Digital Sanskrit Buddhist Canon

त्रयोदशो बिन्दुः

Technical Details
  • Text Version:
  • Input Personnel:
  • Input Date:
  • Proof Reader:
  • Supplier:
  • Sponsor:
Parallel version

Trayodaśo binduḥ


 



त्रयोदशो बिन्दुः



 



संकीर्णसमाधयः



 



१। समाधिः अप्रमाणानि अभिज्ञाः कृत्स्नायतनानि अभिभ्वायतनानि विमोक्षाश्(चेति)ध्यानानि॥



 



२। समाधिस्त्रिविधः। शून्यतासमाधिः अप्रणिहितसमाधिः अनिमित्तसमाधिः। चित्तस्यानास्रवालंबनप्रतिसंयुक्तत्वादुच्यते समाधिः। समाहितः पश्यति पंचोपादानस्कंधाः शून्याः अनात्मानः अनात्मीया इति। इत्युच्यते शून्यतासमाधिः। समाधिमिममवतीर्णो न प्रणिदधाति रागद्वेषमोहान् पुनरुत्पत्तिमत इत्यप्रणिहितसमाधिः। (यः)समाधिर्वीतदशनिमित्तधर्मालंबनः (सोऽनिमित्त समाधिः)। दश निमित्तानि कतमानि। रूपादयः पंच विषयाः पुरुषः स्त्री जातिर्जराऽनित्यता। इत्यनिमित्तसमाधिः। शून्यतासमाधिर्द्वयाकारः। शून्याकारः अनात्माकारः। अप्रणिहितसमाधिर्दशाकारः। अनित्यदुःखाकारः समुदयमार्गाकारश्च। अनिमित्तसमाधिर्निरोधचतुराकारः॥



 



३। अप्रमाणानि चत्वारि। मैत्री करुणा मुदिता उपेक्षा॥ स्वाधिगतस्याभीष्टवस्तुनः सर्वसत्त्वेभ्यो दानाय चित्तोपस्थापनं। तदिदं चित्तं त्रिविधं भवति। आद्यं स्वजनेभ्यो मध्यमं परेभ्यश्चरमं शत्रुतस्कारादिभ्यः (यद्दानायचित्तं)। समाहितो भावयति सर्वे त्रिधातुसत्त्वाः वयं शात्र्वाद्याश्च न भिन्ना इति। विजहात्यान्तरिकद्वेषमिति मैत्री नामाप्रमाणं वेदनासंज्ञासंस्कारविज्ञानसंप्रयुक्तं सम्यग्वाचः सम्यक्कर्मान्तस्योत्थापकमपि न सर्वसंस्कारसंप्रयुक्तमिति मैत्र्यप्रमाणं॥ समाहितो भावयति त्रिधातुसत्त्वा विविधकायचित्तदुःखभाज इति (तान्)उद्धर्तुकाम एवं भावयन् (तेषां)वाह्यक्लेशान् व्यपनेतुं प्रतिबलो भवतीति करुणा नामाप्रमाणं वेदनासंज्ञासंस्कारविज्ञानसंप्रयुक्तं सम्यग्वाचः सम्यक्कर्मान्तस्योत्थापकमपि न सर्व संस्कारसंप्रयुक्तमिति करुणाप्रमाणं॥ समाहितो भावयति (अहो)मुदितास्त्रिधातुसत्वाः। इति प्राप्तसुखसौमनस्यो दुःखदौर्मनस्यापनयनप्रतिबलो भवतीति मुदिता नामाप्रमाणं वेदनासंज्ञासंस्कारविज्ञानसंप्रयुक्तंसम्यग्वाचः सम्यक्कर्मान्तस्योत्थापकमपि न सर्वसंस्कारसंप्रयुक्तमिति मुदिताप्रमाणं॥ समाहितो भावयति त्रिधातुसत्त्वाः सुखदुःखमोदौदासीन्यभाज इति रागद्वेषापनयनाय प्रतिबलो भवतीत्युपेक्षानामाप्रमाणं वेदनसंज्ञासंस्कारविज्ञानसंप्रयुक्तं सम्यग्वाचः सम्यक्कर्मान्तस्योत्थापकमपि न सर्वसंस्कारसंप्रयुक्तं॥



 



