Digital Sanskrit Buddhist Canon

सांकथ्यविनिश्चयो नाम पञ्चमः समुच्चयः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
सांकथ्यविनिश्चयो नाम पञ्चमः समुच्चयः



सप्तविधसांकथ्यविनिश्चयेऽर्थविनिश्चयः स्वभावार्थादीन् षडर्थानारभ्य वेदितव्यः। तत्र -



स्वभाव स्त्रयः स्वभावाः परिकल्पितः परतन्त्रः परिनिष्पन्नश्च॥



हेत्वर्थस्त्रयो हेतवः। उत्पत्तिहेतुस्तथा हेतुसमनन्तरालंबनाधिपतिप्रत्ययाः, ततः सर्वसंस्कृतनिर्वर्तनात्। प्रवृत्तिहेतुस्तद्यथाऽविद्याप्रत्ययाः संस्कारा यावत्समुदयो निरोधश्च भवतीत्येतयाऽऽनुपूर्व्या संक्लेशव्यवदानप्रवृत्तेः। सिद्धिहेतुः प्रत्यक्षोपलम्भानुपलम्भसमाख्यानसंगृहीतः, तेन साध्यस्याप्रतीतस्यार्थस्य साधनात्॥



फलार्थः पञ्च फलानि। विपाकफलं तद्यथाऽऽलयविज्ञानम्। निष्पन्दफलं तद्यथा पूर्वोत्पन्नानां कुशलादीनां धर्माणां तत्सान्तानिका उत्तर कुशलादयो धर्माः। अधिपतिफलं तद्यथा सर्वसत्त्वसाधारणं कर्माधिपत्येन भाजनलोकः। पुरुषकारफलं तद्यथा सस्यादयः विसंयोगफलं तद्यथाऽऽर्यमार्गेणानुशयसमुद्घातः॥



कर्मार्थः पूर्ववद्द्रष्टव्यस्तद्यथा कर्मसंक्लेशनिर्देशे॥



योगार्थः पञ्च योगाः सामूहिको योगस्त द्यथा गृहकाष्ठेष्टकादीनाम्। आनुबन्धिको योगस्तद्यथा[नु]शयादिहेतुः, तथाहि तस्मिन् सत्यसमुदाचरद्भिरपि क्लेशादिभिर्युक्त इत्युच्यते। साम्बन्धिको योगस्तद्यथा स्वजन्म नां परस्परम्। आवस्थिको योगस्तद्यथाऽनुग्रहाद्याः संतान व्यवस्थाः, तथाहि तासु वर्तमानः सुखेन युक्तो यावद्दुःखासुखेन युक्त इत्युच्यते। वैकारिको योग आगन्तुकोपक्लेशादिक संमुखीभावः, तथाहि तस्मिन् सति रागादिभिः श्रद्धादिभिश्च युक्त इत्युच्यते॥



वृत्त्यर्थः पञ्च वृत्तयः। लक्षणवृत्तिः संस्कृतस्य त्रीणि लक्षणान्युत्पादादीनि, तैः प्रकारैर्वर्तनात्। अवस्थानवृतिराधेयस्याधारे व्यवस्थानम्। विपर्यासवृत्तिः सांक्लेशिकानां धर्माणामयथाभूतं वर्तनात्। अविपर्यासवृत्तिर्व्यावदानिकानां धर्माणाम्। प्रभेदवृत्तिः सर्वसंस्काराणामतीतानागतप्रत्युत्पन्ना ध्यात्मिकबाह्यादिप्रकारैर्वर्तनात्॥



व्याख्याविनिश्चयो येन सूत्रान्तानामर्थ निर्दिशति। स पुनः परिज्ञेयवस्त्वादीनां षष्णामर्थानां प्रतिसूत्रं यथासंभवं प्रतिपादनात्। तत्र परिज्ञेयं वस्तु स्कन्धादि। परिज्ञेयोऽर्थोऽनित्यतादि। परिज्ञो पनिषच्छीलेन्द्रियगुप्तद्वारतादि। परिज्ञा बोधिपक्ष्या धर्माः। परिज्ञाफलं विमुक्तिः। तत्प्रवेदना विमुक्तिज्ञानदर्शनमिति॥



अपि खलु चतुर्दश मुखानि व्याख्यायाः॥



व्याख्या संग्रहमुखं यत्र सूत्रस्योत्पत्तिप्रयोजनं पदार्थोऽनुसन्धिरभिप्रायश्चोद्यपरिहारश्च वर्ण्यते॥



वस्तुसंग्रहमुखं यत्र सूत्रमुखं शिक्षार्यसत्यवस्त्वादिषु प्रतिपाद्यते। तद्यथा सर्वपापस्याकरणमिति गाथा तिस्त्रः शिक्षा[म]धिकृत्येत्येवमादि॥



अङ्गोपाङ्गमुखं यत्रैकेन पदेनोद्देशः शेषैर्निर्देश इति प्रदर्श्यते। तद्यथा द्वादशक्षरणसंनिपातदेशनायामात्मसम्पत्परसम्पदित्यनयोर्द्वयोर्यथाक्रमं पञ्चभिः पञ्चभिरुत्तरैः पदैर्निदेश इति॥



उत्तरोत्तर निर्हारमुखं यत्रोत्तरस्योत्तरस्याभिनिर्हरणाश्रयत्वादेत्ते धर्मा एवं देशिता इति प्रदर्श्यते। तद्यथा पञ्चेन्द्रियाणि। तथाहि श्रद्दधानो वीर्यमारभते, आरब्धवीर्यस्य स्मृतिरुपतिष्ठते, उपस्थितस्मृतेश्चितं समाधीयते, समाहितचित्तो यथाभूतं प्रजानातीति॥



