्याप्तिप्रतिपादकं वाक्यम्। नोपलभ्यते चात्रोपलब्धिलक्षणप्राप्तः पराभिमतोऽवयवी कपालेष्विति पक्षधर्मताप्रतिपादकं वाक्यम्। ननु--उपलभ्यते पतः। सत्यम्। यो येन प्रकारेण परैरभिमतोऽवयवी स तथा नैवोपलभ्यते, नहि भूतले घट इव भूतलादतिरिक्तस्तदाधारकः प्रतीयतेऽवयवी अवयवेषु तदाधारकस्तेभ्योऽतिरिक्तः। तन्तव एव तु संश्लेषविशेषमापन्ना उपलभ्यन्ते, पट इति संज्ञाभेदः केवलम्।

उपलब्धिलक्षणप्राप्तत्वे सत्यनुपलभ्यमानत्वेन हेतुना असद्व्यवहारयोग्यत्वे साध्ये, यदसद्व्यवहारयोग्यं न (सद्व्यवहारयोग्यं) तदुपलब्धिलक्षणप्राप्तत्वविशिष्टानुपलभ्यमानत्वाभाववत् इति तु व्यतिरेकेण व्याप्तिः। तत्र विशेष्यवति वर्तमानो विशिष्टाभावो विशेषणाभावात्मकः, विशेषणवति वर्तमानस्तु विशेष्याभावरूप इति सद्व्यवहारयोग्ये उपलब्धिलक्षणप्राप्तत्वरूपविशेषणवति वर्तमान उक्तविशिष्टाभावोऽनुपलभ्यमानत्वाभवरूप एवेत्यभिप्रेत्य व्यतिरेकव्याप्तिं प्रदर्शयति--यत् सदुपलब्धिलक्षणप्राप्तं तदुपलभ्यत एवेति। यत्तु सदपि नोपलभ्यते तदुपलब्धियोग्यं नेति विशेषणाभावे विशिष्टाभावो बोध्यः। नचैवमिहेति। इह--अवयवे कपाले, प्रदेशविशेषे--भूतलादौ, उपलब्धिलक्षणप्राप्तस्य--घटस्य, नचैवमिहोपलब्धिरित्यन्वयः। तथा च व्यापकनिवृत्त्या व्याप्येनापि ततो निवृत्तेन भाव्यमित्यतोऽवयविनोऽवयवेऽसद्व्यवहारयोग्यतैव सिध्यतीति भावः।

साधनस्य च साध्ये नियतत्वकथनमिति। साध्ये साधनव्यापकत्वकथनमिति यावत्। साध्याभावस्य च साधनाभावे नियतत्वकथनमिति। साधनाभावे साध्याभावव्यापकत्वकथनमिति यावत्। व्याख्यातो नियतशब्दार्थः।

उक्तेषु प्रयोगेषु परेषामप्रयोजकशङ्कां वारयन्नाह--ततः प्रमाणेन व्याप्तिसिद्धाविति। अयमाशयः--प्रत्यक्षप्रमाणमूलां व्याप्तिं स्वीकुर्वतामस्माकं परैः क्रियमाणाया अप्रयोजकशङ्काया नावकाशः। वयं कार्यकारणभावाद्वा स्वभावाद्वा सिषाधयिषितं साधयामः। तदुभयमपि प्रत्यक्षमूलकम्, कार्यकारणभवो हि अन्वयव्यतिरेकसहचाराभ्यां प्रत्यक्षगम्याभ्यां सिध्यति। स्वभवश्च साध्यसाधनयोः प्रत्यक्षगम्यः। उपलब्धिरनुपलब्धिश्च उपलभ्यमानानुपलभ्यमानयोः स्वभाव एव पर्यवस्यतीति। एवं सत्त्वमसत्त्वं च। शृङ्गस्यान्यत्र सत्त्वं शशेऽसत्त्वं च शशशृङ्गयोः स्वभावविशेषावेव। प्रत्यक्षगम्यमेवैतदिति।

प्रसङ्गात् परेषामप्रयोजकशङ्कामुद्भावयन्नाह--यत्रेत्यादिना।

तेषां--नैयायिकानाम्। इहान्यः सर्वज्ञो भवतु मा वा भूदिति। अतीन्द्रियार्थदर्शनसमर्थं सर्वज्ञं नित्यमेकमीश्वरमप्यनभ्युपगच्छन्तो मीमांसकाः सर्वज्ञमात्रनिरासाय प्रयतन्ते सौगताद्यभिमतसर्वज्ञप्रतिषेधाभिनिवेशात्। वयं तु ब्रूमः--इह जगति ईश्वरादन्यः सर्वज्ञो भवतु मा वा भूत्। तत्समर्थने तन्निरसने वा नास्माकमभिनिवेशह्। किन्तु भगवान् पुनरीश्वरः सर्वज्ञोऽस्ति, योऽस्य जगतः स्रष्टा। शक्यते चास्तीति साधयितुमिति।

तेषामीश्वरसाधनप्रकारमनुवदति--तथाहीत्यादिना। निरूपयिष्यमाणे ईश्वरसाधके प्रयोगे पक्षसपक्षविपक्षविभागं प्रथमतः प्रदर्शयन्नुपक्रमते--त्रयः खल्विति। सकर्तृकत्वे साध्ये निश्चितकर्तृका घटादयः सपक्षाः। ये च व्योमादयो निश्चितसकर्तृकत्वविरहास्ते विपक्षाः। ये चान्ये वनस्पत्यादयो ये च महीमहीधरादयः ते सन्दिग्धकर्तृका भवन्ति। महत्त्वसावयवत्वादि सकर्तृकत्वोपस्थापकम्, कर्तुरनुपलम्भस्तदभावोपस्थापकः, विप्रतिपत्तेर्वा संशयः, अतस्त एते महीमहीधरादयः सर्वे पक्षकोटावन्तर्भवन्ति। अन्ये च भवाः सपक्षकोटौ विपक्षकोटौ चान्तर्भवन्ति। न चतुर्थः प्रकारो भवेषु। तदयं प्रयोगोऽत्र--यत् कार्यं तत् सकर्तृकं, यथा घटादि। क्षित्यादिकं च कार्यं, यन्न कार्यं तन्न सकर्तृकं यथा व्योमादि, कार्यं चेदं क्षित्यादीति। बुद्धिमत्कर्तृका इति। साध्यशरीरे बुद्धिमत्त्वनिवेशेन उपादानोपकरनाद्यभिज्ञेन कर्त्रा भाव्यमिति नियमो गम्यते। तेनार्थान्तरादेर्नावसरः।

सकर्तृकत्वसाधकतयोपन्यस्तस्य कार्यत्वहेतोराभासत्वशङ्कां निवारयन्नाह--नायमित्यादिना। हेतोराभासता चाङ्गवैकल्ये, हेतोरङ्गानि च त्रीणि पक्षे सत्त्वं सपक्षे च सत्त्वं, विपक्षेत्वसत्त्वमिति। एतत्त्रयसमर्थनेन चाभासताशङ्का प्रतिक्षिप्ता भवति। तस्मात्क्रमशस्तानि समर्थयति। सर्वेषां -- महीमहीधरादीनां। सपक्षे--कुम्भादौ। नचानैकान्तिक इति। मास्तु बुद्धिमत्कर्तृकत्वम् अस्तु च कार्यत्वमित्यप्रयोजकशङ्कामूलकेयमनैकान्तिकत्वशङ्का, सा परिह्रियते। पक्षतया परिगृहीते तरु--मही--महारुहादौ, साध्यविपर्यये--बुद्धिमत्कर्तृकत्वविपर्यये बाधकं प्रमाणमस्ति, बाधकप्रमाणोपहतत्वाद्विपर्ययस्य नानैकान्तिकत्वप्रसङ्गः। किं तद्बाधकप्रमाणं? तदाह--तथा हीत्यादिना। कार्यं तावदिति। घटादि कार्यं तावदित्यर्थः। मानसेन प्रत्यक्षेणेति। अत्र मानसेनेति विशेषणं प्रामादिकम्। आत्मसुखादावेवान्तरे मनः प्रभवति, न बाह्ये साक्षात्, मनो निमित्तमित्येतावता न बाह्यार्थप्रत्यक्षं मानसमिति वक्तुं सुशकम्। तस्माद् अलौकिकपरतया कथमपि नेयम्। घटादीनां कार्याणां कुम्भकारादिकर्तृकत्वस्य भूयोदर्शनात् तत्सहकृतेन कार्यत्वसामान्यलक्षणाप्रत्यासत्त्या जायमानेन कार्यमात्रस्य सकर्तृकत्वावगाहिनाऽलौकिकेन प्रत्यक्षेण सर्वत्र कार्ये सकर्तृकत्वं प्रत्यक्षेणोपलब्धमिति तदाशयः। इदमेव च प्रत्यक्षं साध्यविपर्यये बाधकप्रमाणमस्तीत्याशयः। तथाहीत्यादिमूलवाक्यं कार्यं तावत् कुम्भकारादेरुपजायमानं भूयोदृष्टमिति भूयोदर्शनसहायेन प्रत्यक्षेण कार्यं सकर्तृकमित्युपलभ्यत इति कथमपि शेषपूरणेन व्याख्येयम्।

तस्मान्नेदमिति। यस्मात् कार्यस्य सकर्तृकत्वं नैसर्गिकमिति प्रत्यक्षेणावगतं तस्मान्नेदं शङ्कनीयं, कार्यं च स्यात् कर्तृनिरपेक्षमपि स्यादित्यर्थः।

सर्वोपसंहारेणेति। सर्वव्यक्त्युपसंहारेणेत्यर्थः। नहि कतिपयव्यक्तीनां मिथः साहचर्यदर्शनमात्रेणा तत्सामान्ययोर्व्याप्तिः संभवति। नहि कतिपयघटपटव्यक्तीनां साहचर्यदर्शनमात्राद् भवति घटपटसामान्ययोर्व्याप्तिरिति भावः।

बुद्धिमत्कर्तृकत्वं विकल्प्य दूषयति--तत्र यदीत्यादि। अयमाशयः--प्रतिनियता हि कार्येषु तस्य तस्य सा सा सामग्री, नहि घटस्य या सामग्री सा पटस्य, या पटस्य न सा घटस्य। शरीरेन्द्रियमनोव्यापारसापेक्षेषु कार्येषु बुद्धिमत्कर्तृकतेति तु दृष्टम्, शरीरव्यापारसापेक्षाणि कानिचित्कार्याणि यथोपलभ्यन्ते, तथा तन्निरपेक्षाण्यसंख्यातान्युपलभ्यन्ते, यथा तृणतरुलतागुल्मप्रभृतीनि। तस्माद्दृश्यशरीरकबुद्धिमत्कर्तृकत्वव्यभिचरितं तु कार्यत्वं, यानि च बुद्धिमत्कर्तृकाण्युपलभ्यन्ते तानि च दृश्यशरीरकबुद्धिमत्कर्तृकाण्येव। तृणादीनामपि पक्षीकरणात् न व्यभिचाराशङ्केति तु न युक्तम्। नहि व्यभिचारनिवारणाय व्यभिचारविषयस्य पक्षीकरणं युज्यत इति।

संदिग्धे हेतुवचनादिति। अयमाशयः--सिषाधयिषितस्यान्वये निश्चिते हेतोराश्रयणं व्यर्थम्। व्यतिरेके निश्चिते हेतोराश्रयणमयुक्तम् अनैकान्तिकतापत्तेः। संदिग्धे तु हेतोराश्रयो युज्यते। इह तु तृणादौ दृश्यशरीरस्य कर्तुर्व्यतिरेकनिश्चयात् तत्र तत्साधनाय हेतोराश्रयोऽनुपपन्न इति।

आशङ्कते--अथेति। परिहरति--तन्नेति। दुरारोहे पर्वते वह्नेर्व्यतिरेको दुर्निश्चेयः। अन्यत्र च धूमेन नियतो वह्निर्दृष्टः, अतः संदेहात् पर्वते वह्नेः साधनं युक्तम्। इह तु साध्यव्यतिरेको दृश्यानुपलम्भेन निश्चित इति महदस्ति वैषम्यमिति भावः।

विकल्पान्तरमनूद्य दूषयति--अथादृश्येति। अदृश्यशरीरेण बुद्धिमता कर्त्रा, बुद्धिमन्मात्रेण वा कर्त्रा व्याप्तिरवगम्यत इत्यर्थः। अदृश्यशरीरकत्वस्य साध्यतावच्छेदककोटावनुप्रवेशे कुलालादिदृश्यपुरुषकर्तृकतया प्रसिद्धे घटादावनैकान्त्याशङ्का स्यादिति पक्षान्तरमाश्रयत्--बुद्धिमन्मात्रस्य वेति। अयमाशयः--बुद्धिमत्कर्तृकत्वमेव तु साध्यम्। स च कर्ता दृश्यशरीरो वा स्याददृश्यशरीरो वा, यत्र दृस्यस्य संभवः तत्रास्तु सः, यत्र न, तत्रादृश्यो भवितुमर्हतीति। दृश्यानुपलम्भेन व्यतिरेकासिद्धेरिति। व्यतिरेकस्य दृश्यानुपलम्भेनासिद्धेरित्यर्थः। अयं भावः--अभावो हि दृश्यानुपलम्भगम्यः। स चानुपलम्भः प्रतियोगिनो दृश्यतासापेक्षः, न ह्यदृश्यस्य पिशाचादेरभावो नेह पिशाच इति चक्षुषा गरीतुं शक्यते। तथा प्रतियोगिषु केषांचिददृस्यस्वभावत्वेन न तत्सामान्याभावे दृश्यानुपलम्भसंभवः। इत्थं च त्वया कर्तृष्वदृश्योऽपि कर्ता यद्यभ्युपगम्येत तद्धिटितकर्तृसामान्याभावो दृश्यानुपलम्भाभावेन नैवावधार्येत। वस्तुतो घटादिष्वपि त्वया कर्तृतयाऽभ्युपगतो बुद्धिमान् कर्ता नित्यः कश्चिदात्मा, सोऽप्यदृश्य एवेति योग्यानुपलम्भासंभवेन बुद्धिमतः कर्तुरभावो नैवावधार्येत। तथा च बुद्धिमतः कर्तुर्व्यतिरेके संशयात्, कार्यत्वस्य ततो व्यावृत्तेरपि संदेहात् तृणादिष्वपि तत्संदेहस्यैव प्रसङ्गात् कार्ये कर्तृषापेक्षत्वसंसयः स्यादेवेति संदिघविपक्षव्यावृत्तिकत्वं हेतोर्दोषो भवेदेवेति।

इदमभिहितं भवति -- बुद्धिमत्कर्तृकत्वे साध्ये बुद्धिमत्कर्तृकत्वाभाववान् विपक्षः। अयं बुद्धिमत्कर्तृको नायमित्यवधारणं दुर्घटम्। अदृश्यविषयत्वेन दृश्यानुपलम्भासंभवात्।

तथा च संदेहेन तृणादौ तदभावः सन्दिग्ध एवेति संदिग्धविपक्षव्यावृत्तिकत्वं संदिग्धानैकान्तिकत्वे पर्यवसितं हेतोर्दोष एवेति।

सन्दिग्धविपक्षव्यावृत्तिकत्वं हेतुदोषतया निदर्शयताऽऽचार्यधर्मकीर्तिनेदमुदाहृतम्--'अस्यैव रूपस्य सन्देहेऽप्यनैकान्तिक एव। यथाऽसर्वज्ञः कश्चिद्विवक्षितः पुरुषो रागादिमान्वेति साध्ये वक्तृत्वादिको धर्मः संदिग्धविपक्षव्यावृत्तिकः, सर्वत्रैकदेशे वा सर्वज्ञो वक्ता नोपलभ्यते इत्येवंप्रकारस्यानुपलम्भस्यादृश्यात्मविषयत्वेन संदेहहेतुत्वा'-दिति। (न्या. वि. ११२.)।

ननु तृणादि पक्षीकृतं, घटादि तु सपक्षः, अथ व्योमादि नित्यमेव तु विपक्षः। यदकर्तृकं न तदुत्पत्तिमत् यथा व्योमादीति निदर्शनमुपलभ्यत एवेत्यत्राह--साध्याभावप्रयुक्तस्येति। अयमाशयः--किमनेन निदर्शनमात्रेण, व्योमादौ नित्यतयाऽभिमते कार्यत्वाभावः किं कर्त्रभावप्रयुक्तो वा कर्तृनिरपेक्षकारणान्तराभावप्रयुक्तो वेत्यत्र नियामकाभावात् कार्यत्वाभावस्य कर्त्रभावप्रयुक्त्वानवधारणात् व्याप्तेरसिद्धेरिति।

उक्तदोषे आप्तसंवादमाह -- तथा चेति। कार्यत्वस्येति। विपक्षवृत्तिहतये--अनैकान्तिकत्वप्रसङ्गपरिहारायेति यावत्। संभाव्यतेऽतीन्द्रियः कर्ता चेत् -- बुद्धिमता हि कर्त्रा शरीरेन्द्रियमनोविशिष्टेन भाव्यम्। बुद्धेः शरीरादिसापेक्षत्वदर्शनात्। शरीरिण्येव वा दृष्तत्वात्। न दृश्यते च शरीरी कर्ता तृणादौ। अथातीन्द्रियशरीरो बुद्धिमान् कर्ता तृणादौ कार्येऽभ्युपगम्यते चेदिति भावः। व्यतिरेकसिद्धिविधुरा व्याप्तिः कथं सिध्यति, तदा तस्मिन्नतीन्द्रिये दृश्यानुपलब्ध्यसंभवेन तद्व्यतिरेकासिद्धेः। अथ व्यतिरेकसिद्ध्यर्थं दृश्यः कर्ता चेत्तृणादावप्याश्रीयते तस्य तत्रानुपलम्भादनैकान्तिकतैव हेतोरित्याशयः।

नन्वस्ति स्वाभाविकः संबन्धः सकर्तृकत्वेन सहोत्पत्तिमत्त्वस्य, तथा उत्पत्तिमत्त्वाभावेन सह सकर्तृकत्वाभावस्य, यद् उत्पत्तिमत् तत् सकर्तृकं यथा घटादि, यदकर्तृकं तन्नोत्पत्तिमत् यथा व्योमादीति निदर्शनतस्तल्लाभात्। वह्निना सह धूपस्यापि स्वाभाविकः संबन्धः, स चावधार्यते भूयोदर्शनेन, तादात्म्यततदुत्पत्तिभ्यां नापरः संबन्धः साध्येन हेतोरिति तु न। तथा च साधनाभावस्य साध्याभावप्रयुक्तत्वादिति किं प्रयोज्यप्रयोजकभावविचारेणेतीमां शङ्कां परिहरन् पराभिमतं हेतोः साध्येन सह स्वाभाविकत्वसंबन्धवादं निरस्यति--यत्तु त्रिलोचनेनेत्यादिना।

