Digital Sanskrit Buddhist Canon

पंचमो बिन्दुः

Technical Details
  • Text Version:
  • Input Personnel:
  • Input Date:
  • Proof Reader:
  • Supplier:
  • Sponsor:
Parallel version

Paṁcamo binduḥ


 



पंचमो बिन्दुः



 



स्कन्धाः धातवः आयतनानि च



 



१। सर्वसास्रवधर्माश्चतुर्वस्तुहेयाः। कतमेभ्यश्चतु (र्वस्तुभ्यः)। अनित्यतः। अनात्मतः। दुःखतः। अशुचितश्च॥ क्लेशा ह्यास्रवाः। तत्कस्य हेतोः। सर्वोपपत्तिदेशाभिगमने चित्तस्य नैरन्तर्येण स्रवत्वेन संसारपतनहेतुत्वादुच्यन्ते आस्रवाः॥ त्रिषु धातुष्वष्टोत्तरशतं क्लेशाः। अष्टानवतिबन्धनानि। दश संयोजनानि। इतीमे क्लेशाः कुतः स्थानात्प्रभवन्ति। उच्यते। सास्रवधर्मेभ्यः। अपि चोच्यन्ते उपादानस्कन्धा इति क्लेशस्थानमिति च। ततोऽत्र द्विविधाः पंचस्कन्धाः सास्रवा अनास्रवाश्च। उपादानस्कन्धाः सर्वे सास्रवाः॥



 



२। कतमो रूपस्कन्धः। सर्वं चतुमहाभूतकृतं द्वादशायतनेषु व्यपहाय मन आयतनं सर्वाण्यन्यान्यायतनानि धर्मायतनसंगृहीतमविज्ञप्तिरूपं चेति रूपस्कन्धः॥ रूपस्कन्धो द्विविधः। सनिदर्शनोऽनिदर्शनश्च। कतमः सनिदर्शनः। एकमायतनं। रूपायतनं। कतमोऽनिदर्शनः। नवायतनानि धर्मायतनसंगृहीतमविज्ञप्तिरूपं च॥ रूपं पुनस्त्रिविधं। सनिदर्शनं सप्रतिघं। अनिदर्शनं सप्रतिघं च। रूपायतनं सनिदर्शनं सप्रतिघं। अन्यानि नवायतनान्यनिदर्शनानि सप्रतिघानि। धर्मायतनमविज्ञप्तिरूपं चानिदर्शने अप्रतिघे॥ इति रूपस्कन्धः॥



 



३। कतमो वेदनास्कन्धः। वेदनाऽनुभवः षड्विधस्पर्शजः॥ द्विविधा वेदना। कायवेदना मनोवेदना च॥ त्रिविधा वेदना। दुःखा वेदना सुखावेदना अदुःखासुखावेदना च॥ चतुर्विधा वेदना। कायव्याकृता अव्याकृता मनोव्याकृता अव्याकृता च॥ पंचविधा वेदना। पंच वेदनेन्द्रियाणि। (सुखं दुःखं सौमनस्यं दौर्मनस्यमुपेक्षा च)॥ षोढा वेदना। चक्षुःसंस्पर्शजा वेदना श्रोत्र घ्राण जिह्वा काय मनःसंस्पर्शजा वेदना च॥ अष्टादशविधा वेदना। चक्षुराद्याः (षड्वेदनाः)ससुखसौमनस्याः (सदुःखदौर्मनस्याः)सोपेक्षाश्च॥ षट्त्रिंशद्विधा वेदना। अष्टादशविधा वेदना कुशला अकुशलाच॥ अष्टोत्तरशतविधा वेदना। अतीतानागतप्रत्युपन्नैः प्रविभक्ताः षट्त्रिंशत्॥ प्रतिसत्त्वं क्षणे क्षणे समुद्यन्त्यसंख्येया वेदनाः॥ इति वेदनास्कन्धः॥



 



४। कतमः संज्ञास्कन्धः। चित्तं विविधं प्रतीत्य सर्वधर्माः संज्ञा। सा त्रिविधा। परित्ता। महती। (तदितरा च)। असंख्येयभेदभिन्नबाह्यायतनसंग्रहप्रत्ययेन संज्ञायते इति संज्ञास्कन्धः॥



 



५। कतमः संस्कारस्कन्धः। संस्कृतधर्मेषु संस्काराः संस्कुर्वन्ति विविधान् धर्मानिति संस्कारस्कन्धः॥ स द्विविधः। चित्तसंप्रयुक्तः चित्तविप्रयुक्तश्च॥ कतमश्चित्तसंप्रयुक्तः। चेतना स्पर्शः स्मृतिरित्यादयो धर्मा इति चित्तसंप्रयुक्तः॥ कतमश्चित्तविप्रयुक्तः। प्राप्तिरासंज्ञिकं निरोधसमापत्तिरित्यादिश्चित्तविप्रयुक्तः॥ इति संस्कारस्कन्धः॥