प्रतिक्षेपमुखं यत्रेदमार भ्येदं प्रतिक्षिप्यत इति प्रदर्श्यते। तद्यथा वास्यौपम्यसूत्रे आस्त्रवक्षयमारभ्य चत्वारः पुद्गलाः प्रतिक्षिप्यन्ते। इतो बाह्यक इहधार्मिकः श्रुतचिन्तामात्रसंतुष्टः भावनायां परितस्यमानो ऽपरिपूर्णसंभारश्च। जानतश्चाहं भिक्षवः पश्यतश्चास्त्रवाणां क्षयं वदामीत्येवमादिना सूत्रखण्डेनाद्यः पुद्गलः प्रतिक्षिप्तः। भावनायोगमनुयुक्तस्येत्येवमादिना द्वितीयः । वास्यौ पम्यदृष्टान्तेन तृतीयः। नौ दृष्टान्तेन चतुर्थ इति॥



अक्षरपणिममुखं यत्रान्यस्मिन्नर्थे प्रसिद्धान्यक्षराण्यन्यस्मिन् परिणाम्यन्ते। तद्यथाऽश्रद्धश्चाकृतज्ञश्चेति गाथायाम्।



नाशानाशमुखं तत्र प्रणाहोऽप्रणाशस्तदुभयोपायस्तदुभयप्रभेदश्च प्रदर्श्यते। तद्यथा सुजातसूत्रे प्रणाशो बाह्याध्यात्मिकोपध्यवसानम्। तत्र बाह्य उपधिर्गृहकल त्रादिलक्षणः, आध्यात्मिकः पञ्चोपादानस्कन्ध लक्षणः। अप्रणाशस्तदुभयाध्यवसानविगमः। प्रणाशोपायोऽप्रव्रजनं प्रव्रजितस्य चास्त्रवक्षयं प्रति प्रमादः। विपर्ययादप्रणाशोपायो द्रष्टव्यः। तत्रो भयतो वतायं सुजातः कुलपुत्रः शोभते यच्च केशश्मश्रूण्यवहार्य यावत् प्रव्रजितो यच्चास्त्रवाणां क्षयाद्यावत्प्रजानामीत्यनेनाप्रणाशत दुपायापदेशेन तद्विपरीतलक्षण प्रणाशतदुपायौ सूचितौ भवतः। अप्रणाशप्रभेदो गाथानुगीतेन दर्शितः - " शोभते वत भिक्षुरयमुपशान्तो निराश्रव" इति। तदेवं प्रव्रजनमास्त्रवक्षयश्च परिदीपितः। स पुनरास्त्रवक्षयः -



वीतरागो विसंयुक्तो ह्यनुपादाय निर्वृतः।

धारयत्यन्ति मं देहं जित्वा मारस्य वाहिनीम्॥



इत्यनेन लौकिकमार्गवैराग्यतः, लोकोत्तरेण मार्गेणावरभागीयसंयोजनप्रहाणतः, ऊर्ध्वभागीयसंयोजनप्रहाणतः, आध्यात्मिकोपधिप्रहाणतश्च परिदीपितः। हेतुफलक्षयाधिकाराच्चायं निर्देशो द्रष्टव्यः। एतद्विपर्ययेण प्रणाशप्रभेदः सूचितो द्रष्टव्यः इति॥



पुद्गलव्यवस्थानमुख यत्रेयतः पुद्गलानधिकृत्येदं भाषितमिति प्रदर्श्यते। तद्यथा औदकोपमे सूत्रे द्विविधौ पुद्गलौ त्रिचतुःप्रभेदान धिकृत्य भाषितम् - पृथग्जनं दृष्टसत्यं च। पृथग्जनस्त्रिभेदः - अशुक्लोऽल्पशुक्लः बहुशुक्ल श्च। दृष्टसत्यश्चतुःप्रभेदः - चत्वारः प्रतिपन्नकाः, चत्वारः फलस्थाः, त्रयः शेक्षाः, एकोऽशैक्षः॥



प्रभेदव्यवस्थानमुखं यत्र चतुष्कोटिकदिभिः प्रश्नैरर्थो वर्ण्यते। तद्यथाऽनित्यसूत्रे - यः सदिदं समनुपश्यति सर्वोऽसौ रूपं समनुपश्यति, यो वा रूपं समनुपश्यति सर्वः स सदिदं समनुपश्यतीति चतुष्कोटिकः। प्रथमा कोटिर्वेदनार्दीश्चतुरः स्कन्धान्नित्यशुचिसुखात्मविपर्यासैरसमारोप्य परिज्ञेय प्रहातव्यांश्च समनुपश्यतः। द्वितीया कोटी रूपं नित्यशुचिसुखात्मविपर्यासैः समारोप्यापरिज्ञेयाप्रहातव्यं च समनुपश्यतः। तृतीया कोटी रूपं नित्यशुचिसुखात्म विपर्यासैरसमारोप्य परिज्ञेयप्रहातव्यांश्च समनुपश्यतः चतुर्थीकोटिर्वेदनादींश्चतुरः स्कन्धान्नित्यशुचिसुखात्मविपर्यासैः समारोप्यापरिज्ञेयाप्रहातव्यं च समनुपश्यतः। यथा रूपे चतुष्कोटिक एवं वेदनादौ सर्वत्र विस्तरेण द्रष्टव्यम्। यावद्यस्य कृतं करणीयं सर्वः स नापरमस्माद्भवं प्रजानाति, यावन्नापरमस्माद्भवं प्रजानाति सर्वस्य तस्य कृतं करणीयम्। आह चतुष्कोटिकम्। प्रथमा कोटिर्यावज्जीवं सुचरितचारिणः पृथग्जनस्य। द्वितीयोच्छेददृष्टयादीनाम्। तृतीया अशैक्षस्य। चतुर्थी तानाकारान् स्थापयित्वा॥



