Digital Sanskrit Buddhist Canon

चतुर्था बिन्दुः

Technical Details
  • Text Version:
  • Input Personnel:
  • Input Date:
  • Proof Reader:
  • Supplier:
  • Sponsor:
Parallel version

Caturthā binduḥ


 



चतुर्था बिन्दुः



 



कर्म



 



१। संक्लिष्टे चित्ते क्लेशानालम्ब्य भवति संक्लिष्टकर्मोत्पादः। संक्लिष्ट कर्मणि सत्यनुभूयते संक्लिष्टो विपाकः॥ कतमत् संक्लिष्टं कर्म। भवति (संक्लिष्टकर्मणां)त्रिकैर्विभागः॥ (तथाहि)। कायकर्म। वाक्कर्म। मनः कर्म॥ कुशलकर्म। अकुशलकर्म। अव्याकृतकर्म॥ शैक्षकर्म। अशैक्षकर्म। नशैक्षनाशैक्षकर्म॥ सत्यदर्शनहेयकर्म॥ भावनाहेयकर्म। अहेयकर्म॥



 



२। (विपाकः कतमः)। ऐहिकविपाकः (=दृष्टधर्मविपाकः)। जातिविपाकः(=उपपद्यवेदनीयविपाकः)। सांपरायिकविपाकः(=अपरपर्यायवेदनीयविपाकः )। सुखविपाकः। दुःखविपाकः। असुखादुःखविपाकः। कृष्णविपाकः। शुक्लविपाकः। संक्लिष्ट(=कृष्णशुक्ल)विपाकः॥



 



३। अकृष्णाशुक्लाविपाकं कर्मक्षयकर्म। नियतवेद्यविपाकं कर्म। अनियतवेद्यविपाकं कर्म॥



 



४। कतमत् कायकर्म। कायचेष्टा कायव्यापारः॥ कतमद् वाक्कर्म। वाक्चेष्टा वाग्व्यापारः॥ कतमन्मनः कर्म। मनश्चेष्टा मनश्चेतना॥ कतमत् कुशलकर्म। कुशलकायव्यापारः। कुशलवाग्व्यापारः। कुशला मानसी चेतना॥ कतमद् अकुशलकर्म। अकुशलकायव्यापारः। अकुशलवाग्व्यापारः। अकुशला मानसी चेतना॥ कतमद् अव्याकृतकर्म। अव्याकृता कायचेष्टा। अव्याकृता वाक्चेष्टा। अव्याकृता मानसी चेतना॥ कतमत् शैक्षकर्म। शैक्षस्य कायाविज्ञप्तिः। शैक्षस्य वागविज्ञप्तिः। शैक्षस्य मानसी चेतना॥ कतमद् अशैक्षकर्म। अशैक्षस्य कायाविज्ञप्तिः। अशैक्षस्य वागविज्ञप्तिः। अशैक्षस्य मानसी चेतना॥ कतमन्नशैक्षनाशैक्षकर्म। सास्रवा कायचेष्टा वाक्चेष्टा मानसी चेतना॥ कतमत् सत्यदर्शनहेयकर्म। श्रद्धानुसारिणो धर्मानुसारिणः क्षान्तिदृष्ट्या हेया अष्टाशीतिरनुशयाश्चित्तसंप्रयुक्ताः॥ कतमद् भावनाहेयकर्म। श्रद्धाविमोक्षदर्शनोपलब्धभावनया हेया दशानुशयाश्चित्तसंप्रयुक्ताः। क्लिष्टे कायवाक्कर्मणी। कुशलसास्रवकर्म। अव्याकृतकर्म॥ कतमदहेयकर्म। सर्वमनास्रवं कर्म॥



 



५। कतम ऐहिकविपाकः। कुशलाकुशलानां कृतकमणां य इहलोके (फल-)लाभो न परलोके॥ कतमो जातिविपाकः। कुशलाकुशलकर्मानुसारं प्रेत्य प्रथमायां जातौ यो विपाकलाभो न तदन्यजातौ॥ कतमः सांपरायिकविपाकः। कुशलाकुशलकर्मानुसारं प्रेत्य द्वितीय (=प्रथमेतर)जातौ यो (विपाक-)लाभः। तृतीयचतुर्थ्यादिषु च जातिषु यो विपाकलाभः॥ कतमः सुखविपाकः। कामावचरकुशलकर्मणा यावत्तृतीयध्यानं रूपावचरकुशलकर्मणा च वेदनीयः सुखो विपाकः॥ कतमो दुःखविपाकः। अकुशलकर्मणा वेदनीयो विपाकः॥ कतमोऽदुःखासुखविपाकः। चतुर्थध्यानसास्रवकुशलकर्मणा अरूपावचरसास्रवकुशलकर्मणा च (वेदनीयो विपाकः)॥ कतमः कृष्णकृष्णविपाकः। अकुशलकर्मणा कृष्णकृष्णविपाकः॥ कतमः शुक्लशुक्लविपाकः। सास्रवकुशलकर्मणा शुक्लशुक्लविपाकः॥ कतमः संक्लिष्टविपाकः (=मिश्रविपाकः)। कामावचरकुशलाकुशलसंक्लिष्ट-(=मिश्र)कर्मणा वेदनीयः संक्लिष्टः(=मिश्रः)विपाकः॥



