Digital Sanskrit Buddhist Canon

द्वितीयो बिन्दुः

Technical Details
  • Text Version:
  • Input Personnel:
  • Input Date:
  • Proof Reader:
  • Supplier:
  • Sponsor:
  • Parallel version Dvitīyo binduḥ


 



द्वितीयो बिन्दुः



 



लोकधातवो गतयश्च



 



१। त्रयो धातवः। कामधातुः रूपधातुः अरूपधातुः॥ त्रिषु धातुषु सन्ति पंचविधा गतयः। नरकगतिः तिर्यग्गतिः प्रेतगतिः मनुष्यगतिः देवगतिः॥ अन्तराभवगतिश्चापि॥



 



२। कतमे नरकाः। महानरका अष्टविधाः। प्रथमः संजीवः। द्वितीयः कालसूत्रं। तृतीयः संघातः। चतुर्थो रौरवः। पंचमो महारौरवः। षष्ठस्तपनः। सप्तमः प्रतापनः। अष्टमोऽवीचिः॥ प्रतिमहानरकं भवंति षोडशभूमयः। ते ह्युपनरकाः॥ कतमे तिर्यंचः। अपदाः द्विपदाः चतुष्पदाः बहुपदाः जलचराः स्थलचराः खेचराः॥ कतमा प्रेतगतिः। विविधकाया॥ कामधातावकुशलगतिस्त्रिधा। घोरा मध्यमा अधमा। घोरविपाका नरकाः मध्यमविपाकास्तिर्यंचः अधमविपाकाः प्रेताः॥



 



३। कतमा मनुष्यगतिः। चतुर्विधा मनुष्याः। पूर्वविदेहमनुष्याः। अपरगोदानीयमनुष्याः। जंबूद्वीपमनुष्याः। उत्तरकुरुमनुष्याः। इति कामधातौ चतुर्विधा कुशलकर्मविपाकोपपत्तिः॥ कतमा देवगतिः। कामधातौ षोढा। चातुर्महाराजिकदेवा इत्येका। त्रयस्त्रिंशद्देवा इति द्वितीया। यामदेवा इति तृतीया। तुषितदेवा इति चतुर्थी। निर्माणरतिदेवा इति पंचमी। परनिर्मितवशवर्तिदेवा इति षष्ठी। इति कामधातौ पोढा कुशलकर्मविपाकोपपत्तिः॥



 



४। रूपधातौ सप्तदशभूमयः। ब्रह्मकायिक-ब्रह्मपुरोहित-महाब्रह्माणः। परित्ताभाऽप्रमाणाभाऽऽभास्वराः। परित्तशुभाऽप्रमाणशुभ-शुभकृत्स्नाः। अनभ्रकपुण्यप्रसव-वृहत्फलाऽवृहाऽतपसुदृश-सुदर्शनाऽकनिष्ठाः॥ चत्वारि ध्यानानि त्रिविधान्युत्तममध्यमहीनफलविपाकानि॥ द्वादशायतनोत्पादः॥ चत्वारि ध्यानानि सास्रवानास्रवमिश्रविपाकानि॥ पंचशुद्धाधिवासार्यपुद्गलोपपत्तिस्त्र्यायतना॥ आर्यपुद्गलपृथग्जनानां बृहत्फले सहोत्पादः॥ पृथग्जनानामासंज्ञिकसमाधिलाभेनासंज्ञिकदेवलोकोपपत्तिः॥



 



५। अरूपधातावाकाशानन्त्यायतनं विज्ञानानन्त्यायतनमाकिंचन्यायतनं नैव संज्ञानासंज्ञायतनं (चेति चत्त्वारि भवन्त्यायतनानि)। यथाक्रममरूपसमाधिलाभादरूपायतनेषूपपत्तिः। यथासमाधिबलं जन्मायतनलाभः। इति देवगतिः॥



 



