Digital Sanskrit Buddhist Canon

चतुर्दशो बिन्दुः

Technical Details
  • Text Version:
  • Input Personnel:
  • Input Date:
  • Proof Reader:
  • Supplier:
  • Sponsor:
Parallel version

Caturdaśo binduḥ


 



चतुर्दशो बिन्दुः



 



बोधिपाक्षिकधर्माः



 



१। स्मृत्युपस्थानानि सम्यक्प्रहाणानि ऋद्धिपादा इन्द्रियाणि बलानि बोध्यंगानि (अष्टांगिक आर्य-)मार्गश्चेति सप्त धर्मा निर्वाणोपगाः। तत्र सप्त बोध्यंगान्यनास्रवाणि। षड् विभाज्याः। (ते)सास्रवा वा अनास्रवा वा। अपर आह। सप्त बोध्यंगानि अष्टांगिकः (आर्य-)मार्गश्चेति साकल्येन अनास्रवाणि। अन्ये शिष्टाः (द्विधा)विभाज्याः॥



 



२। चत्वारि स्मृत्युपस्थानानि। चतुर्विधानि (अपि)सर्वभूमिध्यानेषु संगृहीतानि भवन्ति। नित्यं स्मृतिरक्षिणी प्रज्ञोच्यते स्मृत्युपस्थानं। त्रिधा कायस्मृतौ भाविता प्रज्ञोच्यते कायस्मृत्युपस्थानं। एवं वेदना-चित्त-धर्मस्मृत्युपस्थानानि। इति चत्वारि स्मृत्युपस्थानानि॥



 



३। किमुपादाय नोच्यन्ते त्रीणि स्मृत्युपस्थानानि। पंच वा स्मृत्युपस्थानानि। यस्माच्चतुरो विपर्यासान् भिन्दन्ति तस्माच्चत्वार्येवोच्यन्ते स्मृत्युपस्थानानि (न न्यूनाधिकानि)॥



 



४। कायस्मृत्युपस्थानं कतमत्। यस्मात् शुचिसंज्ञाविपर्यासं व्यन्तीकरोति तस्मात् कायसत्यलक्षणं प्रत्यवेक्षते (यदिदं)षट्त्रिंशदशुचयः। तथाहि। मृते कृमिजन्म पूतिगन्धः अस्थिकानां स्थितिरित्यादि। एवं पश्यन् कायं शुचिसंज्ञाविपर्यासं क्षपयति॥



 



५। वेदनास्मृत्युपस्थानं कतमत्। पश्यति सर्वासां वेदनानां उत्पादं स्थितिं निरोधं दुःखतां। सुखायां वेदनायां रागसंयोजनं दुःखायां वेदनायां द्वेष (=प्रतिघ)संयोजनं अदुःखासुखायां वेदनायामविद्यासंयोजनं। पश्यति (सर्वमिदं)अनित्यं दुःखं शून्यं अनात्मकं। इति वेदनास्मृत्युपस्थानं॥



 



६। चित्तस्मृत्युपस्थानं कतमत्। पश्यति क्लिष्टं चित्तं अक्लिष्टं चित्तं समाहितं चित्तं असमाहितं चित्तं। पश्यत्यनित्यादिकं। इति चित्तस्मृत्युपस्थानं॥



 



७। धर्मस्मृत्युपस्थानं कतमत्। पश्यत्यध्यात्मधर्मान्। पश्यति बहिर्धाधर्मान्। पश्यत्यध्यात्मबहिर्धाधर्मान्। पश्यति योऽतीतो धर्मो यश्चागतः। पश्यति संयोजनानि कति हीनानि कत्यहीनानि। पश्यति दुःखं (यद्)अनित्यं। पश्यति समुदयहेतून्। पश्यति निरोधं। इति धर्मस्मृत्युपस्थानं॥



 



८। चत्वारि सम्यक्प्रहाणानि कतमानि। उत्पन्नानामकुशलानां धर्माणां प्रहाणाय च्छन्दं जनयति व्यायामच्छंदो वीर्यमारभते चित्तं प्रगृह्णाति कुशलधर्मस्थितये। अनुत्पन्नानामकुशलानां धर्माणां अनुत्पादाय वीर्यमारभते चितं प्रगृह्णाति कुशलधर्मस्थितये। अनुत्पन्नानां कुशलानां धर्माणामुत्पादाय च्छन्दं जनयति वीर्यमारभते कुशलधर्मस्थितये। उत्पन्नानां कुशलधर्माणां स्मृतये स्थितये असंप्रमोषाय भूयोभावाय वैपुल्याय (च्छन्दं जनयति)वीर्यमारभते कुशलधर्मस्थितये॥



