Digital Sanskrit Buddhist Canon

दशमो बिन्दुः

Technical Details
  • Text Version:
  • Input Personnel:
  • Input Date:
  • Proof Reader:
  • Supplier:
  • Sponsor:
Parallel version

Daśamo binduḥ


 



दशमो बिन्दुः



 



अनास्रवपुद्गलाः



 



१। ध्यानविधिषु पौर्विको भवति चित्तस्यैकायतनप्रतिसंयोगः। शीर्षे वा ललाटे वा भ्रुवोरन्तरे वा नासाग्रे वा हृदये वा चित्तमेकाश्रयनिष्ठं विधेयं। गच्छन्ती स्मृतिः प्रत्यानेया एकायतने प्रत्यवस्थाप्या। यथा वानरः ग्रीवायां बद्धास्तंभेन विनिबद्धः परितः स्तंभं चरन्नपि न लभते गन्तुं गत्वा पुनरन्ततस्तिष्ठति। इदं चित्तं तथा। गच्छदप्येवं चित्तं धर्मविनिबद्धं न पुनर्गच्छति। गत्वा पुनरन्ततस्तिष्ठति॥



 



२। क्रमेण प्रत्यवेक्षते कायं वेदनां चित्तं धर्मान् इत्यवतरन् धर्ममनःस्थितौ सुविनीतैकाग्रचित्तस्य पारमार्थिकप्रज्ञाधिगमः। प्रत्यवेक्षते सर्वे संस्काराः सत्यलक्षणाः सोत्पादनिरोधा इत्यनित्याः। विपन्निचय इति दुःखाः। अन्तरपुद्गला इति शून्याः। अवशा इत्यनात्मनः। ततो लभते ऊष्मधर्मं चित्तोत्थापितं। यथा मथनात्काष्ठेष्वनलोत्पाद स्तथा बुद्धधर्मेषु परिशुद्धकुशलमूलश्रद्धोत्पादः॥



 



३। चतुर्भिः प्रत्ययैः पश्यति षोडशाकारान्। चतुर्भिकारैः पश्यति दुःखसत्यं। हेतुप्रत्ययोत्पन्नमध्रुवमित्यनित्यं। अनित्यबलं नश्वरमिति दुःखं। अपुद्गलमिति शून्यं। अवशमित्यनात्मकं। चतुर्भिराकारैः पश्यति समुदयसत्यं। सदृशफलोत्पाद इति हेतुः। जातिमरणाविच्छेद इति समुदयः। अनिरोध इति प्रभवः। असदृशान्वय इति प्रत्ययः। चतुर्भिराकारैः पश्यति निरोधसत्यं। सर्वदुःखविघात इति निरोधः। सर्वसंयोजनाग्निविरह इति शान्तः। सर्वधर्मातिगम इति प्रणीतः। सर्वधर्मातिक्रम इति निःसरणं। चतुर्भिकारैः पश्यति मार्गसत्यं। निर्वाणप्रापक इति मार्गः। अविपर्यस्त इति न्यायः। आर्यपुद्गलाचरित इति प्रतिपत्तिः। लोकक्लेशहापक इति नैर्याणिकः। पश्यन् षोडशाकारकुशलधर्मान् नित्यमातापी विहरति वीर्यवानित्यूष्मधर्मः॥



 



४। एतस्मादूष्मतः कुशलमूलं संप्रवृद्धमुच्यते मूर्धा कुशलमूलं। श्रद्दधाति त्रिरत्नं श्रद्दधाति पंचोपादानस्कंधा अनित्या दुःखा शून्या अनात्मन इत्येवं प्रतीत्य चतुःसत्यषोडशाकारानूष्मधर्मोत्तरत्वादुच्यते मूर्धा उद्वृद्ध इति।



 



५। सत्यक्षांतिमनुगतो मूर्धा नाम क्षान्तिकुशलमूलं। त्रिविध एष (मूर्धा)। अधिमात्रः। मध्यः। मृदुश्च॥



 