४। षडभिज्ञाः। ऋद्धिपादः दिव्यचक्षुः दिव्यश्रोत्रं पूर्वनिवासविज्ञानं परचित्तज्ञानं आस्रवक्षयज्ञानं च। विहाय षष्ठीमभिज्ञामितराः पृथग्जना अपि प्राप्नुवन्ति॥ ऋद्धिपादाभिज्ञा कतमा। एषा त्रिविधा। प्रथमा उत्पतनकर्म। द्वितीया निर्माणं। तृतीया आर्यपुद्गलाभिज्ञा॥ (तत्र)भवति त्रिविधमुत्पतनकर्म। प्रथमं स्वकायेन गमनं। तथाहि। पक्षिणामुत्पतनं। द्वितीयं भूमेरेतस्या अकस्मादन्तर्हितस्य देशान्तरगमनं। तृतीयं चेतोबलवशिता। यथा बाहुसमिञ्जितप्रसारणं। एषा सर्वबुद्धाभिज्ञा नान्यतीर्थिकानां॥ नित्यं पश्यति कायं शून्यं शिक्षते लघूत्थानमित्येतेन मार्गेण (उत्पतनरूपां)ऋद्धि पादाऽभिज्ञामुपैति। प्रतिबलो भवितुं महान्। प्रतिबलो भवितुं क्षुद्रः। प्रतिबलः प्रभूतं कर्तुमल्पं। प्रतिबलोऽल्पं कर्तुं प्रभूतं। प्रतिबलः परिवर्तयितुं विविधवस्तूनि। इति निर्माणर्द्ध्यभिज्ञा। पृथग्जनानां निर्माणं भवति सप्तदिनानि यावत् अनतिक्रम्य सप्तदिनानि निरुद्ध्यति। बुद्धानां बुद्धात्मजानां वशे वर्तते निर्माणं निर्माणकालश्च। पश्यन् लोकं शुचिमशुचिमिवाशुचिं शुचिमिव विहाय शुच्यशुच्यनुस्मृतिमुपेक्षास्मृतिचित्तो भवतीत्यार्यपुद्गलाभिज्ञा। एतास्त्रिविधा अभिज्ञाश्चतुर्णामृद्धिपादानां बलेन जायन्ते। (अपरे)सर्वरूपालंबनाः क्रमेण प्राप्नुवन्ति लघूत्थानं बुद्धास्तु युगपत्प्रात्नुवन्ति॥ दिव्यचक्षुरभिज्ञा स्वचक्षुर्निष्ठा भवति। रूपधातुचतुर्महाभूतपरिशुद्धिजो भवति दिव्यचक्षुर्लाभः। स्वभूम्यामधोभूम्यां च स्पष्टं पश्यति (यद्भवति)दूरे (यच्च भवति)अन्तिके पश्यति सर्वं सूक्ष्मरूपं सूर्याचन्द्रमसौ तारा अग्निं मणिमित्येष मार्गो (येन)दिव्यचक्षुरभिज्ञालाभः॥ दिव्यश्रोत्राभिज्ञा स्वश्रोत्रनिष्ठा। रूपधातुचतुर्महाभूतपरिशुद्धिजो भवति दिव्यश्रोत्रलाभः। श्रृणोति विजानाति बुद्ध्यति च विविधान् दिव्यान् मानुषान् नारकान् प्रेततिर्यग्जान् शब्दानित्येष मार्गो (येन)दिव्यश्रोत्राभिज्ञालाभः॥ पूर्वनिवासविज्ञानाभिज्ञा। स्मरति पूर्वलोकवृत्तं यस्मादगतो यस्मिंश्च देशे समुत्पन्नः - इत्येष मार्गो (येन)पूर्वनिवासाभिज्ञामुपैति॥ परचित्तज्ञानाभिज्ञा। नित्यमनुस्मरति परेषां क्लिष्टचित्तं परेषां पर्यवदातचित्तं सर्वं जानाति स्वचित्तोत्पादनिरोधं प्रतिबलो भवति विविच्य परिज्ञातुमित्येष मार्गो (येन)परचित्ताभिज्ञामुपैति॥ त्रैधातुकास्रवाणां सर्वस्या आत्म(दृष्टः)निरोधेनैवं जानाति पंचोपादनस्कन्धाः अनित्याः इत्येवमादि। इत्यनुस्मरत एतेन मार्गेण आस्रवक्षयाभिज्ञालाभः॥



 



