Digital Sanskrit Buddhist Canon

द्वादशो बिन्दुः

Technical Details
  • Text Version:
  • Input Personnel:
  • Input Date:
  • Proof Reader:
  • Supplier:
  • Sponsor:
Parallel version

Dvādaśo binduḥ


 



द्वादशो बिन्दुः



 



ध्यानम्



 



१। अधिगतध्यानसमापत्त रैकाग्रचित्तस्य विविक्तं भवति चित्तं परिशुद्धा च भवति प्रज्ञा। यथा निवातस्थो दीपो भास्वरो भवति परिशुद्धश्च॥



 



२। ध्यानानि कति। अष्टौ ध्यानानि। चत्वारि (रूप-)ध्यानानि। चत्वार्यारूप्यध्यानानि॥ चत्वारि ध्यानानि (रूपधातौ)प्रथमध्यानं द्वितीयध्यानं तृतीयध्यानं चतुर्थध्यानं च। एतेषु ध्यानेषु त्रीणि ध्यानानि सास्वादसंप्रसादनानास्रवाणि॥ तृष्णासंप्रयोगो नामास्वादः। कुशलसास्रवसमाधिर्नाम संप्रसादनं॥ अक्लेशो नामानास्रवः॥ भवाग्रे ध्यानं द्विविधं। सास्वादं ससंप्रसादनं च। न (तत्र)अनास्रवध्यानकुशलधर्मः॥



 



३। शून्ये प्रविविक्ते प्रदेशे निषद्यायां वा स्थाने वा शयने वा गमने वा चंक्रमणे वा समाहितेन मनसा तीक्ष्णया प्रज्ञया गंभीरा श्रद्धा (जनयितव्या)। एवं भवति चित्तस्य ध्यानेऽवतारः। ध्यानसंप्रयुक्ताः श्रद्धावीर्यस्मृतिप्रज्ञासमाधयो भवन्ति। एतेभ्यः कुशलधर्मेभ्यः प्रथमध्यानाधिगमो भवति। विविच्य कामैर्विविच्याकुशलधर्मैः सविचारं सवितर्कं कामविवेकजं प्रतीसुखं प्राप्नोतीत्युच्यते प्रथमं ध्यानं॥ बहिर्धायतनेष्वासंगः तथाहि कामछन्दो व्यापादः स्त्यानमिद्धमौद्धत्यकौकृत्यं विचिकित्सा। एतानि पंच नीवरणान्युच्यन्तेऽकुशलधर्माः। द्विविधानामध्यात्मिकबाह्यानामकुशलधर्माणां प्रहाणमुच्यते विवेकः। आलंबने चेतःप्रवृत्तिरुच्यते वितर्कः। चित्तस्योद्गृहीतसंस्कारानुचिन्तनमुच्यते विचारः। अकुशलधर्मप्रहाणबलप्राप्तः समाधिरुच्यते कामविवेकः। मनोजातं सौमनस्यमुच्यते प्रीतिः। कायचित्तयोरविक्षेप उच्यते सुखं। चित्तस्यालांबनयोग उच्यते समाधिः। एतैः प्रथमध्यानस्य पंचांगैर्विविक्तो भवति रागो महादुःखः पापोऽसुखः समुन्मज्जति बलं। एवं श्रद्धादीन्भावयतश्चित्ते कुशलचित्तधर्मोत्पादः। इति प्रथमध्यानमार्गप्राप्तिः॥ एष त्रिभिर्वेदनेन्द्रियैः संप्रयुक्तो भवति प्रीतिसुखोपेक्षेन्द्रियैः। सुखेन्द्रियं त्रिभिर्विज्ञानैः संप्रयुक्तं भवति चक्षुःश्रोत्रकायविज्ञानैः। प्रीतीन्द्रियं मनोविज्ञानसंप्रयुक्तं भवति। उपेक्षेन्द्रियं चतुर्विज्ञानसंप्रयुक्तं भवति। प्रथमध्यानिकाः नानाकायनानासंज्ञिनो नानाकायैकसंज्ञिनो भवन्ति। प्रथमध्याने चत्वारि विज्ञानानि भवन्ति। चक्षुःश्रोत्रकायमनो (विज्ञानानि)। इति प्रथमं ध्यानं॥



