Digital Sanskrit Buddhist Canon

षष्ठो बिन्दुः

Technical Details
  • Text Version:
  • Input Personnel:
  • Input Date:
  • Proof Reader:
  • Supplier:
  • Sponsor:
  • Other Version
    N/A


 



षष्ठो बिन्दुः



 



संस्काराः



 



१। सर्वसंस्कृतधर्माः उत्पादवलहीना अन्यप्रत्ययबलेन सहोत्पद्यन्ते। चतुर्लक्षणा हि सर्वधर्माः। (कतमानि चत्वारि लक्षणानि)। जातिः स्थितिः जरा अनित्यता॥



 



२। चतुर्लक्षणा श्चेदन्यलक्षणा अपि भवितव्याः। सन्ति पुनर् (अन्यानि)चत्वारि (अनु-)लक्षणानि। तेषु लक्षणेषु अन्यचतुर्लक्षणानां सहोत्पादः। (कतमानि तानि)। जातिजातिः स्थितिस्थितिः जराजरा अनित्यताऽनित्यता॥ यद्येवमनवस्था (-प्रसंगः)। (न)। विपरिवर्तमानाः (संस्कृतधर्माः)स्वलक्षणा (एव)भवन्ति॥



 



३। सर्वसंस्कारधर्मा द्विविधाः। चित्तसंप्रयुक्ता श्चित्तविप्रयुक्ताः॥ कतमे चित्तसंप्रयुक्ताः। वेदना संज्ञा चेतना स्पर्शः मनस्कारः छन्दः अधिमुक्तिः श्रद्धा वीर्यं स्मृतिः समाधिः मतिः वितर्कः विचारः मिथ्यासंस्कारः(=मिथ्याकृत्यं =मिथ्याकर्म)अमिथ्या संस्कारः (=अमिथ्याकृत्यं =सम्यक्कर्म)कुशलमूलं अकुशलमूलं अव्याकृतमूलं सर्वक्लेशबन्धनसंयोजनानि सर्वप्रज्ञा - इत्येवं विविधाश्चित्तसंप्रयुक्ता धर्मा उच्यन्ते चित्तसंप्रयुक्तसंस्काराः॥



 



४। कतमे चित्तविप्रयुक्ताः संस्काराः। प्राप्तिः जातिः स्थितिः जरा अनित्यता असंज्ञिसमापत्तिः निरोधसमापत्तिः आसंज्ञिकायतनं विविधा देशप्राप्तिः वस्तुप्राप्तिः आयतनप्राप्तिः नामकायः पदकायः व्यंजनकायः पृथग्जनत्वम् इत्येवं विविधा धर्मा श्चित्तविप्रयुक्ताः संस्काराः॥



 



५। (चत्वारः प्रत्ययाः)। हेतुप्रत्ययः समन्तरप्रत्ययः आलंबनप्रत्ययः अधिपतिप्रत्ययः। चतुर्भ्यः प्रत्ययेभ्यः सर्वसंस्कृतधर्माणामुत्पादः॥



 



६। कतमो हेतुप्रत्ययः। पंच हेतवः। संप्रयुक्तक(हेतुः)सहभू सभाग सर्वत्रग विपाकहेतु रितिहेतुप्रत्ययः॥ कतमः समनन्तरप्रत्ययः। सर्वधर्मेषु चित्तचैतसिका धर्मा निरुद्धा धर्मा उत्पन्ना भवन्ति समनन्तरप्रत्ययाः॥ कतम आलंबनप्रत्ययः। क्षणालंबनो हि चित्तचैतसिकधर्मोत्पादः। इत्यालंबनप्रत्ययः॥ कतमोऽधिपतिप्रत्ययः। सर्वाणि सहस्रशो वस्तूनि परस्परमव्याबाधकानि। इत्यधिपतिप्रत्ययः॥



 