 



९। चत्वारः ऋद्धिपादाः कतमे। छंदसमाधिः वीर्यसमाधिः चित्तसमाधिः मीमांसासमाधिः। एतेभ्यः सर्वपुण्यगुणप्राप्तिरित्युच्यन्ते ऋद्धिपादाः। छन्दसमाधिप्रहाणसंस्कारसमन्वागतः प्रथम ऋद्धिपादः। इच्छाकरणादुच्यते च्छन्दः। चित्तं न विक्षिप्तं भवतीत्युच्यते समाधिः। छन्दः वीर्यं स्मृतिः प्रज्ञा प्रीतिः प्रस्रब्धिः - इत्येते सर्वसंस्काराः छन्दसमाधिसहगताः। एवं वीर्यचित्तमीमांसाच्छंदाधिमात्रच्छन्दतः समाधिलाभ इत्युच्यते च्छन्दसमाधिः। एवं वीर्यचित्तमीमांसा (समाधयः)। इति चत्वारः ऋद्धिपादाः॥



 



१०। श्रद्धा वीर्यं स्मृतिः समाधिः प्रज्ञा चेत्युच्यन्ते पंचेन्द्रियाणि। चतुर्षु (=त्रिषु रत्नेषु शीले च )अक्षोभ्यश्रद्धेषु या श्रद्धा सोच्यते श्रद्धेन्द्रियं। चतुर्षु सम्यक्प्रहाणेषु वीर्यमुच्यते वीर्येन्द्रियं। चतुर्षु स्मृत्युपस्थानेषु स्मृत्यसंप्रमोष उच्यते स्मृतीन्द्रियं। चतुर्षु ध्यानेषु समाधिरुच्यते समाधीन्द्रियं। चतुःसत्येषु प्रज्ञोच्यते प्रज्ञेन्द्रियं। इन्द्रियं (इन्दतेः)दक्षत्वात् क्षिप्रत्वात् अग्रियत्वात्। इतीन्द्रियार्थः॥



 



११। श्रद्धादीनि पंच बलानि। पापकाकुशलधर्मैरपरिक्षेयमिति बलं। परित्तानि भवन्तीन्द्रियाणि महान्ति भवन्ति बलानि॥



 



१२। स्मृतिः धर्मविचयः वीर्यं प्रीतिः प्रस्रब्धिः समाधिः उपेक्षा चेति सप्त बोध्यंगानि। स्मृतिः कतमा। स्मरति संस्कृति धर्माः सोत्पादनिरोधा विविधदोषाः। निर्वाणं प्रणीततरं। इत्युच्यते स्मृतिः संबोध्यंगं। तत्र विविच्य (=विभज्य )भावयतीति धर्मविजयः संबोध्यंगं। तत्र भावयन् वीर्यमारभते इति वीर्यं संबोध्यंगं। तत्र प्राप्तं कुशलधर्मरसं साक्षात्कुर्वन् तृप्यतीति प्रीतिः संबोध्यंगं। तत्र भावयतः कायचित्तयोः लघुता मृदुता विश्रमः समाध्यनुवृत्तिरित्युच्यते प्रस्रब्धिः संबोध्यंगं। तत्र आलंबनस्थितिकं चित्तं,न भवति विक्षिप्तमिति समाधिः संबोध्यंगं। तत्राहितं चित्तं विरमति न स्मरति न च च्छन्दं जनयति - इत्युपेक्षासंबोध्यंगं। विविधप्रज्ञाभिः (=संबोध्यंगरूपाभिः)ध्यानसमापत्तिबलप्राप्तिः। सर्वक्लेशहानिः। इति सप्तानां संबोध्यंगानां फलं॥



 