६। कामानां भवत्यादानमुपभोगः संग्रह इतिहेतोरुच्यते कामधातुः। कामाभावाद्र पभावाच्चोच्यते रूपधातुः। अरूपधातुश्चतुःस्कन्ध इति (रूपाभावाद्)उच्यतेऽरूपधातुः॥



 



७। पंचाशन्मानुपवर्षाणि चातुर्महाराजिकदेवानामहोरात्रं भवति। एवं त्रिंशद्दिनान्येको मासो द्वादशमासा एकं वर्षं। दिव्यानि पंचवर्षशतानि चातुर्महाराजिकदेवानामायुः। तदेतद्गणनया मानुपाणि नवतिवर्षशतसहस्राणि॥ एतत्संजीवनरकस्याहोरात्रं। एवं त्रिंशद्दिनान्येको मासो द्वादशमासा एकं वर्षं। पंचवर्षशतानि संजीवनरकस्यायुः॥



 



८। पुनः खलु मानुपवर्पशतं त्रयस्त्रिंशद्देवानामहोरात्रं। एवं त्रिंशद्दिनान्येको मासो द्वादशमासा एकं वर्षं। दिव्यं वर्षसहस्रं त्रयस्त्रिंशद्देवानामायुः। तदेतद्गणनया मानुषाणां तिस्रो वर्षकोटयः षष्टिवर्षशतसहस्राणि॥ एतत्कालसूत्रनरकस्याहोरात्रं। एवं त्रिंशद्दिनान्येको मासः। द्वादशमासा एकं वर्षं। वर्षाणां सहस्रं कालसूत्रनरकस्यायुः॥



 



९। पुनः खलु द्व मानुषवर्षशते यामदेवानामहोरात्रं। एवं त्रिंशद् दिनान्येको मासः। द्वादशमासा एकं वर्षं। द्वे दिव्यवर्षसहस्रे यामदेवानामायुः। तदेतद् गणनया मानुषाणां चतुर्दशवर्षकोटयश्चत्वारिंशद्वर्षशतसहस्राणि॥ एतत्संघातनरकस्याहोरात्रं। एवं त्रिंशद् दिनान्येको मासः। द्वादशमासा एकं वर्षं। द्वे वर्षसहस्रे संघातनरकस्यायुः॥



 



१०। पुनः खलु चत्वारि मानुषवर्षशतानि तुषितदेवानामहोरात्रं। एवं त्रिंशद् दिनान्येको मासः। द्वादशमासा एकं वर्षं। चत्वारि दिव्यवर्षसहस्राणि तुषितदेवानामायुः। तदेतद् गणनया मानुषाणां सप्तपंचाशद् वर्षकोटयः षष्टिवर्षसहस्राणि॥ एतद् रौरवनरकस्याहोरात्रम्। एवं त्रिंशद् दिनान्येको मासः। द्वादशमासा एकं वर्षं। चत्वारि वर्षसहस्राणि रौरवनरकस्यायुः॥



 



११। पुनः खल्वष्टौ मानुपवर्षशतानि निर्माणरतिदेवानामहोरात्रं। एवं त्रिंशद् दिनान्येको मासः। द्वादशमासा एकं वर्षं। अष्टौ दिव्यवर्षसहस्राणि निर्माणरतिदेवानामायुः। तदेतद् गणनया मानुषाणां त्रिंशदधिकद्वे वर्षकोटिशते चत्वारिंशद् वर्षशतसहस्राणि॥ एतद् महारौरवनरकस्याहोरात्रं। एवं त्रिंशद् दिनान्येको मासः। द्वादशमासा एकं वर्षं। अष्टौ वर्षसहस्राणि महारौरवनरकस्यायुः॥



 