६। चतुःसत्यविपश्यनामुपादाय पश्यति षोडशाकारान् सत्यमनुसरन् संप्रवर्धयति कुशलमूलमित्युच्यते लौकिकाग्रधर्म इति। एकाग्रचित्तकाले चित्तचैतसिकधर्मा उच्यन्ते लौकिकाग्रकुशलमूलमिति। कश्चिदाह। लौकिकाग्रधर्मो हि श्रद्धादीनि पंचेन्द्रियाणि। परमार्थतस्तु एकाग्रचित्तकाले चित्तचैतसिका धर्मा लौकिकाग्रकुशलमूलमिति॥



 



७। निर्वाणद्वारोद्घाटनप्रतिबल इति पृथग्जनधर्मेष्वग्रः प्रतीत्य प्रथमसत्यदर्शनं चतुराकारं अनित्यं दुःखं शून्यं अनात्मकं। तत्कस्य हेतोः। प्रथममनास्रवचित्तं प्रतीत्य भवति दुःखसत्यं। लौकिकाग्रधर्मोऽप्येवं॥



 



८। षड्ध्यानभूमयः। असमापत्ति (=आनागम्य)ध्यानं अन्तरध्यानं (रूप-)ध्यानचतुष्टयं क्षान्तिः (कुशलमूलं)मूर्धा (कुशलमूलं)ऊष्मा कुशलमूलं च॥



 



९। षड्मूमिषु लौकिकाग्रधर्मा क्रमेण जायतेऽनास्रवपुद्गलः - इत्युच्यते दुःखधर्मक्षान्तिः। अदृष्टपूर्वस्य प्रथमदर्शने क्षमत्वादुच्यते क्षान्तिः। एषा आदिक्षान्तिरुच्यते आनन्तर्यमार्गः। क्रमेण दुःखधर्मज्ञानं जायते सत्यतो ज्ञायते दुःखलक्षणं। दुःखधर्मज्ञानं विमोक्षमार्गः॥



 



१०। एते द्वे चित्ते कामधातुप्रतिसंयुक्तदुःखालंबने। आनन्तर्यमार्गोऽन्वयक्षान्तिः विमुक्तिमार्गोऽन्वय(क्षान्ति)ज्ञानं चेति द्वे चित्ते रूपारूप्यधातुप्रतिसंयुक्तदुःखालंबने। निरोधमार्गसत्यान्यप्येवं॥ एतत्सम्यग्धर्मदर्शनम्॥



 



११। षोडशपरिशुद्धचित्तेभ्यः पंचदशचित्तेषु तीक्ष्णेन्द्रिय उच्यते धर्मानुसारी। मृद्विन्द्रिय उच्यते श्रद्धानुसारी। एतौ द्वौ पुद्गलौ अपरिक्षीणे कामधातुसंयोजने प्रथमफलप्रतिपन्नकौ। षड्विधकामधातुसंयोजनप्रहाणे द्वितीयफलप्रतिपन्नकौ। नवविधसंयोजनप्रहाणे तु तृतीयफलप्रतिपन्नकौ॥ फलप्रतिपन्नको (नाम)छन्दोपलब्धपंचदशचित्त(क्षण)चारी पुद्गलः फलान्तश्चारी पुद्गलश्च॥ एतौ द्वौ धर्मानुसारिश्रद्धानुसारिपुद्गलौ प्राप्तषोडशचित्तक्षणौ फलस्थौ भवतः॥



 



१२। एतौ द्वौ पुद्गलौ पूर्वमप्रहीणसंयोजनौ परिपूर्ण षोडशचित्तक्षणौ स्रोतआपन्नौ। प्रहीणेषु षड्विधसंयोजनेषु परिपूर्णषोडशचित्तक्षणौ सकृदागामिनौ। प्रहीणेषु नवविधसंयोजनेषु अनागामिनौ प्राप्ततृतीयफलौ॥



 



१३। अष्टाशीतिसंयोजनप्रहाणे पुद्गलः अनास्रवशीलकुशलमूलसिद्ध इत्युच्यते स्रोतआपन्नः। तीक्ष्णेन्द्रिय प्राप्तफलो नाम दृष्टिप्राप्तः। मृद्विद्रियः प्राप्तफलो नाम श्रद्धाधिमुक्तः। एतौ द्वौ पुद्गलौ कामधातुप्रतिसंयुक्तभावनाहेयसंयोजनानामप्रहाणे सप्तकृद्भवपरमौ। प्रहीण त्रिविध(भावनाहेयसंयोजनः)कुलंकुलो नाम त्रिजातिमरणः। अष्टांगिकमार्गजलस्रोतसि निर्वाणाभिमुखे मध्यचारीति स्रोतआपन्नः।



