Digital Sanskrit Buddhist Canon

एकादशो बिन्दुः

Technical Details
  • Text Version:
  • Input Personnel:
  • Input Date:
  • Proof Reader:
  • Supplier:
  • Sponsor:
  • Other Version
    N/A


 



एकादशो बिन्दुः



 



ज्ञानम्



 



१। दश ज्ञानानि। धर्मज्ञानं अन्वयज्ञानं संवृतज्ञानं परिचित्तज्ञानं दुःखज्ञानं समुदयज्ञानं निरोधज्ञानं मार्गज्ञानं क्षयज्ञानं अनुत्पादज्ञानं च॥



 



२। धर्मज्ञानं कतमत्। कामधातुप्रतिसंयुक्तसर्वसंस्कारदुःखेऽनास्रवज्ञानं। कामधातुप्रतिसंयुक्तसर्वसंस्कारसमुदयेऽनास्रवज्ञानं। कामधातुप्रतिसंयुक्तसर्वसंस्कारनिरोधेऽनास्रवज्ञानं। कामधातुप्रतिसंयुक्तसर्वसंस्काराणां मार्गहेयत्वाद् मार्गेऽनास्रवज्ञानं धर्मभूमौ चानास्रवज्ञानमित्युच्यते धर्मज्ञानं॥



 



३। अन्वयज्ञानं कतमत्। रूपारूप्यधातुप्रतिसंयुक्तसर्वसंस्कारदुःखेऽनास्रवज्ञानं। रूपारूप्यधातुप्रतिसंयुक्तसर्वसंस्कारसमुदयेऽनास्रवज्ञानं। रूपारूप्यधातुप्रतिसंयुक्तसर्वसंस्कारनिरोधेऽनास्रवज्ञानं। रूपारूप्यधातुप्रतिसंयुक्तसर्वसंस्काराणां मार्गहेयत्वाद् मार्गे अनास्रवज्ञानं अन्वयज्ञाने अन्वयज्ञानभूमौ चानास्रवज्ञानमित्युच्यते अन्वयज्ञानं॥



 



४। संवृतज्ञानं कतमत्। सर्वा सास्रवा प्रज्ञा कुशला वा अकुशला वा अव्याकृता वेत्युच्यते संवृतज्ञानं॥



 



५। परचित्तज्ञानं कतमत्। ध्याने भावनाबलेनावाप्नोति कामधातौ परस्य चित्तचैतसिकधर्माणां ज्ञानमित्युच्यते परचित्तज्ञानं॥



 



६। दुःखज्ञानं कतमत्। पंचोपादानस्कंधेषु अनित्यदुःखशून्यानात्मकं ज्ञानदर्शनमुच्यते दुःखज्ञानं॥



 



७। समुदयज्ञानं कतमत्। पंचोपादानस्कंधाः प्रतीत्यसमुत्पन्ना इत्यनास्रवं ज्ञानदर्शनमुच्यते समुदयज्ञानं॥



 



८। निरोधज्ञानं कतमत्। निरोधः सम्यक् प्रणीतः निःसरणमित्यनास्रवं ज्ञानदर्शनमुच्यते निरोधज्ञानं॥



 



९। मार्गज्ञानं कतमत्। अष्टांगिक आर्यमार्गः प्रतिपत्तव्यो निःसरणायेत्यनास्रवं ज्ञानदर्शनमुच्यते मार्गज्ञानं॥



 



१०। क्षयज्ञानं कतमत्। पश्यति दुःखं जहाति समुदयं साक्षात्करोति निरोधं भावयति मार्गमिति चतुर्षु धर्मेषु अनास्रवं ज्ञानदर्शनमुच्यते क्षयज्ञानं॥



 



११। अनुत्पादज्ञानं कतमत्। मया दृष्टं दुःखं न पुनर्द्रष्टव्यं। मम प्रहीणः समुदयः न पुनः प्रहातव्यः। साक्षात्कृतो निरोधो न पुनः साक्षात्कर्तव्यः। भावितो मार्गो न पुनर्भावयितव्यः। इति चतुर्षु धर्मेषु अनास्रवं ज्ञानदर्शनमुच्यतेऽनुत्पादज्ञानं॥



 



१२। एतेषु दशज्ञानेषु द्वे ज्ञाने षोडशाकारे धर्मज्ञानमन्वयज्ञानं च। ऊष्ममूर्धक्षान्तिधर्मेषु संवृतज्ञानं षोडशाकारं। लौकिकाग्रधर्मेषु संवृतज्ञानं चतुराकारं मार्गज्ञानवत्। सास्रवं परचित्तज्ञानमनाकारं। दुःखज्ञानं चतुराकारं। समुदयज्ञानं चतुराकारं। निरोधज्ञानं चतुराकारं। मार्गज्ञानं चतुराकारं। क्षयज्ञानमनुत्पादज्ञानं च प्रत्येकं चतुर्दशाकारं स्थापयित्वा शून्यमनात्मकं चाकारं॥



