Digital Sanskrit Buddhist Canon

नवमो बिन्दुः

Technical Details
  • Text Version:
  • Input Personnel:
  • Input Date:
  • Proof Reader:
  • Supplier:
  • Sponsor:
  • Parallel version Navamo binduḥ


 



नवमो बिन्दुः



 



अनुशयाः



 



१। अष्टानवतिरनुशयाः द्विधा प्रहीयन्ते। सत्यदर्शनेन प्रहीयन्ते भावनया च प्रहीयन्ते। अष्टाविंशतिर्दुःखदर्शनेन प्रहीयन्ते। एकोनविंशतिः समुदयदर्शनेन प्रहीयन्ते। एकोनविंशतिर्निरोधदर्शनेन प्रहीयन्ते। द्वाविंशतिर्मार्गदर्शनेन प्रहीयन्ते। दश भावनया प्रहीयन्ते॥



 



२। कामधातुप्रतिसंयुक्ताः दुःखदर्शनेन प्रहीयन्ते दश अनुशयाः। समुदयदर्शनेन प्रहीयन्ते सप्त अनुशयाः। निरोधदर्शनेन प्रहीयन्ते सप्त अनुशयाः। मार्गदशनेन प्रहीयन्ते अष्टौ अनुशयाः। भावनया प्रहीयन्ते चत्वारः अनुशयाः। इति षट्त्रिंशत्कामधातुप्रतिसंयुक्ताः॥



 



३। प्रतिघवर्जिता अन्येऽनुशयाः रूपारूप्यधात्वोः पृथक्पृथग् हेयाः एकत्रिंशत्॥



 



४। संक्षेपाद् वस्तुतो दशानुशयाः। सत्कायदृष्टिः अन्तग्राहदृष्टिः मिथ्यादृष्टिः दृष्टिपरामर्शः शीलव्रतपरामर्शः विचिकित्सा प्रतिघः मानः अविद्या॥



 



५। सत्कायदृष्टिः कतमा। पंचस्कन्धेषु विकल्पयत्यात्मानमित्येवं दृष्टिरुच्यते सत्कायदृष्टिः। लोकस्यास्ति अन्तः नास्ति अन्तः - इत्येवं दृष्टिरुच्यते अन्तग्राहदृष्टिः।



 



नास्ति चतुःसत्यानि हेतुप्रत्ययाः फलविपाक इत्येवं दृष्टिरुच्यते मिथ्यादृष्टिः। सास्रवधर्मेषु विकल्पयति सततमग्रताम् इत्येवं दृष्टिरुच्यते दृष्टिपरामर्शः। अशुचिहेतुप्रत्ययेषु गवेषयति परिशुद्धमार्गमित्येवं दृष्टिरुच्यते शीलव्रतपरामर्शः॥



 



६। अप्राप्तमार्गस्य मूढचित्तस्य यदनवबोधः 'अस्ति-नास्ति''भवति-नभवति'- इति विचिकित्सा। मूढचित्तस्य सर्वधर्मेषु कामासंगो रागः। मूढचित्तेऽनिष्टमागतं प्रति चित्तक्रोधेन संक्षोभः प्रतिघः। अहं महानिति चित्तस्योन्नतिर्मानः। सर्वधर्माः सत्यलक्षणा इत्यज्ञानम् अविद्या॥



 



७। एतानि संयोजनानि कामधातौ दुःखसत्येन (हेयानि)सर्वाणि। समुदयसत्येन सप्त। निरोधसत्येनापि तथा। मार्गसत्येनाष्टौ। (इति)सर्वाणि संयोजनानि सत्यदर्शहेयानि॥



 



८। कामधातौ चत्वारि भावनाहेयानि। रूपारूप्यधातोः षड् भावनाहेयानि। रागो द्वेषः मानोऽविद्या च पंचाकारहेयाः। विचिकित्सा मिथ्यादृष्टिः दृष्टिपरामर्शश्च चतुःसत्यहेयाः। सत्कायदृष्ट्यन्तग्राहदृष्टी दुःखसत्यहेये। शीलव्रतपरामर्शः दुःखसत्यमार्गसत्यहेयः॥



 



९। कामधातौ दुःखसत्यहेयानि षड् पंच वा संयोजनानि। समुदयसत्यहेयानि त्रीणि द्वे वा संयोजने॥



 



१०। अविद्या द्विविद्या दुःखसत्यहेया॥



 



११। अविद्या सर्वत्रगा वा भवति असर्वत्रगा वा। सवत्रगा कतमा। षट्संयोजनसंप्रयुक्ता आवेणिकी चाविद्योच्यते सर्वत्रगा। असर्वत्रगा कतमा। त्रिसंयोजनसंप्रयुक्ता अविद्या उच्यते असर्वत्रगा॥ एवं समुदये त्रिसंयोजनसंप्रयुक्ता आवेणिकी चाविद्या उच्यते सर्वत्रगा॥