नयमुखं यत्र षड्भिर्नयैरर्थो वर्ण्यते - तत्त्वार्थनयेन प्राप्तिनयेन देशनानयेनान्तद्व यविवर्जनानयेनाचि न्त्यनयेनाभिप्रायनयेन च। एषां च षण्णां नयानां पूर्वकास्त्रयो नया उत्तरैस्त्रिभिर्नयैर्यथाक्रममनुगन्तव्याः। तद्यथाऽऽस्वादनसूत्रे - अस्ति भिक्षवः रूपे आस्वाद इत्येवमादिनाऽपवादान्तं समारोपान्तं च वर्जयित्वा तत्त्वार्थनयोऽभिद्योतितः। अस्त्यास्वाद आदीनवो निःसरणमित्यनेनाप वादान्तो वर्जितः, रूपे यावद्विज्ञान इत्यनेन समारोपान्तः, स्कन्ध मात्रे संक्लेशो व्यवदानं चानात्मनीति प्रदर्शयता यावच्चाहं भिक्षवः यावदनुत्तरां सम्यक्संबोधिमभिसंबुद्धोऽस्मीत्यध्यज्ञासिष मित्यनेन प्राप्तिनयोऽचिन्त्यनयेन परिदीपितः, प्रत्यात्मवेदनीयाधिगमसूचनात्। सर्वमेवेदं सूत्रं देशनानयः। स चाभि प्राये णानुगन्तव्यः। स परिज्ञेयं वस्तु, परिज्ञेयमर्थम्, परिज्ञाम् , परिज्ञाफलम्, तत्प्रवेदनां चाभिप्रेत्येदं सूत्रं भाषितमिति। तत्र परिज्ञेयं वस्तु रूपादिकम्। परिज्ञेयोऽर्थ आस्वादादिकः, तेन प्रकारेण तस्य रूपादिकस्य वस्तुनः परिज्ञानात्। परिज्ञैषां पञ्चानामुपादानस्कन्धानामेवं त्रि परिवर्तेन यथाभूतपरिज्ञानम्। परिज्ञाफलमस्मात् सदेवकाल्लोकाद्यावत् सदेवमानुषायाः प्रज्ञाया विमुक्तिर्यावद्विप्रमुक्तिः। तत्प्रवेदनाऽनुत्तरां सम्यक्संबोधिमभिसंबुद्धोऽस्मीत्यध्य ज्ञासिषमिति॥



परिज्ञादिमुखं यत्र तत्त्वलक्षणमारम्य परिज्ञालक्षणेन, प्रहाणलक्षणेन, साक्षात्क्रियालक्षणेन, एषामेव तत्त्वलक्षणादीनां प्रकारभेदलक्षणेन, आश्रयाश्रितसंवन्धलक्षणेन, परिज्ञादीनामान्तरायिकधर्मलक्षणेन, आमुलोमिकधर्मलक्षणेन, अपरिज्ञादिषु चादीनवानुशंसालक्षणेन चार्थो निर्दिश्यते। तद्यथाऽत्रैवास्वादनसूत्रे। तत्र तत्त्वलक्षणमुपादानस्कन्धसंगृहीतदुःखसत्यम्। परिज्ञालक्षणं तस्यैवास्वादादिना यथाभूतं, परिज्ञानम्। प्रहाणलक्षणं साक्षात्क्रियालक्षणं च सर्वस्माल्लोकाद्विमुक्तिः, आवरणप्रहाणे नाश्रयपरिवृत्तिसाक्षात्करणात् भावनालक्षणं विपर्यासापगतेन चेतसा बहुलविहारः। प्रकारभेदलक्षणम् -- तत्त्वलक्षणस्य पञ्चधा भेदो रूपं यावद्विज्ञानमिति। परिज्ञालक्षणस्य त्रिधा भेद आस्वादं चास्वादयतो यावन्निःसरणं च निःसरतो यथाभूतं प्रजानाति। प्रहाणलक्षणस्य साक्षात्क्रियालक्षणस्य द्विधा भेदः क्लेशविमुक्तिर्दुःखविमुक्तिश्च। तत्र सदेवकाल्लोकाद्यावत्सदेव मानुषायाः प्रजाया विमुक्तिः क्लेशेभ्यो विमोक्षादत एव तद्विशेष णार्थमाह निःसृत इति। तद्यथा ह्यन्यत्र सूत्रे - निःसरणं कतमद्भयः। छन्दरागविनयः छन्दरागप्रहाणं छन्द रागसमतिक्रम इत्युक्तम्। एवमनागतदुःखाभिनिर्वर्तक क्लेशविसंयोगे सति दुःखादपि विप्रमुक्तो भवतीति विशेषणार्थमाह - विसंयुक्तो विप्रमुक्त इति। भावनालक्षणस्य द्विधा भेदो दर्शनमार्गो भावनामार्गश्च। तत्र विपर्यासापगतेन चेतसेति दर्शनमार्ग दर्शयति, बहुलं व्यहार्षमित्यनेन भावनामार्गम्। आश्रयाश्रितसंबन्धलक्षणं तत्वलक्षणादीनामुत्तरोत्तराणामाश्रयत्वसूचनात्। परिज्ञादीनामान्तरायिक लक्षणमेवं त्रिपरिवर्तेन यथाभूतमपरिज्ञानम्। अनुलोमिकलक्षणं यथाव्यवस्थानमेषामेव रूपादीनामास्वादादितो विचारणा। अपरिज्ञाना दीनवलक्षणमविमुक्तिर्यावदनुत्तरायाः सम्यक्संबोधेरसंबोधः। विपर्ययादनुशंसलक्षणं वेदितव्यमिति॥