 



१४। प्रहीणषड्विधसंयोजन उच्यते सकृदागामी। प्रहीणाष्टविधसंयोजन उच्यते एकवीचिः। कामदेवलोकाद् मनुष्येषूपपद्य ततः परिनिर्वातीत्युच्यते एकवीचिश्च सकृदागामी च॥



 



१५। पंचानागामिनः। अन्तरापरिनिर्वायी उपपद्यपरिनिर्वायी साभिसंस्कारपरिनिर्वायी अनभिसंस्कारपरिनिर्वायी ऊर्ध्वंस्रोताः। अकनिष्ठगो (भवति)अनागामी। अपि च रूपारूप्यधातूपपन्नो (भवति)अनागामी। रूपारूप्यधातुदुःखप्रहाणात् (तत् एव)लभते परिनिर्वाणं न चोपपद्यतेऽधोलोके इत्युच्यतेऽनागामी॥



 



१६। कामधातौ संयोजनानि नवविधानि। रूपारूप्यधात्वोरपि तथा। एतानि सर्वाणि संयोजनानि द्वाभ्यां मार्गाभ्यां हेयानि। आनन्तर्यमार्गेण च विमुक्तिमार्गेण च। पूर्वमानन्तर्येण हानं विमोक्षेण निष्पादनं। तथाहि। विषनागस्य नालिकायां (पूर्वं)ग्रहणं ततो मुखपिधानं॥



 



१७। (मार्गो द्विविधः)। लौकिकमार्गः लोकोत्तरमार्गश्च। लोकोत्तरमार्गेण प्रहीयन्ते कामधातुरूपारूप्यधातुप्रतिसंयुक्तसर्वसंयोजनानि। लौकिकमार्गेणापि हातुं शक्यन्ते ऊर्ध्वधातुप्रतिसंयुक्तानि संयोजनानि॥



 



१८। अष्टभूमिषु वैराग्याल्लभते निरोधसमापत्तिमित्युच्यते कायसाक्षी अनागामी। विमुक्तश्चेदर्हद्धर्ममिव निर्वाणं कायेन स्पृशति पंचावरभागीयानां संयोजनानां प्रहाणे प्राप्नोत्यनागामित्वं। पंचोर्ध्वभागीयानां संयोजनानां प्रहाणे प्राप्नोत्यर्हत्त्वं॥



 



१९। एतद्रूपारूप्यधात्वोः संयोजनबन्धनानां निरवशेषहानमुच्यते चित्तसमता वज्रोपमसमाधिः। क्रमेण क्षयज्ञानं जायते॥



 



२०॥ एतस्मिन् काले अर्हत्फलं भवत्यनुत्तरं। अपि सर्वराग्यानन्तर्यमार्गं पश्चिमशैक्षचित्तं। इति वज्रोपमसमाधिक्रमेण प्रथममशैक्षस्य क्षयज्ञानं जायते प्रहीणा मे जातिः प्राप्तं मयार्हत्वं क्षीणा मे सर्वसंयोजनक्लेशोपक्लेशाः। इत्युच्यते अर्हन्। सर्वदेवमनुष्येषु पूजार्ह इत्युच्यते अर्हन्॥



 