 



६। कतमदकृष्णाशुक्लाविपाकं कर्म। त्रैधातुकानामास्रवाणां परिक्षयकाले कर्मणां क्षये (निमित्तं)आनन्तर्यमार्गसंगृहीतं (कर्म)अनास्रवा च भावना॥ कतमद् नियतविपाकं कर्म। पंचानन्तर्यकर्माणि भवन्ति नियताकुशलविपाकानि। (तानि)दृष्टधर्मविपाकानि जातिविपाकानि अपरपर्यायवेदनीयविपाकानि वा भवन्ति॥ सति हेतुप्रत्यये सति च पुद्गले नियतवेदनीयो भवति विपाकः। असति हेतुप्रत्यये असति च पुद्गले न भवति नियतवेदनीयो विपाकः। सर्वसास्रवकर्मणां हेतुकृतानां परिपाके भवति विपाकलाभः। अहेतुकृतानामपरिपाके न भवति विपाकलाभः॥



 



७। त्रिविधानि कर्माणि। कायकर्म (द्विधा)विज्ञप्तिरविज्ञप्तिश्च। वाक्कर्म (द्विधा)विज्ञप्तिरविज्ञप्तिश्च। मनः कर्म विज्ञप्तिर् (एव)॥



 



८। कतमद् विज्ञप्तिकर्म। कायवागमनःकृतं (कर्म)। कतमदविज्ञप्तिकर्म। कायवाक्कृतं (कर्म)॥ (पूर्वचित्त)पर्यवसाने जायमाने चित्तान्तरेऽपरिच्युतं तिष्ठत्यविज्ञप्तिरूपं। कुशलाकुशलचित्तजं भवत्यविज्ञप्तिरूपं नत्वव्याकृतचित्तजं। तत्कस्य हेतोः। अव्याकृत चित्तस्यातिदुर्बलत्वात्॥



 



९। अव्याकृतभावो द्विविधः। सनिवृतः अनिवृतश्च। संयोजनावृतः सनिवृतः। अनावृतोऽनिवृतः॥



 



१०। कतमे सनिवृताव्याकृता धर्माः। कामधातौ सत्कायदृष्टिः अन्तग्राहदृष्टिः तत्संप्रयुक्ता अविद्यासहभुवो धर्माः। रूपारूप्यधात्वोः सर्वसंयोजनानि रूपधातुकायवाक्कर्माणि। इति सनिवृताव्याकृता धर्माः॥



 



११। कतमे अनिवृताव्याकृताधर्माः। आसनं शयनं स्थानं चंक्रमणं शिल्पं विपाकधर्माः नैर्माणिकचित्तं आकाशं अज्ञानं प्रत्ययोच्छेदः। इत्यनिवृताव्याकृता धर्माः॥



 



१२। अविज्ञप्तिस्त्रिविधा। अनास्रवा प्रथमा। समाधिसह (-जाता)द्वितीया। शीलसंवरस्तृतीया॥ कतमदनास्रवशीलं। सम्यग्वाक् सम्यक्कर्मान्तः सम्यगाजीवः॥ कतमत्समाधिसह(जातं)शीलं। ध्यानलाभः कामाकुशलधर्मपरित्यागः॥ कतमः शीलसंवरः। शीलसमादानकाले सास्रवकुशलकायवाक्कर्मावाप्तिः॥ कतमस्त्रिविधसंवरलाभः। सर्वमार्गानास्रवसंवरसिद्धिः सर्वसमाधिसह(भू)संवरसिद्धिः समादत्तशीलस्य कामधातुपुद्गलस्य शीलसंवरसिद्धिः॥



 