बलाबलमुखं यत्रैके न पदेनानुच्यमानेनायमर्थो न गमितः स्यादिति प्रत्येकं सर्वेषां पदानां सामर्थ्य प्रदर्श्यते। तद्यथा प्रतीत्योत्पादसूत्रे ऽस्मिन् सतीदं भवत्यस्योत्पादादिदमुत्पद्यते, यदुताविद्या प्रत्ययाः संस्कारा इत्येवमादि, एषां च पदानां प्रत्येकं सामर्थ्य पूर्ववद्वेदितव्य यथा प्रतीत्यसमुत्पादस्य लक्षणनिर्देशे॥



प्रत्याहारमुखं यत्र सूत्रस्यैकं पदं गृहीत्वा विस्तरेणार्थः प्रतिनिर्दिश्यते। तद्यथा षड्भिर्धर्मैः समन्वागतो भिक्षुर्हिमव न्तमपि पर्वतराजं मुखवायुना चालयेत्, कः पुनर्वादः सवासनाया अविद्या[या]ः। कतमैः षड्भिः। इह भिक्षवो भिक्षुश्चित्तस्योत्पादकुशलो भवति इह भिक्षुर्विविक्तं कामै र्यावच्चतुर्थध्यानमुपसंपद्य विहरति। एवं हि भिक्षुश्चित्तस्योत्पादकुशलो भवति। कथं च भिक्षुश्चित्तस्य स्थितिकुशलो भवति। इह भिक्षुरासेवनान्वयाद्यद्धा नभागीयं ध्यानं तत् स्थितिभागीयं करोति। एवं भिक्षुः स्थितिकुशलो भवति। कथं च भिक्षुर्व्युत्थानकुशलो भवति इह भिक्षुरासेवनान्वयाद्य त्स्थितिभागीयं ध्यानं तद्विशेषभागीयं करोति। एवं हि भिक्षुर्व्युत्थानकुशलो भवति। कथं च भिक्षुरायकुशलो भवति। इह भिक्षुरनुत्पन्नानां कुशलानां धर्माणामिति विस्तरेण द्वे सम्यक्प्रहाणे। एवं हि भिक्षुरायकुशलो भवति। कथं च भिक्षुरपायकुशलो भवति। इह हि भिक्षुरुत्पन्नानां पापका नामकुशलानामिति विस्तरेण द्वे सम्यक्प्रहाणे। एवं हि भिक्षुरपायकुशलो भवति। कथं हि भिक्षुरुपायकुशलो भवति। इह हि भिक्षुश्छन्दसमाधिप्रधान संस्कारसमन्वागतमृद्धिपादं भावयतीति विस्तरेण चत्वार ऋद्धिपादाः। एवं हि भिक्षुरुपायकुशलो भवतीति॥



अभिनिर्हारमुखं यत्र प्रतिपदं चतुष्कादिभिर्निर्दिश्यते। तेष्वपि चतुष्कादिष्वेकैकं पदमपरैश्चतुष्कादिभिरपर्यन्तो हि निर्हारो वेदितव्यः। तद्यथा बुद्धाक्षेपसूत्रे - चत्वार इमे बोधिसत्त्वानां बोधिपरिशोध का धर्माः - शून्यताः भावना, सर्वसत्त्वेष्वप्रतिहतचित्तता, बोधिसत्त्वानां नित्यं हितोपसंहरणता, निरामिषेण चित्तेन धर्मदानसंप्रकाशनता चेति। चतुष्कः स्वार्थ परमार्थ चारभ्य बोधिपरिशोधनाय चतुर्विपक्षप्रतिपक्षेण वेदितव्यः। चत्वारो विपक्षाः - समापत्त्यास्वादना, व्यापादः, मानः, तृष्णा च लाभसत्कारे॥



अपरः पर्यायः - प्रथमेन धर्मेण क्लेशप्रहाणप्रतिपक्षः। शेषैर्हीनयानपरिवर्जना परिदीपितास्त्रिभिः कारणैः बोधिचित्तेन सर्वसत्त्वोपादानतः, अवतीर्णपरिपाचनतः, अनवतीर्णावता रणतश्च॥



अपरः पर्यायः - प्रथमेन ज्ञानसंभारस्त्रिभिः पुण्यसंभारः परिदीपितः, उपादानपरिपाचनावतारणैः, प्रत्येकं पुण्यविशेषप्रसवनतः॥



पुनर्द्वाभ्यां कारणाभ्यामाश यतश्च मैत्रचित्ततया, प्रतिपत्तितश्चाधिगमागमोपदेशाभ्याम्।



चतुर्भिर्धर्मैः समन्वागता बोधिसत्त्वाः शून्यतां भावयन्ति - अध्यात्मं चित्ताविकंपनतयाधिमुक्तिप्रविचयबलाधानतया, सर्वधर्माणां यथात्म्यप्रतिवेधतः, सर्वावरणविमोक्षतश्च। यदाश्रित्य यथा च भावयन्ति तदेतेन परिदीपितम्। किमाश्रित्य। ध्यानपारमिताम्। कथं भावयन्ति। पृथग्जनमार्गेण श्रुतचिन्ताबलाधानतः शैक्षमार्गेणाशैक्षमार्गेण च॥