 



४। वितर्कविचारोपशमात् अध्यात्मं संप्रसादनः एकाग्रसमाहितः अवितर्कोऽविचारः समाधिरुपजायते प्रीतिसुखसंप्रयुक्तः। इति द्वितीयं ध्यानं। वितर्कविचारौ उक्तपूर्वौ। तयोः प्रहाणमुच्यते उपशमः। सर्वभूमिषु श्रद्धा व्यपगतमलोच्यतेऽध्यात्मं संप्रसादनं। मनोविज्ञानस्यालंबनयोगेनाबर्हिमुखतोच्यते एकाग्रसमाधिः। प्रीतिसुखांगे उक्तपूर्वे। इदं (द्वितीयध्यानं)द्वाभ्यामिन्द्रियाभ्यां संप्रयुक्तं भवति प्रीतीन्द्रियेणोपेक्षेन्द्रियेण च। (एतद्धयानिकाः)भवन्ति नानाकायैकसंज्ञिनः प्रीतिसंप्रयुक्ताः। मौलभूमयो भवन्त्युपेक्षेन्द्रियसंप्रयुक्ताः। क्षपयित्वा वितर्कविचारमलं क्षपयित्वा पुण्यवासनां स एष मार्गो द्वितीयध्यानोन्मुखः॥



 



५। प्रीत्या विरागाद् उपेक्षको विहरति प्रतिसंवेदयति कायेन सुखं भवत्यनास्रवः पुद्गलः स उच्यते उपेक्षकः स्मृतिमान् सुखविहारी तृतीयं ध्यानमवतीर्णः। प्रीतिविरागो यथोक्तपूर्वः। उपेक्षाचित्तस्योपेक्षासुखे इति द्विधा वेदना। सुखमक्लिष्टं। तदेतत्सुखं कायेनानुभूयते साक्षात्क्रियते। एतत्सुखं दुरधिगमो भूतधर्म इत्यनास्रवमुच्यते सुखं। अत्राप्युपेक्षाश्रद्धादिसर्वकुशलधर्मभावना। इत्येष मार्गो भवति तृतीयध्यानोन्मुखः। पश्यन् प्रीतिमकुशलां निष्प्रीतिकं सुखं साक्षात्कुर्वन् ध्यायति। स्थापयित्वा (अन्यांगान्यत्र)सुखमुपेक्षा स्मृतिः संप्रज्ञानं समाधिश्चेति पंचांगानि भवन्ति यथोक्तपूर्वाणि। इति तृतीय ध्यानं॥



 



६। सुखस्य प्रहाणात् पूर्वमेव दुःखस्य प्रहाणात् सौमनस्यदौर्मनस्ययोरस्तंगमादुपेक्षास्मृतिपरिशुद्धमुपसंपादयति चतुर्थं ध्यानं। श्रद्धादिसर्वकुशलधर्माणाम् (अत्रापि भावना)। अपि च पश्यन् सुखदुःखदोपमदुःखासुखो भवति सुप्रतिष्ठितः। इत्येष मार्गोऽवतरति चतुर्थध्यानं। (अत्र भवन्ति)चत्वार्यंगानि उपेक्षा स्मृतिः संप्रज्ञानं समाधिश्चेति।



 



७। सर्वध्यानांगानि भवन्ति कुशलानि। असमापत्तिध्यानभूमिः सवितर्का भवति सविचारा। मध्यमध्यानभूमिरवितर्का भवति सविचारा। एते द्वे ध्यानभूमी उपेक्षेन्द्रियसंप्रयुक्ते। असमापत्तिध्यानभूमिर्द्विविधा संप्रसादनानास्रवाऽनास्वादा चेति। चत्वारि ध्यानानि त्रिविधानि सास्वादानि संप्रसादनानि अनास्रवाणि च। इति ध्यानधर्माः॥



 