१३। गृहीतसंवरस्य पुद्गलस्य प्रथम ज्ञप्तिकरणसमये प्रत्युत्पन्नाविज्ञप्तिशीलसिद्धिः। यावदन्तं न परिहीयते तावदस्य अतीताविज्ञप्ति सिद्धिः। ध्यानाप्तपुद्गलस्य सर्वातीतानागतप्रत्युत्पन्नध्यानसंवर(जाविज्ञप्ति)सिद्धिः। अनास्रवसंवरस्यानागतसर्वाविज्ञप्तिसिद्धिः। मार्गापन्नस्य प्रत्युत्पन्नाविज्ञप्तिसिद्धिः। यावदन्तं न परिहीयते तावत्स पुद्गलोऽतीतसंवर(जाविज्ञप्ति)मान् भवति॥



 



१४। गुरुपापकं कुर्वतः प्राप्तिरकुशलस्य अकुशलविज्ञप्त्यविज्ञप्त्योः। अगुरुपापके प्राप्तिरकुशलाया विज्ञप्तेर्नत्वविज्ञप्तेः। अकुशलचित्तनिरोधे न प्राप्तिर्विज्ञप्त्यविज्ञप्त्योः। असंवरपुद्गलस्य प्रत्युत्पन्नाकुशलाविज्ञप्तिप्राप्तिः। यावदन्तं न परिहीयते तावदस्यातीताकुशलाविज्ञप्तिप्राप्तिः। गुरुकुशलं कुर्वतो विज्ञप्त्यविज्ञप्तिप्राप्तिः। अगुरुकुशले विज्ञप्तिप्राप्तिर्न त्वविज्ञप्तिप्राप्तिः। कुशलचित्तनिरोधे विज्ञप्त्यविज्ञप्त्यप्राप्तिः। मध्यमपुद्गलस्य कृते गुरुकुशलेऽकुशले च कुशलाकुशलविज्ञप्त्यविज्ञप्तिप्राप्तिः। अगुरुकुशलाकुशलं कुर्वतोऽस्य प्राप्तिर्विज्ञप्तेर्नत्वविज्ञप्तेः। कुशलाकुशलचित्तनिरोधे न प्राप्तिर्विज्ञप्त्यविज्ञप्त्योः॥



 



१५। रूपधातुकुशलचित्तलाभे ध्यानसंवरसिद्धिः। प्रत्युदावृत्तचित्तस्य न भवति ध्यानसंवरसिद्धिः। रूपधातु कुशलचित्तेषु संवरचित्तसंप्रयोगः विना चक्षुर्विज्ञानं श्रोत्र (विज्ञानं)कायविज्ञानं श्रुतमयीप्रज्ञां च्युतिकालिकचित्तं च॥



 



१६। षड्भूमिकानास्रवचित्तबलेनानास्रवसंवरसिद्धिः। कतमाः षड्भूमयः। असमापत्तिध्यानभूमिः प्रथमध्यानं मध्यमध्यानं द्वितीयध्यानं तृतीयध्यानं चतुर्थध्यानं च। षड्भूमिप्रत्युदावृत्तचित्तस्य नानास्रवसंवरसिद्धिः॥



 



१७। द्वाभ्यां वस्तुभ्यामनास्रवसंवरात् परिहाणिर्भवति। प्रत्युदावृत्तेश्च (षड्भूमिभ्यः)संप्राप्तेश्च मार्गफलस्य॥ द्वाभ्यां वस्तुभ्यां परिहीयते ध्यानसंवरात्। प्रत्युदावर्तनाच्च जीवितोपरमाच्च॥ त्रिभिर्वस्तुभिः परिहीणो भवति शीलसंवरात्। (तत्र)प्रथमं (वस्तु)शीलभंगः। द्वितीयं शीलपरित्यागः। तृतीयमकुशलमिथ्या (दृष्ट्य्)उत्पादः॥ धर्मनिरोधकाले भवति शीलसंवरच्युतिरिति केचिदाहुः। न भवति च्युतिरित्याहुरपरे। वस्तुतस्तु न च्युति (रिति नः सिद्धान्तः)॥ चत्वारि वस्तूनि यैरसंवरात् परिहाणिः। प्रथमं शीलसमादानं। द्वितीयं पुनरकरणं। तृतीयमेकचित्तेन तृष्णोपरमः। चतुर्थं कुशलरूप (धातुगतध्यान)मार्गप्राप्तिः। कथं परिहाणिः (कुशलसंवरात्)। भवति चेत्कुशलमूलोच्छेदः। उपरमश्चेदायुषः। अवशेषश्चेत् क्लिष्टचैतसिकधर्माणाम्॥



 



