Digital Sanskrit Buddhist Canon

षोडशो बिन्दुः

Technical Details
  • Text Version:
  • Input Personnel:
  • Input Date:
  • Proof Reader:
  • Supplier:
  • Sponsor:
  • Parallel version Ṣoḍaśo binduḥ


 



षोडशो बिन्दुः



 



मिश्रकसंग्रहः



 



१। चत्वारि श्रामण्यफलानि षड् धर्माः पंचस्कंधाः प्रतिसंख्यानिरोधः। इति चतुःफलविभागः॥



 



२। अहंत्फलं नवभूमिसंगृहीतं वर्जयित्वा भवाग्रं। तृतीयफलं षड्भूमिसंगृहीतं वर्जयित्वा चतुर आरूप्यान् धर्मज्ञानाभावात्। स्रोतआपन्नसकृदागामिनावसमापत्तिध्यानभूमिसंगृहीतौ अवीतकायरागपुद्गलौ॥



 



३। चत्वारो विपर्यासाः। अनित्ये नित्यसंज्ञा - इति चित्तविपर्यासः संज्ञाविपर्यासः दृष्टिविपर्यासः। दुःखे सुखसंज्ञा। अशुचौ शुचिसंज्ञा। अनात्मन्यात्मसंज्ञा - इति चित्तविपर्यासः संज्ञाविपर्यासः दृष्टिविपर्यासः॥



 



४। सर्वेषां विपर्यासानां दुःखसत्यदर्शनेन प्रहाणं। तत्कस्य हेतोः। यस्मात् (सर्व-)संस्कारान् प्रतीत्य दुःखस्थानं तिसृभिर्दृष्टिभिः संगृहीतं कायविपर्यासदृष्टया (=सत्कायदृष्टया)अन्तग्राहदृष्टया दृष्टिपरामर्शन। सर्वा द्वाषष्ठिदृष्टयः पंचमिथ्यादृष्टिसंगृहीताः॥



 



५। पंचस्कंधेषु असद्भूतात्मसु सत्यात्मदृष्टिः सत्कायदृष्टिः। शाश्वतोच्छेदमाश्रित्य हेतुप्रत्ययफलविपकानामज्ञानमन्तग्राहदृष्टिः। न सत्य न सत्यधर्माः नायं लोको न परो लोकः न निर्वाणं न च चतुःसत्यानि - इति मिथ्या दृष्टिः। अपरमार्थमभूतमसुखमशुचिं पश्यति सुखं शुचिं। तथाहि। छिन्नतगेः स्थाणौ स्थिते रात्रौ दूराद् दर्शने पुरुष इति। इति दृष्टिपरामर्शः। अहेतौ हेतु दृष्टिः अमार्गे मार्गदृष्टिः - इति शीलव्रतपरामर्शः॥



 



६। सत्कायदृष्टिर्दुःखसत्यहेया पंचस्कंधेष्वात्मविकल्पनात्। शाश्वतोच्छेदसंज्ञा दुःखसत्यहेया प्रत्युत्पन्नपंचस्कंधालंबनात्। मिथ्यादृष्टिर्दुःखसत्यदुःखदर्शनहेया। एवं समुदयनिरोधमार्गसत्यसमुदयनिरोधमार्गदर्शनहेयो दृष्टिपरामर्शः। दुःखसत्ये चेत् सुखशुच्यादिविकल्पना दुःखदर्शनहेया। एवं समुदयनिरोधमार्गसत्येषु सुखशुच्यादिविकल्पना चेत् समुदयनिरोधमार्गदर्शनहेया। शीलव्रतपरामर्शः अमार्गे निर्वाणपर्येषणं अहेतौ हेतुदर्शनं। शीलव्रतपरामर्शो दुःखदर्शनमार्गदर्शनहेयः॥



 