 



१३। असमापत्तिमध्यमध्यानभूम्योः भवन्ति नव ज्ञानानि स्थापयित्वा परचित्तज्ञानं। शिष्टेषु चतुर्षु ध्यानेषु दश ज्ञानानि। आरूप्यसमापत्तावष्टौ ज्ञानानि स्थापयित्वा धर्मज्ञानं परचित्तज्ञानं च। प्रथमेऽनास्रवचित्ते संपद्यमाने एकं (ज्ञानं)भवति संवृतज्ञानं। द्वितीयेऽनास्रवचित्ते संपद्यमाने त्रीणि ज्ञानानि संवृतज्ञानं धर्मज्ञानं दुःखज्ञानं च। तृतीयमनास्रवचित्तमतिक्रम्य चतुर्थेऽनास्रवचित्ते संपद्यमाने चत्वारि ज्ञानानि संवृतज्ञानं धर्मज्ञानं दुःखज्ञानं अन्वयज्ञानं च। पंचममनास्रवचित्तमतिक्रम्य षष्ठेऽनास्रवचित्ते संपद्यमाने पंच ज्ञानानि संवृतज्ञानं धर्मज्ञानं दुःखज्ञानं अन्वयज्ञानं समुदयज्ञानं च। सप्तममनास्रवचित्तमतिक्रम्य अष्टमं चाप्यनास्रवचित्तमतिक्रम्य नवमेऽनास्रव चित्ते संपद्यमाने षड्ज्ञानानि संवृतज्ञानं धर्मज्ञानं दुःखज्ञानं अन्वयज्ञानं समुदयज्ञानं निरोधज्ञानं च। दशमं चैकादशं चानास्रवचित्तमतिक्रम्य द्वादशेऽनास्रवचित्ते संपद्यमाने सप्तज्ञानानि संवृतज्ञानं धर्मज्ञानं दुःखज्ञानं अन्वयज्ञानं समुदयज्ञानं निरोधज्ञानं मार्गज्ञानं च। व्यपगते रागे विज्ञायते परचित्तज्ञानं॥



 



१४। द्विविधा भावना। प्रतिलंभभावना निषेवणभावना च। पूर्वमप्राप्तपुण्यस्याधुना प्राप्तस्योच्यते प्रतिलंभभावना। पूर्वं प्राप्तपुण्यस्य सांप्रतं तत्रस्थस्योच्यते निषेवणभावना॥ सत्यदर्शनमार्गे या प्रत्युत्पन्नाध्वभावना सा ह्यनागताध्वभावना। एवं सर्वक्षान्तिप्रत्युत्पन्नभावनापि [अनागताध्वभावना भवति]॥



 



१५। दुःखान्वयज्ञाने समुदयान्वयज्ञाने निरोधान्वयज्ञाने चेति त्रिषु अन्वयज्ञानेषु संवृतज्ञानभावना भवति। मार्गान्वयज्ञाने षण्णां सप्तानां वा ज्ञानानां भावना। न चेद्वैराग्यं षड्ज्ञानभावना। अस्ति चेद्वैराग्यं सप्तज्ञानभावना। परचित्तज्ञानमतिक्राम्यति स्रोतआपन्नफलं। सप्तदशे चित्तक्षणे सप्तज्ञानभावना स्थापयित्वा क्षयज्ञानमनुत्पादज्ञानं परचित्तज्ञानं च। सप्तदशे चित्तक्षणे श्रद्धाविमुक्तानामधिमात्रेन्द्रियप्राप्तिकाले आनन्तर्यविमोक्षमार्गयोः षड्ज्ञानभावना स्थापयित्वा परचित्तज्ञानं संवृतज्ञानं क्षयज्ञानं अनुत्पादज्ञानं च। प्राप्तानागामिफलस्य विमुक्तिमार्गेऽष्टज्ञानभावना स्थापयित्वा क्षयज्ञानं अनुत्पादज्ञानं च। अस्यानन्तर्यमार्गे सप्तज्ञानभावना स्थापयित्वा परचित्तज्ञानं क्षयज्ञानं अनुत्पादज्ञानं च। नैवसंज्ञानासंज्ञायतनवैराग्यलाभकालेऽष्टसु विमुक्तिमार्गेषु सप्तज्ञानभावना स्थापयित्वा संवृतज्ञानं क्षयज्ञानं अनुत्पादज्ञानं च। नवमे आनन्तर्यमार्गे षड्ज्ञानभावना स्थापयित्वा संवृतज्ञानं परचित्तज्ञानं क्षयज्ञानं अनुत्पादज्ञानं च॥