५। पूर्वनिवासाभिज्ञा दिव्यचक्षुः आस्रवक्षयश्चेति तिस्रो विद्याः। पूर्वनिवासाभिज्ञा संसारक्रमहेतुप्रत्ययान् वेत्तीत्युच्यते विद्या। दिव्यश्रोत्राभिज्ञा यथाकृतकर्मफलप्राप्ते हेतुप्रत्ययान् वेत्तीत्युच्यते विद्या। (आस्रवक्षयाभिज्ञा)कामधातुरूपारूपधात्वाश्रयक्षयं आत्म(दृष्टि)क्षयं सर्वास्रव(क्षयं वेत्तीति)उच्यते विद्या॥



 



६। दश कृत्स्नायतनानि। मनसि करोति कृत्स्नां पृथिवीं नान्यत् मनसि करोति। इति पृथिवीकृत्स्नायतनं। यावद् विज्ञानकृत्स्नायतनमप्येमेव॥



 



७। अष्टौ विमोक्षाः। अध्यात्मं रूपसंज्ञी बहिर्धा पश्यति रूपाणि। अध्यात्ममरूपसंज्ञी बहिर्धा पश्यति रूपाणि। शुभं विमोक्षं साक्षात्करोति। चत्वार्यरूपध्यानानि। निरोधसमापत्तिश्च। इत्यष्टौ विमोक्षाः॥ आलंबनंपश्यन् परिवर्तयति चित्तं प्राप्नोति विमुक्तिमिति विमोक्षः। पश्यत्यध्यात्मरूपमशुचि,पश्यति च बहिर्धारूपं (न तथा)इति प्रथमो विमोक्षः। न पश्यत्यध्यात्मरूपं,पश्यति बहिर्धारूपमशुचि - इति द्वितीयो विमोक्षः। विभज्य पश्यत्यध्यात्मंबहिर्धा च रूपं सर्वं शुचिरूपमिति तृतीयो विमोक्षः। चत्वार्यरूपध्यानानि चत्वारो विमोक्षाः। निरोधः (अष्टमो)विमोक्षः॥



 



८। अध्यात्मं रूपसंज्ञी बहिर्धा पश्यति रूपाणि परित्तानि सुवर्णानि दुर्वर्णानि। इत्यालंबनमभिभूय जानाति पश्यतीति प्रथममभिभ्वायतनं। अध्यात्मं रूपसंज्ञी बहिर्धा पश्यति रूपाणि अप्रमाणानि सुवर्णानि दुर्वर्णानि। इत्यालंबनमभिभूमय जानाति पश्यतीति द्वितीयमभिभ्वायतनं। अध्यात्ममरूपसंज्ञी बहिर्धा पश्यति रूपाणि परित्तानि सुवर्णानि दुर्वर्णानि। इत्यालंबनमभिभूमय जानाति पश्यतीति तृतीयमभिभ्वायतनं। अध्यात्ममरूपसंज्ञी बहिर्धापश्यति रूपाणि अप्रमाणानि सुवर्णानि दुर्वर्णानि। इत्यालंबनमभिभूय जानाति पश्यतीति चतुर्थममभिभ्वायतनं। अध्यात्ममरूपसंज्ञी बहिर्धा पश्यति रूपाणि नीलानि। इत्यालंबनमभिभूय जानाति पश्यतीति पंचममभिभ्वायतनं। पीत-लोहिता-ऽवदातान्यप्येवं॥



 



९। (अप्रमाणायतनान्यष्टौ)। अध्यात्ममनभिभूतरूपसंज्ञी बहिर्धा शुद्धानि परित्तानि रूपाणि पश्यतीति प्रथममप्रमाणायतनं द्वितीयं। अध्यात्ममभिभूतरूपसंज्ञी बहिर्धा शुद्धानि परित्तानि रूपाणि पश्यतीति तृतीयमप्रमाणायतनं। चतुर्थम्। (एवम्)अन्यानि नील-पीत-लोहिता-ऽवदातानि द्रष्टव्यानि चत्वारि॥ अभिभवत्यालंबनं परिशुद्धमित्युच्यतेऽभिभ्वायतनं। सम्यग्‍रूपाकारवैशिष्ट्यनिर्मलत्वाद्विमोचयतीत्यभिभ्वायतनस्य नामान्तरं त्रयो विमोक्षाः। चत्वार्यभिभ्वायतनानि अष्टौ कृत्स्नायतनानि शुभविमोक्षसंगृहीतानि॥



 