७। षड्भावनाः। प्राप्तिभावना संस्कारभावना प्रहाणभावना विवर्जनभावना विवेकभावना संवरभावना। प्राप्तिभावना कतमा। अप्राप्तकुशलधर्मपुण्यगुणानां प्राप्तिः प्राप्तौ च सर्वान्यपुण्यगुणानामपि प्राप्तिः। संस्कारभावना कतमा। प्राप्तसर्वपुण्यगुणानां प्रत्युत्पन्नाध्वसंस्कारः। प्रहाणभावना कतमा। कुशलधर्मैः सर्वसंयोजनप्रहाणं। विवर्जनभावना कतमा। प्रहेया अकुशलधर्माः। विवेकभावना कतमा। विविच्य कायसत्यलक्षणदर्शनं। संवरभावना कतमा। षडिन्द्रियाणि समलानि यस्माद् विषयमालंव्य पराभवन्ति॥



 



८। पंचेन्द्रियाणि। (दौर्मनस्यं सौमनस्यं सुखं दुःखं उपेक्षा)। दौर्मनस्येन्द्रियस्य प्रथमध्याने निरोधः। अखिलस्य दुःखेन्द्रियस्य द्वितीयध्याने निरोधः। अखिलस्य सौमनस्येन्द्रियस्य तृतीयध्याने निरोधः। अखिलस्य सुखेन्द्रियस्य चतुर्थध्याने निरोधः। अखिलस्य उपेक्षेन्द्रियस्य असंज्ञिसमापत्तौ निरोधः॥



 



९। त्रयः साकल्येन धातवः। प्रहाणधातुः वैराग्यधातुः निरोधधातुः। जहाति रागसंयोजनं सर्वानन्यक्लेशानिति प्रहाणधातुः। रागसंयोजनप्रहाणमुच्यते वैराग्यधातुः। सर्वान्यधर्मप्रहाणं नाम निरोध धातुः॥



 



१०। रागनिरोधे प्राप्नोति चित्तविमोक्षं। मोहनिरोधे प्राप्नोति प्रज्ञाविमोक्षं॥



 



११। रागोऽप्रतिसंयुक्तेऽध्यात्मबहिर्धायतने प्रतिसंयोजयितुं प्रभुः। तथाहि। युगं प्रतिसंयोजयितुं वृषभौ। तस्मात् रागारागविषयेषु रागद्वेषासंप्रयुक्तं भवति उपेक्षाचित्तं॥



 



१२। दश धर्माः। कामधातुः रूपधातुः आरूप्यधातुः अनास्रवः संप्रयुक्तः विप्रयुक्तः कुशलः अकुशलः अव्याकृतः असंस्कृतः। इति दश धर्माः॥



 



१३। पंच धर्मा धर्माज्ञानालंबनाः। कतमे पंच। कामधातुप्रतिसंयुक्ताः संप्रयुक्त-विप्रयुक्तधर्माः। अनास्रवाः संप्रयुक्त-विप्रयुक्तधर्माः। कुशलाः असंस्कृतधर्माश्चेति पंच धर्माः॥



 



१४। अन्वयज्ञानालंबनाः सप्त धर्माः। कतमे सप्त। कामधातुप्रतिसंयुक्ताः संप्रयुक्तविप्रयुक्तधर्माः। आरूप्यधातुप्रतिसंयुक्ताः संप्रयुक्तविप्रयुक्तधर्माः। अनास्रवाः संप्रयुक्तविप्रयुक्तधर्माः। कुशलाः असंस्कृतधर्माश्च॥



 



१५। परचित्तज्ञानालंबनास्त्रयो धर्माः। कामधातु प्रतिसंयुक्ताः संप्रयुक्तधर्माः। रुपधातुप्रतिसंयुक्ताः संप्रयुक्तधर्माः। अनास्रवाः संप्रयुक्तधर्माः॥



 