चतुभिर्धर्मैः समन्वागता बोधिसत्त्वाः सर्वसत्त्वे ष्वप्रतिहतचित्ता भवन्ति मैत्रीभावनया, प्रतिपत्यविकोपनतया, निमित्ताविकल्पनतया, खेदसहिष्णुतया च। अत्रापि यदाश्रित्य यथा चाप्रतिहतचिता भवन्ति तत्परिदीपितं भवति। किमाश्रित्य। पौर्वजन्मिकीं मैत्रीभावनाम्। कथमप्रतिहतचित्ता भवन्ति। मिथ्याप्रतिपत्तिस्थितेषु स्वचिताविकोपनतः, अपकारिष्वपकारनिमित्ताविकल्पनतः, परहितार्थ व्यायामापरिखेदतश्च॥



चतुर्भिर्धर्मैः समन्वागता बोधिसत्त्वा बोधिसत्त्वानां नित्यं हितमुपसंहरन्ति - आत्मनः परितुलनतया, सम्यगववादप्रवर्तनतया, सौरभ्यसुखसंवासन तया, पूजालाभसत्कारपरिचर्योपसंहरणतया च। अत्रापि यदाश्रित्य यथा चोपसंहरति तत्परिदीपितम्। किमाश्रित्य। निहतमानताम्। कथमुपसंहरति। यथोक्तं त्रिभिः प्रकारैर्हीनसमशिष्टानां बोधिसत्त्वानां यथाक्रमम्॥



चतुर्भिर्धर्मैः समन्वागता बोधिसत्त्वा निरामिषेण चित्तेन धर्मदानं संप्रकाशयन्ति - अन्तरायसुखप्रतिवेध तया, मोहलयापनयनकौशल्यतया, नाथकरधर्मारामतया च। अत्रापि यदाश्रित्य। यथा च संप्रकाशयन्ति तत्परिदीपितम्। किमाश्रित्य। लाभसत्कारस्यान्तरायकरत्वप्रतिवेघताम्। कथं संप्रकाशयन्ति। संदर्शनतो मूढानाम्, स मादापनतः समुत्तेजन तश्च प्रमादसङ्गानात्मपरिभवेन वा लीनानाम्, संप्रहर्षणतः सम्यक्प्रतिपन्नानाम्, प्रकृत्यैव च धर्मारामतया। प्रथमस्यान्यचतुष्कः पदप्रभेदादिभिर्निर्हारो वेदितव्यः॥



प्रभिद्यसंदर्शन[वि]निश्चयो यथानिर्दिष्टेषु स्कन्धादिषु धर्मेषु यथायोगमेकावचारकादीनि। तत्र -



एकावचारको नाम प्रश्नो येनैकं धर्म परिशिष्टैः सह प्रत्येकं प्रश्नयित्वा तमपहाय द्वितीयं तेनान्यैश्च सह प्रश्नयत्येवमेकैकस्यैव सर्वान् प्रश्नयति। तद्यथा यश्चक्षुरायतनेन समन्वागतो रूपायतनेनापि सः, यो वा रूपायतनेन चक्षुरायतनेनापि स इति पूर्वपादकः। यश्चक्षुरायतनेन समन्वागतः श्रोत्रायतनेनापि स इत्यत्र चतुष्कोटिकम्। एवं यावन्मनआयतनेनापि स इत्यत्र यथा योगं योजयितव्यम्। धर्मायतनेनापि स इत्यत्र पूर्वपादकः। यो रूपायतनेन समन्वागतश्चक्षुरायतनेनापि सः, यो वा चक्षुरायतनेन रूपायतनेनापि स इति पश्चात्पादकः। यो रूपायतनेन समन्वागतः श्रोत्रायतनेनापि स इत्यत्र चापि पश्चात्पादकः। एवं यावद्धर्मायतनेन यथायोगं योजयितव्यम्। यः श्रोत्रायतनेन समन्वागतश्चक्षुरायतनेनापि स इत्यत्र चतुष्कोटिकम्। एवं यावद्धमयि तनेना[पि] योज्यम्। एवमेकंकामर्षेणानुक्रमशः सर्वाण्यायतनानि परस्परं योजयितव्यानि।



पूर्वपादकं द्वयोर्धर्मयोः कथंचिदेव धर्ममारभ्य परस्परं पृष्टयोः पूर्वधर्ममधिष्ठाय यद्वयाक्रियते। तद्यथा यज्ज्ञानं ज्ञेयमपि तद्यद्वा ज्ञेयं ज्ञानमपि तदिति। पूर्वपादकम् - यत्तावज्ज्ञानं ज्ञेयमपि तदिति। स्याज्ज्ञेयं न ज्ञानम्, तदन्ये धर्मा इति॥



पश्चात्पादकं तथैव द्वयोर्धर्मयोः परस्परं पृष्टयोर्यत्पश्चिममधिष्ठाय व्याक्रियते। तद्यथा यद्ग्राह्यं ग्राहकमपि तद्यद्वा ग्राहकं ग्राह्यमपि तदिति। पश्चात्पादकम् - यत्तावद्ग्राहकं ग्राह्यमपि तत्। स्याद्ग्राह्यं न ग्राहकम्, रूपादयः पञ्च विषया धर्मायतनं च संप्रयुक्तकवर्ज्यम्॥



द्विकोटिकं यत्र द्वे कोटी व्याक्रियेते तदन्यासंभवात् तद्यथा स्कन्धस्य व्यवस्थानं धातुव्यवस्थानं च निगमय्योच्यते - या स्कन्धसंख्या धातुसंख्यापि सा, या वा धातुसंख्या स्कन्धसंख्यापि सेति। द्विकोटिकम् - स्यात् स्कन्धसंख्या न धातुसंख्या, रूपस्कन्धो विज्ञानस्कन्धश्चः। तथाहि नैको धातुरस्ति यः सकलरूपस्कन्धलक्षणो वा स्यात् सकलविज्ञानस्कन्धलक्षणो वा। धातुसंख्या न स्कन्ध संख्याः, धर्मधातुरिति॥