 



६। कतमो विज्ञानस्कंधः। नीलपीतलोहितादीन्धर्मान् विविनक्ति विज्ञानं। विज्ञानं हि षड्विधं। चक्षुर्विज्ञानं श्रोत्र घ्राण जिह्वा काय मनोविज्ञानं च। कतमच्चक्षुर्विज्ञानं। चक्षुरिन्द्रियाश्रया रूपप्रज्ञप्तिरुच्यते चक्षुर्विज्ञानं। एवं श्रोत्रघ्राणजिह्वाकायेन्द्रियाश्रयाः शब्दगन्धरसस्प्रष्टव्यप्रज्ञप्तयः श्रोत्रघ्राणजिह्वाकायविज्ञानानि। मन‍इन्द्रियाश्रया धर्मप्रज्ञप्तिरुच्यते मनोविज्ञानं॥ इति विज्ञानस्कन्धः॥



 



७। द्वादशायतनानि। चक्षुरायतनं श्रोत्र घ्राण जिह्वा काय मन आयतनं। इत्याध्यात्मिकानि षडायतनानि। रूप शब्द गन्ध रस स्प्रष्टव्य धर्मायतनं। इति बाह्यानि षडायतनानि॥ अपि च चक्षुर्विज्ञानाद् यावन्मनोविज्ञानं (इति षड्विज्ञानानि द्वादशायतनेः सह)संभूय अष्टादश (धर्मा भवन्ति अष्टादश धातवः)॥



 



८। उपादाय चत्वारि महाभूतानि (रूप-)प्रसादकृतं रूपविज्ञानप्रत्यय उच्यते चक्षुः। एवं चत्वारि महाभूतानि उपादाय (रूप)प्रसादकृताः शब्दगन्धरसस्प्रष्टव्यविज्ञानप्रत्ययाः उच्यन्ते श्रोत्रघ्राणजिह्वाकायाः॥



 



९। सर्वस्य चक्षुर्विज्ञानस्य विषयो रूपं द्वादशविधं। दीर्घं। ह्रस्वं। आलोकः। अन्धकारः। नीलं। पीतं। लोहितं। अवदातं। स्थूलसूक्ष्मरूपं। नभोरूपं। कायविज्ञप्तिरूपं (=संस्थानरूपं)॥ सर्वस्य श्रोत्रविज्ञानस्य विषयः शब्दः। सत्त्वसंख्यातः शब्दः असत्त्वसंख्यातः शब्दश्च॥ सर्वस्य घ्राणविज्ञानस्य विषयो गन्धः। सुरभिरसुरभिश्चेत्यादिर्गन्धः॥ सर्वस्य जिह्वाविज्ञानस्य विषयो रसः। कषायाम्ललवणतिक्तमधुरादिस्त्रयःषष्टिविधो रसः॥ सर्वस्य कायविज्ञानस्य विषयः स्प्रष्टव्यं। श्लक्ष्णलघुगुरुखरमृदुशीतोष्णवुभुक्षापिपासाचतुर्महाभूतादिः॥ सर्वमनोविज्ञानस्य विषयो धर्मः। तथाहि सर्वधर्माः॥



 



१०। पंच विज्ञानानि न शक्नुवन्ति विवेक्तं। मनोविज्ञानं शक्नोति विवेक्तं। चित्तं मनो विज्ञानमित्यनर्थान्तरं। निरुक्तावेवान्तरम्॥



 



११। इन्द्रियविषयविज्ञानसंनिपातजः स्पर्शः। स्पर्शसहजा वेदनाद्याः। दश महाभूमिकाः दशक्लेशमहाभूमिकाः दश परित्तक्लेशभूमिकाः - इत्येते धर्मा एकचित्तजा एकालंबना एकक्षया एकोत्पादा एकनिरोधाः। तथाहि। प्रदीपप्रकाशोष्माण एकोत्पादा एकाश्रया एकनिरोधाः॥



 



१२। अष्टादशसु कति कुशलाः कत्यकुशलाः कत्यव्याकृताः। अष्टावव्याकृताः। दश व्याख्यास्यामः। रूपं शब्दः सप्तविज्ञानानि धर्मश्च (इति दश धातवः)कुशला अकुशला अव्याकृताश्च।



 



१३। कतमत् कुशलरूपं। कुशल कायविज्ञप्तिः। कतमदकुशलरूपं। अकुशला कायविज्ञप्तिः। कतमदव्याकृतं रूपं। पयित्वा कुशलाकुशलकायविज्ञप्ती सर्वमन्यद्रूपमव्याकृतं॥ एवं गोचरः शब्दः॥



 