 



१२। शिष्टान्यन्यानि संयोजनानि न सर्वत्रगाणि (एव)। सर्वसंयोजनेषु रागद्वेषमानेतराणि सर्वत्रगाणि। तत्कस्य हेतोः। तेषां पंचालंबन(हेय)त्वात्। सर्वत्रगेषु संयोजनेषु द्वे दृष्टी तत्संप्रयुक्ता चाविद्या स्वधातौ सर्वत्रगाः नान्यधातौ। रूपधातावप्येवं। आरूप्यधातौ सर्वत्रगाणि संयोजनानि स्वधातौ सर्वत्रगाणि। शिष्टसर्वत्रगसंयोजनानि स्वधातौ सर्वत्रगाण्यपि परधातुगोचराणि भवन्ति। अविद्या सर्वसंयोजनसंप्रयुक्ता हेतुः आवेणिकी चाविद्या॥



 



१३। त्रिषु धातुषु निरोधसत्यमार्गसत्याभ्यां प्रहेयाः (अनुशयाः)मिथ्या दृष्टिः विचिकित्सा अविद्या चेति अष्टादशसंयोजनानि अनास्रवगोचराणि। अन्यानि सास्रवगोचराणि। सर्वसास्रवगोचराणि संयोजनानि तत्संप्रयुक्ता चाविद्या सास्रवगोचराणि। शिष्टानि (संयोजनानि तत्संप्रयुक्ता च)अविद्या अनास्रवगोचराणि॥



 



१४। सर्वाणि त्रिधातुसंयोजनानि उपेक्षेन्द्रियसंप्रयुक्तानि। ब्रह्मलोकाभास्वरलोकेषु सर्वसंयोजनानि उपेक्षेन्द्रियेण संप्रयुक्तानि सौमनस्येन्द्रियेण च। शुभकृत्स्नलोके सर्वसंयोजनानि उपेक्षेन्द्रियेण सुखेन्द्रियेण च संप्रयुक्तानि। कामधातुप्रतिसंयुक्ते मिथ्यादृष्टिरविद्या च त्रिभिरिन्द्रियैः संप्रयुक्ते सौमनस्येन्द्रियेण दौर्मनस्येन्द्रियेण उपेक्षेन्द्रियेण च। विचिकित्सा द्वाभ्यामिन्द्रियाभ्यां संप्रयुक्ता दौर्मनस्येन्द्रियेण उपेक्षेन्द्रियेण च। प्रतिघः त्रिभिरिन्द्रियैः संप्रयुक्तः दौर्मनस्येन्द्रियेण दुःखेन्द्रियेण उपेक्षेन्द्रियेण च। शिष्टानि कामधातौ सत्यदर्शनहेयानि (संयोजनानि)द्वाभ्यामिन्द्रियाभ्यां संप्रयुक्तानि सौमनस्येन्द्रियेण उपेक्षेन्द्रियेण च॥



 



१५। कामधातौ भावनाहेयानि षड्विज्ञानसंप्रयुक्तानि भवन्ति स्थापयित्वा मानं मनोविज्ञानसंप्रयुक्तं। सर्वाणि सत्यदर्शनहेयानि मनोविज्ञानसंप्रयुक्तानि॥



 



१६। दशोपक्लेशा उच्यन्ते बन्धनानि। क्रोधः। म्रक्षः। स्त्यानं। मिद्धं। औद्धत्यं। कौकृत्यं। मात्सर्यं। ईर्ष्या। आह्रीक्यं। अनपत्राप्यं॥



 



१७। क्रोधः कतमः। चित्तदोषो भृशं क्षोभः। म्रक्षः कतमः। भयं लोकः पश्येत् श्रृणुयाद् (वेति)॥ स्त्यानं कतमत्। चित्तलीनता चित्तगुरुता कायगुरुता। (इदं भवति)सर्वसंयोजनसंप्रयुक्तं॥ मिद्धं कतमत्। मनसो निद्रायोगे बहिर्धा (वृत्तिः)तन्द्रयानीश्वरता। (इदं भवति)कामधातुप्रतिसंयुक्तं मनोविज्ञानसंप्रयुक्तं॥ औद्धत्यं कतमत्। चित्तमकुशलमविश्रान्तं। (इदं भवति)सर्वसंयोजनसंप्रयुक्तं॥ कौकृत्यं कतमत्। कृतकुशलाकुशलयोरनुशोचनं। (इदं भवति)दौमनस्येन्द्रियेण संप्रयुक्तं॥ मात्सर्यं कतमत्। प्रेम्णातिशयेन चित्तकार्पण्यं॥ ईर्ष्या कतमा। परं सद्वस्तुलाभिनं दृष्ट्वा अप्रसादः दुःखस्य प्रापयितुकामता॥ एते द्वे (ईर्ष्यामात्सर्य-)बन्धने कामधातुप्रतिसंयुक्ते भावनाहेये॥ आह्रीक्यं कतमत्। दुष्कृते नात्मनि लज्जा॥ अनपत्राप्यं कतमत्। दुष्कृते न परतो लज्जा॥ एते सर्वाकुशलधर्मसंप्रयुक्ते॥