त्रिकोटिकै यत्र तिस्त्र एव कोटयो व्याक्रियन्ते। तद्यथा या स्कन्ध संख्या ऽऽयतनसंख्यापि सा, या वाऽऽयतनसंख्या स्कन्धसंख्यापि से ति। त्रिकोटिकम् - स्यात् स्कन्धसंख्या नायतनसंख्या, रूपस्कन्धः। स्यादायतनसंख्या न स्कन्धसंख्या, धर्मायतनम्। स्यात् स्कन्धसंख्यायतनसंख्या च विज्ञानस्कन्धो मनआयतनं च। अनुभयसंख्यायाः स्कन्धायतनेष्वसंभव एवेति॥



चतुष्कोटिकं यत्र चतस्त्रोऽपि कोटयो व्याक्रियन्ते। तद्यथा यश्चक्षुरिन्द्रियेण समन्वागतः श्रोत्रेन्द्रियेणापि सः, यो वा श्रोत्रेन्द्रियेण समन्वागतश्चक्षुरिन्द्रियेणापि स इति। चतुष्कोटिकम् - प्रथमा कोटिरुत्पन्नाविहीनचक्षुर्बधिरः। द्वितीयोत्पन्नाविहीनश्रोत्रोऽन्धः। तृतीयोत्पन्नाविहीनचक्षुःश्रोत्रः। चतुर्थी तानाकारान् स्थापयित्वा॥



ओंकारितं यत्र प्रश्ने व्याकरणमोमिति क्रियते एवमेतदित्यभ्युपगम्यत इत्यर्थः। तद्यथा येऽनित्याः सर्वे ते संस्काराः, ये वा संस्काराः सर्वे तेऽनित्या इति पृष्टेन ओमिति व्याकर्तव्यम्॥



प्रातिक्षेपिकं यत्र नेति प्रतिक्षिप्यते। तद्यथा स्कन्धविनिर्मुक्ताः संस्काराः कतिभिः सत्यैः संगृहीता इति। प्रातिक्षेपिकम् - न सन्ति स्कन्ध विनिर्मुक्ताः संस्कारा इति॥



संप्रश्नविनिश्चयः - अष्टाकारः कापदेशस्तद्यथा को नोपलभते। प्रज्ञापारमितालाभी बोधिसत्त्वः। किं नोपलभते। ग्राह्यलक्षणं ग्राहकलक्षणं च। केन नोपलभते। प्रज्ञापारमितया। कस्मै निपलभते। सर्वसत्त्वपरित्राणार्थमनुत्तरायै सम्यक्संबोधये। कुतो नोपलभते। बुद्धोत्पादारागणतः सद्धर्मश्रवणतो योनिशोमनस्कारतो धर्मानुधर्मप्रतिपत्तितश्च। कस्य नोपलभते। सर्वधर्माणाम्। कुत्र नोपलभते। अधिमुक्तिचर्याभूमौ यावद्दशम्यां बोधिसत्त्व भूमौ। कतिविघश्चानुपलम्भः। एकादशविधः - उत्पन्नविरुद्धः, अनुत्पन्नः, संमुखीभूतः, हेतुवलोत्पन्नः, मित्रवलोत्पन्नः, सर्वधर्मानुपलम्भः , शून्यतानुपलम्भः, सास्मिमानः, निरस्मिमानः, असंभृतसंभारस्य, [संभृतसंभारस्य] च। एते चानुपलम्भा यत् किंचिदतीतानागतप्रत्युत्पन्नं यावद्यद्वा दूरे यद्वाऽन्तिक इत्येतदनुक्रमानुसारेण द्रष्टव्याः॥



यथा कापदेश एवं यापदेशः। यो नोपलभते यद्येन यस्मै यतो यस्य यत्र नोपलभते यावद्विविध श्चानुपलम्भ इति॥



अपि खलु चत्वारो विनिश्चयमार्गा दूषकादयः। तत्र दूषकः दुराख्यातस्य परपक्षस्यासाधुरयमिति प्रतिषेधकः। साधकः स्वाख्यातस्य स्वपक्षस्य साधुरयमिति प्रतिष्ठापकः। छेदकः परेषामुत्पन्नोत्पन्नेषु संशयेषु निश्चयदायकः। बोधकस्तेष्वर्थेषु समूढानां तदर्थव्युत्पादकः॥



कृत्यानुष्ठानविनिश्चयो लौकिकानामन्योन्यं जीविकोपायादिसमर्थनप्रयोजनम्। अवतारविनिश्चयस्त्रयाणां यानानां कतमस्मिन्यानेऽवतरेयमवतारयेयं चेति विचारणा। अधिमुक्तिविनिश्चयः श्रुतमय्या प्रज्ञया यथादेशनं संप्रत्ययः। युक्तिविनिश्चयः चिन्तामय्या प्रज्ञया पौर्वापर्येणाभिप्रायपरितुलनम्। सांकथ्यविनिश्चयो यथाश्रुतचिन्तितानां प्रश्न प्रतिप्रश्नक्रियायोगेनान्योन्यं धर्मसंभोगः। प्रतिवेधविनिश्चयो दर्शनमार्गस्तेन सत्यप्रतिवेधात्। विशुद्धिविनिश्चयो भावनामार्गस्तेनावशेष क्लेश विशोघनात्। अभिनिर्हारविनिश्चयो विशेषमार्गस्तेन वैशेषिकगुणाभिनिर्हारात्। पदप्रभेदविनिश्चयो द्विकत्रिकचतुष्कादिप्रकाराभिनिर्हारमुखेना पर्यन्ता धर्मदेशना। अनाभोगाभोगमात्रसर्वार्थसिद्धिविनिश्चयस्तथागतं ज्ञानम्, विना पूर्वाभोगेन सर्वेष्वर्थेष्वाभो गसहकालमसं गाप्रतिहतज्ञान दर्शनप्रवृत्तेः॥