तदुपाधेः--तस्य संबन्धस्योपाधेरित्यर्थः। धूमेन वह्नेः संबन्धे आर्द्रेन्धनसंयोग इव वह्निना धूमस्य संबन्धे न कोऽप्युपाधिरित्यर्थः।

उक्तं च वाचस्पतिमिश्रर्न्यायवर्तिकतात्पर्यटीकायां--' तथाहि धूमादीनां वह्न्यादिसंबन्धः स्वाभाविकः, न तु वह्न्यादीनां धूमादिभिः, ते हि विनाऽपि धूमादिभिरुपलभ्यन्ते, यदा त्वार्द्रेन्धनादिसंबन्धमनुभवन्ति तदा धूमादिभिः सह संबध्यन्ते। तस्मात् वह्न्यादीनामर्द्रेन्धनाद्युपाधिकृतः संबन्धः स्वाभाविको न भवति। ततो न नियतः, स्वाभाविकस्तु धूमादीनां वह्न्यादिभिः संबन्धः, उपाधेरनुपलभ्यमानत्वात्। क्वचिद् व्यभिचारस्यादर्शनात्। अनुपलभ्यमानस्यापि कल्पनानुपपत्तेः। अतो नियतः संबन्धोऽनुमानाङ्गमिति। (न्या. वा. टी. १६५)

निरस्यति--तन्न युक्तमिति। स्वाभाविकसंबन्धोपपादकतया निरूपितयोर्द्वयोर्मध्ये प्रथमं प्रतिक्षिपति--यत इत्यादिना। तस्य तेन सह संबन्धे संबन्धिभ्यां यदन्यदपेक्ष्यते तदुपाधिशब्देनाभिधीयते इत्यर्थः। कथमदर्शनमात्रेण नास्त्येवेत्युच्यत इति। उपाधिर्नास्त्येवेत्युच्यत इत्यर्थः। उपाधिशङ्काया अनिवार्यतया न स्वाभाविकसंबन्धावधारणं घटेतेति भावः।

द्वितीयं हेतुं प्रतिक्षिपति--यदप्युक्तमिति। प्रत्ययान्तरवकल्येनेति। कारणान्तरवैकल्येनेत्यर्थः। नचैवमिति। एवं सति प्रामाणिकानामनुमानेन भवन्ती लोकयात्रा नोपपद्येत, सर्वत्रोपाधिकल्पनायाः प्रसङ्गादिति भावः। साधकबाधकप्रमाणाभावे संशयस्य विहितत्वादिति। इदं च वाचस्पतिमिश्रैराशङ्क्य परिहृतम्--' न चादृश्यमानोऽपि दर्शनानर्हतया साधकबाधकप्रमाणाभावेन संदिह्यमान उपाधिः स्वाभाविकत्वं प्रतिबध्नातीति सांप्रतम्। अवश्यं शङ्कया भवितव्यं नियामकाभावादिति दत्तावकाशा खल्वियं लौकिकप्रमाणमर्यादातिक्रमेण शङ्कापिशाची लब्धप्रसरा न क्वचिन्नास्तीति नायं क्वचित्प्रवर्तेत' इति (न्या. वा. टी. १६५)

यथाऽन्यत्वाविशेषे।पीति। पूर्वपूर्वक्षणानामुत्तरोत्तरक्षणेषु हेतुत्वे वक्तव्ये पूर्वत्वस्योत्तरत्वस्य चासंख्यातेषु पूर्वेषूत्तरेषु च साधारण्येनातिप्रसङ्गे प्रसजति देशकाल जात्यादिना साधर्मस्य सर्वस्य स्वलक्षणतया अन्यान्यत्वं वदतां सौगतानामसंभवादन्यत्वाविशेषेऽपि कस्यचिदेव क्षणस्य कस्मिंश्चिदेव क्षणे हेतुत्वं यथाऽभिमतं तथा कस्यचिदेव केनचिदेव स्वाभाविकः संबन्ध इति ममाप्यभिमतमित्याशयः।

तन्न युक्तमिति। प्रमाणसिद्धं वह्निधूमयोर्हेतुमद्भावमेव तयोः संबन्धं वदतामस्माकं प्रमाणशून्यं स्वाभाविकं संबन्धं तयोः कल्पयतां युष्माकं च महदस्ति वैषम्यमिति भावः।

स्वाभाविकशब्दार्थं विकल्प्य दूषयति--स्वाभाविकः संबन्ध इति कोऽर्थ इति। भूयोदर्शनमात्रस्य व्याप्तिनिश्चयाधायकत्वं न युज्यत इत्याशयेनाह--साधर्म्येण वैधर्म्येण वा दृष्टान्तमात्रमस्तीति न व्याप्तेरपि सिद्धिरिति। यदृच्छामिलितयोरपीति। करभविशेषगर्दभविशेषयोर्यदृच्छामिलितयोर्भूयस्सु स्यलेषु दर्शनमात्रेण तयोरपि व्याप्तिनिश्चयापातादित्यर्थः।

ननु तर्हि न्यायप्रयोगस्थले निदर्शनप्रयोगस्य क्वोपयोगः ? इत्यत्राह--तस्मान्निदर्शनमिति। गृहीतविस्मृतप्रतिबन्धग्राहकप्रमाणस्मरणद्वारेणेति। पूर्वं गृहीतः, अथ विस्मृतः, यो वह्निधूमयोः प्रतिबन्धः हेतुहेतुमद्भावलक्षणः संबन्धः तद्ग्राहकं यत्प्रमाणं अन्वयसहचारव्यतिरेकसहचारलक्षणं तत्स्मरणद्वारेणेत्यर्थः। गृहीतं विस्मृतं च यत्प्रतिबन्धग्राहकं प्रमाणं तत्स्मरणद्वारेणेति वा तदर्थः।

न स्वसन्निधिमात्रेणेति--अन्वयव्यतिरेकयोर्निदर्शनसंनिधिमात्रेणेत्यर्थः। नहि व्योमादौ सकर्तृकत्वाभावोत्पत्तिमत्त्वाभावयोः साहचर्यदर्शनमात्रेणेति प्रकृते तात्पर्यम्।

तदेतदुपपादयति--तथाहीत्यादिना।

आकाशे हि यथेति। अयमाशयः--उत्पत्तिमत्त्वेन बुद्धिमत्कर्तृकत्वं साधयता तत्र व्योमादि व्यतिरेकनिदर्शनतया प्रदर्शयता त्वया व्योमादीनामुत्पत्तिराहित्यस्य बुद्धिमत्कर्त्रभावप्रयुक्तत्वमुपपादनीयम्, तन्नोपपद्यते। तत्र बुद्धिमत इव ततोऽन्यस्याचेतनस्यापि कारणस्याभावो वर्तत ए। तथा च चेतनाधिष्ठितादपि स्वस्वकारणाद् बीजादेस्तृणादिकमुद्भवतीति वदतां योऽभिमतस्तथाविधकारणाद् बीजादेस्तृणादिकमुद्भवतीति वदतां योऽभिमतस्तथाविधकारणाभावः तत्प्रयुक्तत्वमेव व्योमादेरनुत्पत्तिमत्त्वे प्रयोजकं किं न स्यात्। तस्मात् बुद्धिमत्कर्तृकत्वाभावप्रयुक्तत्वस्योत्पत्तिमत्त्वाभावेऽसिद्ध्या नोत्पत्तिमत्त्वे बुद्धिमत्कर्तृकत्वव्याप्यता सिद्ध्येदिति।

नापि घटे कार्यत्वस्य बुद्धिमदन्वयदर्शनादाकाशेऽपि बुद्धिमदभावादेव कर्तृत्वाभावो वक्तुं युज्यत इति। घटे कार्यत्वस्य बुद्धिमदन्वयदर्शने तं विना तस्योत्पत्तिर्माभूत्। आकाशस्यानुत्पादे कथं तस्य प्रयोजकता ? नह्यन्यत्र दृष्टं कारणमन्यत्र न दृश्यत इत्येतावताऽन्यस्यानुत्पत्तौ तत्तन्त्रं भवेदिति भावः। ननु धूमेन वह्न्यादौ साध्ये विपक्षे धूमस्यादर्शनात् धूमाभावो वह्न्यभावप्रयुक्तो यथा भवति, तथा व्योम्नि विपक्षे उपलभ्यमान उत्पत्त्यभावो बुद्धिमदभावप्रयुक्तः किं न स्यादित्याशङ्क्याह--किंचादर्शनमात्रेणेति। विपक्षे हेतोरदर्शनमात्रेण चेत् तस्य व्यतिरेकः सिध्येत्, संभाव्यते नाम साधनाभावे साध्याभावप्रयुक्तत्वम्। न च हेतोरदर्शनमात्रेण हेत्वभावः सिध्यतीति भावः।

तदेतदुपपादयति--तथाहीति। न चोपलम्भनिवृत्तिमात्रं प्रयोजकमुपलम्भाभावे भवितुमर्हति। उपलम्भनिवृत्तिरुपलम्भकसामग्र्यभावात्। उपलभ्यनिवृत्तिस्तु स्वसामग्र्यभावादेव। उपलम्भश्च नोपलभ्य्निष्पादकसामग्र्यन्तर्तः, किन्तु उपलम्भकसामग्र्यां उपलभ्योऽन्तर्भवति, चक्षुरादेरिव विषयस्याप्युपलम्भे हेतुत्वात्। तत् उपलभ्याभावप्रयुक्तः उपलम्भाभावो, नतूपलम्भाभावप्रयुक्त उपलभ्याभावः, नहि खलबिलान्तर्गतमुपलभ्यते केनापि। तस्मात् साध्यसाधनयोर्हतुहेतुमद्भावे तादात्म्ये वा प्रतिबन्धे सत्येव साध्याभावप्रयुक्तः साधनाभावो भवेत्। अन्यत्र तु संदिग्धविपक्षव्यावृत्तिकत्वे हेतोर्दोषोऽपरिहार्य एवेति भावः।

यदपि वाचस्पतिराहेति। इदं तु वाचस्पतिमिश्राणां वचनम् 'तस्मात् प्रामाणिकलोकयात्रामनुपालयता यथादर्शनं शङ्कनीयम्। न त्वदृष्टपूर्वमपि। विषेषस्मृत्यपेक्षे हि शंशयो नास्मृते भवति, न च स्मृतिरननुभूतचरे भवितुमर्हति। तस्मादुपाधिं प्रयत्नतोऽन्विष्यन्तोऽनुपलभमाना नास्तीत्यवगम्य स्वाभाविकत्वं संबन्धस्य निश्चिनुमः' इति। (न्या. वा. टी. १६५) तदिदमर्थनोऽनूद्यते--विशेषस्मृत्यपेक्ष एवेत्यादिना। अयमाशयः--ननु साध्यसाधनयोस्तादात्म्येन तदुत्पत्त्या वा संबन्धेन भाव्यम्, अन्यथा इह सिषाधयिषितं न स्यादपि, साधनं तु स्यादिति साध्यसंशयसमुद्भवादप्रयोजकशङ्का समवतरेदेवेति चेन्न। वह्निधूमयोः साहचर्ये भूयस्स्वधिकरणेषु भूयोदृष्टे धूमस्य वह्निना सह संबन्धे उपाधावनुपलभ्यमाने पर्वते धूमं पश्यतो न तत्र वह्नेः संशयः स्यात्। संशयस्तु सति विशेषस्मरणे। वह्निविरहितस्य धूमवतः कस्यचिद्देशस्य प्रागनुभूतस्य स्मरणे सत्येव भवेत्। यथा धूमवह्न्योश्शतशः सहचारदर्शनेऽपि धूमरहितस्य वह्निमतोऽयोगोलकस्य प्रागनुभूतस्य स्मरणात् पर्वतादौ वह्नौ दृश्यमाने भवेदेव धूमे शंशयः। तथा पार्थिवत्व लोहलेख्यत्वयोः शतशः सहचारदर्शनेऽपि लोहलेख्यत्वाभाववतः पार्थिवस्य वज्रमणेः स्मरणे भवेदेव प्रार्थिवेऽपि क्वचिल्लोहलेख्यत्वे संशयः। तस्मात् यथादर्शनमेवाशङ्कनीयमिति।

तादात्म्यतदुत्पत्तिसंबन्धत्यागेनेति। आशङ्कनीयमित्युत्तरेणान्वेति। तत्र प्रमेयत्वस्य व्यभिचारदर्शनमेवेति। अयमाशयः --कतिपयप्रमेयेषु भूयोदृष्टवह्निसाहचर्यष्वपि दृष्टादृष्टसाधारणत्वेन प्रमेयत्वस्य प्रमेये दृश्यमानेऽपि भवति यथा वह्नौ संशयस्तथा कतिपयधूमेषु दृष्टकतिपयवह्निसाहचर्येष्वपि धूमत्वस्य दृष्टसाहचर्यादृष्टसाहचर्यसाधारणतया प्रबन्धविशेषानभ्युपगमे दृष्टेऽपि धूमे भवेदेव वह्नौ शंशयः, एवं कतिपयकार्येषु दृष्टकर्त्रपेक्षेष्वपि कार्यत्वस्य दृष्टकर्त्रपेक्षादृष्टकर्त्रपेक्षसाधारणतया दृश्यमानेऽप्यङ्कुरादौ कार्ये भवेदेव कर्त्रपेक्षायां संशय इति यथादर्शनमेव भवति संशयावसर इति।

निरनुयोज्यानुयोगलक्षणेति। निग्रहस्थानेनेति शेषः। संदिग्धविपक्षव्यावृत्तिकत्वे परोक्तहेतोः सद्दूषणेऽस्माभिरापादितेऽसद्दोषोद्भावनं नाम निग्रहस्थानमित्यस्मान् प्रति वदन् वादी असत्यपि निग्रहस्थाने निग्रहस्थानमुद्भावयन् स्ववचनेन स्वयमेव निरनुयोज्यानुयोगलक्षणेन निग्रहस्थानेन गृहीतो भवतीति भावः। "अनिग्रहे निग्रहस्थानाभियोगो निरनुयोज्यानुयोगः" इति च निरनुयोज्यानुयोगलक्षणम्। (न्या. सू. अ. ५ आ. २ सू. २३ )

परोक्तमीश्वरानुमानं प्रकारान्तरेण निरस्यति--किञ्चेति। सिद्धसाधनमिति। असर्वज्ञेनैकेन बुद्धिमता बहुभिर्वा तैः संभूय कृतत्वेऽपि सिषाधयिषितसंपत्त्याऽर्थान्तरमिति यावत्। दृष्टान्तधर्मिणि प्रमाणेनेति। घटादौ कुलालाद्यसर्वज्ञकर्तृकतया प्रसिद्धे नित्यसर्वज्ञैककर्तृकत्वस्य प्रमाणागम्यत्वेन दृष्टान्तस्य साध्यविकलतयाऽनैकान्त्यमिति भावः।

अथ सामान्येन व्याप्तिमादायेति। सर्वज्ञत्वादिविशेषणाविशेषितबुद्धिमन्मात्रकर्तृकत्वेन सामान्येनैव कार्यत्वस्य व्याप्तिः, सिद्ध्यति तु विशेषः सर्वज्ञैककर्तृकत्वम्। कथम् ? कार्यत्वस्य तृणलतातरुभूभूधरादिपक्षधर्मताबलात्, नहि सर्वज्ञैककर्तृकत्वं विना तेषां कार्यतोपपद्यत इति भावः।

निरस्यति--तत्र युक्तमिति। विनाऽपि कर्तुः सर्वज्ञत्वादिविशेषं कार्यत्वस्य पक्षधर्मतोपपद्यत एवेति कथं पक्षधर्मताबलाद्विशेषसिद्धिरित्याशयेनाह--येनेत्यादिना। असर्वज्ञत्वेऽपीति। तृणादापि कर्ता चेत्कार्यत्वेन सिद्ध्यति, तेन सर्वज्ञेन भाव्यमिति कोऽयं नियम इति भावः। एकत्वसिद्धौ हीति। तृणतरुलताभूभूधरादीनां सर्वेषामेव कर्ताचेदेकः स्यात् तदा तेन सर्वज्ञेन भाव्यम्, न चैष नियमः, तत्तदुपादानाद्यभिज्ञैस्तैस्तैर्बहुभिः संभूय सर्वमिदं कृतमित्यपि वक्तुं शक्येत हीति भावः। अनेककर्तृकं कार्यं निदर्शयति--यथाऽनेककीटिकाशतेति।

नित्यैकसर्वज्ञे बुद्धिमति साध्य इति। नित्यैकसर्वज्ञकर्तृकत्वे साध्ये इत्यर्थः। नित्यता चात्र जन्ममरणराहित्यलक्षणा। विरुद्धतामुपपादयति -- अनित्यानेकासर्वज्ञेन बुद्धिमता कार्यस्वस्य व्याप्तत्वादिति। यत्र कार्यत्वं तत्र नित्यैकसर्वज्ञकर्तृकत्वाभावः। यथा घटादि। घटादीनां केषांचिदेककर्तृकत्वेऽपि नित्यैकसर्वज्ञकर्तृकत्वं नात्स्येव। कुलालादेरसर्वज्ञत्वात् जन्ममरणशालित्वाच्च। रथगोपुरादीनं तु कर्तारो बहवः, असर्वज्ञा अनित्याश्च। अतो हेतुर्विरुद्ध इत्यर्थः।

उपक्रान्तमुपसंहरति--तस्मात् साध्यसाधनयोर्व्याप्तिर्दृष्टान्तधर्मिणि प्रमाणेनावश्यं दर्शयितव्येति स्थितमिति। न केवलं भूयोदर्शनमात्रेण व्याप्तिः सिद्ध्यति, प्रमाणेन तु सा दृष्टान्ते प्रदर्शयितव्या। साध्येन सह हेतोः प्रतिबन्धः प्रमाणसिद्धः कश्चिदपेक्ष्यते स च तादात्म्यं तदुर्पत्तिर्वा। स्वाभाविकः संबन्ध इति तु न प्रमाणसिद्धम्। अतः कार्यत्वेन कर्तुरनुमानं नोपपद्यत इति भावः।

ननु प्रयोगभेदात् साधर्म्यवद्वैधर्म्यवच्चेति परार्थानुमानस्य द्वैविध्यमुच्यते। सामान्यलक्षणं तु त्रिरूपलिङ्गाख्यानं परार्थानुमानमिति। तत्र साधर्म्यवता त्वन्वयमात्रमवगम्यते। वैधर्म्यवता तु व्यतिरेकमात्रमवगम्यते। अतो नैकत्र त्रिरूपप्रतिपत्तिः, अतो लक्षणमिदमसंभवीत्याशङ्कते--नन्वित्यादिना। परिहरति--नैष दोष इत्यादिना।