१०। दश ज्ञानान्युक्तपूर्वाणि। मैत्री करुणा मुदिता चेति तिस्रः पंचाभिज्ञाश्च मौलेषु चतुर्षु ध्यानेषु विद्यन्ते। षड्भूमिषु धर्मज्ञानं विद्यते असमापत्तिध्यानेषु मध्यमध्यानेषु मौलचतुर्ध्यानेषु। मुदिता प्रथमा द्वितीया च विमुक्तिः आद्यानि चत्वार्यभिभ्वायतनानि प्रथमध्याने द्वितीयध्याने च विद्यन्ते। अपराण्यभिभ्वायतनानि शुभविमोक्षश्च अष्टौ कृत्स्नायतनानि च चतुर्थध्याने विद्यन्ते। अपरौ विमोक्षौ द्वे कृत्स्नायतने च स्वनामसंगृहीतानि। निरोधविमोक्षो भवाग्रसंगृहीतः। त्रयः समाधयः सप्तज्ञानानि अनास्रवाभिज्ञा च नवभूमिसंगृहीतानि। स्थापयित्वा भवाग्रेऽन्वयज्ञानं॥



 



११। दशभूमिष्वरूपधातोस्त्रयो विमोक्षाः सास्रवा वा भवन्ति। अनास्रवा वा। अन्य(धातुकाः)त्रयो विमोक्षाः अष्टावभिभ्वायतनानि दश कृत्स्नायतनानि सास्रवाणि। भवाग्रे सर्वं सास्रवं मन्दं न तीक्ष्णमिति स (भवाग्रः)सास्रवः। निरोधसमापत्तौ न प्रज्ञेति सा सास्रवा। पंचाभिज्ञासु बाहुल्येनाव्याकृतचित्तं। चतुरप्रमाणानि सत्त्वालंबनतया सास्रवाणि॥



 



१२। कामरागस्यापरिक्षये त्रैधातुकसंयोजनानि भवन्ति। परीक्षीणे कामरागे भवन्ति रूपारूप्यधातुसंयोजनानि। रूप(धातु)रागक्षये भवन्त्यारूप्यधातुसंयोजनानि। अरूपधातुरागक्षये न भवन्ति त्रैधातुकानि संयोजनानि॥ कामधातुरागक्षये परिशुद्धस्यानास्रवस्य प्रथमध्यानस्य सिद्धिः। एवं सर्वासु भूमिषु आर्यपुद्गलस्यानास्रवत्वसिद्धिः॥ आर्यपुद्गल ऊर्ध्वाधोभूमिको भवन्यनास्रवः। पंचाभिज्ञाचतुरप्रमाणवतो न भवन्त्यधोभूमिसंयोजनमलानि॥ लौकिकमार्गमाश्रित्त्य असमापत्तिध्यानभूमिको जहात्यधोभूमिरागं। एवं सर्वभूमिकः॥ अनास्रवमार्गमाश्रित्य मौलध्यानभूमिकः स्वभूमिकमूर्ध्वभूमिकं चापि जहाति रागं। एवं सर्वभूमिकः॥ तेन पृथग्जनो भवाग्रे न रागप्रहाणप्रतिबलो भवति। ऊष्मधर्मा मूर्धधर्मा क्षान्तिधर्मा लौकिकाग्रधर्मा (हि)प्रहीणरागपुद्गलः॥



 



१३। सास्रवध्यानभावनाया द्वावध्वानौ प्रत्युत्पन्नोऽनागतश्च। सत्यदर्शनमार्गे दुःखसमुदयनिरोधान्वयज्ञाने प्रत्युत्पन्नाध्वभावनयाऽनास्रवं ज्ञानं। अनागतं द्विविधं सास्रवमनास्रवं ज्ञानं। अवशिष्टचित्तान्तरे प्रत्युत्पन्नमनास्रवं अनागतमनास्रवं॥ बुद्धात्मजो जहाति चेत्कामरागं आश्रयति चासमापत्तिध्यानभूमिं प्रत्युत्पन्नाध्वनि भावयति सास्रवमार्गं अनागते भावयति सास्रवानास्रवमार्गे नवमविमोक्षमार्गे प्रत्युत्पन्ने भावयति सास्रवमार्गं अनागते भावयति सास्रवानास्रवं॥ प्रथमध्यानिकः भावितानास्रवासमापत्तिध्यानिकः आस्रयति चेद् असमापत्तिध्यानं प्रत्युत्पन्ने भावयत्यनास्रवमार्गं अनागते भावयति सास्रवानास्रवमार्गं नवमविमोक्षमार्गे प्रत्युत्पन्नाध्वनि भावयत्यनास्रवमार्गं अनागते भावयति सास्रवानानास्रवमार्गं॥ प्रथमध्यानिको बुद्धात्मजो जहाति चेत्प्रथमध्यानरागं आश्रयति असमापत्ति (=अनागम्य)द्वितीयध्यानभूमिं प्रत्युत्पन्नाध्वनि भावयति सास्रवमार्गं अनागते भावयति सास्रवानास्रवमार्गं नवमविमोक्षमार्गे प्रत्युत्पन्नाध्वनि भावयति सास्रवमार्गं अनागते भावयति अनास्रवं॥