 



१८। त्रीणि बन्धनानि। रागो द्वेषोमोहश्च। (कामधातौ)षड्विज्ञानसंप्रयुक्तानि। रूपधातौ द्वे। रागो मोहश्च। चतुर्विज्ञानसंप्रयुक्ते। अवशिष्टं बन्धनं मनोविज्ञानसंप्रयुक्तं॥



 



१९। युगपदानन्तर्यमार्गेण संयोजनप्रहाणकृताभिसमयकाले गुरुकृताभिसमयेन प्रहाणात् कामधातुसंयोजनानां त्रिविधक्षयपरिज्ञालाभः॥



 



२०। कामधातौ दुःखसत्यसमुदयसत्यप्रहेयानां (क्लेशानां प्रहाणं)प्रथमा क्षयपरिज्ञा। निरोधसत्यप्रहेयानां द्वितीया क्षयपरिज्ञा। मार्गसत्यप्रहेयानां तृतीया क्षयपरिज्ञा। (एवं)रूपारूप्यधात्वोः चतुःसत्यप्रहेयानां संयोजनानां प्रहाणे तिस्रः क्षयपरिज्ञाः। कामधातौ पंचावरभागीयानां संयोजनानां प्रहाणं सप्तमी क्षयपरिज्ञा। रूपधातौ भावनाहेयानां (क्लेशानां प्रहाणं)अष्टमी क्षयपरिज्ञा। सर्वक्लेशसंयोजनानां प्रहाणं नवमी परिज्ञा। संयोजनानामशेषतः परिक्षयः परिज्ञा॥



 



२१। अस्त्येवं संयोजनानि चित्तविप्रयुक्तानि पर्यवतिष्ठन्ते चित्तसंप्रयुक्तानि (च)। नास्त्येवं। सर्वाणि चित्तसंप्रयुक्तान्येव (पर्यवतिष्ठन्ते)। तत्कस्य हेतोः। समुत्थितेषु संयोजनक्लेशेषु कुशलधर्माणां भवति नाशः। दर्शनेन (निरुद्धेषु)संयोजनेषु कुशलधर्माणां भवत्युत्पाद स्तस्माद् ज्ञातव्यं सर्वाणि संयोजनानि चित्तसंप्रयुक्तानि (पर्यवतिष्ठन्ते इति)॥



 



२२। सर्वाण्येतानि संयोजनानि द्विवस्तुहेयानि ध्यानसंप्रयुक्तचित्त न प्रज्ञासंप्रयुक्तचित्तेन च। ध्यानप्रहाणं कतमत्। आद्यश्चित्तोपशमः। प्रज्ञाप्रहाणं कतमत्। धर्मविचयः। समाध्यवतार एकाग्रचित्तता। सर्वधर्मा अनित्याः समा इति विपश्यनया भावना प्रज्ञा। ध्यानप्रज्ञासहचरभावनया विमोक्षप्राप्तिः॥



 



२३। त्रिकालं कुशलवीर्येण ध्यानकालानुरक्षिणा यदा चित्तं मृदुर्भवति विलीनं तदा भावनीयं वीर्यं। यदा चित्तं समं तदा एकाग्रचित्तेन भावनीयं कुशलं। यदा न विलीनं नापि समं तदोभयवस्तुनि विश्रमयितव्या चित्तगतिः॥



 



२४। तथाहि। सुवर्णकारः सुवर्णमादायाग्नौ मूपया कदाचिद्धमति। कदाचिदादाय जलं सिंचति। कदाचिद्विश्रमयति। तत्कस्य हेतोः। यदि सर्वदा धमेत् सुवर्णं द्रवेत्। यदि सर्वदा सिंचेत् शीतलं सन्न तपेत्। यदि सर्वदा विश्रमयेत् न परिपाकं गच्छेत्। ध्याननिष्ठोऽप्येवम्। मूपया धमनं यथा वार्यं। जलसेको यथा ध्यानं। विश्रम यथा उपेक्षा। तत्कस्य हेतोः। सर्वदा वीर्येण चित्तं समं भवति। सर्वदा समाधिना चित्तनुपशान्तं भवति। सर्वदोपेक्षया सर्वचित्तानुपादानं भवति। तेन कदाचिदातापेन वीर्यवान् कदाचिदेकाग्रं समाहितः कदाचिच्चोपेक्षमाणो (विहरति)एवं (विहरतः)चित्तं शान्तं समं सर्वसंयोजनेषु लभते विमोक्षम्॥



 



[इत्यभिधर्मामृतशास्त्रेऽनुशयनिर्देशो नाम नवमो विन्दुः॥]


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project