वादविनि श्चयो वादवादाधिकरणादिषु कौशल्यम्॥

तत्र



सर्व वचनं वादः। प्रकारशो लोके वादः प्रवादः। विरुद्धयोर्वादो विवादः। अपवादो गर्हितो वादः। अनुकूलो वादोऽनुवादः सांकथ्यविनिश्चयः। अवगमाय वादोऽववादः॥



[वादाधिकरणम्] अत्र वादः क्रियत इति कृत्वा। राजकुलं यत्र राजा स्वयं संनिहितः युक्तकुलं यत्र राज्ञाऽधियुक्ताः सभा वणिक् सभादि। प्रामाणिकाः सहायकाः येषां वचनं वादिप्रतिवादिनौ न संशयतः। धर्मार्थकुशलाश्च श्रमणब्राह्मणा ये तेषु शास्त्रेषु ग्रन्थतश्चार्थतश्च व्युत्पन्नबुद्धयः॥



वादाधिष्ठानं यदधिष्ठाय वादः क्रियते तद्यथा साध्यं साधनं च॥



तत्र स्वभावः साध्य आत्मस्वभावो धर्मस्वभावश्च नास्तीति वास्तीति वा॥



विशेषः साध्य आत्मविशेषो धर्मविशेषश्च सर्वगतो न सर्वगतो नित्यानित्यो रूप्यरूपीत्येवमादिभिः प्रकारैः॥



प्रतिज्ञा साध्यस्य स्वरुचितार्थस्य परसंप्रापणविज्ञापना। साध्यग्रहणं यदि न क्रियेत सिद्धस्यापि स्वपक्षस्य परेषां देशना प्रतिज्ञा प्रसज्येत। स्वरुचितार्थग्रहणं न क्रियेत परपक्षस्यापि साध्यस्य वचनं प्रतिज्ञा प्रसज्येत। परग्रहणं न क्रियेत एकाकिनोऽपि तद्वचनं प्रतिज्ञा प्रसज्येत। संप्रापणग्रहणं न क्रियेत कायेनापि तदर्थाभिनयनं प्रतिज्ञा प्रसज्येत। विज्ञापनाग्रहणं न क्रियेताऽविज्ञातेऽपि तदर्थे श्रोतृभिः प्रतिज्ञा प्रसज्येत। यथोक्ते तु व्यवस्थाने सर्व एते दोषा न भवन्ति, तस्मादेवमस्या व्यवस्थानं वेदितव्यम्।



हेतुस्तस्मिन्नेव साध्येऽप्रतीतस्यार्थस्य संप्रत्ययनिमित्तं प्रत्यक्षोपलंभानुपलंभसमाख्यानम। संप्रत्ययनिमित्तार्थ इह हेत्वर्थ इति दर्शयति। तथाहि प्रत्यक्षा नुपलंभादुपलंभाद्वेत्यनेन समाख्यानेन तस्मिन् साध्येऽप्रतीतस्यार्थस्य संप्रत्यय उत्पद्यते। तेन तत्समाख्यातं तन्नि मित्तत्वाद्धेतुरित्युच्यते। प्रत्यक्षोपलंभानुपलंभौ पुनः स्वभावं लिङ्गं चाधिकृत्य वेदितव्यौ॥



दृष्टान्तो दृष्टेनान्तेनादृष्टस्यान्तस्य समीकरणसमाख्यानम्, प्रतीतेन भागेनाप्रतीतस्य भागस्य प्रत्यायनाय समाख्यानमित्यर्थः॥



उपनयः शिष्टतज्जातीयतद्धर्मोपगमाय नय त्वसमाख्यानम्। यथा साध्योऽर्थस्त्रिभिरवयवैः साधितस्तथा शिष्टानामपि तज्जातीयानां साध्यानां साधितार्थधर्मोपगमाय नयत्वेन समाख्यानं युक्त्याऽतिदेश उपनयः॥



निगमनं निष्ठागमनसमाख्यानम्। यस्मादेवं युक्त्या सूपपन्नं तस्मादित्थमेवेदमित्येतन्निगमनं वेदितव्यम्॥



एषां प्रतिज्ञादीनामिदमुदाहरणमात्रं प्रदर्श्यते॥ तद्यथा



नैरात्म्यवादिनस्तद्रूपेऽधिकरणे सप्रतिवादिके नास्त्यात्मेति वचनं प्रतिज्ञा॥



स्कन्धविज्ञप्तौ चतुर्विधदोषोपलंभादिति हेतुः। स ह्यात्मा प्रज्ञप्यमानः स्कन्धलक्षणो वा प्रज्ञप्येत, स्कन्धेषु वा, अन्यत्र वा स्कन्धेभ्यः, अस्कन्धको वा। तद्यदि स्कन्धलक्षणस्तेनास्वतन्त्राः स्कन्धाः प्रतीत्यसमुत्पन्ना उदगव्ययधर्माण स्तल्लक्षण आत्मा नोपपद्यत इति दोषः। अथ स्कन्धेषु तेनानित्यस्कन्धाश्रित आत्माऽनित्यः प्राप्नोतीति दोषः। अथान्यत्र स्कन्धेभ्यस्तेन निर्देहक आत्मा निष्प्रयोजन इति दोषः। अथास्कन्धकस्तेन प्रकृत्यैव मुक्तस्य केवलिनो मोक्षार्थप्रयत्नवैयर्थ्यमिति दोषः॥