१६। संवृतज्ञानालंबना दश धर्माः। कामधातुप्रतिसंयुक्ताः संप्रयुक्तविप्रयुक्तधर्माः। रूपधातुप्रतिसंयुक्ताः संप्रयुक्तविप्रयुक्तधर्माः। आरूप्यधातुप्रतिसंयुक्ताः संप्रयुक्तविप्रयुक्तधर्माः। अनास्रवाः संप्रयुक्तविप्रयुक्तधर्माः। कुशलाः असंस्कृतधर्माः। अव्याकृताः असंस्कृतधर्माश्च॥



 



१७। दुःखज्ञानं समुदयज्ञानं प्रत्येकं षड्धर्मालंबनं। त्रिधातुप्रतिसंयुक्ताः संप्रयुक्तविप्रयुक्त धर्माः। इति षड् धर्माः। निरोधज्ञानमेकधर्मालंबनं। कुशलाः संस्कृतधर्माः (इति स एको धर्मः)। मार्गज्ञानं द्विधर्मालंबनं। अनास्रवाः संप्रयुक्तविप्रयुक्त धर्माः॥



 



१८। क्षयज्ञानमनुत्पादज्ञानं च नवधर्मालंबने। वर्जयित्वा ऽव्याकृतानसंस्कृतधर्मान्॥



 



१९। स्वभूमिकः क्लेशः स्वभूमिकसंयोजनानुसंयोजितानि सर्वत्रगाणि संयोजनानि स्वभूमौ परभूमौ सर्वत्रगाणि। प्रत्येकमन्यत् संयोजनं स्वभूमिक संयोजनानुसंयोजितं॥



 



२०। द्विविधा धर्माः। संप्रयुक्ता विप्रयुक्ताश्च। संप्रयुक्ता धर्माकतमे। सर्वचित्तचैतसिका धर्माः। कतमे विप्रयुक्ता धर्माः। प्राप्त्यादयः सप्तदश धर्माः। प्राप्तिः।१। आसंज्ञिकसमापत्तिः।२। निरोधसमापत्तिः।३। असंज्ञि आयतनं।४। जीवितेन्द्रियं।५। निकायसभागता।६। स्थानप्राप्तिः।७। वस्तुप्राप्तिः।८। आयतनप्राप्तिः।९। जातिः।१०। जरा।११। स्थितिः।१२। अनित्यता।१३। नामकायः।१४। पदकायः।१५। व्यंजनकायः।१६। पृथग्जनत्वं।१७। सर्वधर्मप्राप्तिकाले चित्तविप्रयुक्तधर्माणां सहप्राप्तिरित्युच्यते प्राप्तिः। जन्ममरणनिर्विण्णस्य निर्वाणसंज्ञस्य चतुर्थध्यानबले भूयोऽल्पशशूचित्तचैतसिकधर्मनिरोधः उच्यते आसंज्ञिकसमापत्तिः। प्रयत्नस्वेदपरिनिर्विण्णस्य विश्रामसंज्ञस्य नैवसंज्ञानासंज्ञायनसमापत्तिबले भूयोल्पशश्चित्तचैत्तसिकधर्मनिरोधः उच्यते निरोधसमापत्तिः। असंज्ञिदेवलोकोपपन्नस्य चित्तचैतसिकधर्माः अकिंचित्कराः उच्छिन्नाः - इत्यसंज्ञि आयतनं। चतुर्महाभूतेन्द्रियादीनां संतानोऽनुच्छिन्न उच्यते जीवितेन्द्रियं। विविधजन्मस्थानेषु सत्त्वानां जातिकायचित्तवचनानि सदृशानि भवन्तीत्युच्यते सत्त्वानां निकायसभागता। देशान्तरप्राप्तिरुच्यते स्थानप्राप्तिः। सर्वसंस्कृतसंमिश्रवस्तूनि वस्तुप्राप्तिः। सर्वाणि अध्यात्मबहिर्धायतनानि आयतनप्राप्तिः। सर्वसंस्कारोदयो जातिः। संस्कारपरिपाको जरा। संस्कारानिरोधः स्थितिः। संस्कारनिरोधोऽनित्यता। सार्थकाक्षराणि नामकायः। पदसमुच्चयेन वस्त्वभिधानं (=वाक्यं)पदकायः। विपुलसमुच्चयः (=वर्णसमाम्नायः)व्यंजनकायः। आर्यानास्रवमार्गाप्राप्तिः पृथग्जनत्वं। इति सप्तदश।