अन्वयश्चेच्छब्देन गम्यते तत्र व्यतिरेकोऽर्थाद्गम्यते। व्यतिरेकश्चेच्छद्बतो गम्येत तत्रान्वयोऽथतो गम्येत। तस्मादुभयमपि त्रिरूपाख्यायकं भवतीत्याह--यस्मात्साधर्म्यवतीत्यादिना। आर्थिकतामुपपादयति--व्यतिरेकागृहीताविति। सामर्थ्यमिति। तदिदं सामर्थ्यमित्यर्थः। उक्तं च धर्मकीर्तिना--"साधर्म्येणापि हि प्रयोगेऽर्थात् वैधर्म्यगतिः, असति तस्मिन् साध्येन हेतोरन्वयाभावात्, तथा वैधर्म्येणाप्यन्वयगतिः असति तस्मिन् साध्याभावे हेत्वभावस्यासिद्धेः" इति। (न्या. बि. १०९)

व्याख्यातं चैतद्धर्मोत्तराचार्येण--'ननु च साधर्म्यवति व्यतिरेको नोक्तः। वैधर्म्यवति चान्वयः, तत्कथमेतत्त्रिरूपलिङ्गाख्यानम्' इत्यादिना (न्या. बि. टी. ५५)

साध्यधर्मिण्येवेति। पक्षैकदेश एवेत्यर्थः। अन्तर्व्याप्तिपक्ष इति। व्याप्तिग्रहणाय पक्षादन्यस्यानाश्रयणादन्तर्व्याप्तिपक्षोऽयमित्यर्थः। पक्षैकदेश एव व्याप्तिग्रहणं परैरपीष्यते। तेषां बहिर्व्याप्तिपक्षोऽभिमत इति व्याप्तिग्रहणाय पक्षादन्यस्याश्रयणाद् बहिर्व्याप्तिपक्ष इत्यर्थः। व्योमादिकं विमतं न स्थिरं, किन्तु क्षणिकं सत्त्वेनेष्यमाणत्वात्, यत् सत्तत् क्षणिकं यथा घट इति भवति साधर्म्यदृष्टान्तप्रयोग इति भावः। व्याप्तिग्राहकं प्रमाणं किं? आह--प्रसङ्गप्रसङ्गविपर्ययाभ्यामिति। अनुपदमेवोपपादयिष्यति स्वयम्।

तत्र शिंशपात्वस्य वृक्षव्यवहारयोग्यत्वे साध्ये दृष्टान्ते प्रत्यक्षानुपलम्भाभ्यां व्याप्तिर्ग्रहीतव्येति। साधर्म्यदृष्टान्ते प्रत्यक्षेणान्वयावगमात् वैधर्म्यदृष्टान्तेऽनुपलम्भेन व्यतिरेकावगमाच्च प्रत्यक्षेणानुपल्भेन च व्याप्त्यवगम इत्यर्थः। यद्वृक्षव्यवहारयोग्यत्वं यच्च शिंशुपात्वं तदुभयमपि वृक्षस्य स्वभावविशेष इति शिंशुपान्तरेषु साधर्म्यदृष्टान्तेषु प्रत्यक्षेण तयोरन्वयावधारनात्। वैधर्म्यदृष्टान्तेषु वृक्षादन्येषु तयोर्व्यतिरेकस्यानुपलन्भेनावधारणात् प्रत्यक्षानुपलम्भाभ्यां व्याप्त्यवधारणमिति भावः।

सत्त्वक्षणिकत्वयोरिति। प्रसङ्गप्रसङ्गविपर्ययावुत्तरत्र 'यदुक्तं प्रागि'त्यादिना निदर्शनोपन्यासमुखेनोपपादयिष्यति। अयमाशयः -- प्रसङ्गः --प्रसञ्जनं, यदि क्षाणिकता न स्यात् तर्हि सत्त्वं न स्यात्। सत्त्वं ह्यर्थक्रियाकारित्वं, स्थिरत्वेनाभिमतस्य तन्नोपपद्यते इति। स्थिरत्वेनाभिमतस्य तदनुपपत्तिश्चान्यतो बोध्या। घटादिषु च भावेषु अर्थक्रियासमर्थेषु क्षणिकत्वमेवेति प्रसङ्गविपर्ययो दृष्टः। तदिदं पराभिमतव्योमादिनित्यभावनिराकरणप्रकरणे शान्तरक्षितैनोक्तम्--

'क्षणिकत्ववियोगे तु न सत्तैषां प्रसज्यते।
क्रमेण युगपच्चापि यस्मादर्थक्रियाकृतः॥
न भवन्ति स्थिरा भावा निस्सत्त्वास्ते ततो मताः।'
इति (तत्त्वसं. १४३)

व्याख्यातं च कमलशीलेन--'कथं पुनस्य हेतोर्व्याप्तिः सिद्धेत्याह--क्षणिकत्ववियोगेत्विद्यादि। ' इति (तत्वसं. पञ्चि. १४३) स्थिरतयाऽभिमतेषु भावेष्वर्थक्रियासामर्थ्यं नोपपद्यत इत्येतत् 'तथाही'त्यादिना 'सा च स्थिरेषु भावेषु न घटेते'त्यन्तेन ग्रन्थेन विस्तरश उपपादितम् (तत्त्वसं. पञ्चि. १४४)

साध्यविपर्ययबाधकप्रमाणेन वेति। सर्वेषामेव घटादीनां भावानां सत्त्वेन क्षणिकत्वे साध्ये साध्यविपर्यये स्थिरत्वे यद् बाधकं प्रमाणं क्रमयौगपद्यनिवृत्तिलक्षणं तेन विपक्षे पराभिमते व्योमादौ वस्तुत्वावस्तुत्वाभ्यं विकल्प्यमाने सति व्याप्तिरवधार्यत इत्यर्थः। अयमाशयः--सर्वषामेव भावानां क्षणिकत्वे साध्ये सपक्षासंभवेन यन्न क्षणिकं तन्न सत् यथा पराभिमतं व्योमादीति व्यतिरेकव्याप्तिरवधार्या। ननु सता क्षणिकेन भाव्यमिति कोऽयं नियमः ?। घटादयः सन्तोऽप्यक्षणिका एव किं न स्युरिति तु नाशङ्कनीयम्। यद्वेवं सत्त्वमप्येषां मा भूत्। सत्त्वं ह्यर्थक्रियाकारित्वं। अर्थक्रियाः कुर्वदखिलं क्रमेण युगपद्वा कुर्यात्। स्थिरत्व भावानामुभयथाऽपि तन्न घटते, तस्माद् व्योमादीनामिवावस्तुतैवापतेत्। अथ तेषां वस्तुत्वे क्षणिकैरेव तर्भाव्यमिति।

ननु व्योमादिस्थिरभावमनङ्गीकुर्वतां मते व्योमादेर्विपक्षस्याप्रसिद्धेर्विपक्षे धर्मिणीति कथमुच्यते। सत्यम्। अतापि नासङ्गतिः न ह्यत्र वैधर्म्यदृष्टान्तेनावश्यं वस्तुभूतेन भाव्यम्। तथाचोक्तम्

'तस्माद्वैधर्मदृष्टान्ते नेष्टो हेतोरनाश्रयः।'

इति। उदाहृतं चैतत् कमलशीलेन (तत्वसं. पञ्चि. १४५)

त्रिविधप्रत्यक्षानुपलम्भेनेति। प्रत्यक्षं चानुपलम्भश्च तयोः समाहारः प्रत्यक्षानुपलम्भं तेन। तत्र प्रत्यक्षमेकनुपलम्भौ द्वाविति समुदायस्यावयवभेदात् त्रैविध्यम्, प्रत्यक्षानुपलम्भलक्षणकारणत्रिकेण कार्यकारणभावावधाराद् व्याप्त्यवधारणमिति यावत्। अयमाशयः--कार्यकारणभाग्राहकावन्वयव्यतिरेकौ, तत्रान्वयः प्रत्यक्षेण गम्यते। व्यतिरेकोऽनुपलम्भेन। धूमः सति वह्नावुपलभ्यते इत्येतत् प्रत्यक्षम्। असति नोपलभ्यत इत्ययमनुपलम्भः। अयं चानुपलम्भः प्राक् पश्चाच्च, उत्पत्तेः प्राक् कारणस्य वह्नेरभावात्। पश्चाच्च कारणे वह्नौ विनष्टे, एवं पूर्वापरकालभेदात् अनुपलम्भद्वैविध्यम्। आहत्य प्रत्यक्षानुपलम्भलक्षणकारणत्रिकेण कार्यकारणभावावधारणद्वारा भवति व्याप्त्यवधरणमिति।

'यदा धूमस्तदा वह्निः, यदा न वह्निस्तदा न धूम' इति कालत उपलम्भानुपलम्भाभ्यां त्रैविध्यमुक्तम्। अथ 'यत्र धूमस्तत्र वह्निर्यत्र न वह्निस्तत्र न धूमः' इति देशत उपलम्भानुपलम्भाभ्यां द्वाभ्यां मिलितास्ते त्रयः कार्यकारणभावावधारणे कारणमिति भवति कारणपञ्चकमित्यभिप्रेत्याह--पञ्चविधप्रत्यक्षमुपलम्भतो वेति।

व्याप्त्यवधारणे कारणमुक्त्काऽनवधारणे दोषमाह--व्याप्त्यनिश्चयेऽनैकान्तिको दोष इति।

घटवदिति। वैधर्म्यदृष्टान्तोऽयम्। अयं हेतुरिति। साध्यस्य सपक्षेंइश्चयात् विपक्षे साधनाभावस्य सतोऽपि साध्याभावप्रयुक्तत्वानिश्चयात् जीवच्छरीरे सात्मकत्वसाधनाय परैः प्रयुज्यमानः सप्राणत्वहेतुरसाधारण इति भावः।

परमतेनाह--अपरश्चासाधारण इति। यथाऽनित्यः शब्दः श्रावणत्वादिति। पक्षमात्रवृत्तित्वादिति यावत्। घटवदाकाशवदिति। क्रमात्सपक्षविपक्षयोर्निर्देशः।

ननु यद्येतत् प्रमाणं नेति। यदनेकगतं तदनेकम् अनेकवृत्ति च सामान्यम् यत् सत् तत् क्षणिकम् सच्च व्योमेति वदद्भिरस्माभिः सामान्यं व्योम वाऽभ्युपगम्य तत्र दर्मविशेषस्य साधनाय नेह व्याप्तिः प्रमाणीक्रियते, तयोरनभ्युपगमादिति चेत् किमर्थोऽयं व्याप्यव्यापकभावोपन्यास इति भावः। व्याप्तिस्मरणार्थमिति। अयमाशयः--यदनेकगतं तदनेकं, तस्मात् अनेकगतं सामान्यमिष्यता सामान्यमनेकमेवेष्टव्यम् एकंतदिति वदताऽनेकगतमित्येतद्वा परित्याज्यम्, इति परं प्रत्यनिष्टे आपादयितव्येऽनेकगतत्वानेकत्वयोर्व्याप्यव्यापकभावे अनिष्टापादकांशेऽनेकानुगतैकसामान्यवादिनं प्रति प्रदर्शिते एकत्वं वा परित्याज्यं, अनेकसमवेतत्वं वा नेष्टव्यमित्यापादनीयानिष्टांशः स्मारितो भवेत्। यथा कतिपयवह्निधूमव्यक्तीनां कतिपयस्थानेषु यथा महानस इत्येकांशबोधने सकलवह्निधूमयोरविनाभाव उपपाद्यः स्मारितो भवति तथेति। इदं चानिष्टापादनं पराभिमतसामान्यप्रतिषेधार्थं पर्यवस्यतीति।

वादिनेति। विजिगीषुकथायां वादिना स्वपक्षस्थापनाय प्रयोगः कर्तव्यः, स्वार्थपरार्थानुमाननिरूपणेन तत्र यज्ज्ञातव्यं तदवबोधितं भवति। अथ परोक्तहेतौ दोषोद्भावनं विधेयम्, तदवबोधनायायमुपक्रम इति हेत्वाभासनिरूपणे सङ्गतिः प्रदर्शिता भवति।

न्यूनताद्युक्तिरिति। न्यूनता--हेतोरवश्यापेक्षिते रूपत्रयेऽन्यतमस्य न्यूनता।

सन्दिग्धसाध्यधर्मो हीति। सिद्धस्य साधने सिद्धसाधनं नाम निग्रहस्थानान्तरमिति परे।

त्रिरूपं तु लिङ्गं, त्रिष्वन्यतमं च पक्षसत्त्वं। पक्षश्च संदिग्धसाध्यधर्मा, साध्यंचेन्निश्चितं सन्दिग्धसाध्यकत्वाभावेन पक्षसत्त्वस्य रूपस्यासंभवात् हेतुलक्षणं नास्तीत्यसिद्धावेव समावेशान्न निग्रहस्थानान्तरमिति। हेतोरनाश्रयो व्यस्तः--हेतोर्वैयर्थ्यं निरस्तम्।

नहि सामर्थ्यं नाम स्वरूपादन्यदिति। समर्थे वस्तुनि सामर्थ्यं नाम न वस्तुस्वरूपाद्भिन्नः कश्चन धर्मः, वस्तुस्वरूपमेव तु तत्। तस्मिन्नसति वस्त्वेव नेत्युक्तं भवतीति हेतोरसामर्थ्येऽवस्तुत्वमेव तस्येति स्वरूपासिद्धावेव तस्यान्तर्भाव इति भावः।

यथा सर्वगत आत्मेति। आत्मेति पक्षनिर्देशः। सर्वगत इति साध्यनिर्देशः।

तदिह बौद्धस्यात्मैव नासद्ध इति। पक्षेण ह्युभयसंप्रतिपन्नेन भाव्यम्। किं पुनरस्य सर्वदेशोपलभ्यमानगुणकत्वं सेत्स्यतीति। पक्षतयोऽभिमततस्याऽऽत्मन एवासिद्धौ तद्धर्मतयाऽभिमतस्य हेतोः क्व सिद्धिरिति कैमुतिकन्यायेनासिद्धिरित्युक्तं भवति। पक्षस्यासिद्धिमुपपादयति--तथा हीत्यादिना।

यच्च मानसेन प्रत्यक्षेणात्मनः सिद्धिरिति, तन्निरस्यति--मानसस्यापीति। सत्यं, भवत्यहमिति प्रत्ययः, स न केवलमहमित्येतावन्मात्रावलम्बनः, गौरोऽहं, स्थूलोऽहं, कृशोऽहं, गच्छाम्यहमिति स्थौल्यादिबाह्यधर्मावलम्बन एव, तस्मादहमर्थेन तदनुगुणेन धर्मिणा शरीरेणैव भाव्यमिति भावः।

भाक्तो युक्त इति। भाक्तताश्रयणमेव युक्तमित्यर्थः। स्खलद्वृत्तित्वप्रसङ्गादिति। आह च कमलशीलः--'यद्ययं गौणः स्यात् तदा स्खलद्वृत्तिर्भवेत्। नहि लोके सिंहमाणवकयोर्मुख्यारोपितयोर्द्वयोरपि सिंह इत्यस्खलिता बुद्धिर्भवति। मदीयाः शरीरादय इति व्यतिरेकदर्शनात् स्खलद्वृत्तिरहंकारः शरीरादिरिति चेन्न। आत्मन्यपि स्खलद्वृत्तित्व-प्रसङ्गात्। तत्रापि हि मदीय आत्मेति व्यतिरेको दृश्यते। कल्पितोऽत्र भेद इति चेदितरत्रापि समानमस्तु'। इति। (तत्वसं. पञ्चि. ९०)

कार्यस्वभावलिङ्गाभावादिति। कार्यस्य स्वभावस्य वा लिङ्गस्याभावादित्यर्थः। तयोरभावमेवोपपादयति--नित्यपरोक्षेणेत्यादिना। सति तस्मिन्निदं कार्यं, असति च तस्मिन्नेदं इत्यन्वयव्यतिरेकसचारदर्शने हि तस्येदं कार्यमिति विज्ञायेत। नित्यतया परोक्षतया चाभ्युपगतस्य देशकालपरिच्छेदाभावेनान्वयतिरेकोपलम्भाभावान्न कार्यलिङ्गसिद्धिः, आत्मन एवासिद्धेः कः स्वभावलिङ्गस्य प्रसङ्ग इति भावः।

अन्येतापि लिङ्गेनेति। जीवच्छरीरं सात्मकं प्राणादिमत्त्वादिति यदनुमानं प्रदर्शितं तत्र साध्यस्यात्मनोऽसिद्धतया न तेन हेतोर्व्याप्तिर्निश्चीयेतेति न तदनुमानमात्मसाधनाय प्रभवतीति भावः।

न काऽपि विप्रतिपत्तिरिति। अस्मदभ्युपगता क्षणिकविज्ञानधीरेव भवताऽऽत्मेति शब्दान्तरेण व्यवह्रियत इति नात्र नो विप्रतिपत्तिरिति भावः।

ननु व्याप्त्यसिद्धिरपि दूषणमिति। सोपाधिकत्वेन व्याप्यत्वासिद्धिरिति पररसिद्धावन्तर्भाव्यमाना या व्याप्यत्वासिद्धिः सा कुतो नोक्तेति भावः। न स्वलक्षणाभ्यामिति। सर्वमेव हि वस्तु स्वलक्षणम्। स्वमेव लक्षणं यस्य तत्, नान्येनानुगतेन सामान्येन लक्ष्यते। तस्मात् सर्वमेव क्षणिकं तत्तद्व्यक्तिलक्षणमेव। तासां च तत्तद्व्यक्तीनां देशकालभेदेन परिच्छेदेन परिच्छिन्नतया तत्तद्वयक्तीनामेव साहचर्यग्रहात् सामान्यानवलम्भिनी व्याप्तिर्नैव सिद्धयेत्। सामान्यमुखेनैव हि व्याप्तिर्ग्राह्येति भावः।

तत्र यदि साधनं साध्येन व्याप्तमित्यादि। उपाधिपरिज्ञानपूर्वकं वाऽन्यथा वा साधने साध्यव्याप्त्युपरोधग्रहे स्यादेवानैकान्तिकतेति व्यभिचारोन्नायकतामात्रेण न दोषान्तरतेति भावः।

ननु सामान्यमनभुपगच्छतां सामान्यमुखेनैव व्याप्तिग्रह इत्येतत् कथं स्यादिति शङ्कते--नान्वत्यादिना। समाधत्ते--नैव दोष इति। नन्वपोह इति संज्ञाभेदमात्रम्, अनेकानुगतं त्वभ्युपगम्यते त्वयाऽपीत्याशङ्कां परिहरन्नाह--ननु कोऽयमपोहो नामेत्यादिना। बाह्य एवेति। योऽभ्युपगतो बाह्यो गवादिः स एव, नान्यत् सामान्यं परैरिवेष्यत इति भावः। अपोहश्च पर्युदासतः प्रसज्यप्रतिषेधतश्च भवति द्वेधा। पर्युदासश्च भवति द्वेधा--अर्थात्मा बुद्ध्यात्मा चेति। तथा चोक्तम्--

"तथाहि द्विविधोऽपोहः पर्युदासनिषेधतः।
द्विविधः पर्युदासोऽपि बुद्ध्यात्मार्थात्मभेदतः॥"
इति (तत्वसं. ३९६)