१२। पुनः खलु मानुषाणां वर्षसहस्रं षट् च वर्षशतानि परनिर्मितवशवर्तिदेवानामहोरात्रं। एवं त्रिंशद् दिनान्येको मासः। द्वादशमासा एकं वर्षं। षोडशदिव्यवर्षसहस्राणि परनिर्मितवशवर्तिदेवानामायुः। तदेतद् गणनया एकविंशत्यधिकनववर्षकोटिशतानि षष्टि च वर्षशतसह्राणि॥ एतत् तपननरकस्याहोरात्रं। एवं त्रिंशद् दिनान्येको मासः। द्वादशमासा एकं वर्षं। षोडश वर्षसहस्राणि तपननरकस्यायुः॥



 



१३। प्रतापननरकस्यायुः कल्पार्धं। अवीचि नरकस्यायुः पूर्णः कल्पः॥ तिरश्चामायुर्निमेषमारभ्य दिनार्घं दिनं मासो वर्षं दश वर्षाणि वर्षाणां शतं सहस्रं शतसहस्रं कोटिर्यावत् कल्पः॥ दुर्गतानां प्रेतानामायु र्यावत् सप्ततिवर्षसहस्राणि॥



 



१४। जंबूद्वीपे मनुष्याणामायुः (कल्पादौ)असंख्येयवर्षाणि वा (कल्पान्ते)दश वर्षाणि वा। अद्यत्वे पुनरायुर्वर्षशतं प्रायशः। अपरगोदानीयजनानामायुः सार्द्धद्वे वर्षशते। पूर्वविदेहजनानामायुः पंचवर्षशतानि। उत्तरकुरुजनानामायुरन्यूनानतिरिक्तं वर्षसहस्रं। अन्यत्र सत्त्वानामायुषो वृद्धिह्रासौ। इति कामधातुसत्त्वानामायुः॥



 



१५। कतमद्र पधातावायुः। ब्रह्मकायिकानां देवानामर्धकल्पः। ब्रह्मपुरोहितानां देवानां कल्पः। महाब्रह्मणां देवानां सार्धकल्पः। इति प्रथमध्यान (भूमिषु)आयुः॥ परित्ताभानां देवानामायु र्द्वौ कल्पौ। अप्रमाणाभानां देवानामायुश्चत्वारः कल्पाः।  आभास्वराणां देवानामायुरष्टौ कल्पाः। इति द्वितीयध्यान (भूमिषु)आयुः॥ परित्तशुभानां देवानामायुः षोडशकल्पाः। अप्रमाणशुभानां देवानामायुर्द्वात्रिंशत्कल्पाः। शुभकृत्स्नानामायुश्चतुःषष्टिकल्पाः। इति तृतीयध्यान(भूमिषु)आयुः॥ अनभ्रकाणां देवानामायुः कल्पसपादशतं। पुण्यप्रसवानां देवानामायुः सार्धद्वे कल्पशते। वृहत्फलानां देवानामायुः पंच कल्पशतानि। अवृहाणां देवानामायुः कल्पसहस्रं। अतपानां देवानामायुः द्वे कल्पसहस्रे। सुदृशानां देवानामायुश्चत्वारि कल्पसहस्राणि। सुदर्शनानां देवानामायुरष्टौ कल्पसहस्राणि। अकनिष्ठानां देवानामायुः षोडश कल्पसहस्राणि। इति (रूपधातौ)चतुर्ध्यान(भूमीनां)आयुः॥



 



१६। आकाशानन्त्यायतन आयु र्विंशतिः कल्पसहस्राणि। विज्ञानानन्त्यायतन आयुश्चत्वारिंशत् कल्पसहस्राणि। आकिंचन्यायतन आयुः षष्टिः कल्प सहस्राणि। नैवसंज्ञानासंज्ञायतन आयुरशीतिः कल्पसहस्राणि। इत्यरूपधातावायुः॥ एवम् (इदं)त्रिधातुसत्त्वानामायुः॥



 



[इत्यभिधर्मामृतशास्त्रे लोकधातुगतिनिर्देशो नाम द्वितीयो बिन्दुः॥]


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project