Digital Sanskrit Buddhist Canon

दशाकुशलकर्मपथदेशना

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2006
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Daśākuśalakarmapathadeśanā

दशाकुशलकर्मपथदेशना


नमो रत्नत्रयाय


केनचित् सुगतिप्राप्तुकामेन हेया दशाकुशलकर्मपथाः प्रकृतिसावद्याः, तद्यथा-



"त्रिविधं कायिकं कर्म वाचिकं तु चतुर्विधम्।

मानसं त्रिप्रकारं च दशैतेऽकुशला मताः॥१॥



एते प्रविभागशः व्याख्यायन्ते-तत्र तावत् कायिकम्-प्राणातिपातः, अदत्तादानम्, काममिथ्याचारश्चेति। वाचिकम्- मृषावादः, पैशुन्यम्, पारुष्यम्, संभिन्नप्रलापश्च। मानसञ्च- अभिध्या, व्यापादो, मिथ्यादृष्टिश्च। तत्र प्राणातिपातस्तु प्राणिभावः, प्राणिसंज्ञाभावः, वधकचित्तोपस्थितिः, एतदुपायकरणम्, प्राणावरोधभावश्चेति एतत्पञ्चाङ्गैः संयुक्तो भवति प्राणातिपातः।



तत्र कतमत् अदत्तादानम्? परभावः, परपरिग्रहसंज्ञत्वम् च, स्तेयचित्तोपस्थितिः, तदुपायकरणम्, स्थानच्युतिश्च एतत्पञ्चाङ्गसंयुक्तं भवत्यदत्तादानम्।



काममिथ्याचारस्तु चतुर्विधः। अस्थानम्, अकालः, अदेशः, अगम्यश्चेति। तत्र अस्थानं तु सद्धर्म-प्रतिमादि-बोधिसत्त्वस्थानाचार्योपाध्यायदक्षिणीय- माता-पितृ-गुर्वादिसंनिधिः। अकाल इति दिवसे ऋतुमती-गर्भिणी-शिशुपोषिणीभिः अनिच्छादुःखदौर्मनस्यपीडिताभिः, अष्टाङ्गोपोसथावस्थितौ च। अदेश इति मुखवर्चोमार्गत्वं, कुमारकन्ययोः पुरःपृष्ठरन्ध्रत्वं स्वगस्तत्वं च। अगम्यास्तु सर्वाः परस्त्रियः धर्म-ध्वज-कुल-रक्षिताः, राजरक्षिताः, परपरिगृहीता वेश्याः, सम्बन्धिन्यः, तिरश्च्यश्च। एवं स्वभार्यासेवनेऽपि भवति काममिथ्याचारः।



तत्र मृषावादस्तु अवास्तविकत्वम्, वस्तुस्थितिच्युतिः, मिथ्यासंज्ञाभावः, मिथ्योपायोपस्थितिश्च, तदुपायकरणन्चेति मिथ्यावचनोक्तिश्च इत्येतत् पञ्चाङ्गसंयोगे मृषावादः।



पैशुन्यं तु क्लिष्टचित्तेन परभेदकथनम्। पारुष्यमिति परमर्मवेधि द्वेषवचनम्। सम्भिन्नप्रलाप इति-रागोपयुक्तत्वाद् आसक्तियोगाद् वा अवाच्यवचनम्। अभिध्येति परधन-द्रव्यैश्वर्येषु तीव्रासक्तचित्तता। व्यापादस्तु सत्त्वेषु विद्वेषभावः, एतान् सत्त्वान् हनिष्यामि रोत्स्यामि, ताडयिष्यामि, बन्धयिष्यामि इति चिन्तनम्।



मिथ्यादृष्टिरिति नास्ति दानम्, न यज्ञं, नेहलोकः, न परलोकः, न श्रमणः, न ब्राह्मणः, न देवः, न बुद्धो भगवान्, न अर्हन्, न प्रत्येकबुद्धः, न सुचरितम् न च दुश्चरितम्, न सुकृत-दुष्कृत-कर्माणां फलविपाकश्चेति।



भगवता उक्ते 'आर्यसद्धर्मस्मृत्युपस्थाने' महायानसूत्रे च निर्दिष्टो दशाकुशलकर्मपथोऽयं तु महानरकहेतुः। दशाकुशलकर्मपथसेवनेन पतन्ति सत्त्वा नरकेषु।



महाचार्यदीपङ्करश्रीज्ञानपादेन प्रणीता दशाकुशलकर्मपथदेशना समाप्ता।



तेनैव भारतीयोपाध्यायेन महासंशोधकलोकक्षुषा भिक्षु-जयशीलेन चानूदितः सम्पादितश्च॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project