१४। चक्षुर्विज्ञानं भवति कुशलमकुशलमव्याकृतं। कतमत्कुशलं। कुशलचित्तसंप्रयुक्तं चक्षुर्विज्ञानं। कतमदकुशलं। अकुशलचित्तसंप्रयुक्तं चक्षुर्विज्ञानं। कतमदव्याकृतं। अव्याकृतचित्तसंप्रयुक्तं चक्षुर्विज्ञानं॥ एवं श्रोत्र घ्राणजिह्वाकायमनोविज्ञानानि मनश्च॥



 



१५। धर्मः कुशलो वा भवत्यकुशलो वा ऽव्याकृतो वा। कतमः कुशलः। कुशलकायवाक्कर्माणि कुशलाः वेदनासंज्ञासंस्कारस्कन्धाः प्रतिसंख्यानिरोधश्च। कतमोऽकुशलः। अकुशलकायवाक्कर्माणि अकुशला वेदनासंज्ञासंस्कारस्कन्धाः॥ कतमोऽव्याकृतः। अव्याकृतवेदनासंज्ञासंस्कारस्कन्धाः आकाशानान्त्यायतनम् अप्रतिसंख्यानिरोधश्च॥



 



१६। अष्टादशसु कति सास्रवाः कत्यनास्रवाः। पंचदश सास्रवाः॥ त्रीन् व्यख्यास्यामः॥



 



१७। कतमे त्रयः। मनः। धर्मः। मनोविज्ञानं च। सास्रवचित्तसंप्रयुक्तं मनः सास्रवं। अनास्रवचित्तसंप्रयुक्तं मनोऽनास्रवं॥ मनोविज्ञानमपि तथा॥



 



१८। सास्रवकायवाक्कर्माणि सास्रवा वेदनासंज्ञासंस्कारस्कन्धा इति सास्रवो धर्मः। अनास्रवकायवाक्कर्माणि अनास्रवा वेदनासंज्ञासंस्कारस्कन्धा असंस्कृतधर्माश्चेत्यनास्रवो धर्मः॥



 



१९। अष्टादशसु कति कामधातुप्रतिसंयुक्ताः। कति रूपधातुप्रतिसंयुक्ताः। कत्यारूप्यधातुप्रतिसंयुक्ताः। कत्यप्रतिसंयुक्ताः। चत्वारः कामधातुप्रतिसंयुक्ताः। गन्धः। रसः। घ्राणविज्ञानं। जिह्वाविज्ञानं। कवलीकाराहारस्थानत्वात्॥ चतुर्दश व्याख्यास्यामः॥ चक्षुः कामधातुप्रतिसंयुक्तं। कतमत्कामधातुप्रतिसंयुक्तं। कामधातुप्रतिसंयुक्तचतुर्महाभूतकृतं॥ एवं श्रोत्रघ्राणजिह्वाकायरूपशब्दस्प्रष्टव्यानि कामधातुप्रतिसंयुक्तानि कामधातुप्रतिसंयुक्तचतुर्महाभूतकृतानि॥



 



२०। कतमे रूपधातुप्रतिसंयुक्ताः। चक्षुः रूपधातुप्रतिसंयुक्तं रूपधातुप्रतिसंयुक्तचतुर्महाभूतकृतं॥ एवं श्रोत्रघ्राणजिह्वाकायरूपशब्दस्प्रष्टव्यानि रूपधातुप्रतिसंयुक्तानि रूपधातुप्रतिसंयुक्तचतुर्महाभूतकृतानि॥



 



२१। चक्षुर्विज्ञानं कामधातुप्रतिसंयुक्तं। कतमत्कामधातुप्रतिसंयुक्तं। कामधातुचित्तसंयुक्तं चक्षुर्विज्ञानं॥ श्रोत्रकायविज्ञाने अपि तथा॥ कतमद्रूपधातु प्रतिसंयुक्तं। रूपधातुचित्तसंप्रयुक्तं चक्षुर्विज्ञानं॥ श्रोत्रकाय्(अविज्ञाने)अपि तथा॥



 



२२। मनः कामधातुप्रतिसंयुक्तं। रूपारूप्यधातुप्रतिसंयुक्तं। अप्रतिसंयुक्तं वा भवति। कतमत्कामधातुप्रतिसंयुक्तं। कामधातुचित्तसंप्रयुक्तं मनः। कतमद्रूपधातुप्रतिसंयुक्तं। रूपधातुचित्तसंप्रयुक्तं मनः। कतमदारूप्यधातुप्रतिसंयुक्तं। आरूप्यधातुचित्तसंप्रयुक्तं मनः। कतमदप्रतिसंयुक्तं। अनास्रवचित्तसंप्रयुक्तं मनः। मनोविज्ञानमपि तथा॥



 