तत्र प्रथममर्थात्मात्मकमपोहं व्याचष्टे--अपोह्येतऽन्यस्मादिति। अन्यस्मात् महिषादेरन्यद् विजातीयं शाबलेयादि अपोह्यते व्यावर्त्यते इति सेयं व्यावृत्तिरपोहः। सा चेयं व्यावृत्तिः शाबलेयाद्यात्मैव, अभावस्यावस्तुत्वादिन्यर्थः। यद्यपि न शाबलेयात्मा बाहुलेयः, नवा बाहुलेयात्मा शाबलेयः, अथाप्युभावप्यगोनिवृत्त्यात्मानौ तु। अनूदितं चैतत्।

"यद्रूपं शाबलेयस्य बाहुलेयस्य नास्ति तत्।
बाहुलेयस्य यद्रूपं शाबलेयस्य नास्ति तत्॥
अतद्रूपपरावृत्तिर्द्वयोरपि समा मता॥"
इति। चतद्रूपपरावृत्तिः--अगोव्यावृत्तिः।

अपोहश्चार्थात्मा बुद्ध्यात्मा चेति द्वेधा भवति। तत्र प्रथममर्थात्मोक्तः, अथ बुद्ध्यात्मानमाह--यथाप्रतिभासमित्यादिना। शाबलेयबाहुलेयादीन् विशेषान् पश्यतः स्वलक्षणैरत एव मिथो भिन्नैरपि तैर्यथाप्रतिभासमर्थप्रतिभासात्मा बुद्धावाकार उद्भवति। सोऽयमपोह उच्यते इति भावः। ननु कथमस्मिन्नपोह इति संज्ञा ? तत्राह -- अपोह्यते पृथक्क्रियतेऽस्मिन्निति। उक्तं च--

"एकप्रत्यवमर्शस्य या उक्ता हेतवः पुरा।
अभयादिसमा अर्थाः प्रकृत्यैवान्यभेदिनः॥
तानुपाश्रित्य यज्ज्ञाने भात्यर्थप्रतिबिम्बकम्॥
कल्पकेऽर्थात्मताभावेऽप्यर्था इत्येव निश्चितम्॥
प्रतिभासान्तराद् भेदादन्यव्यावृत्तवस्तुनः॥
प्राप्तिहेतुतयाऽश्लिष्टवस्तुद्वारा गतेरपि॥
विजातीयपरावृत्तं तत् फलं यत्स्वलक्षणम्॥
तस्मिन्नध्यवसायाद्वा तादात्म्येनास्य विप्लुतैः॥
तत्रान्यापोह इत्येषा संज्ञोक्ता सनिबन्धना॥ "
इति (तत्वसं. ३१७)

दर्शितं चार्थात्मनः स्वरूपं तत्रैव--
"स्वलक्षणेऽपि तद्धेतावन्यविश्लेषभावतः"। इति।

अथ प्रसज्यप्रतिषेधरूपमपोहमाह--यथातत्त्वमिति। प्रसज्यरूपोऽपोह इति। प्रसज्येप्रतिषेधरूपोऽपोह इत्यर्थः। उक्तं चैतत् --

'प्रसज्यप्रतिषेधश्च गौरगौर्न भवत्ययम्।
अतिविस्पष्ट एवायमन्यापोहोऽवगम्यते॥' इति (तत्वसं. ३१८)

निवृत्तिमात्रमिति। न तु निवृत्तः स हि पर्युदास इति यावत्। प्रसज्यप्रतिषेधेन ह्यपोहनमवगम्यते इत्याह--अपोहनमपोह इति कृत्वेति। प्रसज्यप्रतिषेधरूपापोहपक्षे गौरिति प्रतीतौ केवलो विधिः स्वलक्षणात्मा विषयो भवतीत्यागतं न त्वपोह इत्याशयेनाशङ्कते--नन्वित्यादिना। समाधत्ते नेति। यद्यपि प्रसज्यप्रतिषेधात्माऽपोहोऽपोहनमेव, प्रत्यये विषयस्तु तद्विशिष्टो विधिरेव, न केवलं विधिरित्यर्थः। उक्तार्थदार्ढ्यार्य परेषां मतं निरस्यन्नाह यत्त्विति।

न गवात्माऽगवात्मेति। गवात्मायं, नागवात्मा--नागौः, इति प्रसज्यप्रतिषेधलक्षणोऽपोहः सामर्थ्यात्--अर्थापत्तेः पश्चात् प्रतीयते, प्रथमं तु विधेरेव वस्तुनः स्वलक्षणस्यैवेत्यर्थः। तदिदं मतद्वयं लोकानुभवविरुद्धमित्याह--तन्नेत्यादिना।

ननु शाब्दे व्यवहारे गौरित्येव शब्द उच्चार्यते, नान्यापोढ इति शब्दः, कथमन्यापोढस्य शब्दतः प्रतिपत्तिर्भवेत् ; अन्यः शब्दः, अन्यस्यार्थस्य तु प्रतिपत्तिरिति कथमित्याशयेन शङ्कते--यद्यपीति। अपोह एव शब्दार्थ इत्याशयेन परिहरति--तथाऽपीति।

शब्दादर्थप्रतिपत्तिकाल एवापोहोऽपि प्रतिपद्येतेत्येतद् द्रढयन्नाह--यथाचेत्यादिना। प्रत्यक्षस्येति। गां पश्यन् पुरुषः सपदि नायमश्व इति प्रसज्यप्रतिषेधलक्षणमभावं गृह्णात्येव, प्रत्यक्षं तु स्वयं विकल्परहितं, विकल्पोत्पादनशक्तिमत्, विकल्पोत्पादनशक्तिमत्तैव तु विकल्पग्राहिता प्रत्यक्षस्य, अतएव भवति गां पुरतः स्थितां पश्यतः सपदि नायमश्व इत्यध्यवसाय इति भावः।

तथा विकल्पानामपीति। विकल्पाः--शब्दाज्जायमाना बोधाः। प्रत्यक्षमेकं नामजात्यादिकल्पनाहीनम्, अन्यत् सर्वमेव ज्ञानमनुमानं वा शाब्दं वा भवति वकल्पात्मकमेव। तेषामेषां शाब्दानां विकल्पानामेषा तदनुरूपानुष्ठानजननशक्तिः, अनुष्ठानं प्रवृत्तिनिवृत्त्यात्मकम्, सा शक्तिरेवापोहलक्षणाभावग्रहणमुच्यते। अपोहाध्यवसाय इति यावत्। तस्मात् गामानयेति शब्दं शृण्वतः पुरुषस्य सपदि भवत्यपोढाध्यवसायः, यथाध्यवसायं च प्रवर्तते, अतः शब्दानामपोढे सङ्केत इति सुस्थितमिति भावः।

शब्दार्थयोर्वाच्यवाचकभावस्वरूपमवधारयति--तस्मात् स्थितमेतदिति। अध्यवसायादेवेति। अपोहाध्यवासायादेवेत्यर्थः। शब्देन भवत्यध्यवसायः, तस्मादेवापोढो बाह्यार्थः शब्दवाच्यो भवतीत्यर्थः। बाह्यार्थप्रतिपत्त्याधायकापोहाध्यवसायप्रयोजकतैव शब्दस्य बाह्यार्थवाचकतेति यावत्। नतु स्वलक्षणपरिस्फूर्त्त्येति। न प्रत्यक्षेणेव स्वलक्षणपरिस्फूर्त्त्याधानेनेत्यर्थः। तत्र कारणमाह--प्रत्यक्षवदिति। अत्राप्तसंवादमाह--यदाहेति। अव्यापृताक्षस्य शब्देन शब्दार्थयोर्वाच्यवाचकभावतत्त्वं शान्तरक्षितेन निरूपितम्--

'तत्रायं प्रथमः शब्दैरपोहः प्रतिपाद्यते।
बाह्यार्थाद्यवसायिन्या बुद्धेः शब्दात् समुद्भवात्।
तद्रूपप्रतिबिम्बस्य धियः शब्दाच्च जन्मनि।
वाच्यवाचकभावोऽयं जातो हेतुफलात्मकः। '
इति तत्त्वसं. प. ३१८-३१९

व्याख्यातं च कमलशीलेन--'प्रथम इति। यथोक्तार्थप्रतिबिम्बात्मा। (यथोक्तार्थश्च पर्युदासात्मकोऽपोहः) तत्र कारणमाह--बाह्यार्थाध्यवसायिन्येत्यादि। य एव हि शब्दे ज्ञाने प्रतिभासते स एव शब्दार्थो युक्तः, न चात्र प्रसज्यप्रतिषेधाध्यवसायोऽस्ति, न्चापीन्द्रियज्ञानजत्स्वलक्षणप्रतिभासः, किं तर्हि? बाह्यार्थाध्यवसायिनी केवलं शाब्दी बुद्धिरुपजायते, तेन तदेवार्थप्रतिबिम्बकं शाब्दे ज्ञाने साक्षात् तदात्मतया प्रतिभासनाच्छाब्दोऽर्थो युक्तो नान्य इति भावः। यश्चापि शब्दस्यार्थेन सह वाच्यवाचकभावलक्षणः संबन्धः प्रसिद्धो नासौ कार्यकारणभावादन्योऽत्रतिष्ठते; अपि तु कार्यकारणभावात्मक एवेति दर्शयति--तद्रूपप्रतिबिम्बस्यत्यादि। तत् अध्यवसितबहिर्भावलक्षणं रूपं स्वभावो यस्य तत्तथोक्तम्, तद्रूपं च तत् प्रतिबिम्बं चेति समासः। तस्य तद्रूपप्रतिबम्बस्य धियः संबन्धिनः शब्दात् जन्मन्युत्पादे सति स वाच्यवाचकलक्षणो निरूप्यमाणः कार्यकारणभावात्मक एव जातः। तथाहि--शब्दः प्रतिबिम्बस्य जनकत्वाद्वाचक उच्यते, तच्च प्रतिबिम्बं शब्देन जन्यमानत्वाद्वाच्यम्।' इति (तत्त्वसं. प. ३१८-३१९)

तत्त्वतः स्वलक्षणस्य शब्दवाच्यत्वे दोषमाह--किञ्चेति। इदं च शब्दप्रामाण्यमनभ्युपगच्छतः स्वसमयनिष्ठान् प्रति प्रतिपाद्यते। अयमाशयः --यदि शब्दस्य तत्त्वतो बाह्यार्थवाचकता साक्षादिष्येत, तदा तस्मिन्नर्थे शब्दस्य प्रामाण्यापातेन शब्दप्रमाणतोऽवगतस्यार्थस्य सत्त्वविनिश्चयात् ' अयं गौरस्ती' ति अस्तिपदप्रयोगो व्यर्थः, नास्तीति चानुपपन्नमिति। उपसंहरति तस्मान्न स्वलक्षणमिति।

शब्दश्रवणसमन्तरं यथासङ्केतं समुपजातादुक्तलक्षणाध्यवसायाद्भवति बाह्यार्थावबोधः तस्य सत्ता तु नावगम्यते, अत स्तदवभ्धनायास्तीति पदप्रयोतोपपत्तिः।

उक्तमर्थं शङ्कातत्परिहारमुखेन विशदयति--नन्विति। प्रत्यक्षात् शाब्दे वैषम्यमाह--प्रत्यक्ष्यस्यानिश्चयात्मकत्वादित्यादिना। विकल्पस्य त्विति। प्रत्यक्षं हि स्वलक्षणमात्रं गृह्णाति, नैकमपि विकल्पं अन्यत्तु विकल्पविशिष्टमेव, अत एव प्रत्यक्षादन्यद्विनिश्चयात्मकमेवेति, शब्दस्य चेद्बाह्यार्थे साक्षाद्वाचकता, तेन तदर्थावबोधो विनिश्चयात्मक एव स्यात्, तथा च स्वलक्षाणस्य तदर्थस्य सत्ता तेनैवावधृतेति न तदवबोधनाय अस्तीतिपदापेक्षेति भावः।

न किञ्चित्प्रमाणमुपलभामह--इति। प्रमाणासंभवमेवोपपादयति--तथाहीत्यादि ना। या व्यक्तिर्येनेन्द्रियेण गृह्यते तन्निष्ठा जातिरपि तेनैवेन्द्रियेण गृह्यत इत्येष परेषां स्वगोष्ठीनिष्ठः समयः केवलम्, न ह्युन्मीलितनयनं पश्यतोऽपि पुंसो नीलादिवर्णात् सास्नालाङ्गूलादिसन्निवेशविशेषलक्षणाकृतेश्चान्यन्नयनपथेऽवतरति। तत् सामान्ये न प्रत्यक्षं प्रमाणमिति भावः। ननु मा भूत् सामान्ये प्रत्यक्षं, अथापि गमेकां पुरतः पश्यतोऽनुभूतानेकगोव्यक्तेः पुंसो भवति कश्चिदेकाकारपरामर्शलक्षणः प्रत्ययः, तत्र चालम्बनं किमपि निमित्तं कल्पनीयम्, अन्यथा तदनुपपत्तेस्तदेव च सामान्यमित्याशयेन परेण क्रियमानामाशङ्कामनूद्य निरस्यति--नचेति। व्यक्तिभ्य एव स्वहेतुदत्तशक्तिभ्य इति। गवादिव्यक्तयः स्वहेतुभ्यो जायमानां शक्तिविशेषविशिष्टा एव जायन्ते, यया मिथो भिन्ना अपि गोशब्दाभिलप्याः काश्चिदेव व्यक्तयो गौरित्येकाकारपरामर्शे हेतवो भवन्ति, तस्मान्नैकाकारपरामर्शप्रत्ययोपपत्तये सामान्यमालम्बनान्तरं कल्पनीयमिति भावः। भिन्नानामपि सतां कथमेकाकारपरामर्शप्रत्यहेतुत्वमित्यत्राह--भेदेऽपीत्यादि। अत्राप्तसंवादमाह--भेदेऽपि नियताः केचिदिति। इन्द्रियादिवदिति। इन्द्रियत्वाविशेषेऽपि कासाञ्चिदेव व्यक्तीनां रुपग्रहणसामर्थ्यं कासाञ्चिदेव रसग्रनःअसामर्थ्यमिति यथा नियतं तथेत्यर्थः। आदिशब्दात् हरीतक्यादयो गृह्यन्ते।

ननु सत्यपि सामान्याश्रयणस्यावश्यकत्वे किं सामान्येन, व्यक्तिभिरेवालम्, तासामेष स्वभावविशेषो यदेकाकारप्रत्यवमर्शहेतुत्वमिति स्वभावाश्रयणेतोत्तरं प्रमाणिकवस्त्वपलापायैवेत्याशङ्कां परिहन्नाह-- किञ्चेति।

अयमाशयः--द्रव्यादिभ्यो व्यावृत्तं भिन्नं सामान्यमतिरिक्तः पदार्थं इति वदतां मते जातिव्यक्त्योरत्यन्तभेदो भवत्यभिमतः, गोत्वाश्वत्वादि तु सुतरां भिन्नम्, एवं भेदाविशेषेऽपि गोत्वं गोव्यक्तिष्वेव समवैति नान्यत्र, अश्वत्वमश्वव्यक्तिष्वेव समवैति नान्यत्रेत्यत्र किं नियामकमिति शङ्कायां स्वभाव एवैष गोत्वादीनां, यन्नान्यत्र समवैतीति स्वभावाश्रयणेनैवोत्तरं तैरपि देयं, तदस्मान् प्रति कोऽयमाक्षेपः स्वभावाश्रयणेनोत्तरमसंगतमिति। अस्माभिः प्रतिपाद्यमानं स्वभावाश्रणेनोत्तरं प्रामाणिकं परैः प्रतिपाद्यमानं त्वप्रामाणिकमित्येष विशेष इति।

सामान्यसाधकतया परैराश्रितमनुमानं दूषयन्नाह--तथेदमपरमित्यादिना। अत्रोच्यत इति। साध्यं विकल्प्य दूषयति--विशिष्टवुद्धेरित्यादिना। भिन्नविशेषणेति। विशेष्यात् भिन्नं यद्विशेषणम्--विशिष्टबुद्धौ विशेष्यतया भासमानस्य यद्विशेषणतया भासते विशेष्यतो भिन्नं, तद्ग्रहणनान्तरीयकत्वमित्यर्थः।

प्रथमविकल्पे दूषणमाह--वस्तुग्राहिणि प्रत्यक्षे उभयप्रतिभासाभावादिति। विशेषणविशेष्योभयप्रतिभासाभावादित्यर्थः। गौरिति यद्वस्तुप्रत्यक्षं तत् पिण्डं ततो भिन्नं गोत्वं सामान्यं चोभयमवभासयतीत्येतत् सर्वानुभवविरुद्धम्, पुरःस्थितं पश्यतो हि स्फुरति वस्तुमात्रमिति भावः।

दूषणान्तरमाह--विशिष्टबुद्धित्वं चेति। अनेकान्तिकतामुपपादयति--भिन्नविशेषणग्रहणमन्तरेणापीति। यथा स्वरूपवान् घट इति। घटस्य स्वरूपं हि घटान्नातिरिच्यते। गोत्वं सामान्यमिति वेति। न सामान्यं गोत्वादन्यत्, गोत्वे सामान्यत्वमिति च न गोत्वतो भिन्नं, तत्स्वरूपमेव तु तत्।

द्वितीयविकल्पे दूषणमाह--द्वितीयेत्यादिना। सिद्धसाधनमुपपादयति--स्वरूपवान् घट इत्यादिवदिति। अयं गौरिति प्रत्यक्षे वस्तुतो वस्तुमात्रग्राहिण्यपि स्वरूपवान् घट इत्यत्र कल्पितभेदमादाय विशेष्यविशेषणभावोपपत्तिवत् पिण्डादनन्यत्वेऽपि गोत्वस्य कल्पितभेदमादाय विशेष्यविशेषणभावोपपत्त्या अर्थान्तरप्रसङ्ग इति भावः। गौरयमित्यनुगतव्यवहारस्त्वगोव्यावृत्तिमेवावलम्बते, सा च व्यावृत्तिर्व्यावर्त्त्यान्नातिरिच्यत इत्याह--अगोव्यावृत्त्यनुभवभावित्वादिति।

एवं सामान्यसाधकतया पराभिमतं प्रयोगं निरस्य सामान्यनिरासकं प्रयोगं प्रदर्शयति--सामान्यस्य निषेधायेत्यादिना--यद्यत्रोपलब्धिलक्षणप्राप्तं सन्नोपलभ्यते इति। उपलब्धिलक्षणप्राप्तत्वे सत्यप्यनुपलभ्यमानत्वं हेतुः। हेतोरसिद्धिशङ्कां निवारयति--नचासिद्धिसंभावनेति।

वर्णसंस्थानसहितमिति। सत्यपीन्द्रियसंप्रयोगादावुपलम्भकसमवाये उपलभ्यमाने च व्यक्तिविशेषे तत्र गोत्वं विप्रतिपन्नं नैवोपलभ्यते, उपलभ्यमानं व्यक्तेः स्वरूपं तु वर्णसंस्थानात्मकम्, न ततोऽन्या गोत्वजातिरुपलभ्यते इति नासिद्धो हेतुरिति भावः।