१३। सम्यग्दृष्टिः सम्यक्संकल्पः सम्यग्वाक् सम्यक्कर्म सम्यगाजीवः सम्यग्व्यायामः सम्यक्स्मृतिः सम्यक्समाधिः। इत्यष्टांगिकः आर्यमार्गः। चतुःसत्येषु सत्यतो धीरुच्यते सम्यग्दर्शनं। तत्र कुशलेन अद्वेषेण अक्लेशेन (चेति)त्रिप्रकारेण विपश्यनोच्यते सम्यक्संकल्पः। चतुर्विधमिथ्यावाक्प्रहाणमुच्यते सम्यग्वाक्। त्रिविधमिथ्याकर्मप्रहाणमुच्यते सम्यक्कर्म। अकुशलमिथ्याजीवप्रहाणमुच्यते सम्यगाजीवः। तत्र भावयन् वीर्यमारभते इति सम्यग्व्यायामः। तत्र भावयतः स्मृत्यसंप्रमोष उच्यते सम्यक्स्मृतिः। तत्र समाहिता स्थितिरुच्यते सम्यक्समाधिः। इत्यष्टांगिको निर्वाणगामी मार्गः॥



 



१४। श्रद्धा वीर्यं स्मृतिः समाधिः प्रज्ञा प्रीतिः प्रस्रब्धिः उपेक्षा संकल्पः शीलं। इति दशधर्माणाम् (एव)सप्तत्रिंशद्विभागाः। (तद्यथा)। श्रद्धा धर्म उच्यते श्रद्धेन्द्रियं श्रद्धा बलं। वीर्यमुच्यते वीर्येन्द्रियं वीर्यबलं चतुःसम्यक्प्रहाणानि वीर्यसंबोध्यंगं (मार्गागं)सम्यग्व्यायामः। (स्मृतिरुच्यते)स्मृतीन्द्रियं स्मृतिबलं स्मृतिसंबोध्यंगं (मार्गागं)सम्यक्स्मृतिः। प्रीतिः प्रीतिसंबोध्यंगं। प्रज्ञा प्रज्ञेन्द्रियं प्रज्ञाबलं चतुःस्मृत्युपस्थानानि धर्मविचयसंबोध्यंगं सम्यग्दृष्टिः। प्रस्रब्धिः प्रस्रब्धिबोध्यंगं। समाधिः समाधीन्द्रियं समाधिबलं चत्वारः ऋद्धिपादाः समाधिसंबोध्यंगं (मार्गागं)सम्यक्समाधिः। उपेक्षा उपेक्षासंबोध्यंगं। संकल्पः (मार्गागं)सम्यक्संकल्पः। शीलं सम्यग्वाक् सम्यक्कर्म सम्यगाजीवः॥ सम्यग्‍हेतुप्रत्ययैश्चतुर्विधप्रज्ञोपस्थितिरुच्यते स्मृत्युपस्थानं। सम्यग्वीर्यमुच्यते सम्यक्प्रहाणं। आलंबने समाहिता स्थितिरविक्षेप उच्यते चत्वारः ऋद्धिपादा इति। मृद्विन्द्रियपुद्गलस्य चित्त जातानि (श्रद्धादीनि)उच्यते पंचेन्द्रियाणि। अधिमात्रेन्द्रियपुद्गलस्य चित्ते जातानि (श्रद्धादीनि)उच्यंते पंच बलानि। सत्यदर्शनमार्गे (सम्यग्दृष्ट्यादिः)उच्यते अष्टांगिकः आर्यमार्गः। भावनामार्गे (स्मृत्यादीनि)उच्यंते सप्त बोध्यंगानि॥ दशभिरेतेः पूर्वोक्तेः धर्मैः सप्तत्रिंशद् (बोधि)पाक्षिकाणां संग्रहः॥



 



१५। असमापत्तिध्यानभूमौ षट्त्रिंशद् वर्जयित्वा प्रीतिसंबोध्यंगं। द्वितीयध्यानभ्मावपि षट्त्रिंशद् वर्जयित्वा सम्यक्संकल्पं। तृतीयध्यानचतुर्थध्यानमध्यमध्यानेषु च पंचत्रिंशद् वर्जयित्वा प्रीतिसंबोध्यंगं सम्यक्संकल्पं। प्रथमध्याने सप्तत्रिंशत्। त्रिषु शून्य (=आरूप्य)समापत्तिषु द्वात्रिंशद् वर्जयित्वा प्रीतिसंबोध्यंगं सम्यक्संकल्पं सम्यग्वाचं सम्यक्कर्म सम्यगाजीवं। भवाग्रे द्वाविंशतिरंगानि वर्जयित्वा सप्त बोध्यंगानि अष्टौ मार्गांगानि। कामधातावपि द्वाविंशतिः वर्जयित्वा सप्तबोध्यंगानि अष्टौ मार्गांगानि॥



 



[इत्यभिधर्मामृतशास्त्रे बोधिपाक्षिकधर्मनिर्देशो नाम चतुर्दशो विन्दुः॥]


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project