७। षड् हेतवः। संप्रयुक्तकहेतुः सहभू सभाग सर्वत्रग विपाक कारणहेतुः॥ कतमः संप्रयुक्तकहेतुः। चित्तं सर्वचैतसिकधर्महेतुः सर्वचैतसिकं धर्मा श्चित्तहेतवः। इति संप्रयुक्तकहेतुः॥ कतमः सहभूहेतुः। सर्वधर्मा अन्योन्यसहायाः। चित्तं सर्वचैतसिकधर्महेतुः। सर्वचैतसिकधर्मा श्चित्तहेतवः। सहोत्पादानि चत्वारि महाभूतानि सहभूहेतुकानि। (चतुर्महाभूत)कृतं रूपं (सहभूहेतुकं)। चित्तसंप्रयुक्ताः संस्काराः चित्तचैत्तधर्माः चित्तविप्रयुक्ताः संस्काराः (सहभू-)हेतुकाः॥ कतमः सभागहेतुः। पूर्वजातं कुशलं पच्चाज्जातस्य कुशलस्य (सभागहेतुः)। पूर्वजातमकुशलं पश्चाज्जातस्याकुशलस्य (सभागहेतुः)। पूर्वजातमव्याकृतं पश्चाज्जातस्याव्याकृतस्य (सभागहेतुः)॥ कतमः सर्वत्रगहेतुः। सत्कायदृष्टिः आत्मविकल्पो नित्य आत्मेति सर्वोपादानस्कन्धेषु अस्ति नित्य आत्मा अस्ति सुखं अस्ति शुचिता - एवमादि। इति सर्वक्लेशोत्पादः॥ कतमो विपाकहेतुः। कुशला जातिः सुखो विपाकः। अकुशला जातिः दुःखो विपाकः॥ कतमः कारणहेतुः। सर्वधर्मा अन्योन्यमप्रतिघातका न च स्थापका न च स्थितिकाः (प्रत्युत क्षणं क्षणं विपरिवर्तमाना भवन्ति कारणहेतवः)॥



 



८। विपाकचित्तरूप भवन्ति पंच हेतवः विना सर्वत्रगहेतुं। एवं चैत्ताः सर्वक्लेशाः पंचहेतुका व्यपहाय विपाकहेतुं। विपाकजरूपस्य विप्रयुक्तसंस्काराणां भवन्ति चत्वारो हेतवः। स्थापयित्वा संप्रयुक्तहेतु सर्वत्रगहेतुं। क्लिष्टरूपस्य विप्रयुक्तसंस्काराणां चत्वारो हेतवः अन्तरेण संप्रयुक्तकहेतुं विपाकहेतुं। अन्येऽवशिष्टा श्चित्तचैतसिकधर्मा श्चतुर्हेतुकाः विना विपाकहेतुं सर्वत्रगहेतुं। अवशिष्टानामपरेषां चित्तविप्रयुक्तसंस्काराणां द्वौ हेतु त्रयो वा हेतवः विना संप्रयुक्तसर्वत्रग-विपाकहेतून् सभागापूर्वहेत्योग्न्यतरं विना वा। अनास्रवचित्तसंप्रयुक्तानां धर्माणां भवन्ति त्रयो हेतवः। विहाय सभागहेतु विपाकहेतुं सर्वत्रगहेतुं। अनास्रवचित्तस्य तच्चित्तजरूपस्य तच्चितविप्रयुक्तसंस्काराणां द्वौ हेतु सहभूहेतुः कारणहेश्चतु॥



 



९। चित्तचैतसिकधर्माणां चतुभ्यः प्रत्ययेभ्य उत्पादः। आसंज्ञिकसमापत्तेर्निरोधसमापत्तेश्च त्रिभ्यः प्रत्ययेभ्य उत्पादोऽन्तरेणालंबनप्रत्ययेन। चित्तविप्रयुक्तसंस्काराणां सर्वरूपिधर्माणां च द्वाभ्यां प्रत्ययाभ्यामुत्पादः विना समनन्तरप्रत्ययमालंबनप्रत्ययं च। न हि कस्यचिद्धर्मस्य (केवलात्)एकस्मात् प्रत्ययाद् उत्पादः। अन्यधर्मबलाद् (हि भवति)उत्पादः॥