२३। धर्मः कामधातुप्रतिसंयुक्तः। रूपारूप्यधातुप्रतिसंयुक्तः। अप्रतिसंयुक्तो वा भवति। (कतमः कामधातुप्रतिसंयुक्तः)। कामधातुप्रतिसंयुक्तकायवाक्कर्माणि (कामधातुप्रतिसंयुक्ताः)वेदनासंज्ञासंस्कारस्कन्धाश्चेति कामधातुप्रतिसंयुक्तो धर्मः॥ कतमो रूपधातुप्रतिसंयुक्तो (धर्मः)। रूपधातुप्रतिसंयुक्तकायवाक्कर्माणि (रूपधातुप्रतिसंयुक्ताः)वेदनासंज्ञासंस्कारस्कन्धाश्चेति रूपधातुप्रतिसंयुक्तो धर्मः॥ कतम आरूप्यधातुप्रतिसंयुक्तः। आरूप्यधातु (प्रतिसंयुक्त)- वेदनासंज्ञासंस्कारस्कन्धाः - इत्यारूप्यधातुप्रतिसंयुक्तो धर्मः॥ कतमोऽप्रतिसंयुक्तः। अनास्रवकायवाक्कर्माणि अनास्रवा वेदनासंज्ञासंस्कारस्कन्धाः - इत्यप्रतिसंयुक्तो धर्मः॥



 



२४। अष्टादशसु कत्यध्यात्मायतनसंगृहीतानि। कति बाह्यायतनसंगृहीतानि॥ द्वादशाध्यात्मायतनसंगृहीतानि। चक्षुः श्रोत्रं घ्राणं जिह्वा कायः मनः चक्षुर्विज्ञानं श्रोत्र घ्राण जिह्वा काय मनोविज्ञानं॥ षड् बाह्यायतनसंगृहीतानि। रूपं शब्दः गन्धः रसः स्प्रष्टव्यं धर्माः॥



 



२५। (अष्टादशसु)कति सवितर्काः सविचाराः। कति सवितर्का अविचाराः। कत्यवितर्का अविचाराः॥ दश अवितर्का अविचाराः। पंचेन्द्रियाणि पंच विषयाश्च॥ पंच विज्ञानानि सवितर्क(स)विचाराणि॥ त्रीन् व्याख्यास्यामः॥ मनः सवितर्कं सविचारं वा सवितर्कमविचारं वा अवितर्कमविचारं वा। कतमत्सवितर्कं सविचारं। कामधातु (-चित्तं)आदिध्यान (-चित्तं)भवति सवितर्कं सविचारं। मध्यमध्यान (चित्तं)भवति सवितर्कमविचारं। चरमभूमिकं भवत्यवितर्कमविचारं॥ मनोबिज्ञानमपि तथा॥ कायवाक्कर्माणि सर्वे विप्रयुक्ताः संस्काराः असंस्कृतं चेत्येते धर्मा अवितर्का अविचाराः। अन्येऽवशिष्टा मनोवत्॥



 



२६। (अष्टादशसु)कति सालंबनाः। कत्यनालंबनाः॥ सप्त चित्तानि सालंबनानि। तत्कस्य हेतोः। स्वविषयालंबनत्वात्॥ दश अनालंबनाः। पंचेन्द्रियाणि पंच विषयाश्च॥ धर्मं व्याख्यास्यामः॥ कायवाक्कर्माणि सर्वे चित्तविप्रयुक्ताः संस्काराः असंस्कृतं चेति अनालंबना धर्माः। तदन्ये सालंबनाः॥



 



२७। अष्टादशसु कत्युपात्ताः। कति निरनुपात्ताः॥ नव (उपत्तानुपात्तभेदेन द्विविधाः)। इन्द्रियेण सह प्रत्युत्पन्ना उपात्ताः। चित्तचैतसिकधर्माणां सहभावात्। अतीता अनागता निरनुपात्ताः। चित्तचैतसिकधर्माणामसहभावात्॥ शब्द सप्तविज्ञानानि धर्मश्चेति नव अनुपात्ताः। चित्तचैतसिकधर्माणामसहभावात्॥



 



२८। अष्टादशसु कति संस्कृताः। कत्यसंस्कृताः॥ सप्तदश संस्कृताः। धर्मा व्याख्यास्यमानाः संस्कृता व भवन्ति। असंकृता वा॥ कतमे संस्कृताः। कायवाक्कर्माणि वेदनासंज्ञासंस्कारस्कन्धा इति संस्कृत(धर्माः)॥ प्रतिसंख्यानिरोधः अप्रतिसंख्यानिरोधः आकाशं चेत्यसंस्कृत (धर्माः)॥



 



[इत्यभिधर्मामृतशास्त्रे स्कन्धायतनधातुनिर्देशो नाम पंचमो बिन्दुः॥]


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project