ननु दर्शनागोचरस्यापि ज्ञानस्येव चाक्षुषोपलम्भागोचरस्यापि सामान्यस्य नासद्भाव इत्याशङ्कामनूद्य परिहरति--नापीत्यादिना। उपक्रान्तं सामान्यनिरसनमुपसंहरति--तस्मादिति।

नापीति। प्रसक्तानुप्रसक्त्या प्राप्तोऽयं विचारः। हेतुदोषनिरूपणप्रकरणेऽसिद्धिनिरूपणावसरे सामान्यविचारः प्रसङ्गतः प्राप्तः, स च प्रासङ्गिको विचारः 'तस्मात् सर्वं संस्कृतं वस्तु परपरिकल्पितसामान्येन शून्य' मिति समुपसंहृतः। यथा संस्कृतं सर्वं वस्तु निःसामान्यकं तथा न केनाप्युपरचितमिति प्रसक्तमनुप्रसक्तमेतत्। ननु शाखाचङ्क्रमणं यत् संस्कृतवस्तुनिर्देशमनुप्रवृत्तिरस्मिन् विचार इति। नैतत्। ' यदि नित्यः कर्ता जगतो न कारणं किमस्य तर्हि कारणम्, सत्त्वानां शुभाशुभाख्यं कर्म' इत्यादिना प्रमाणनिरूपणात् प्रमेयनिरूपणेऽवतरतो द्वारमेतत्। एतेन पूर्वमेवेश्वरो जगतः कर्ता निरस्त इति पुनरुक्तमेतदिति शङ्का परिहृता, प्रकरान्तरेण तन्निषेधोऽत्र प्रवर्तत इति। तत्रेश्वरसाधकतया परोपन्यस्तस्य प्रयोगस्य निरसनमिह तु तस्य सर्गादिकर्तृत्वानुपपत्तिरिति निरसनप्रकारभेदः।

तत्र तावन्न नित्यो युक्त इति। नित्यः जननमरणशून्यः। असमर्थः, अथापि कर्तेति व्याहतम्, अथ समर्थो नित्यश्च, तदा त्वयं दोष इत्याह--नित्यें कर्तरि समर्थे सतीति। तदस्य स्वरूपं प्रलयकालेऽपीति। नहि नित्यस्य स्वरूपं कालभेदात् भिद्येत, यदि भिद्येत, तर्ह्यनित्यतैवापतेदिति भावः।

सर्गादीनामयौगपद्यस्य सहकार्यसमवधानमूलकतामाशङ्क्य निरस्यति। सहकारिविरहादित्यादिना।

अनित्यस्य सहकारिणोऽपि तदायत्तत्वादिति। कार्यमात्रं प्रति तस्य कारणत्वेन सहकारिणो जनयन्नेष नित्यः समर्थः कुतो युगपन्न जनयतीतीयमाशङ्का तत्रापि तुल्यैवेति भावः।

ननु सत्यमेष समर्थो नित्यश्च, परमीश्वरोऽयम्, सत्यामिच्छायां कुर्यात् न चेन्न कुर्यादिति न सर्वकार्ययौगपद्यप्रसङ्ग इत्याशयेन शङ्कते--बुद्धिमत्वादीश्वरस्येति। अधिष्ठातृनिरपेक्षप्रधानकारणवादे सेयमाशङ्कावतरेत्, जडत्वात् तस्य, चेतनं कारणमभ्युपगच्छतोऽस्मान् प्रति तु नास्याः शङ्काया अवसर इति भावः। इच्छानां वा कुतो न यौगपद्यमित्याशयेनाह -- ता अपीति।

सहकारिलक्षाणया आगन्तुकशक्तयेति। अयमाशयः--सत्यं सहकारिण्योऽप्येतदायत्ताः, शक्तस्यास्यास्य शक्तिविशेषरूपास्ताः अयं च नित्यः समर्थश्च सर्वकार्योर्पादने, अथापि ताः सहकारिलक्षणाः शक्तयस्त्वागन्तुक्यः अतः सर्गादीनां न यौगपद्यप्रसङ्गं इति भावः।

स च नित्यः, सामर्थ्यं चास्याव्याहतं, सहकारि सर्वं तदधीनम्, अथापि ते सहकारिणः कादाचित्का इत्यतत् व्याहतं वच इत्याशयेनाह--तर्हि माताऽपि सतीति। यत्किञ्चिदेतत् असारमित्यर्थः।

कार्यस्य स्वभावविशेषमवलम्भ्य प्रत्यवतिष्ठते--नन्वेष एव कार्यस्य स्वभाव इति। निरस्यति--तन्नेति। समर्श्चेत् परस्वभावमयिभूयापि कस्मान्न स्वकार्यं साधयति, यदि न साधयेदसम्र्थ एव स इति भावः।

दूषणान्तरमाह--नापीति। स्रष्टाऽयं क्रमात् भावान् सृजतीति हि भवान् मन्यते। समर्थस्य नित्यस्य क्रमात् कार्याधानमित्यनुपपन्नम्, नैरपेक्ष्यात् समर्थत्वाच्च कर्तुरिति भावः। अत्राप्तसंवादमाह--यदाहेति। कालयोः--कार्यनिष्पादनकाले, अतत्कालेचित्यर्थः। सदृशात्मनः--समर्थस्य नित्यस्य स्वरूपं हि न विपरिवर्तते जातु, तथासत्यनित्यतापत्तेरिति भावः।

एतेनेति। नित्यानाम्--नित्यतयाऽभिमतानां जीवात्मनाम्, अक्षणिकानाम्--अक्षणिकतयाऽभिमतानां घटादीनां च। यदिदं क्रमात् कार्याधानं दृश्यते तत् स्थिर तयाऽभिमते कस्मिंश्चदपि न घटत इति भावः। उक्तं च शान्तरक्षितेन--

कार्याणि हि विलम्बन्ते कारणासन्निधानतः।
समर्थहेतुसद्भावे क्षेपस्तेषां हि किंकृतः॥
इति (तत्त्व. प. १४६)

अतएव कार्यक्रियासमर्थानां सर्वेषां क्षणिकतैवेति सुस्थितम्।

ननु सर्वस्य क्षणिकतेति प्रत्यक्षविरुद्धम्, प्रत्यक्षेणाक्षणिकतैव हि गम्यत इत्याशङ्कते--नचात्र प्रत्यक्षविरोध इति। अत्र प्रतिविधन्ते--प्रत्यक्षेणेत्यादिना। अक्षणिकस्येति। अक्षणिकत्वस्येति यावत्। नहीति। अयमाशयः--प्रत्यक्षं हि साक्षात्कारः, स च क्षणिकः, यदा स्वयमुद्भवति तदा वर्तमानं वस्तुमात्रं गृह्णाति, न तस्य पूर्वापरक्षणयोगं च, स्वयं च क्षणान्तरे विनश्यन् अनेकक्षणयोगमेकस्य गृहीतुं न कल्पन्ते इति। पूर्वापरक्षणयोश्च न वर्तमाने साक्षात्कारकाले प्रकाशो घटेत, तथासति तयोरपि कालयोर्वर्तमानतापत्तेरित्याह--नहि प्रागूर्ध्वमिति। यदि पुनः प्रत्यक्षकाले पूर्वापरक्षणयोगस्यापि प्रकाश इष्येत, तर्हि साक्षात्क्रियमाणस्य वस्तुनस्तदैवाजन्मत आविनाशमनुवर्तमानः कालान्वयोऽपि प्रकाशेत, तथासत्युत्पन्नस्य वस्तुनो विनाशावधिरपि भवतां मते विज्ञात एव भवेदित्याशयेनाह--जन्मविनाशावधीति।

ननु प्रत्यभिज्ञाप्रत्यक्षं कालद्वयंसंबन्धं गृह्णातीत्यत्राह--एतेनेति। एतेनेत्यनेनाभिप्रेतं प्रत्यभिज्ञाया अप्रत्यक्षत्वमुपपादयति--साक्षात्कारि हि ज्ञानमित्यादिना। साक्षात्कर्तव्यम्, साक्षात्कर्तुं क्षममिति यावत्। नच स्मरणं प्रत्यक्षमिति। स्मरणं प्रत्यक्षात्मकं न भवतीत्यर्थः--

अत्र कुमारिलमतं निरस्यंस्तन्मतेनाक्षिपति--अथेति। इदानीन्तनमवस्थानं न साक्षात्कुर्यादिति। अयमिति तु भवतीदानीन्तनस्य ग्रहणम्, तच्चाक्षसापेक्षम्, तदैन्द्रिकस्यास्य प्रत्यक्षताऽव्याहतैवेति, प्रत्यक्षविरुद्धा च क्षणिकतेति भावः। उक्तार्थ तस्य कारिकामनुवदति--यदाहेत्यादिना। अतिरेकिणीति। स्मृतितो भिन्ना, साक्षात्करप्रमेत्यर्थः।

तदेतत् कुमारिलोक्तं प्रतिक्षिपति--स्मरणग्रहणरूपं तर्हि प्रत्यभिज्ञानं स्यादिति। ननु नेयं प्रत्यभिजा स्मृतेरतिरिच्यते, अयमितिवत् स इत्यवि ग्रहणात्, स्मर्यमाणे च तदवस्थेऽक्षायोगात् न साक्षात्काररूपता, गृह्यमाणे चेदमवस्थे न स्मरणात्मता, तस्मात् स्मरणग्रहणोभयात्मतैव प्रसजेत्, नतु स्मृतिव्यतिरिक्तसाक्षात्कारिप्रमात्मता, उभयरूपता चैकज्ञानस्य न घटेतेति भावः।

ननु--एकमेवान्येन रूपेण स्मर्यते, अन्येन रूपेण तु गृह्यते, प्राधान्यं तु गृह्यमाणरूपतः, संस्कारसापेक्षता तु गृह्यमाणस्योपलक्षणांशे, अतः पुरस्थितवस्तुग्रहणरूपैवेयं प्रत्यभिज्ञेत्याशयेन परस्य प्रत्यवस्थानमनूद्य निरस्यति -- येन हीत्यादिना। अनुन्मत्तेन न शक्यते वक्तुमिति। एकं वस्तु रूपे च भिन्ने द्वे इति वदन्नुन्मत्त एव स्यात्, रूपभेदो हि स्वरूपभेदादनन्य इति भावः।

भावे।पीति। एकस्य स्मरणग्रहणभावाभ्युपगमे।पीत्यर्थः। प्रत्यक्षाप्रत्यक्षत्वं स्यादिति। एकस्यैव ज्ञानस्यांशतः प्रत्यक्षत्वमंशतोऽप्रत्यक्षत्वं चापतेत्, न तु प्रत्यक्षतैवेत्यर्थः। तस्मात्प्रत्यभिज्ञाप्रत्ययो भ्रान्त एव निर्विषयत्वादिति। निर्विषयत्वात्--यथाऽवस्थितवस्त्वविषयत्वादित्यर्थः। आह च शान्तरक्षितः --

ननु च प्रत्यभिज्ञानं स एवेत्युपजायते।
अक्षव्यापारसद्भावे निष्प्रकम्पमबाधितम्॥
ततः प्रत्यक्षबाधेयं दुर्वारा सर्वहेतुषु।
क्षणभङ्गप्रसिद्ध्यर्थमुपात्तेषु न युज्यते॥
न खलु प्रत्यभिज्ञानं प्रत्यक्षमुपपद्यते।
वस्तुरूपमनिर्दश्यं साभिलापं च तद्यतः॥
भ्रान्तं च प्रत्यभिज्ञानं प्रत्येकं तद्विलक्षणम्।
अभेदाध्यवसायेन भिन्नरूपेऽपि वृत्तितः॥
इति (तत्त्व. प. १५७)

प्रत्यभिज्ञाया भ्रमत्वे प्रयोगमाह--प्रयोगश्चैवमिति। स तत्त्वतो नैकालम्बन इति। तत्त्वतो नाभिन्नालम्बनः, अध्यस्ताभेदालंबन इति यावत्। विरुद्धव्याप्तोपलब्धिरिति। विरुद्धव्याप्तोपलब्धिमुपपादयति--एकत्वानेकत्वयोरिग्यादिना। एकत्वानेकत्वयोः--भेदाभेदयोः। विषयविरोधाद्विषयिणोरप्युपलम्भयोर्विरोध इत्याह--तद्विषययोरपीति। न प्रत्यभिज्ञानं क्षणिकानुमाने बाधकमिति। भ्रान्तित्वादिति भावः।

विरुद्धव्यप्तिर्नास्तीत्याशङ्कते--न चेति। अत एवेति। अयमाशयः -- ननु विरुद्धोऽयं हेतुः--प्रत्यभिज्ञा हि देशारे कालातरे वाऽनुभूतस्य तद्देशकालयोगं तदेवेदं नीलमिति गमयति, औत्सर्गिकमेतत्। लूनपुनर्जातादिषु च सामान्यैक्यम्, तदेवं प्रत्यभिज्ञात्वं नैकालम्बनत्वत्य विरुद्धम्, वह्नेरिव जलम्, विरोधादेव चानैकान्तिकताऽपीति चेन्न। स्थिरस्य क्रमेणाक्रमेण वा क्रियाकारित्वमनुपपन्नमित्यसकृदुक्तमेव, तत् प्रत्यभिज्ञानस्यैकालम्बनत्वं नैवोपपद्यते इति न विरुद्धत्वमनैकान्तिकता वेति। ननु प्रत्यभिज्ञानमेव स्वरसतो वस्त्वैक्वमवगमयति, नैव, तस्यैकालम्बनत्वं किं युक्तं न वेत्येतदेवाद्य विचार्यत इति प्रत्यभिज्ञानतो वस्त्वैक्योपपादनमनुपपन्नमिप्याह--नच प्रत्यभिज्ञानमेवेति। जगतो बुद्धिमद्विरचितत्वासंभवमुपक्रान्तमुपसंहरति--तस्मात् स्थितमेतदिति।

सत्त्वलोकमिति। सत्त्वानि--प्राणिनः, तल्लक्षाणो लोकः सत्त्वलोकः। भाजन लोकः--सत्त्वानां प्राणिनां भाजनभूतः-- आश्रयभूतो लोको भाजनलोकः, तदिममतिविचित्रं चित्तमेव रचयति--चित्तं बुद्धिर्ज्ञानमिति पर्यायाः। चित्तमेवबाह्यात्मना भासत इति चित्तविलास एव सर्मविति भावः। कर्मजं हि जगदुक्तमशेषं। कर्म चित्तमवधूय न चान्यत्--द्विविधं सत्यं--पारमार्थिकसत्यं सांवृतिक सत्यं चेति। तत्र पारमार्थिकदृष्तया तु चित्तमेव सर्वस्य मूलम् सांवृतिदृष्टया तु अशेषं जगत् सत्त्वानां कर्मणा जातम्। तदेवं कर्म चित्तं चेत्युभयं विना जगतो न किञ्चिन्मूलमिति भावः। वैभाषिकमतमाश्रित्येत्येतद्वक्तुर्दृष्तया, वैभाषिकाद्यवान्तरभेदो हि भगवतः पश्चात्तनः यद्वचनमाश्रित्य वैभाषिकाः प्रवर्तन्ते इति यावत्।

अथ सर्वज्ञां साधयन् परस्याशङ्कामनुवदति--नन्विति। किं प्रमाणम्--प्रमाणं नास्तीत्यर्थः। अस्ति प्रमाणमनुमानमित्यभिप्रायेणाह--उच्यते इति चत्वार्यासत्यानि तेषां साक्षात्कारो यस्य भवति स सर्वज्ञः, साक्षात्कारश्च स्फुटावभास इत्यभिप्रायेण तेषां स्फुटावभासे प्रयोगं दर्शयति--यो य इत्यादिना। व्याप्त्यवबोधकं प्रथमं वाक्यम्, द्वितीयं च पक्षधर्मतावबोधकम्, तत्र सादरनिरन्तरदीर्घकालाभ्याससहितचेतोगुणता हेतुः, स्फुटिभावयोग्यता साध्यम्, उदाहरणं कामिन्याकारः कामुकचित्तगतः, चतुरार्यसत्यविषयाकाराः बोधिचित्तगताः पक्षः, स्वभावहेतुनाऽनेन चतुर्णामार्यसत्यानां स्फुटीभावयोग्यत्वे सिद्धे स्फुटावबाषासंभवनिरसनमुखेन सर्वज्ञासिद्धिर्निरस्ता भवति।

इदमत्र बोध्यम्। सर्वज्ञे प्रमाणं नेति वदतोऽयमाशयः--न तस्मिन् प्रत्यक्षं प्रमाणम्, न हि दृश्यते कश्चित् सर्वदर्शी, नाप्यनुमानम्, दृष्टसजातेयेष्वेव तत्प्रसरात्, न च शब्दः तद्बोधके प्रामाण्यसंशयात्। सर्वज्ञता च न घटते। न ह्यतीन्द्रियानर्थान् कश्चिद् द्रष्टुं शक्नोति, इन्द्रियायत्तप्रकाशा ह्यर्थः , प्रज्ञाप्रकर्षेऽपि नेन्द्रियार्थयोः स्वभावं समतिलङ्घ्य किञ्चित् ज्ञातुं शक्नोति। उक्तं च --

येऽपि सातिशया दृष्टाः प्रज्ञामेघाबलैर्नराः।
स्तोकस्तोकान्तरत्वेन न त्वतीन्द्रियदर्शनात्॥
प्राज्ञोऽपि हि नरः सूक्ष्मानर्थान् द्रष्टुं क्षमोऽपि सन्।
स्वजातीननतिक्रामन्नतिशेते परान्नरान्॥
इति। (तत्त्वसं. प. ८२५)