 



१४। त्रिभूमिकप्रथमध्यानिको भावयंश्च शुद्धं (=शुभं)अनास्रवं द्वितीयध्यानं जहाति चेत् प्रथमध्यानरागं (तर्हि)आश्रित्यानास्रवमार्गं द्वितीयध्यानमुपसंपादयति। स्वभूमौ भावयत्यनास्रवं अन्यभूमौ भावयति सास्रवानास्रवमार्गं। नवमविमोक्षमार्गे प्रत्युत्पन्नाध्वनि भावयत्यनास्रवमार्गं अनागते भावयत्यनास्रवं। त्रिभूमिकप्रथमध्याने शुद्धे (=शुभे)ऽनास्रवे द्वितीयध्याने च यावत् आकिंचन्यायतने रागप्रहाणमप्येवमेव॥



 



१५। भवाग्रे रागप्रहाणकाले भावयति सर्वानास्रवध्यानानि नवमविमोक्षमार्गे प्रत्युपन्नाध्वनि भावयत्यनास्रवमार्गं अनागते भावयत्यनास्रवं भावयति च त्रिधातुप्रतिसंयुक्तकुशलमूलानि त्रयोविंशतिविधान् समाधीन् सास्वादानष्टौ शुद्धानष्टौ अनास्रवान् सप्त (चेति)॥ 



 



१६। सर्वानास्रवसप्तभूमयोऽनास्रवस्वभावहेतुकाः। स्वभूमिरनास्रवा। अनास्रवा स्वभूमिस्त्रिविधहेतुका संप्रयुक्तकहेतुका सहभूहेतुका स्वभावहेतुका। प्रथमः सास्वादसमाधिः प्रथमसास्वादसमाधिहेतुकः नान्यहेतुकः। प्रथमोऽनास्रवसमाधिः क्रमेण जनयति षड्विधान् समाधीन्। (तद्यथा)। द्विविधं प्रथमं ध्यानं शुद्धं (=शुभं )अनास्रवं च। एवं द्वितीयध्यानं तृतीयध्यानं च॥



 



१७। अनास्रवं द्वितीयध्यानं क्रमेण जनयत्यष्टौ भूमीः। स्वभूमि र्द्विधा। ऊर्ध्वभूमि श्चतुर्धा। अधो भूमि र्द्विधा (चेति)॥ अनास्रवं तृतीयध्यानं चतुर्थध्यानं आकाशानन्त्यायतनसमाधिश्च क्रमेण जनयन्ति दश भूमीः। ऊर्ध्वभूमयश्चतस्रः। अधोभूमयश्चतस्रः। स्वभूमी द्वे॥ अनास्रवं विज्ञानानन्त्यायतनं क्रमेण जनयति नव भूमीः। ऊर्ध्वभूमयस्तिस्रः। अधोभूमयश्चतस्रः। स्वभूमी द्वे॥ अनास्रवः आकिंचन्यायतनसमाधिः क्रमेण जनयति सप्तभूमीः। ऊर्ध्वभूमिरेका। अधोभूमयश्चतस्रः। स्वभूमी द्वे॥ शुद्ध (=शुभ)ध्यानान्यपि तथा॥



 



१८। आस्वादः क्रमेण जायते द्विविधः स्वभूमिकः आस्वादः अथोऽपि शुद्धः (=शुभः)। एवं सर्वभूमयः सर्वसमापत्तयश्च शुद्धाः(=शुभाः)अनास्रवाः सर्वालंबनाः सर्वधर्मालंबनाः। आस्वादः स्वभूमिकः स्वभूमिकास्वादालंबनः अथोऽपि शुद्धालंबनः। आस्वादो न भवितव्योऽनास्रवालंबनः शुद्धः (=शुभः)। अनास्रवः आरूप्यसमाधिः न सास्रवभूम्यालंबनः। सास्वादः आरूप्यसमाधिः स्वभूम्यास्वादालंबनः शुद्ध शुभालंबनश्च नानास्रवालंबनः॥