 



१०। एको धर्मः त्रिकसंनिपातजः स्पर्शः। (तेन)सह जायते वेदना॥ संज्ञा चेतना मनस्कारः छन्दः अधिमुक्तिः श्रद्धा वीर्यं स्मृतिः समाधिः प्रज्ञा उपेक्षा च चित्तसहोत्थानाः सह चित्तेन संसिद्ध्यन्ते। इत्येते धर्माः (सर्व)चित्तसाधारणाः॥



 



११। त्रिधर्मसंनिपातजः स्पर्शः। कायचित्तानुभवो वेदना। विज्ञान विशेषालंबना संज्ञा। (मानसं)कर्म चेतना। चित्ताविस्मरणं मनस्कारः। कर्तुकाम्यता च्छन्दः। चित्तानावरणमधिमुक्तिः। (श्रद्धानं)श्रद्धा। विविधकृत्योद्योगो वीर्यम्। प्रत्ययदृढतयाऽविस्मरणं स्मृतिः। चित्तस्याचांचल्यं समाधिः। धर्मविवेकः प्रज्ञा। मनसोऽनासंग उपेक्षा। (सा हि)वस्तुप्रत्ययोत्थाना भवति॥



 



१२। चित्तधर्मसंप्रयोगेण भवति सर्वधर्मसिद्धिः। वेदना संज्ञा स्पर्शः चेतना मनस्कारः छन्दः अधिमुक्तिः स्मृतिः समाधिः प्रज्ञा-इत्येते दश महाभूमिका धर्माः। तत्कस्य हेतोः। सर्वचित्तसहोत्पादात्॥



 



१३। कतमः संप्रयोगः। एकालंबने संस्करणं नोपचयो नापचय इति संप्रयोगः॥



 



१४। दश क्लेशमहाभूमिकाः सर्वाकुशलचित्तसहजाः - आश्रद्ध्यं कौसीद्यं मुषितस्मृतिता चित्तविक्षेपः मोहः मिथ्यामनस्कारः मिथ्याधिमुक्तिः औद्धत्यं अविद्या मिथ्यासंस्कारः (=मिथ्याकृत्यं =मिथ्याकर्म )॥



 



१५। कतमदाश्रद्ध्यं। चितस्य धर्मेऽनवतारः॥ कतमत् कौसीद्यं। कृत्येषु चित्तपरिश्रान्तिः॥ कतमा मुषितस्मृतिता। विस्मरणं॥ कतमश्चित्तविक्षेपः। चित्तस्यैकाग्रताऽभावः॥ कतमो मोहः। वस्तुष्वनवबोधः॥ कतमो मिथ्यामनस्कारः। मार्गस्यास्मरणं॥ कतमा मिथ्याधिमुक्तिः। विपर्यासापरित्यागः॥ कतमदौद्धत्यं। चित्तास्थैर्यं॥ कतमा अविद्या। त्रैधातुकमज्ञानं॥ कतमो मिथ्यासंस्कारः (=मिथ्याकृत्यं =मिथ्या कर्म )। कुशलधर्मेष्वनवस्थितिः॥



 



१६। दश परित्तक्लेशभूमिकाः। द्वेषः उपनाहः म्रक्षः प्रदाशः माया शाठ्यं मात्सर्यं ईर्ष्यां मानः महामानः॥



 