तस्मादभ्यासातिशये सत्यपि निरवधावर्थेन्द्रिययोः स्वभावातिलङ्घनं दुर्घटमेव। यत्तु योगाभ्यासबलादतीन्द्रियार्थदर्शनं घटेतेति, तदप्यनुपपन्नम्, सोऽपि विचार्यमाणोंअवरतानुध्यानलक्षणः अविच्छिन्नस्मृतिधारारूपः स्वयं न साक्षात्कारात्मा, स्मृतिरप्यनुभूतार्थावलंबनीति न योगाभ्यासतोऽप्यतीन्द्रियार्थसाक्षात्कारितेति न सर्वज्ञः सिद्ध्यतीति। सर्वज्ञं समर्थयतस्त्वयमाशयः--यावन्न बाधकमुपलभ्यते, तावन्नास्तीति न निश्चीयेत, न हयदृष्टिमात्रेणार्थस्यासम्भवः, तत् सर्वज्ञे प्रत्यक्षादिप्रमाणानुपलम्भमात्रेण कथं तत्प्रतिषेधः कर्तुं शक्येत, न च स्वाप्निकानां तत्तत्पुरुषमात्रवेद्यानामपरैरनुपलभ्यमानानामपलापः कर्तुं शक्येत। यावद्बाधकं नोपलभ्यते तावत् तत्र संशयस्तु स्यादेव, एवं सति कथं भवान् सुगतसार्वज्ञ्यं प्रतिषेद्धुं प्रभवति। ननु बाधकं प्रदर्शितम्--'सर्वज्ञता च न घटते' इत्यादिना। अत्रोच्यते--न किमपि दौर्घट्यम्। यश्चायं स्वभावविशेष इन्द्रियार्थयोः चक्षू रूपमेवगृह्णीयात्, न श्रोत्रादि श्रोत्रं शब्दमेव गृह्णीयान्न रूपम्, 'एवं रूपं चक्षुषैव गृह्येत नेतरेणेन्द्रियेण, शब्दः श्रोत्रेणैव नेतरेणेन्द्रियेणेति। सत्यम्। इन्द्रियेण चेद् गृह्येत तदा तथैव, चित्तेन चेत् नायं नियमः। ननु मनो नामान्तरमिन्द्रियं बाह्येन्द्रिय द्वारेणैवार्थे प्रवर्तेतेत्यनुल्लङ्घनीयो नियमः। मैवम्। न मनो नामेन्द्रियं किञ्चिदानन्तरं, मनश्चित्तं बुद्धिर्विज्ञानमित्यनर्थान्तरम्। प्रतिसत्त्वं भिन्ना चित्तधाराऽनुवर्तते, सर्व च रागादिविविधमलाविला भवति, आविद्यं च मलजालमागन्तुकम्। नैरात्य्मभावनया चापचीयते, चतुरार्यभावनया च भवति प्रकर्षः, यथा यथा नैरात्म्यभावनयाऽपचीयन्ते रागादयो मलास्तथा तथा चतुरार्यभवनया च प्रकर्षं गतया प्रवर्धते प्रज्ञा, अनेकभवानुस्यूतसादरनिरन्तरार्यसत्यभावनया काष्टां गतया योगलक्षणया भवति चतुर्णामप्यार्यसत्यानामपरोक्षम्, योगजमपि हि प्रत्यक्षम्, स्फुटावभासत्वात्। इन्द्रियार्थस्वभावनियमस्त्वैन्द्रियके नापरोक्षमात्रे। चतुरार्यापरोक्षेण भवति सर्वज्ञः। सादरनिरन्तराभ्यासात् प्रज्ञाप्रकर्षो भतीत्यत्र तु भवत्ययं प्रयोगः--'यो यः सादरे' त्यादि रिति।

यथा युवत्याकारः कामिनः पुरुषस्येति। स्फुटावभासयोग्य इति शेषः। कामिचित्तं भवति काम्यमानाकारम्, तस्मात् काम्यमानयुवत्याकारश्चित्तस्य गुणो भवति, सोऽयं कामिचित्तगुणभूतो युवत्याकारः सादरनिरन्तरदीर्घकालाभ्याससहितः स्फुटीभावयोग्यो भवति (स्फुटावभासो भवति) तथा विवेकिनश्चित्तं विभाव्यमानचतुरार्यसत्याकारं भवतीति सोऽयं चतुरार्यसत्याकारश्चेतोगुणभूतः सादरनिरन्तरदीर्घकालाभ्याससहितः स्फुटावभासयोग्यो भवति, स्फुटावभासे च तदपरोक्षतः सर्वज्ञो भवतीति।

कानि चतुरार्यसत्यानि? दुःखं समुदयो निरोधो मार्गश्चेति। रूपस्कन्धो वेदनास्कन्धः संज्ञास्कन्धः संस्कारस्कन्धो विज्ञानस्कन्ध इति तदेतत् स्कन्धपञ्चकं दुःख मुच्यते। येनास्य स्कन्धपञ्चकस्य समुदयः सोऽयं समुदयः, यो निरोधो दुःखस्य स निरोधः, निरोधस्यास्य यत् द्वारं स मार्ग उच्यते।

हेतोर्दूषणत्रयरहिततामुपपादयंस्तत्राश्रयासिद्धिहेत्वसिद्धिराहित्यमुपपादयति न तावदाश्रयद्वारेणेति।

धर्मिणाम्--आश्रयाणां पक्षतया निर्दिष्टानाम्। ते हि सङ्कल्पपथमारूढा दुःखाद्यार्यचतुष्टयाकाराः प्रत्यात्मं चेतस्तले प्रकाशन्त एवेति नाश्रयासिद्धिः। चेतोगुणमात्रस्येति। मात्रशब्दः कृष्नार्थः। चित्तस्यालम्बनाकारतया आलम्बनमात्रं चित्ताकार एवेति ते चेतोगुणाः प्रत्यात्मं प्रकाशन्त एवेति न हेत्वसिद्धिः। धर्मिणि च सादर निरन्तरदीर्घकालाभ्यासविशिष्टचेतोगुणतायाः संभवेन पक्षधर्मता न नोपपद्यते।

नचैष विरुद्ध इति। कामिन्याकारे--कामिनि चित्ते योग्यं युवत्याकारस्तस्मिन्, कामिन्या युवत्या आकारे कामिनाऽनुध्यायमाने इति वा। विरोधो हि साध्याभावेन चेद्व्याप्तो हेतुः, न चेह तथा, सादरनिरन्तरदीर्घकालाभ्यासविशिष्टा ये ये चेतोगुणा युवत्याकारादयस्ते सर्वेऽपि स्फूटावभासयोग्या एव न तु सर्व ते स्फुटावभासायोग्याः। ननु सादरनिरन्तरदीर्धकालाभ्यासविशिष्टेषु कतिपयचेतोगुणेषु स्फुटावभासयोघ्यत्वदर्शनेऽपि सर्वेषां तथात्वे को नियमः, तस्मादनैकान्तिकोऽयं हेतुरिति शङ्का वारयन्नाह--नचानैकान्तिक इति। न वयं सहचारदर्शनमात्रेण व्याप्तिं ब्रूमः, किन्तु कायकारणभावात् प्रतिबन्धादित्याह--अभ्यासेत्यादिना। कार्यकारणभावो वा कथमेतयोः सिद्ध्यतीत्यत्राह--प्रत्यक्षानुपलम्भत इति। प्रत्यक्षानुपलम्भाभ्यामित्यर्थः। कार्यकारणभावस्त्वन्वयव्यतिरेकसचाराभ्यां सिद्ध्यति, तत्रान्वयसहचारः प्रत्यक्षगम्यः, व्यतिरेकसहचारोऽनुपलम्भगम्यः, इत्थं च सर्वोपसंहारेण प्रत्यक्षानुपलम्भाभ्यां तयोः कार्यकारणभावः सिद्ध्यन्तीति कार्यकारणभावलक्षणात् प्रतिबन्धाध्वयाप्तिसिद्धिरिति भावः। प्रकृते प्रत्यक्सानुपलम्भावुपपादयति--तथाहीति। काम्यन्तर्वर्त्तिनि--कामिचित्तान्तर्वत्तिनि। त्रिविधप्रत्यक्षानुपलम्भसाध्य इति। प्रत्यक्षं अनुपलंभश्चेत्यनयोः समाहारः प्रत्यक्षानुपलम्भं, अनुपलब्धिः स्फुटाभत्वस्येतीयमेकाऽनुपलब्धिः, पस्चादभ्यससंवेदनं स्फुटबससंवेदनं चेति प्रत्यक्षद्वयं, तैरेतैस्त्रिभिः प्रकारर्युक्तः प्रत्यक्षानुपलम्भसमुदायः, तत्साध्यः कार्यकारणभाव इत्यर्थः। इदमत्रावेद्यते--यथा पश्चादभ्याससंवेदनं स्फुटाभसंवेदनं चेति प्रत्यक्षद्वयम् तथा पूर्वमभ्यासविशिष्टचेतोगुणानुपलम्भः स्फुटावभासानुपलम्भश्चेत्यनुपलम्भद्वयं किं न स्यात्, वस्तुतस्तु स्वेतरयावत्कारण्फ़्समवधाने सत्यपि यस्मिन्न सति कार्यानुपलम्भ इत्येकोऽनुपलम्भः, सति तु यस्मिन् कार्योपलम्भ इति प्रत्यक्षमेकम्, इत्थं च प्रत्यक्षानुपलम्भाभ्यां कार्यकारणभावावधारणमिति तु युक्तम्। एवं स्थिते कारणोपलम्भं कार्योपलम्भं च पृथक् गणयित्वा प्रत्यक्षद्वयं चेत् संपाद्येत कारणानुपलम्भं कार्यानुपलम्भं च पृथग्गणयित्वाऽनुपलम्भद्वयाश्रयणेन चातुर्विध्यं किं न स्यात्। अनयैवाशङ्कया पूर्वं 'कार्यहेतोर्धूमादेर्वह्न्यादिना महानसादौ दृष्टान्तधर्मिणि त्रिविधप्रत्यक्षानुपलम्भेन पञ्चविधप्रत्यक्षानुपलम्भतो वे' त्येतद्वाक्यं प्रकारान्तरेणोन्नीतम्। निबन्धकारस्य तु हार्दमिह पश्यतां नः पूर्वव्याख्यानं निबन्धकर्तुर्हार्दं नानुसरतीति।

शङ्कते नन्विति। चतुरार्यसाक्षात्कारित्वसिद्धावपि न सर्वसाक्षात्करित्वं संभवति अथ कथं सर्वज्ञतासिद्धिरिति शङ्कितुराशयः यद्यपि चतुष्वार्यसत्येष्वनन्गर्गतो नैकोऽपि भावः। अथापि सर्वज्ञतां व्यक्तं प्रसाधयन् शङ्कते--अशेषेणेति। साकल्येनेत्यर्थः। सर्वधर्मेति। धर्मशब्दो भावमात्रवचनः, कार्यकारणभावापन्नं यद्बीजाङ्कुरादि यच्च चित्त चैत्तं स धर्म इति परिभाष्यते।

यत्प्रमाणसंवादीति। प्रमाणसंवादिनिश्चितार्थवचनत्वं हेतुः, तदर्थसाक्षात्कारपूर्वकत्वं साध्यम्। साक्षात्कारिज्ञानमिति। साक्षात्कारि यद् ज्ञानमित्यर्थः। साक्षात् पारम्पर्येणवेति। साक्षात्कारपूर्वकत्वं साक्षात् पारम्पर्येण वेत्यर्थः। अग्नेर्दाहकत्वं स्वयं साक्षात्कृत्य प्रोच्यमाने साक्षात्, तथाविधज्ञानपूर्वकत्वं स्वयमननुभूय साक्षात्कर्तुर्वचने प्रामाण्यमनु प्रयुज्यमाने परम्परया, तथा सुगतानुयायिनां 'क्षाणिकः सर्व एव संस्कारा' इत्यस्मिन् वचने च। कार्यहेतुरिति। उक्तवचनस्योक्तसाक्षात्कारकार्यत्वात्।

हेतोरिसिद्ध्यादिदूषणत्रराहित्यमुपपादयति नास्यासिद्धिरित्यादिना। सर्वधर्मक्षणभङ्गप्रसाधनादस्य वचनस्येति। क्षाणभङ्गो हि सर्वधर्माणां स्वभावः तदर्थावबोधकतया चास्य वाक्यस्य प्रमाणसंवादिनिश्चितार्थावबोधत्वरूपहेतोर्नासिद्धिरिति भावः। प्रमाणनिश्चितार्थकत्वस्य हेतुविशेषणस्य प्रयोजनं प्रकाशयन्ननैकान्तिकतां वारयति--वचनमात्रस्य संशयपिपर्यासपूर्वकत्वेऽपीति। प्रमाणनिश्चितार्थस्येति। प्रमाणेन निश्चितोऽर्थो यस्य तस्य वाक्यस्येत्यर्थः। नन्वनयोर्व्यापौ किं प्रमाणम्, तत्राह--प्रत्यक्षानुपलम्भाभ्यामिति। प्रमाणसंवादिवचनं हि स्वार्थसाक्षात्कारकार्यम्, कारणे सति कार्योपलम्भः, असति कारणे कार्यानुपलम्भ इति प्रत्यक्षानुपलम्भाभ्यां कार्यकारणव्योर्व्याप्तिर्निराबाधा गृह्यत एवेति भावः, तत्रापि चेदाशङ्का, कार्यहेतुमात्रोच्छेदप्रसङ्ग इत्याह अन्यथेति।

अत्रायं सर्वज्ञसमर्थनसङ्ग्रहः। प्रकाशितपूर्वश्चास्माभिरन्यत्र--

प्रमाणानां निवृत्त्या तु प्रमेयं न निवर्तते।
अव्यापकनिवृत्त्या स्यान्नाव्याप्यस्य निवर्तनम्।
सा प्रमाणनिवृत्तिश्च क्वचिद् दृष्टा न साधनम्।
सर्वप्रमातृसन्दोहे तद्दृष्टिस्तु मुदुर्ग्रहा।
सर्वज्ञे बाधकं नापि प्रमाणमुपलभ्यते।
ये नाम बोधिसत्त्वाः स्युः प्रकृत्यैव कृपामयाः।
अशेषधर्मनैरात्म्यभावनाभ्यासपाटवात्।
व्यपेतसर्वावरणा रागादिमलवर्जिताः।
प्रज्ञाप्रकर्षयोगेन सार्वज्ञ्यं समुपागताः।
कृपाप्रकषयोगेन सर्वसत्त्वोद्दिद्ःइर्षया।
आसंसारं वर्तमानाः स्वच्छस्पटिकनिर्मलाः।
दोषवातैरप्रकम्प्यास्ते बुद्धा जगतो हिताः॥ इति

भवप्ररम्परासिद्धये तु किं प्रमाणमिति। किं शब्दः प्रतिक्षेपे--प्रमाण नास्तीत्यर्थः लोकायत तानुयायिनः सेयमाशङ्का। अन्येस्तदप्रतिक्षेपात्। अयमभिप्रायः--अस्तु नाम ये स्थिरमात्मानमभ्युपच्छन्ति तेषां कथमपि पुनर्भवप्रत्याशा। सर्वस्य क्षणिकतां वदतः कथं पुनर्भवकथा घटेतेति। प्रतिविधत्ते--उच्यते इत्यादिना। क्षणभङ्गवादिभिरस्माभिरप्यहंप्रत्ययास्पदभूता विज्ञानधारा प्रतिसत्त्वं भिन्नाऽनुवर्तत एव भवे भव इत्यभ्युपगतं नाम, पूर्वपूर्वचित्तस्यैव स्वभाव उत्तरोत्तरं चित्तं जनयतीति, तस्मात् मरणकालभाविचित्तस्यापि चित्तान्तरोत्पादकत्वमस्त्येव। अत्रायं प्रयोतो भवतीत्याशयेनाह--यच्चित्तं तच्चित्तान्तरं प्रतिसन्धत्ते इति। उत्पादयतीत्येतत्। अयं चोत्पाद्योत्पादकभाव एकसन्तानान्वयिनोरेव पूर्वापरचित्तयोः। मरणकालभावि चित्तं पक्षः, चित्तान्तरोत्पादकत्वं साध्यं चित्तत्वः हेतुः। इदानीन्तनचित्तं दृष्टान्तः।

न चार्हच्चरमचित्तेन व्यभिचार इति। अर्हतामपगतरागादीनां चरमं चित्तं चित्तान्तरं नोत्पादयतीति सौगतेरपीष्यत इति तस्मिंश्चित्ते व्यभिचार इति भावः।

इमामनैकान्तिकाशङ्कां परिहरति--तस्यागममात्रप्रतीतत्वादिति। अयमाशयः--परकीयागमैकसिद्धेनार्हच्चरमचित्तेनांनैकान्तिकाशङ्का परागमस्याप्रामाण्यं वदता नोद्भाव्या, परमताभुपगमेन चेदभ्युपगम्यतां तथैव पुनर्भवोऽपीति। निष्क्लेशचित्तान्तरजननाद्वेति। अयमाशयः--न सौगतानां सर्वेषामभिमतमेतत् अर्हतो भवति चरमं चित्तं, यच्चिन्तान्तरं नोत्पादयतेति, केचित् कथयन्ति नामैवम्। वस्तुतस्तेषामपि वीतरागाणां व्यपेतसकलाविद्यामूलाणां क्लेशादिमलैरनालिप्ता विमला चित्तसन्ततिरनुवर्तत एवेति नानैकान्तिकप्रलङ्ग इति। उक्तं च शान्तरक्षितेन--

क्षीणास्रवस्य विज्ञानमसन्धानं कुतो भवेत्।
परकीयकृतान्ताच्चेन्न, प्रामाण्यापरिग्रहत्॥
ये चेह सुधियः केचिदप्रतिष्ठितनिर्वृतीन्।
जिनां स्तद्याननिष्टत्वं यानयोश्च प्रचक्षते॥
तान् प्रत्ययमसिद्धश्च साध्यधर्मसमन्वितः।
दृष्टान्तः प्रतिवादीष्टसिद्धान्ताश्रयणेऽपि ते॥
इति (तत्त्वसं. ५३८-५३९)

कमलशीलेन चेत्थं व्याख्यातम्--'कुतः प्रसिद्धमर्हतां न चित्तान्तरं प्रतिसन्धत्ते मरणचित्तमिति, अथाऽपि स्यात् परकीये बौद्धसिद्धान्ते पठ्यते क्षीणा मे जातिरुषितं ब्रह्मचर्यं कृतं करणीयं नापरमस्मात् भवं प्रजानामीति, अतः सिद्धमसाधनमिति, तदेतदयुक्तं' परकीयस्य सिद्धान्तस्य प्रामाण्येनापरिग्रहात्, कथं तथाऽप्रामाण्येन परिगृहीतान्निश्चयः, परलोकस्यापि निश्चयप्रसङ्गात्। x x x x परसिद्धान्ताश्रयणेनापि कांश्चिद् बौद्धान् प्रति साध्यधर्मसमन्वितो न सिद्धो दृष्टान्त इति दर्शयन्नाह--येचेह सुधिय इती'ति (तत्त्वसं. पञ्चि. ५३८-५३९)

तुष्यत्वितिनायेनाह--हेतोर्वा क्लेशे सतीति विशेषणापेक्षणादिति। रागादिमलकलुषितचित्तत्वस्य हेतुतेत्यर्थः। अर्हन्मरणचित्तं तु न तथाविधमिति नानैकान्तिकतेति भावः। तथाचोक्तं शान्तरक्षितेन--

मरणक्षणविज्ञानं स्वोपादेयोदयक्षमम्।
रागिणो हीनसङ्गत्वात्पूर्वविज्ञानवत्तथा॥
इति (तत्त्वसं. ५३५)

व्याख्यातं चैतत् 'यत्सरागं चित्तं तत्स्वोपादेयचित्तान्तरोदयसमर्थम्, सरागत्वात्पूर्मचित्तवत् सरागं चेदं मरणचित्त'मिति।