 



१९। चत्वार्यप्रमाणानि अष्टौ अभिभ्वायतनानि त्रयो विमोक्षाः अष्टौ कृत्स्नायतनानि (चेति)धर्माः सर्वे कामधात्वालंबनाः। पंचाभिज्ञाः कामरूपधात्वालंबनाः॥



 



२०। सर्वाधिवासनाध्यानेषु अनास्रवध्यानमधिवासयति सास्रवध्यानं। चतुर्थध्यानिकः पुद्गलः प्रथममधिवासयति चतुर्थध्यानं ततोऽधिवासयत्यधराणि त्रीणि ध्यानानि। प्राप्नोति पंचशुद्धाधिवासफलं। अक्षोभ्यधर्माऽर्हन् प्राप्नोति सर्वध्यानसमाधीन्। स प्रतिबलो लब्धुमग्रध्यानं प्रतिबलो धर्तुमायुः प्रतिबलो हातुमायुः प्रणिधिज्ञानः चित्तेन यथाकाममखिलं जानात्यतीतागतप्रत्युत्पन्नसर्वधर्मान् भूयो जानात्यनागतधर्मान्॥



 



२१। चतस्रः प्रतिसंविदः। धर्मप्रतिसंवित् निरुक्तिप्रतिसंवित् प्रतिभानप्रतिसंवित् अर्थप्रतिसंवित्॥ परचित्ते नोद्भावयति द्वेषमित्यकोप्यं चतुर्ध्यानेषु संगृहीतं कामधातुनापि च (संगृह्यते)॥ धर्मप्रतिसंवित् निरुक्तिप्रतिसंविच्च कामधातुसंगृहीते ब्रह्मलोकेष्वपि (संगृह्येते)। अन्ये द्वे प्रतिसंविदौ नवभूमिसंगृहीते॥



 



२२। कामधातौ चतुर्षु (रूपधातु)ध्यानेषु चतुर्ष्वारूप्येषु शुद्धस्य (=शुभस्य )ध्यानस्य द्विवारं लाभः। रागप्रहाणकाले (लाभः)जन्मकाले लाभः। सास्वादध्यानस्य द्विवारं लाभः। व्युत्थानकाले लाभः जन्मकाले लाभः। अनास्रवं ध्यानं द्विःकृत्वो लभ्यते। व्युत्थानकाले लभ्यते। रागप्रहाण(काले)लभ्यते। नवभूमिसंगृहीतमनास्रवं संयोजनप्रहाणाय समर्थं॥



 



२३। निर्माणचित्तानि चतुर्दश। रूपधातौ दश चित्तानि। कामधातौ चत्वारि चित्तानि। प्रथमध्याने द्वे निर्माणचित्ते। प्रथमध्यानिकमेकं कामधातुकं चैकं। द्वितीयध्याने त्रीणि निर्माणचित्तानि। द्वितीयध्यानिकमेकं प्रथमध्यानिकमेकं कामधातुकमेकं। तृतीयध्याने चत्वारि निर्माणचित्तानि। तृतीयध्यानिकमेकं द्वितीयध्यानिकमेकं प्रथमध्यानिकमेकं कामधातुकमेकं। चतुर्थध्याने पंच (निर्माणचित्तानि)। (चतुर्थध्यानिकमेकं तृतीयध्यानिकमेकं द्वितीयध्यानिकमेकं प्रथमध्यानिकमेकं कामधातुकमेकं)॥



 



२४। कतमद्धयानं परिपूरितं (=सिद्धं)भवति। (यदा)फलभूतमधोभूमिकं निर्माणचित्तं निष्पादयति त्रिध्यानभूमिकां स्थितिं ब्रह्मलोकविज्ञानं (चास्य)पुरतो वर्तते समर्थो (भवति)द्रष्टुं श्रोतुं तदा परिपूरितं भवति (ध्यानं)। अथ (यदा)निरोधस्तदाऽपरिपूरितं (=असिद्धं)भवति।



 



[इत्यभिधर्मामृतशास्त्रे संकीर्णसमाधिनिर्देशो नाम त्रयोदशो बिन्दुः॥]


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project