 



२१। चित्तविप्रयुक्तधर्मेषु कतिकुशलाः कत्यकुशलाः कत्यव्याकृताः। द्वौ कुशलौ सप्ताव्याकृताः अष्टौ विवेचनीयाः। आसंज्ञिकसमापत्तिर्निरोधसमापत्तिश्च कुशलौ। असंज्ञि आयतनं निकायसभागता नामकायः पदकायः व्यंजनकायः जीवितेन्द्रियं पृथग्जनत्वं च अव्याकृताः। प्राप्तिः जातिः जरा स्थितिः अनित्यता च कुशलेषु कुशलाः अकुशलेष्वकुशलाः अव्याकृतेष्वव्याकृताः। स्थानप्राप्तिः वस्तुप्राप्तिः आयतनप्राप्तिश्च कुशलाकुशलाव्याकृताः॥



 



२२। कति कामधातुप्रतिसंयुक्ताः कति रूपधातुप्रतिसंयुक्ताः कत्यरूपधातुप्रतिसंयुक्ताः। त्रयः कामधातुप्रतिसंयुक्ताः। द्वौ रूपधातुप्रतिसंयुक्तौ। एकोऽरूपधातुप्रतिसंयुक्तः। एकादश विवेचनीयाः कामधातुप्रतिसंयुक्ता वा रूपधातुप्रतिसंयुक्ता वा अरूपधातुप्रतिसंयुक्ता वेति। नामकायपदकायव्यंजनकायाः कामधातुप्रतिसंयुक्ताः। असंज्ञिसमापत्त्यसंज्ञ्यायतने रूपधातुप्रतिसंयुक्ते। निरोधसमापत्तिररूपधातुप्रतिसंयुक्ता। प्राप्तिः जीवितेन्द्रियं निकायसभागता स्थानप्राप्तिः वस्तुप्राप्तिः आयतनप्राप्तिः पृथग्जनत्वं च त्रिधातुप्रतिसंयुक्तानि। जातिः जरा स्थितिः अनित्यता च कामधातुप्रतिसंयुक्तेषु धर्मेषु कामधातुप्रतिसंयुक्ताः रूपधातु प्रतिसंयुक्तेषु धर्मेषु रूपधातुप्रतिसंयुक्ताः। अरूपधातुप्रतिसंयुक्तेषु धर्मेषु अरूपधातुप्रतिसंयुक्ताः। अप्रतिसंयुक्तेषु धर्मेषु अप्रतिसंयुक्ताः॥



 



२३। तत्र कति सास्रवाः कत्यनास्रवाः। त्रयोदश सास्रवाः। चत्वारो विवेचनीयाः। जातिः जरा स्थितिः अनित्यता च सास्रवेषु सास्रवाः अनास्रवेषु अनास्रवाः। प्रथमानास्रवचित्तप्राप्तिकाले जहाति पृथग्जनत्वं। धात्वन्तरोपपत्तिकालेऽपि पृथग्जनत्वं प्रहाय (तत्रैव पुनः)धात्वन्तरे लभते पृथग्जनत्वं। वैराग्यकाले नवमविमोक्षमार्गे (पृथग्जनत्व-)प्रहाणं॥



 