मरणकालभाविचित्तस्य चित्तान्तरोत्पादत्वं प्रसाध्य जन्मकालभाविनश्चित्तस्य स्वोदयहेतुभूतचित्तपूर्वकत्वं प्रसाधयन्नाह--इहेत्यादिना पूर्वोत्तरभवद्वयसमर्थनेन अनेकभवान्वयो दृढीकृतो भवति। भाविभवसाद्खलोहेतुः स्वभावहेतुः, भूतभवसाधकस्त्वयं कार्यंहेतुरित्याइ--कार्यहेतुरिति।

ननु प्रतिसत्त्वं विज्ञानधारा प्रवहति साचानेकभवानुवर्तिनी, सर्वज्ञाश्च बहवो बुद्धाः इत्यादिभेदवर्णनं कथं घटते, शून्यमेव तु तत्त्वमिष्टम्, शून्यतादृष्टिरेव तु मुक्तिरिति च तात्त्विकी स्थितिरित्याशयेन शङ्कते--ननुचेति। शङ्कातन्निरसनमुखेन वैभाषिकादिमतभेदमवतारयति नाम। सत्त्वान्--लोकान्। सर्वं एवाविद्यावशात् स्थिरविविधभाववासनाकलुषितचेतसः सपदि श्रेयःपथे नावतारयितुं शक्यन्ते, तानेतानद्वये नैःश्रयसपथेऽवतारयता भगवता करुणार्द्रचित्तेन भूतार्थतयेदमुक्तमिति। अयमाशयः--अविद्ययाऽऽवेष्टितान् दृष्तमात्रेषु अविचार्य तत्तत्त्वमिदमिदमिति धावतोऽनर्थं निपततो लोकान् शून्यतादृष्टौ सपद्यावतारयितुमशक्यतया यदिदंदृश्यते तदेतत् स्कन्धायतनादि, सर्वं क्षणिकं न स्थिरमेकमिति क्षणिकत्वोपदेशः प्रथमतः प्रवृत्तो भगवनः, ततश्च तान् ज्ञानज्ञेयभेदवासनाकलुष्पितान् ततोऽवतारयितुं विज्ञानमात्रोपदेशः, ततो विज्ञानाद्वैततदृष्टेरवतार्य शून्यतादृष्टौ नैःश्रेयसैकान्तायां लोकान्वर्तयितुं सर्वं शून्यमिति सर्वंशून्यतोपदेशः। तदेवं सांवृतासांवृतभेदमाश्रित्य क्षणिकं क्षणिकं विज्ञानं विज्ञानं शून्यं शून्यमितिचोपदेशभेदः प्रवृत्त इति। तथाचोक्तम्--लोकावतरणार्थं च भावा नाथेन देशिताः। इति।

विनेयजनावतरणाय प्रवृत्तमुपदेशभेदमवलभ्य सौगतेषु मतभेदः प्रवृत्तः स च वैभाषिकादिभेदाद्भिन्नः। तान् भेदान्निरूपन्नाह--तथाहीत्यादिना। आकाशं द्वौ निरोधौ चेति। दिविधं वस्तु--संस्कृतमसंस्कृतं च, तत्रासंस्कृतमाकाशं द्वौ च निरोधौ--प्रतिसङ्ख्यनिरोधोऽप्रिसङ्ख्यानिरोधश्चेति। संस्क्रितं सर्वं तु क्षणिकमिति भावः।

अथ सौत्रान्तिकानां मतमाह--सौत्रान्तिकानां मतमिति। न बाह्योऽर्थ इति। नीलादिर्बाह्योऽर्थो न प्रतिभाति, अस्ति तु बाह्योऽर्थः, स च न दृग्गोचरः, यदिदं नीलमितिभासते, सङ्क्रान्तबाह्याकारं ज्ञानमेव तु तदिति भावः। ज्ञानानुमेयबाह्यार्थवादिन एते। स्वाकारबुद्धिजनका इति। दृश्याः--दृश्यतयाऽभिमाताः--बाह्या इत्येतत। नीलादयो बाह्यार्थः स्वाकारं बुद्धौ समर्प्य स्वयं नज्यन्ति, प्रकाशते तु ज्ञानमेव, जडस्य प्रकाशायोगादिति। यदि संवेद्यत इति। नीलादि यदि संवेद्यते--वित्तौ प्रकाशते, तर्हि प्रकाशस्वभावतया तदपि चित्तवदाभ्यन्तरमेवेति कथं तद् बाह्यमुच्यते। अयमर्थः -- नीलमिति यत्प्रकाशते तक्तिमिति वक्तव्यम्। चक्षुःपथे यन्निपतितं तस्य च चित्तस्य च कः संबन्धः यच्चित्तेन गृह्येत, वस्तुनि नयनपथमुपगतमात्रे भवति नीलमित्यवभासः, स च चित्तस्यैव प्रकाशः, अतो गम्यते नीलाकारावभासश्चित्तस्यैवेति। न चेत् संवेद्यते--यदा च न संवेद्यते, नयनपथसंनिकृष्टमनु जायमानेन न विषयी क्रियते, अथ कथं तस्य बाह्यताबहिरिन्द्रिय जन्यप्रत्यक्षगोचरता। तथा च बाह्यानामप्रत्यक्षत्वं सिद्धमिति।

यदि बाह्योऽर्थः प्रत्यक्षप्रमाणेन न गृह्यते तर्हि तस्मिन् प्रमाणाभावाद् विज्ञानमात्रमेव वस्त्वितीष्यताम्, इत्याशयेन शङ्कते--ननु यदीति। परिहरति--व्यतिरेकत इति। ज्ञानादर्थस्य नीलादेर्व्यतिरेकात्। व्यतिरेके कारणमाह--नहीत्यादिना। नचैतदिति। एतत् -- उत्तरोत्तरचित्ते पूर्वपूर्वचित्ततो निरन्तरमनुवर्तमानेऽपि क्वचिदेव देशे क्वचिदेव समये नीलावभासो नान्यदा नान्यत्रेत्येतत्। स्वोपादानपूर्वपूर्वचित्तबलमात्रभावित्ये न युज्यते। समनन्तरप्रत्ययव्यतिरिक्तमिति। समनन्तरपूर्वप्रत्ययव्यतिरिक्तमित्यर्थः।

एवं वैभाषिकसौत्रान्तिकाभित्तं बाह्यास्तित्वपक्षं निरूप्य, अथ योगाचारमतं विज्ञानमात्रास्तित्वपक्षं निरूपयन् बाह्यस्तित्ववादं विकल्प्य दूषयति--कः पुनरसां बाह्योऽर्थं इति।

किमवयवी, किं वा परैद्रव्याश्रित्वेनाभिमता गुणादयः, किं वा नवविधं द्रव्यं किं वा परमाणव इति विकल्पार्थः। यद्यप्यवयव्यादिविभागो वैभाषिकसौत्रान्तिकाम्यां नाद्रियते अथापि विज्ञानमात्रस्तित्ववादना बाह्यार्थमात्रस्य निरसनीयतया तेषामप्युपादानम्। अन्ते परमाणूनां निवेशः अवयविनिरसनपूर्वकं परमाणुमात्राभ्युपगमं वैभाषिकसौत्रान्तिकयोर्विशेषमभिप्रेत्य। प्रथमं निर्दिष्टोऽप्यवयवी अत एवान्ते निरस्यते, तन्निरसनसमन्तरं परमाणुवादे समवतरणं समुचितमिति।

तत्र न तावद्गुणादय इति। आदिशब्दात् क्रियादेः परिग्रहः द्रवनिषेधनव तेषां निषिद्धत्वादिति। कथं द्रव्यनिषेधेनैव तन्निषेधः आह--न चासति समवायिनि द्रव्ये इति। अतएव सत्यापि दूषणान्तरे तन्नादृतमत्रास्माभिरित्याह--दूषणमपि नाद्रीयत इति। पृथग् दूषणं सदपि नाद्रीयते इत्यर्थः। द्रव्यस्य कथं निषेधस्तत्राह--द्रव्यं चेत्यादिना।

तत्रात्मनिषेधायदमपि साधनमिति पूर्वमेवात्मनिरसनं कृतम्, इदमपि तन्निरसनसाधनमित्यपिशब्देन गम्यते। यत् कादाचिक ज्ञानमिति। इदं च व्याप्तिनिदर्शकमुदाहरणवाक्यम्। कादाचित्कज्ञानत्वं हेतुः, कादाचित्ककारणपूर्वकत्वं साध्यम्, व्याप्तावुदाहरणं सौदामिनीज्ञानवदिति। कादाचित्कं चेदमहङ्कारज्ञानमिति पक्षधर्मतोपपादक मुपनयवाक्यम्। अनेनाहंग्रहहेतुभूतस्याहमर्थस्य कादाचित्कत्वसिद्ध्या आत्मा नित्योऽस्तीत्येतन्निरस्तं भवतीति भावः। असिद्ध्यादिदोषत्रयरहिततां हेतोर्निरूपयति--नायमसिद्ध इत्यादिना। अहङ्कारे धर्मिणीति। अहङ्कारे--अहंग्रहे धर्मिणि--पक्षे। हेतोर्विशेष्यांशासिद्धिं वारियित्वा विशेषणांशासिद्धिं वारयति--नापि कादाचित्केति। सपक्षे--सौदामिनीज्ञाने। प्रत्यक्षानुपलम्भाभ्यां व्याप्तिसिद्धेरिति। सौदामिनी क्षणमाविर्भूय तिंरोभवति तामनु तद्ज्ञानमपीति प्रत्यक्षम्। सौदामिन्याः प्राक् पश्चाच्च न तज्ज्ञानोपलम्भ इत्यनुपलम्भः।

कादाचित्कज्ञानस्यचाकादचित्ककारणादुत्पत्तावित्यादि। कादाचित्कस्यापि ज्ञानस्य स्यादकादाचित्कोऽप्यर्थः कारणम्, इति चेत्, तथासति कदाऽपि कादाचित्कादर्थान्न स्यात्, कारणस्याकादाचिकत्वाभ्युपगमात्। ननु अकादचित्कादपि स्यात् कादाचित्कादपीति चेत् तर्हि अनियतकारणतापत्तेंरहेतुकतैवापतदिति भावः।

तथाऽप्यनैकान्तिकत्व इति। सौदामिन्यां तद्ज्ञाने च प्रत्यक्षानुपलम्भाभ्यां साध्यहेत्वोः साहचर्यनियमे सत्यप्यन्यत्रानैकान्तिकतैवेत्याशयः। प्रसिद्धधूमाढिरपीति। महानसादौ वह्निधूमयोः साहचर्यनियमे सत्यपि, अन्यत्र विनैव वह्निं धूमः किं न स्वादित्यनैकान्तिकताशङ्का तत्रापि प्रसजेदिति भावः।

अपिचेत्यादि। कारणममर्थोऽकाचित्कः, कार्यस्त्वहंग्रहः कादाचित्क इत्येतन्नोपपद्यते, कारणस्य कार्यजनसमर्थरय नित्यात्वेन सर्वदैवाहंग्रहोऽप्युत्पद्येति। कारणस्य कुवद्रपत्वात्--कार्यनिष्पादनसामर्थ्येन कारणं कार्यरुपं कुर्वदेव स्यात्, अकरोत्कार्यं करिष्यतीति वेति नैवेति भावः। कार्यमकुर्वतोऽपि तिष्ठतस्तु कारणत्वमौपचारिकमेवापतेत्। एकमेव कुर्वदपि भवेत्, अकुर्वदपि भवेदिति व्याहतं, तयोर्भेदनियमात् अभेदे तु स्वभावैक्येन कुर्वतोऽप्यकुर्वतोऽपि स्यादेव कार्योत्पत्तिरितिं भावः।

किञ्चाहङ्कारस्येति। अकादाचित्कस्यैवात्मनः कादाचित्काहंग्रहोत्पादकत्वे एकेन तेन क्रमाद्यावन्तोऽहंग्रहा उत्पाद्यन्ते ते सर्वे युगपदुत्पद्येरन्। करणस्य जागरूकत्वात् न च सामग्रीवैकल्यम्। सामर्थ्ये कथं सामग्रीवैकल्यम्, कारणान्तरसापेक्षेत्वे तु नैव सामर्थ्यमिति भावः। नन्वात्माहंग्रहहस्यालम्बनमात्रम्, अन्यदेव तु कारणमित्याशङ्कामनूद्य निरस्यति--नन्वहंकारस्येत्यादिना। कारणतातोनातिरिच्यते आलंबनतेति भावः।

एवं पराभिमत आत्मा निरस्तः। अथाकाशं निरस्यति--अथ किमाकाशमित्यादिना। अयमाशयः--सौगतैकदेशिनो वैभाषिका आकाशं वस्त्विति मन्यते, वस्तु वा तदवस्तु वेति विचारयन्तो वयमवस्त्वेवेति ब्रूमः--वस्तुना ह्यर्थक्रियासमर्थेन भाव्यम्, अन्यथात्ववस्त्वेव तत्, नचाकाशेन भवति काऽप्यर्थक्रिया। ननु--अवकाशप्रदानलक्षणार्थक्रियासामर्थ्यमस्ति तस्येति चेन्न। यत्र सप्रतिघं वस्तु घटपटाद्यस्ति, तत्र सदप्याकाशं नावकाशाधाने प्रभवति, अथ तेषु सप्रतिघेष्वसत्सु तेषामभावादेवावकाशः सिद्ध इति किमाकाशेन, सप्रतिघवस्तुविरहान्नचातिरिच्यते कश्चिदवकाश इति। तदेकं बिभुनित्यमाकाशमित्यनुपपन्नम्। घटादिवदपसरणोपसरण्भ्युपगमे परिच्छेदापत्तिः। सप्रतिघवस्तुसंनिधानासन्निधानाभ्यां नाशोत्पादाभ्युपगमे तु नित्यैकता व्याहन्येतेति।

अथ वैशेषिकभिमताकाशसमर्थनप्रकारं निरस्यति--परैस्त्वित्यादिना। समानदशत्वात् सर्वशब्दानामिति। नित्यमेकं विभुमाकाशमिच्छतां शब्दस्य तदाश्रयतां च स्वीकुर्वतां जायमानस्य सर्वस्य शब्दस्याकाश एव देश इति अस्य शब्दस्यायं देशः तस्य तु स देश इति देशविभागस्य वक्तुमशक्यतया देशविभागेन शब्दश्रवणं नोपपद्येत, यः श्रोत्राकाश उच्यते स चाकाशान्नतिरिच्यते इति नायं श्रोत्राकाशस्य संनिहितः शब्दः अयमेव तु सन्निहित इत्याश्रयाकाशे प्रदेशभेदकल्पनस्यानुपपन्नत्वात् सर्व एव शब्दाः श्रूयेरन्, यदि व्यवहितो न श्रूयेत, तर्हि तदन्यः सन्निहितों य उच्यते सोऽपि न श्रूयेत, देशभेदस्य दुर्वचत्वात्। यदि श्रूयेरन् सर्वं एव श्रूयेरन् न चेन्नैको।पीति भावः। तदिदं दूषणं शब्दस्य क्रमोत्पत्त्यनुपपत्तेंरप्युपलक्षकम्।

उक्तं च कमलशीलेन --'यदि हि नित्यैकनभोद्रव्यसमवेता अमी स्युः, तदा सकृदुत्पन्नानेकशब्दवत् अतत्काला अपि शब्दा अभिमतकाल एव स्युः। अविकलकारणत्वात्, एकाश्रयत्वाच्च। न च नित्यस्य परापेक्षाऽती'ति।(तत्वसं. पं. प. २०८)

दिक्कालयोश्चकत्वादिति। दिश एकत्वाभ्युपगमात् कालस्य चैकत्वाभ्युपगमादित्यर्थः। नित्यत्वविभुत्वाभ्युपगमस्योपलक्षकम्। एतेनेति। आकाशकालदिशां निरसनेनैवेत्यर्थः। निरसनयुक्तेरेकप्रकारत्वादिति यावत्। या तु मनःसाधने परैर्युक्तिर्निरूपिता तामनुद्य निरस्यति--युगपद्ज्ञानानुत्पत्त्येत्यादिना। अयमाशयः -- यदि मनो नेष्येत ज्ञानां चाक्षुषादीनां यौगपद्यमापद्येत। आत्मनो विभोश्चक्षुरादीन्द्रियैः सह सदैव संभवात् करतलसन्निहितस्य कुसुमादेश्चक्षुःस्पार्शनादीन्द्रियसंप्रयोगस्य युगपत् संभवात्। मनसि चेन्द्रियेऽभ्युपगम्यमानेऽणोस्तस्य युगपदनेकेन्द्रियसंयोगस्यासंभवाद् इन्द्रियमनःसंयोगस्यापि प्रत्यक्षे हेतुतया न ज्ञानानां यौगपद्यप्रसङ्ग इति वैशेषिका मन्यन्ते। अत्रोच्यतेह -- ज्ञानानां यौगपद्यं नेत्येतल्लोकानुभवविरुद्धम्। नर्तकीं पश्यन्तो हि तस्या रूपं गानं च युगपदेव साक्षात्कुर्वन्तः कमप्यह्लादमनुभवन्ति, मनश्वेदणु किमपीन्द्रियमिष्येत, लोकानुभवसिद्धस्य ज्ञानयौगपद्यस्य व्यावतिरेव स्यात्तन्नास्त्येव पराभिमतं मनः, इति मनो न ज्ञानादन्यत्। चित्तं गनो ज्ञानमित्यनर्थान्तरमित्यसकृदुक्तम्

किञ्च--

ज्ञानानां यौगपद्येऽपि लोकसिद्धे द्विषन्नयम्।
प्रकल्पयन्मनो नित्यमिष्टहानिं न पश्यति॥
कारणस्य तु नित्यत्वे कार्ये क्रमिकता कथम्।
नान्यापेक्षा समर्थस्य नासमर्थस्य हेतुता।
अयौगपद्यं ज्ञानानां नैव सिद्ध्येदभीप्सितम्।

उक्तं च शान्तरक्षितेन --

'नित्ये तु मनसि प्राप्ताः प्रत्यया यौगपद्यतः।
तेन हेरुरिह प्रोक्तो भवतीष्टविघातकृत्'॥
इति (तत्त्व. २०९)

पृथिव्यादयोऽवशिष्यन्त इति। निरसनीया इति यावत्। अवयविपरमाणुभेदेन द्विविधा इति। द्व्यणुकादयोऽवविनः, तदारम्भकाश्च परमाणवः। अनुपलम्भो बाधक इति। अवयवेभ्योऽतिरिक्तस्यावयविनःपटादेरनुपलम्भस्तदङ्गीकारे बाधकं प्रमाणम्। यदि स्यादुपलभ्येत नोपलभ्यतेतु पटो नाम कश्चित्तंत्तुभ्योन्यः, तथा कपालाभ्यं भिन्नो घटः; एवं तन्तुकपालादयो।पीति भावः। अत्रायं प्रयोगः--यदुपलब्धिलक्षणप्राप्तं सद्यत्र नोपलभ्यते न तत्तत्रास्ति, यथा क्वचित्प्रदेशविशेषे घटदिरनुपलभ्यमानः, नोपलभ्यतेचावयवेभ्योऽर्थान्तरभूतस्तत्रैव देशे, उपलब्धिलक्षणप्राप्तश्चाभिमतोऽवयवी'ति।