१८। क्लेशोच्छेदकाले उच्छेदस्य भवति पंचविधं फलं। प्रथमं विपाकफलं। द्वितीयमाश्रयफलं। तृतीयमधिपतिफलं। चतुर्थं कायबलफलं। पंचमं विमोक्षफलं॥ कुशलानां सास्रवानां धर्माणां चत्वारि वा फलानि भवन्ति पंच वा फलानि। प्रभवन्ति क्लेशोच्छेदायेति पंच फलानि। न प्रभवन्ति क्लेशोच्छेदायेति चत्वारि फलानि विना विमोक्षफलं॥ अकुशलधर्माणां भवन्ति चत्वारि फलानि। स्थापयित्वा विमोक्षफलं। अनास्रवधर्माणां चत्वारि वा फलानि भवन्ति त्रीणि वा फलानि। क्लेशोच्छेदे तु चत्वारि फलानि विहाय विपाकफलं। क्लशोच्छेदाभावे तु त्रीण्येव फलानि व्यपहाय विपाकफलं विमोक्षफलं च॥ अव्याकृतधर्माणां त्रीणि फलानि विपाकफलं वर्जयित्वा विमोक्षफलं च॥



 



१९। कतमद्विपाकफलं। अकुशलधर्मेण कुशलसास्रवधर्मेण च (यत्)प्राप्यते (तद्)विपाकफलं। कतमदाश्रयफलं। कुशलाकुशलाव्याकृतधर्माणां नित्याचरणाभिवृद्धहिताद्यावत्प्राप्तिरित्याश्रयफलं। कतमदधिपतिफलं। कुशलानां वा अथाकुशलानां वा सहवेदनीयानां या भवत्युत्कृष्टतमा (कुशला वा अकुशला वा)वेदनीयता सोच्यतेऽधिपतिफलं। कतमत्कायबलफलं। कायव्यापारकृतकर्मादिकमुच्यते कायबलफलं। कतमद्विमोक्षफलं। ज्ञानेन क्लेशनिरोध उच्यते विमोक्षफलम्॥



 



२०। कुशलमूलमकुशलमूलमव्याकृतमूलं चेति मूलं त्रिविधं॥ कुशलमूलम् अलोभः अद्वेषः अमोहश्च। इति त्रिविधं कुशलमूलं॥ अकुशलमूलं लोभः द्वेषः मोहश्च॥ चतुर्विधमव्याकृतमूलं। अव्याकृतं रागः। अव्याकृताऽविद्या। अव्याकृता दृष्टिः। अव्याकृतो मानः॥



 



२१। त्रिविधा धर्माः। कुशलधर्माः। अकुशलधर्माः। अव्याकृतधर्माश्च॥ कतमे कुशलधर्माः। कुशलानि कायवाक्कर्माणि। कुशलं चित्तं। (कुशलाः)चित्तसंप्रयुक्ता धर्माः चित्तविप्रयुक्ताश्च संस्काराः। प्रतिसंख्यानिरोधः। इति कुशलधर्माः॥ कतमेऽकुशला धर्माः। अकुशलानि कायवाक्कर्माणि। अकुशलं चित्तं। (अकुशलाः)चित्तसंप्रयुक्ता धर्माः चित्तविप्रयुक्ताश्च संस्काराः। इत्युकुशलधर्माः॥ कतमेऽव्याकृतधर्माः। अव्याकृतानि कायवाक्कर्माणि। अव्याकृतं चित्तं। (अव्याकृताः)चित्तसंप्रयुक्ता धर्माः चित्तविप्रयुक्ताश्च संस्काराः। अप्रतिसंख्यानिरोधः। इत्यव्याकृतधर्माः॥



 



२२। मद्यपानविरतिः। दानं। वेदना। गुरुकारः। इत्येवमादि। इति कुशलकायवाक्कर्मसंग्रहः॥ मद्यपानं। ताडनं। मदमानः। (अ)गुरुकारः। इत्येवमादि। इत्यकुशलकायवाक्कर्मसंग्रहः॥ इति दशकर्म पथाः॥



 



२३। असंगृहीतानि कामधातुकायवाक्कर्माणि कामधातुचतुर्महाभूतकृतानि॥ एवं रूपधातु (कायवाक्कर्माणि)॥ अनास्रवाणि कायवाक्कर्माणि कतमच्चतुर्महाभूतकृतानि। षड्भूय्याश्रयाणि तद्भूमिचतुर्महाभूतवृतानि। आरूप्यधातूपपत्तावेवं मूलाधिगानि अनास्रवाणि कायवाक्कर्माण्यपि तद्भूमिचतुर्महाभूतकृतानि॥



 



२४। त्रिधा जीवितोपरमः (=मरणम्)। आयुःक्षयेण न पुण्यक्षयेण। पुण्यक्षयेण नायुःक्षयेण। पुण्यक्षयेण आयुःक्षयेण च॥



 



[इत्यभिधर्मामृतशास्त्रे कर्मनिर्देशो नाम चतुर्थो बिन्दुः॥]


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project