८। रूपसंज्ञानां समतिक्रमात् पश्यत्यनन्तमवकाशमित्याकाशानन्त्यायतनसमापत्तिमवतरति आकाशानन्त्यायतनसुप्रतिष्ठितः साक्षात्कुर्वन्निमं मार्गमुपसंपादयति आकाशानन्त्यातनसमाधिं। अनन्तं विज्ञानमिति भावयन् विज्ञानानन्त्यायतनमवतीर्य पश्यन्नाकाशानन्त्यायतनदोषं विज्ञानानन्त्यायतनसुप्रतिष्ठितः साक्षात्कुर्वन्निमं मार्गमुपसंपादयति विज्ञानानन्त्यायतनसमाधिं। विज्ञाननन्त्यायतनगतिर्दुःखेति भावयति आकिंचन्यायतनगतिमवतरत्याकिंचन्यायतनसमापत्तिं पश्यन् विज्ञानानन्त्यायतनदोषमाकिंचन्यायतनसुप्रतिष्ठितः  साक्षात्कुर्वन्निमं मार्गमुपसंपादयत्याकिंचन्यायतनसमाधिं। संज्ञायतनं रोग इति असंज्ञायतनं मोह इत्येवं भावयन् नैवसंज्ञानासंज्ञायतनसमापत्तिमवतीर्य पश्यन्नाकिंचन्यायतनदोषं नैवसंज्ञानासंज्ञायतनसुप्रतिष्ठितः साक्षात्कुर्वन्निमं मार्गमुपसंपादयति नैवसंज्ञानासंज्ञायतनसमाधिमिति नैव संज्ञानासंज्ञायतन ध्यानं॥



 



९। निर्वाणगामिनी प्रतिपद् द्विविधा। प्रथमा कायाशुच्यनुपश्यना द्वितीया आनपानस्मृतिः। कायस्मृत्युपस्थाने प्रथमद्वितीयविमोक्षौ। चतुर्षु अभिभ्वायतनेषु अशुचिधर्माः। समाहितः संख्यात्यानापानं एकं द्वे यावत् दश क्षणान् आनापानप्रवेशनिर्गममवष्टभ्य यथा द्वारपालकः पश्यति सर्वधर्मा उदयव्यया इति। द्वयो लक्षणयोः स्वलक्षणं षड्भेदभिन्नं। पश्यति कायः अनित्यः दुःखः शून्यः अनात्मकः - इति पश्यन्नेवं सर्वधर्मान् लोकसंत्रस्तः पर्यायेण प्रहाय मलं भावयन् कुशलधर्मान् निर्वाणाभिमुखो भवति॥



 



१०। असमापत्तिध्यानभूमिः मध्यमध्यानभूमिः चतुर्ध्यानभूमयः तिस्र आरूप्यध्यानभूमयश्चेति द्विविधाः। सास्रवा अनास्रवाश्च। भवाग्रः सर्वोऽपि सास्रवः॥



 



११। दशसंज्ञाः। अनित्य(संज्ञा)दुःख दुःखानात्मक आहारानुपश्यना सर्वलोकेऽसुख अशुचि मरण प्रहाण विराग निरोधसंज्ञा॥ भावयति सर्वसंस्कारा अनित्या इत्यनित्यसंज्ञा। भावयति जात्यादिदुःखपरिपूर्णोऽयं लोक इति दुःखसंज्ञा। भावयत्यध्यात्मं बहिर्धा (सर्वं)अनित्यं दुःखं शून्यमनात्मकमिति दुःखानात्मसंज्ञा। भावयति महता कृछ्रेणोपलब्ध आहारोऽभ्यवह्रियमाणोऽशुचिर्भवतीत्याहारानुपश्यनासंज्ञा। भावयति जातिजरारोगमरणादिभयैः विविधक्लेशैः परिपूर्णोऽयं लोकः सर्व इत्यसुखसंज्ञा। स्वकायाभ्यन्तरे भूततोऽनुपश्यनोच्यतेऽशुचिसंज्ञा। भावयति सर्वा जातिर्नियतमरणेति मरणसंज्ञा। भावयत्यनित्येविरागितामिति विरागसंज्ञा। भावयति पंचोपादानस्कंधानामपुनर्भवे निरोधे स्थापने संपरित्यागे निर्वाणमिति निरोधसंज्ञा। एता दश संज्ञा नित्यं भावयता भवति दुःखनिरोधप्राप्तिः॥



 



[इत्यभिधर्मामृतशास्त्र ध्याननिर्देशो नाम द्वादशो बिन्दुः॥]


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project