२४। त्रयः असंस्कृताः। प्रतिसंख्यानिरोधः अप्रतिसंख्यानिरोधः आकाशं। प्रतिसंख्यानिरोधः कतमः। सास्रवानास्रवप्रज्ञाबलेन सर्वसंयोजनप्रहाणे विमोक्ष प्राप्तिरुच्यते प्रतिसंख्यानिरोधः। अप्रतिसंख्यानिरोधः कतमः। अनागतस्य हेतुभिरुत्पाद्यस्यानुत्पत्तिरप्रतिसंख्यानिरोधः। आकाशं कतमत्। अरूपायतनं अप्रतिघातः दर्शनानर्हतोच्यते आकाशं॥



 



२५। सभागहेतुः। संप्रयुक्तहेतुः। सहभूहेतुः। पूर्वोत्पन्नस्वसदृशहेतुः अजातपश्चाज्जातसर्वधर्माणां कारणहेतुः। एवं सर्वत्रगहेतुरपि समनन्तरप्रत्ययः। सत्त्वेषु विपाकहेतुः सर्वे संस्कृतधर्माः॥



 



२६। संस्कृतधर्मफलमपि निर्वाणफलं। को हेतुः। यतः सर्वसंस्कृतधर्मान् हि प्रतीत्य निर्वाणमार्गफलोत्पत्तिः॥



 



२७। संप्रयुक्तकधर्मा एकस्मिन्नालंबने युगपत्कारित्राः। परलक्षणास्वलक्षणेषु चित्तचैतसिका धर्माः स्थानदेशरहिताः। को हेतुः। आलंबनस्य सर्वत्रगत्वात्॥



 



२८। मार्गोत्पत्तिकाले संयोजनानि निरुध्यमानानीति जायमानमार्गेण विमुक्तिमार्गप्राप्तिः। मार्गानिरोधकाले निरुध्यमानेनान्तर्यमार्गेण छिन्नेषु संयोजनेषु जायमानायां विमुक्तौ विमुक्तिप्राप्तिः॥



 



२९। त्रिविधो रागः। कामरागः भवरागः विभवरागः। सर्ववस्तुपर्येषणमुच्यते कामरागः। प्राप्तौ कार्पण्यमुच्यते भवरागः। उच्छेदं पश्यत उच्छेदपर्येषणं विभवरागः॥



 



३०। भावनया प्रहाणाय सप्तत्रिंशत् पक्षाः (=बोधिपाक्षिका धर्माः)॥



 



३१। सम्यक्संकल्पसम्यग्वाक्सम्यक्कर्मसम्यगाजीवप्रस्रब्ध्युपेक्षाः स्थापयित्वा अन्ये भवंति इंद्रियधर्माः। चतुःस्मृत्युपस्थानेषु एकैकस्य भवति पुरतः प्रत्युपस्थितिः। तत्र को हेतुः। विभज्य सर्वधर्मालंवनत्वात्॥



 



३२। सर्वे धर्माः परसंप्रयुक्ता आत्मविप्रयुक्ताः॥



 



३३। सालंबनधर्मेषु संयोजनानि हेयानीति भवप्रहाणमशेषप्रहाणं। अशेषप्रहाणं कतमत्। प्राप्तदुःखज्ञानस्य अप्राप्तसमुदयज्ञानस्य समुदय सत्येन (क्लेशानां)प्रहाणं दुःखसत्येन (क्लेशानां)प्रहाणं॥



 



३४। त्रिसत्यालंबनेषु द्विविधाक्षयश्रद्धाप्राप्तिः। दुःखसत्यसमुदयसत्यनिरोधसत्येषु धर्मशीलाक्षया श्रद्धा। मार्गसत्ये चतुर्विधाक्षयश्रद्धाप्राप्तिः॥



 



३५। सर्वचैतसिकधर्माः चित्तसंस्कारा (=चेतना)ऽनुवर्तिनः। एकालंबनत्वात्। एवमविज्ञप्तिशीलं जातिः स्थितिः जरा च चित्तसंस्कारानुवर्तिकाः॥



 



३६। सर्वे सास्रवा धर्माः प्रहातव्याः। कस्य हेतोः। यतः पापास्ते समलाः॥



 