१७। कतमो द्वेषः। क्रोधेन चित्तचलता॥ कतम उपनाहः। मनसो विषक्ता (=वैरानुबन्धिनी)स्थितिः॥ कतमो म्रक्षः। पापवस्तुगोपनं॥ कतमः प्रदाशः। अधर्मवस्तुग्रहणे त्वरा न च परित्यागः॥ कतमा माया कायवचनाभ्यां जनवंचनं॥ कतमत् शाठ्यं। चेतसः कुटिलाग्रहः॥ कतमद् मात्सर्यं। चित्तस्य स्नेहभयाद् (दानकर्मणि)अप्रवृत्तिः॥ कतमा ईर्ष्या। परसंपद्दर्शनादसहिष्णुता॥ कतमो मानः। अधमेष्वात्मोत्कर्षः। उत्कृष्टेष्वात्मसमता॥ कतमो महामानः । समेषु महानहमिति। महत्सु ज्येष्ठोऽहमिति॥ एता दश क्लेशभूमयो मनोविज्ञानसंप्रयुक्ता न तु पंचविज्ञान (-संप्रयुक्ताः)भवन्तीति परित्तभूमयः॥



 



१८। एतेषु सप्त क्लेशाः कामधातुप्रतिसंयुक्ताः। शाठ्यं कामधातु (-प्रतिसंयुक्तं)ब्रह्मलोक (-प्रतिसंयुक्तं)च। मानमहामानौ त्रिधातुप्रतिसंयुक्तौ॥



 



१९। दश कुशलमहाभूमिकाः। अलोभः अद्वेषः श्रद्धा प्रश्रब्धिः अप्रमादः वीर्यं उपेक्षा अविहिंसा ह्रीः अपत्रपा॥



 



२०। कतमोऽलोभः। स्वपरकायसंपत्तावरागोऽस्वार्थश्च॥ कतमोऽद्वेषः। सत्त्वपक्षासत्त्वपक्षयोरव्यापादचित्तोत्पादः॥ कतमा श्रद्धा। ज्ञाते यथाभूतवस्तुनि चित्तसंप्रसादः॥ कतमा प्रश्रब्धिः। चित्तकुशलता दौष्ठुल्य- (=गुरुत्व =स्त्यानमिद्ध)परित्यागेन (चित्तस्य)लघुभूतता शीतीभूतता॥ कतमोऽप्रमादः। चित्तस्य कुशलधर्मप्रतिसंयोगः॥ कतमद् वीर्यं। कुशलधर्मोत्साहः॥ कतमा उपेक्षा। सर्वधर्मेष्वप्रतिष्ठा॥ कतमा अविहिंसा। सर्वसत्त्वेषु कायवाग्मनोभिरनपकारः॥ कतमा ह्रीः। आत्मकृतपापकृत्ये लज्जा॥ कतमा अपत्रपा। लोकेषु अकरणीयकरणे (लज्जना)अपत्रपा॥ इत्येते दशधर्माः सर्वकुशलचित्तसंप्रयुक्ता भवन्तीत्युच्यन्ते महाभूमिकाः॥



 



२१। त्रीण्यायतनानि। रागायतनं अरागायतनं रागारागायतनं च॥ रागायतने मैथुनकामः मात्सर्यं लोभः तृष्णा - इत्येवमादिक्लेशानामुत्पादः। अरागायतने द्वेषकलहेर्ष्यादीनां क्लेशानामुत्पादः। रागारागायतनेऽविद्यामाहमदमानादयः क्लेशा उत्पद्यन्ते॥



 



२२। सर्वसंयोजनक्लेशानां त्रिषु विषेषु संग्रहः। तत्कस्य हेतोः। तेषां त्रयाणामकुशलमूलत्वात्। सर्वसंयोजनक्लेशानां त्रिभिरेतैर्विषैरुत्पादः। एतानि छिन्दन्ति त्रीणि कुशलमूलानि क्लेशाय विक्षेपाय प्रभवन्ति त्रैधातुकानां सत्त्वानामिति त्रिविष - संग्रहः॥



 



[इत्यभिधर्मामृतशास्त्रे संस्कारनिर्देशो नाम षष्ठो बिन्दुः॥]


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project