ननूपलभ्यते घटोऽयमेक इतित्याशङ्कते--यद्यवयवी नास्तीति। एकत्वेनेति एकत्वं हि भासमानमवयविनमतिरिक्तमेव गमयति। अन्यथाऽणुषु प्रतीयमानेषु तदनन्वयात्। आप्तवचनोपन्यासमुखेन शङ्कां परिहरति--भागा एव हीति। यश्चायमतिरिक्तावयविवादिनां व्यवहारः--अयमवयवी पटः, अस्य भागा अंशा इमे तन्तवः, तैश्चायं भागवानिति, नदनुरोधेन निर्देशो भागा इति। भागा एव भासन्ते चाक्षुषे, न तु तेभ्योऽन्यों भागवान्--भागैरारब्धः, स्यवं निर्भागः--अखण्डः कश्चितू प्रतीयते इत्यर्थः।

भागा एव हि भासन्त इत्येतत् प्रश्नप्रतिवचनमुखेन व्याचष्टे ननु कोऽयमित्यदिना। सञ्चितपरमाणुप्रतिभासवेति। पुञ्जीभूतपरमाणुप्रतिभास एवेत्यर्थः। नानादिग्देशावष्टम्भेन बहवः परमाणवः एकस्मिन् स्थले पूर्वपश्चिमदक्षिणोत्तरोर्ध्वाधोलक्षणनानादिग्देशावष्टम्भेन स्थिताः पुंजीभूता उच्यन्ते

शङ्कते--यद्येवमिति। वचनस्य हार्दमजानतः शङ्केयम्। अज्ञानमेवोपपादयति--अर्थस्य स्वरूपेण नास्ति वेदनमित्यादिना। अर्थस्य--स्थूलादेः स्वरूपेण--अर्थात्मना नास्ति वेदनम्, किन्तु वित्तिरेवार्थात्मना भासते इति। तत्र वचनमाह--भाक्तं स्यादर्थवेदनमिति। अर्थस्य वेदनमित्येतद्भाक्तं स्यादिति भावः। स्थूलप्रतिभासस्यान्यथासिद्धिमाह--तस्मादिति। स्थूलावभासो भ्रम इत्युक्तं भवति। एवमेव तु भदन्तशुभगुप्तो मन्यते, अनूद्यते च शान्तरक्षितेन--

'तुल्यापरक्षणोत्पादादयथा नित्यत्वविभ्रमः।
अविच्छिन्नसजातीयग्रहे चेत्स्थूलविभ्रमः।'
इति (तत्त्व. ५५२)

ननु--अवयविनोऽनभ्युपगमे स्थूलोऽयं नीलोऽयमिति चाक्षुषं कथमुपपद्यते, तत्राह--येऽपि तदारम्भकाः परमाणो वैशेषिकाणामिति। तदारम्भकत्वेन वैशेषिकैरभिमता इत्यर्थः। साक्सादक्षिगोचरा वैभाषिकाणां दर्शन इति। बाह्यार्थमात्रनिरसने प्रवृत्तानां परंआणूनां दृश्यत्वसमर्थनं साक्षान्नात्यन्तमपेक्षितम्। अवयविसमर्थनाय प्रवृत्तं प्रति प्रतिवक्तव्ये सयूथ्यानां मतेनेदमुच्यते इति भावः। वैभाषिकेभ्यः सौत्रान्तिकानां विशेषमाह स्वाकारसमर्पणेति। अथ बाह्यार्थान्निरस्यन्नाह--तेऽपि योगाचाराणां मते न सन्तीति। न खल्वेक इति। अयमाशयः -- प्रत्येकं भिन्नभिन्नाः परमाणवोऽसङ्ख्याताः पुञ्जात्मना।वस्थिता दृश्यन्ते, प्रत्येकं स्वातन्त्र्येण नैषां कदाचिदपि स्थितिः, संहता एवोत्पद्यन्ते संहता एव नश्यन्ति, अतएव पुञ्जावस्थायां दृश्यमानानां प्रत्येकमवस्थितौ कुतोऽदृश्यतेति शङ्काया नावकाशः। तथाचोक्तं--

प्रत्येकपरमाणूनां स्वातन्त्र्ये नास्ति संभवः।
अतोऽपि परमाणूनामैकैकाप्रतिभासनम्॥
इति (तत्त्व सं. पं. प. ५५१)

इति बाह्यास्तित्ववादिनो मन्यन्ते। अत्रेदं विमृश्यते--समुदिता एव जायन्तां समुदिता एव नश्यन्तु, परमत्रैवं खलु वक्तव्यम्, अयमेकः परमाणुरयमेकोऽयमेकः समुदिताश्चैते इति। तत्रेदं पृच्चामः--अयमेकः परमाणुरिति कथं सिद्धयेत्, सोऽपि विचार्यमाणो नैको भवितुमर्हति, कस्मात् ? उच्यते--यो हि परमाणुः परमाणुमध्यमध्यास्ते स चतुर्षु पार्श्वेषु अधरोत्तरं च परमाणुभिः ससृष्ट इति दिग्भागभेदेन षडंशतापत्त्या नैकतापत्तिरनतिलङ्घनीयैव। स हि मध्यगतः परमाणुः पार्श्वे परमाणौ येन स्वभावेन संसृजते, न तेन स्वभावेन ऊर्ध्वाधःपरमाणुना संसृज्यते, येन स्वभावेन ऊर्धाधःपरमणुभ्यां संयुज्यते न तेन पार्श्वपरमाणौ। यदि विना स्वभावभेदं संसृज्येत, दिग्भेदकृतभेदस्य दुर्निरूपतया एकदेशतापत्तेः प्रचयो न सिद्धयेत्। तथाच मध्यावस्थितपरमाणुमात्रं पिण्डः स्यात्। परमाणूनां मिथः संयोगोपपादनक्लेशादाभिमुख्यमात्रं चेत् मध्यस्थपरमाणुनामिष्येत, तदाऽप्यस्माद्दोषादनिर्मोक्षा ए वेति।

प्रकारान्तरेण दूषयन्नाह--अथ चायं विचार इति। नाप्यनेकः परमाणुरिति। अयमाशयः -- ननु नैकस्वभावोऽयमणुः, अतो नैक इत्येव ब्रूमः न परमाणुरथाप्यनेक इति त्र्याह तम्। कस्मात् ?, परमाणोः--परमाणुतयाऽभिमतस्यानैः सह परमाणुभिः परमाणुशः--अत्यन्ताणुशः सयोगस्यासंभवात्। परमाणुतयाऽभिमतस्य कथं ततोऽप्यणुशः संयोगः स्यात्। संयोगश्च संयुज्यतामंशत एव भवति, तस्माद्यद्यसौ सांशः कथं परमाणुरुच्यते। अथ चेन्निरंशः संयुज्यते इत्युत्युच्येत सर्वतः संयोगात् परस्परमभिन्नदेशतया पिण्डः परमाणूमात्र एव स्यात्। पर्वतः क्षितिमात्रश्च स्यादिति।

तयोरिति। पिण्डपरमाण्वोरित्यर्थः। स्वभावानामिति। परमाणुस्वभावानामित्यर्थः। स्वोक्तदूषने आप्तवचनं संवादयति--षट्केन युगपद्योगादिति। व्याख्यातप्रायमेतत्।

आह चेदं शान्तरक्षितः --

संयुक्तं दूरदेशस्थं नैरन्तर्यव्यवस्थितम्।
एकाण्वभिमुखं रूपं यदक्ष्णोर्मध्यवर्तिनः॥
अण्वन्तराभिमुख्येन तदेव यदि कल्प्यते॥
प्रचयो भूधरादीनामेवं सति न युज्यते।
अण्वन्तराभिमुख्येन रूपं चेदन्यदिष्यते।
कथं नांअ भवेदेकः परमाणुस्तथासति।
इति (तत्व. ५५५)

ननु कथमसत्यालम्बने नीलपीताद्यवभासः। कथमसत्यर्थे स्वाप्नावभासः। ननु वासनया। तयैवात्रापि। ननु स्प्नेऽर्थदौर्घट्यम्। इहापि तत्समानम्। अविचारयतां त्वर्थसौलभ्यम्। विचारयतां तु दौर्घट्यमेव। दौर्घट्यं च निरूपितमित्याशयेनाह -- यदि बाह्योऽर्थ इत्यादिना।

ननु--हन्त स्वाप्नजागरयोरविशेषप्रसङ्गः, को विशेषमाचष्टे, दोषे स्यान्नाम विशेषः3, स्वाप्नादविशिष्टमेव तु जाग्रज्ज्ञानमपि। भवति चात्र प्रयोग इत्याशयेनाह -- न च स्वाप्नजाग्रदनुभवयोरित्यादिना अनालम्बनादनवाप्तरूपविशेषमिति। अनालम्बनतयाऽनवाप्तरूपविशेषमित्यर्थः। यथैकस्मादाकाशकेशदर्शनादिति। चाक्षुषदोषवशात् दृश्यते नभसि केश इव भ्रमन्, तदिदमाकाशकेशदर्शनम्। न चाकाशं वस्तु, न वा तत्र केशः, तत् बाह्यालम्बननिरपेक्षः कोऽप्ययं विज्ञानविलास एवाभासः। विशेषश्चायमन्यतो भ्रमादनपोह्योऽन्यैरपि। अतएवेदमुदाहरणमादृतम्। द्वितीयमिति। यन्नभसि केशदर्शनं तस्मादन्यत् द्वितीयम्।

ननु--असति बाह्येऽर्थे किं तर्हि सत् भवतः, विज्ञानमात्रं तु परमार्थसत्, इत्याह--यदीत्यादिना। अत्र प्राचां संवादमाह--यथोक्तमित्यादिना। ग्राह्यग्राहकनिर्मुक्तम्--ग्रह्यग्राहकभावनिर्मुक्तम्।

नन्वसति ग्राह्यग्राहकभावे, ज्ञानं केन प्रकाश्येत ? स्वेनैव प्रकाशते। अतो नास्य ग्राह्यभावोऽपीत्याह--नान्योऽनुभाव्यो बुद्धयाऽस्तीत्यादि।

अत्रायं सङ्ग्रहः--निरूपितश्चास्माभिरन्यत्र--

'सेयं विज्ञानधारा गगनतलगतालोकवत् स्वप्रकाशा
नानाकारावभासा स्फुरति बहुविधा स्वाप्नवद्वासनातः।
ग्राह्यत्वग्राहत्वद्वयरहिततया ज्ञ्यप्तिमात्राऽद्वितीया
सूते सैवेयमैका व्यवहृतिमखिलां स्वान्यबाह्यानपेक्षा॥
गृह्णाति ज्ञानमर्थानिति जगति मतो ग्राहकत्वस्वभावः
संवृत्त्यैव प्रवृत्तो नतु विषयितया वस्तुतस्तेन शून्यम्।
नाप्यात्मग्राहकं तत् परमजाडतया स्वप्रकाशैकरूपं
तच्चाविच्छिन्नधारं प्रवहति सततं सत्त्वभेदानन्तम्' इति।

विजानानमात्रवादिषु केचन विज्ञानमेव वासनावैचित्र्येण नीलपीतादिविविधाकारं भूत्वा भासते इति, अपरे तु वस्तुतो निराकारमेव तु तत्, अविद्यया नीलपीतादिदिविविधाकारमिव भासते, तद्वासनावशादवभासमानोऽपि नीलापीताद्याकारः सांवृत एवेति। पक्षद्वयेऽप्यस्मिन् ग्राह्यग्राहकभावराहित्यं विज्ञानस्य संप्रतिपन्नमेवेति विज्ञानस्वभावपर्यालोचनया बाह्यार्थग्राहकता विज्ञानस्येत्येतद्दरोत्सारितमित्याह--तत्र केचिदित्यादिना।

अथ माध्यमिकानां मतमाह--माध्यमिकानां त्वित्यादिना। न चास्य विचारतः कश्चित् स्वभावो घटते एको वाऽनेको वेति। विज्ञानमात्रवादीना परमाणौ बाह्यतया परैरभिमते किमयमेकस्वभावः--उत नैकस्वभावः (एकरूप उत नैकरूपः) इति उभयत्राप्यनुपपत्तिरुक्ता सेयमनुपपत्तिर्विज्ञानमात्रवादेऽपि तुल्यैवेत्याशयः। तदिदमुपपादयिष्यति। प्रथमं विज्ञानस्याप्यवास्तवत्त्वे आप्तवचनानि संवादयति -- यथोक्तमित्यादिना।

एकानेकस्वभावेनेति। वस्तुना ह्येकस्वभावेन अनेकस्वभावेन वा भाव्यम्, अतथाभूतस्य तु व्योमारविन्दवदसत्त्वतैवेति भावः। भावा येन निरूप्यन्ते इति भावाः--बाह्या आभ्यन्तरश्च।

यदा त्विति। विकल्पस्य--सविकल्पस्य निश्चयात्मकस्य, अन्यस्य--नामजात्यादिकल्पनारहितस्य प्रत्यक्षस्य यदा प्रमाणता नास्ति। प्रामाण्यं हि तस्य वस्तुत्वे, एकानेकस्वभावराहित्येनावस्तुत्वात् क्व प्रामाण्यावसरः। अथ प्रमाणमेव यदा विचार्यमाणं विशीर्यते तदधीनसद्गावस्य सर्वंस्यान्यस्य क्व वस्तुता, तदेवं सर्वस्मिन् विशीर्यमाणे कोऽपराध्यतु। भावानां शून्यतैव स्वभाव इति तौल्यान्नैकस्यापेक्षापावसरः। ननु अयं बद्धोऽयं मुक्त इति व्यवस्थाऽपि व्याहन्येत। सत्यम्। इयं व्यवस्थाऽपि संवृत्त्यैव न परमार्थत इति। निःस्वभावतैव च शून्यता।

उक्तं चैतदन्यत्रापि --

'निःस्वभावा अमी भावास्तत्त्वतः स्वपरोदिताः।
एकानेकस्वभावेन वियोगात् प्रतिबिम्बवत्॥

इति। तर्हि किं तत्त्वम्--

'न सन्नासन्न सदसन्न चाप्यनुभयात्मकम्।
चतुष्कोटिविनिर्मुक्तं तत्त्वं माध्यमिका जगुः॥'

स्वभावराहित्याद्भावानामपारमार्थ्ये प्रयोगं प्रदर्शयति--प्रयोगः पुनरेवमिति एकानेकस्वभावं न भवतीति। एकस्वभावमनेकस्वभावं वा यन्न भवतीत्यर्थः। व्यापकानुपलब्धिरिति। परमार्थसत्त्वस्य व्यापकमेकस्वभावानेकस्वभावान्यतरत्वं, तस्यानुपलब्धिः, व्यापकानुपल्ब्ध्या व्याप्यस्य परमार्थसत्त्वस्य निवृत्तिः सिद्ध्यति। हेतोः पक्षे सत्त्वमुपपादयन्नसिद्धिशङ्कां वारयति--न तावद सिद्धो हेतुंरिति। साकारे विज्ञाने बहिरर्थ एव एकानेकस्वभावायोग्यत्वस्य परिस्पुटत्वादिति। नीलपीतादावणुसमुदाये बाह्यार्थतया इष्यमाणे अणुरयमेकस्वभावो वा नैकस्वभावो वा उभयथाऽपि नोपपद्यत इति यो दोष उद्भावितः, स विज्ञानवादिनो विज्ञानमेव। नीलपीतद्याकारं सद्वभासते इति वदतोऽपि समान एवेति स्फुटमेवेति भावः। स्फुटतामेवोपपादयति--यत्रहीत्यादिना। इदं नीलमिदं पीतमिति इदन्तया लोके व्यवह्रियमाणो नीलपीतादिरणुसमुदायो बाह्योऽर्थ इति सर्वास्तित्ववादिना इष्यते, विज्ञानवादिना तु विज्ञानमेव त्तत्तदाकारं बहिर्वदवभासत इति वदता विज्ञानाकारतया नीलपीताद्यभ्युगतं भवतीति नीलपितादि तु न सर्वथाऽपोह्यते, परमाभ्यन्तरत्वबाह्यत्वमात्रे विवादः, तथाच बाह्यत्वे य आक्षेपः स आन्तरत्वेऽपि समान एवेति भावः। नहि तद्बहिर्भावनिबन्धनं दूषणमिति। नीलपीतादेर्विज्ञानाद्बहिर्भावे न तद्दूषणतयोपन्यस्तम्, किन्तु नीलपीताद्यभ्युगममात्रे। तथाच बाह्यं वा भवतु आन्तरं वा, समान एवायं दोष इति भावः। ननु बाह्यं नीलपीताद्यभ्युपगच्छता मूर्तं तदिति स्वीकृतं भवति, विज्ञानमात्रं तदिति वदतां तु तदमूर्तं भवतीति नेयं शङ्काऽमूते प्रसरेदित्याशङ्का परहरन्नाह--मूर्तनिमित्तमित्यादिना। साकारतायां ज्ञानस्यापि मूर्तत्वादिति। साकारत्वे मूर्तता कथ मित्यत्राह--अयमेव हि चित्तानामाकारो मूर्तिरिति। इष्यमाणोऽयमाकार एव भवति चित्तस्य मूर्त्तिरित्यर्थः।

निराकारज्ञानमात्रपारमार्थ्यवादे तु प्रकारान्तरेण भावमात्रसाधारणो दोषो विस्तरशो निरूपितोऽन्यत्र--

'न स्वतो नापि परतो न द्वाभ्यां नाप्यहेतुतः।
उत्पन्ना जातु विद्यन्ते भावाः क्वचन केचन। माध्यमिककारिका (४)

इत्यादिना। विस्तरस्ततोबोध्यः।

दिङ्नागादिनिबन्धानवहितदृष्ट्या मुहुर्विभावयता।
परिमितमतिनाऽपि मया व्याख्येयं व्यरचि तर्कभाषायाः॥
निन्दन्तु वाऽभिनन्दन्तु कृतिमेनां विपश्चितः।
अदोषदर्शी को नुस्यात् कृतिर्वा दोषवर्जिता।
गुर्जरेषु वसन् योऽषावादृतानेकभूमिकः।
नानाकृतिकमात्मानं परेभ्यो नटवद् व्यधात्।
पद्मनाभपदाम्भोजसौरभोल्लासवासिते।
विषयेऽपि वसन्नेष ताथागतकृतिं व्यधात्।
अनेकतन्त्रकान्तारे विशतो बहुशो मम।
विष्णुरव्याहतः पन्था हृदयामाऽपसर्पतात्॥

इति तर्कभाषाव्याख्या समाप्ता

uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project