Digital Sanskrit Buddhist Canon

आर्यधर्मधातुगर्भविवरणम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Āryadharmadhātugarbhavivaraṇam
आचार्य नागार्जुनपादविरचितम्
आर्यधर्मधातुगर्भविवरणम्

भारतीयभाषायाम्-आर्यधर्मधातुगर्भविवरणम्।
भोटभाषायाम्-फग्-पा-छोस्-क्यि-यिङ्-क्यि-ञिङ्-पो-नम-पर-डेल-पा।

नमो रत्नत्रयाय

ये धर्मा हेतुप्रभवा हेतुं तेषां तथागतो ह्यवदत्।
तेषां च यो निरोध एवंवादी महाश्रमणः॥

इत्युक्तम्।
अत्र 'ये धर्मा' इति सप्तभिः प्रकारैरवगन्तव्याः। तद्यथा-विज्ञानं नामरूपं षडायतनं स्पर्शः वेदना जातिर्जरामरणमिति। इमे धर्माः अपि पञ्चभ्यः प्रकारेभ्य उत्पद्यन्त इति 'हेतुप्रभवाः' इत्युक्तम्। के ते पञ्च हेतवः ? अविद्या तृष्णा उपादानं संस्कारा भवश्चेति।

सप्तविधानां धर्माणां पञ्चप्रकाराणां च तेषां हेतूनां निरोधस्तावद् 'हेतुं तेषां च यो निरोधः' इत्यादिनाऽभिहितः। स एवोपशमः मोक्षो निर्वाण-मिति। स च केनोक्तः ? 'तथागतो ह्यवदत्। इति। तेनोपदिष्ट इत्यभिप्रायेण तथा कथितम्।

अर्थानां यथा स्थितिस्तथा (यथावत्) अवबोधात् 'तथागतः' इत्युच्यते। वस्तूनां यथा स्थितिः, तस्या अभ्रान्ततया अन्येभ्यो देशनाद् वा 'तथागतः'। एवंविधो यो देशकः, यश्चैवं स्वयं बोधकः श्रवणशीलयुक्तश्च स 'एवंवादी' (महाश्रमणः) इत्युक्तः।

'महान्'-शब्दः प्रधान-अद्भुत-परम-प्रवरपर्यायः। यो वादी विद्वान् वीरः तपस्वी महोत्साहः तीव्रवीर्यः अद्भुतकर्मकारि च भवति, स एव 'महान्' इति। (स) अशेषज्ञातव्यानां ज्ञानाद् 'विद्वान्'। अशेषक्लेशानां दमने समर्थत्वाद् 'वीरः'। शीलस्य सम्यग्भावनया 'तपस्वी'। गुणादिष्वपरिखेदाद् 'महोत्साहः'। यस्य शिरः कपालं वा अग्निना दीप्तम्, तदवान् इव 'तीव्रवीर्यः तथा अद्भुतधर्माणां साक्षात्कारित्वाद् 'अद्भुतकर्मकारी' इति। एतादृश एव 'महान्' इत्युच्यते।

श्रमणः इति पापानां क्लेशानां चोपशमाद् 'श्रमणः'। सर्वपापानां प्रक्षालनाद् 'ब्राह्मणः'। क्लेशक्लमथपरिवर्जनाद् 'श्रमणः' स्वकीयमलापसारणात् 'प्रव्रजितः' इति। इत्येवंविधैर्गुणैः समन्वागत इति। भगवता बुद्धेनोक्त इत्यनेन योगः करणीयः। एवमेव दुःख-समुदय-निरोध-मार्गसत्येष्वपि योगः करणीयः।

अविद्याहेतोः संस्काराः, इत्यारभ्य जरा-मरणपर्यन्तं (स्वभावतः सिद्धं) कर्तारमनपेक्ष्य समुत्पादस्तावद् 'अनुलोमः'। अविद्यादिहेतूनां निवृत्तेरवबोधः 'प्रतिलोमः' इत्युक्तः।

अविद्यानिवृत्तेः संस्कारादयो निवर्तन्त इत्युपदेशकारकत्वात् (भगवान् बुद्ध एव) 'महाश्रमणः' इति।

॥आचार्यनागार्जुनपादविरचितं 'आर्यधर्मधातुगर्भविवरणम्' समाप्तम्॥

भारतीयोपाध्यायेन ज्ञानगर्भेण 'महालोचावा वन्दे पलचेक्‌महाभागेन चानूद्य संशोध्य च सुनिर्णीतम्।

॥भवतु सर्वमङ्गलम्॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project