३७। सर्वे सास्रवानास्रवा धर्मा ज्ञातव्याः। तत्कस्य हेतोः। प्रज्ञालंबना हि सर्वधर्माः (इति हेतोः)। (तत्र)अतीतानागता धर्मा दूरे। कस्मात्। अकारित्रात्। प्रत्युत्पन्ना धर्मा अन्तिके। कस्मात्। सकारित्रात्। असंस्कृता अपि अन्तिके। कस्मात्। शीघ्रं प्राप्यत्वात्। सर्वसास्रवा धर्मा दृष्टिस्थानीयाः पंचदृष्ट्यालंबनत्वात्॥



 



३८। भूयोऽल्पशः प्राप्तिः (=सिद्धिः)भवत्येकोनविंशतीन्द्रियाणामक्षयाणां। अस्ति द्वे इन्द्रिये (अन्ये)अपि दृष्टसत्यपुद्गलस्याक्षये इन्द्रिये अपरिहीणरागे। इत्येकोनविंशतिरिन्द्रियाणि। अंततोऽष्टाविन्द्रियाणि छिन्दन्ति कुशलमूलानि। क्रमेणायुःक्षये परिशिष्यते कायेन्द्रियं। पुनः खल्वरूपधातु पृथग्जनस्यापि (तथा)॥



 



३९। स्पर्शः इन्द्रियविषयविज्ञनानां त्रिकसंनिपाताद् भवति। स पंचविधः। सप्रतिघः विकल्पबहुलः विद्या अविद्या नविद्यानाविद्या। पंचविज्ञानसंप्रयुक्तत्वात् सप्रतिघः। मनोविज्ञानसंप्रयुक्तत्वाद्विकल्पबहुलः। क्लिष्टः स्पर्शोऽविद्या। अनास्रवः स्पर्शो विद्या। अक्लिष्टः सास्रवः स्पर्शो न विद्यानाविद्या॥



 



४०। द्वाभ्यां मार्गाभ्यां फलप्राप्तिः। प्रथमः संयोजनप्रहाण (-मार्गः)। द्वितीयो विमुक्तिप्राप्ति (-मार्गः)। अर्हद्विपाकचित्तः परिनिर्वाति। सर्वधर्मपरित्यागात्॥



 



४१। चत्वारो भवाः। जातिभवः मरणभवः मूलभवः अन्तराभवः। आद्योपपत्तौ पंचस्कंधप्राप्ति र्जातिभवः। च्युतिकालिकाः पंचस्कंधा मरणभवः। जातिमरणयोरन्तरै तदतिरिक्तपंचस्कंधेषु मूलभवः। च्युतेरनन्तरं सर्वगतिप्रापकाः पंचस्कंधाः अन्तराभवः॥



 



४२। दुःखसमुदयसत्यक्षांतिज्ञानालंबनो धर्मः सर्व उच्यते निर्वेदः। निर्वेदवस्त्वालंबनत्वात्। चर्तुषु सत्येषु क्षान्तिज्ञानं विरागो रागनिरोधात्॥



 



४३। त्रयः आस्रवाः। कामः भवः अविद्या। कामधातावविद्यां विहायान्यक्लेशाः कामास्रवः। रूपारूप्यधात्वोः विहायाविद्यामन्यक्लेशाः भवास्रवः। त्रिधातुप्रतिसंयुक्तः संमोहोऽविद्यास्रवः॥



 



४४। सर्वास्रवाणां निरोधकाले सर्वदुःखनिरोधप्राप्तिः सर्वप्रज्ञामृतरसप्राप्तिः॥



 



[इत्यभिधर्मामृतशास्त्रे मिश्रकसंग्रहनिर्देशो नाम षोडशो बिन्दुः॥]



 



॥  आर्यमार्गप्राप्तस्य घोषकाभिधानस्य कृतिः॥



 



॥ अभिधर्मामृतशास्त्रं [परिनिष्ठितम्]॥


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project