२१। अशंक्षो नवविधः। परिहाणिधर्मा अपरिहाणिधर्मा चेतनाधर्मा अनुरक्षणधर्मा स्थितधर्मा प्रतिवेधनधर्मा अकोप्यधर्मा प्रज्ञाविमुक्तः सर्वविमुक्तः॥ परिहाणिधर्मा कतमः। मृदुप्रज्ञः मृदुवीर्यः पंचसु परिहाणिपूत्तप्तः जहाति मार्गफलमित्युच्यते परिहाणिधर्मा॥ अपरिहाणिधर्मा कतमः। अधिमात्रप्रज्ञः अधिमात्रवीर्यः पंचसु परिहाणिप्वनुत्तप्तः न जहाति मार्गफलमित्युच्यते अपरिहाणिधर्मा॥ चेतनाधर्मा कतमः मृदुप्रज्ञः मृदुवीर्यः सोद्योगं पश्यति कायमशुचिदूपितं भावयति स्वयं कायनिरोधमिति चेतनधर्मा॥ अनुरक्षणधर्मा कतमः। मृदुप्रज्ञः मृदुवीर्यः स्वयमनुरक्षति कायमिति अनुरक्षणधर्मा॥ स्थितधर्मा कतमः। मध्यप्रज्ञः मध्यवीर्यः मध्यमप्रतिपदायामुत्तप्तः नोपचयापचयवानिति स्थितधर्मा॥ प्रतिवेधन धर्मा कतमः। मृद्वधिमात्रप्रज्ञः अधिमात्रवीर्यः लब्धुं शक्नोत्यक्षोभ्यकुशलमिति प्रतिवेधनधर्मा॥ अकोप्यधर्मा कतमः। अधिमात्रेन्द्रियः अधिमात्राधिमात्रवीर्यः आदितः प्राप्नोत्यक्षोभ्यकुशलमिति अकोप्यधर्मा॥ प्रज्ञाविमुक्तः कतमः। अप्राप्तनिरोधसमापत्तिः प्रज्ञाविमुक्तः॥ सर्वविमुक्तः कतमः। प्राप्तनिरोधसमापत्तिः सर्वविमुक्तः॥



 



२२। श्रद्धानुसारिणः पंचविधा अर्हन्तः कालविमुक्ता नाम। एतेषामर्हतां द्विविधं ज्ञानं भवति क्षयज्ञानं अशैक्षं सत्यदर्शनं। धर्मानुसारी एकविधोऽर्हन् भवत्यधिमात्रेन्द्रियः। स एवोच्यतेऽकालविमुक्तः। अस्यार्हतस्त्रिविधं ज्ञानं भवति क्षयज्ञानं अनुत्पादज्ञानं अशैक्षं सत्यदर्शनं च। अष्टावर्हन्तः कालविमुक्तिप्रियाः भवन्ति अकोप्यधर्माणः॥



 



२३। संसिद्धः श्रद्धानुसारी सत्यदर्शनमार्गपंचदशचित्तक्षणेषु अनास्रवनवेन्द्रियो नाम आज्ञास्यामीन्द्रियः। षोडशचित्तक्षणे लब्धार्हत्फलोऽनास्रवनवेन्द्रियो नाम आज्ञेन्द्रियः। नवेन्द्रियः अशैक्षधर्मा नाम आज्ञातावीन्द्रियः॥



 



२४। फलप्राप्तिकाले नास्ति मार्गप्राप्तिः। मार्गे प्रहीणसंयोजनस्य द्विविधं निष्पद्यते (फलं)संस्कृतमसंस्कृतं च। महाफलप्राप्तिकाले सर्वतः क्षीयते मूलं द्वैतं प्राप्नोत्येकामेव सिद्धिं। नवविधाः (अर्हन्तः)प्रहीणसंयोजनानिवृतधर्माणः नवमे चित्तक्षणे प्राप्नुवन्ति सर्वक्षयं। प्रतिवेधनधर्मा अर्हन् लभतेऽक्षोभ्यकुशलं नान्यः। श्रद्धाधिमुक्तः शैक्षः अधिमात्रेन्द्रियः उच्यते दृष्टिप्राप्तो नान्यः। सत्यदर्शनमार्गे प्रतिभिन्नानि संयोजनानि प्रतिभिन्नाश्चानास्रवा धर्माः। तस्मात्पर्यायेण सत्यदर्शनं भवति न युगपत्। आनन्तर्यमार्गदर्शनबलेन फलप्राप्तिः। इति ह द्विविधं फलं संस्कृतफलमसंस्कृत फलं च॥



 



[इत्यभिधर्मामृतशास्त्रे ऽनास्रवपुद्गलनिर्देशो नाम दशमो बिन्दुः॥]


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project