 



१६। आद्याशैक्षचित्ते सास्रवानास्रवसर्वकुशलमूलभावना। आद्यमशैक्षचित्तं दुःखान्वयज्ञानसंप्रयुक्तं। कश्चिदाह। समुदयान्वयज्ञानसंप्रयुक्तमिति। तत्कस्य हेतोः। (यस्मात्)नैवसंज्ञानासंज्ञायतनं जातिप्रत्ययसंप्रयुक्तं॥



 



१७। आद्यमशैक्षचित्तं दृष्ट्वा सत्यं गवेषयत्यष्टौ क्षान्तीरित्युच्यते दर्शनं न तु ज्ञानं। क्षयज्ञानमनुत्पादज्ञानं च न दर्शनं। शिष्टाऽनास्रवा प्रज्ञा प्रज्ञापि  दर्शनमपि ज्ञानमपि। वर्जयित्वा मनोविज्ञानसंप्रयुक्तां कुशलां सास्रवां प्रज्ञां पंच मिथ्यादृष्टीश्च शिष्टा सास्रवा प्रज्ञा ज्ञानमपि प्रज्ञापि न तु दर्शनं॥



 



१८। धर्मज्ञानं नवज्ञानालंबनं स्थापयित्वान्वयज्ञानं। अन्वयज्ञानं नवज्ञानालंबनं स्थापयित्वा धर्मज्ञानं। मार्गज्ञानं नवज्ञानालंबनं स्थापयित्वा संवृतज्ञानं। दुःखज्ञानं समुदयज्ञानं च सर्वसास्रवधर्मालंबने। दशज्ञानालंबनानि शिष्टानि ज्ञानानि संवृतज्ञानं परचित्तज्ञानं क्षयज्ञानमनुत्पादज्ञानं च॥



 



१९। निरोधधर्मज्ञानं मार्गधर्मज्ञानं चेति द्विविधं ज्ञानं भवति त्रिधातुसंयोजननिरोधाय॥



 



२०। षडभिज्ञाः। (तत्र)चतंसृष्वभिज्ञासु (एकमेव)संवृतज्ञानं। कायाभिज्ञायां श्रोत्राभिज्ञायां चक्षुरभिज्ञायां पूर्वनिवासाभिज्ञायां च पंच ज्ञानानि धर्मज्ञानं अन्वयज्ञानं मार्गज्ञानं संवृतज्ञानं परचित्तज्ञानं चेति। आस्रवक्षयाभिज्ञायामनास्रवाणि नव ज्ञानानि स्थापयित्वा संवृतज्ञानं॥



 



२१। चतुर्षु स्मृत्युपस्थानेषु कायस्मृत्युपस्थानेऽष्टौ ज्ञानानि स्थापयित्वा परचित्तज्ञानं क्षयज्ञानं च। वेदनास्मृत्युपस्थाने चित्तस्मृत्युपस्थाने च नव ज्ञानानि स्थापयित्वा क्षयज्ञानं। धर्मस्मृत्युपस्थाने दश ज्ञानानि॥



 



२२। चतस्रः प्रतिसंविदः। धर्मप्रतिसंवित् निरुक्तप्रतिसंवित् प्रतिभानप्रतिसंवित् अर्थप्रतिसंवित्। एकैकस्यां दशज्ञानानि॥



 



२३। प्रणिधिज्ञाने सप्तज्ञानानि। स्थापयित्वा परचित्तज्ञानं क्षयज्ञानं अनुत्पादज्ञानं च॥



 



२४। दश बलानि। (तत्र)प्रथमबले दशज्ञानानि। द्वितीयबले तृतीयबले चतुर्थबले पंचमबले षष्ठबले च नव ज्ञानानि स्थापयित्वा क्षयज्ञानं। सप्तमे बले दशज्ञानानि। अष्टमे बले नवमे बले च एकमेव संवृतज्ञानं। दशमे बले नवज्ञानानि स्थापयित्वा संवृतज्ञानं॥



 



२५। प्रथमे वैशारद्ये दशज्ञानानि। द्वितीये वैशारद्ये नव ज्ञानानि स्थापयित्वान्वयज्ञानं। तृतीये वैशारद्येऽष्टौ ज्ञानानि स्थापयित्वा मार्गज्ञानं क्षयज्ञानं च। चतुर्थे वैशारद्येऽष्टौ ज्ञानानि स्थापयित्वा दुःखज्ञानं समुदयज्ञानं च॥



 



[इत्याभिधर्मामृतशास्त्रे ज्ञाननिर्देशो नामैकादशो बिन्दुः॥]


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project