वर्तमानेऽतीतप्रज्ञप्तिवदिति दृष्टान्तः। तद्धयतीतं विद्यमानलक्षणत्वेन प्रज्ञप्यमानं वर्तमानलक्षणं वा प्रज्ञप्येत, वर्तमाने वा अन्यत्र वा वर्तमानात् वर्तमाननिरपेक्षं वा। तद्यदि वर्तमानलक्षणं तेन वर्तमानमुत्पन्नानिरुद्धतल्लक्षणमतीतमुत्पन्ना निरुद्धात्मकमिति दोषः। अथ वर्तमाने तेनानिरुद्धे निरुद्धात्मकस्य संबन्धो न युज्यत इति दोषः। अथान्यत्र वर्तमानात्तेन वर्तमानं हित्वा न किंचित्तद्वस्तूपलभ्यते यत्र तत्प्रज्ञप्यत इति दोषः। अथ वर्तमाननिरपेक्षं तेनासंस्कृतमप्यतीतं प्राप्नोतीति दोषः। तच्चातीतं भ्रष्टलक्षणत्वाल्लक्षणतो नास्तीति सिद्धम्। अतोऽनेन वर्तमानप्रज्ञप्तौ चतुर्दोषेण सिद्धेना सिद्ध आत्मा नास्तीति स्कन्धप्रज्ञप्तौ चतुर्विधदोषोपलंभात् प्रसाध्यते नास्तीति॥



एवमात्मविपर्यासं प्रतिषिध्यैतयैव युक्तया नित्यादयोऽपि न सन्तीत्यतिदेश उपनयः॥



यस्मादेतदेवं तस्मादनित्याः पञ्च स्कन्धाः यावदनात्मान इति निगमनमिति॥



प्रत्यक्षं स्वसत्प्रकाशाभ्रान्तोऽर्थः। तत्र स्वोऽर्थ स्तद्यथा चक्षुषो रूपम्। सद्ग्रहणं घटादिद्रव्याणां लोके प्रत्यक्षसंमतानां प्रत्यक्षत्वव्युदासार्थ प्रज्ञप्तिमात्रत्वात्। प्रकाशग्रहणमावृतत्वादिभिरनुपलब्धिकारणैरनाभासगत विषयव्युदासार्थम्। अभ्रान्तग्रहणमलातचक्रमायामरीचिकादिव्युदासार्थमिति॥



अनुमानं प्रत्यक्षशिष्टसंप्रत्ययः। प्रत्यक्षाद्यदन्यच्छिष्टमप्रत्यक्षं नियमेन तत्सहवर्ति प्रसिद्धं द्रष्टुः पूर्व तस्य तत्प्रत्यक्षमीक्षमाणस्य तदन्यस्मिन् शिष्टसंप्रत्यय उत्पद्यते तेनाप्यत्र भवितव्यमेतत् सहवर्तिनेति तत्प्रत्यक्षपूर्वकमनुमानम्। तद्यथा धूमं पश्यतोऽग्नाविति॥



आप्तागमस्तदुभयाविरुद्धोपदेशः। यत्रोपदेशे तत्प्रत्यक्षमनुमानं च सर्वथा न विरुध्येते न व्यभिचरतः स आप्तागमः संप्रत्ययित्वात्॥



वादालंकारो येन युक्तो वादी वादं कुर्वाणोऽत्यर्थ शोभते। स पुनः स्वपरसमयज्ञतादिः। तत्र स्वपरसमयज्ञता स्वसिद्धान्तं परसिद्धान्तं चारभ्य ग्रन्थतश्चार्थतश्च पौर्वापर्येण निरन्तरं व्युत्पत्तिपरिपाकः। वाक्करणसंपत् शब्दवादिनो वक्ष्यमाणकथादोषविपर्ययेणानाकुलादिवादिता। वैशारद्यमनेकोदाहाराभिनिविष्टविद्वज्जनसमा वर्तेऽपि ब्रुवतो निरास्थता गतव्यथता। स्थैर्य प्रतिवादिनो वचनावसानमागमय्यात्वरमाणभाषिता। दाक्षिण्यं प्रकृतिभद्रता प्राश्निकप्रतिवादिचित्तानुवर्तिता॥



वादनिग्रहो येन वादी निगृहीत इत्युच्यते। स पुनः कथात्यागादिभिः। तत्र कथात्यागोऽसाधु मम साधु तवेत्येवमादिभिः प्रकारैः स्वपरवाददोषगुणाभ्युपगमः। कथासादोऽन्येनान्यप्रतिसरणादिभिः विक्षेप इत्यर्थः । यथोक्तं सूत्रे - आयुष्मांश्चुन्दिकस्तीर्थिकैः सह वादं कुर्वन्नवजानित्वा प्रतिजानाति प्रतिजानित्वाऽवजानातीति। कथादोष आकुला दिवचनम्। तत्र आकुलं यदधिकारमुत्सृज्य विचित्रकथाप्रताननम्। संरब्धं यत्कोपोद्धवं द्रवो द्धवम्। अगमकं यद्धर्मतोऽर्थतश्च पर्षद्वादिभ्यामगृहीतम्। अमितं यदधिकं पुनरुक्तार्थ ज्ञातार्थ च। अनर्थमनर्थयुक्तम्, तत्पञ्चाकारं द्रष्टव्यम्। निरर्थकम्, अपार्थकम्, युक्तिभिन्नम्, साध्यसमम्, जातिच्छलोपसंहितम्, अर्थानुपलब्धितोऽसंबद्धार्थतो ऽनैकान्ति[क]तः साधनस्यापि साध्यतोऽयोनिशोऽसभ्यसर्ववादानुगमतश्च। अकालयुक्तवचनं यत्पूर्वकं वक्तव्यंपश्चादभिहितम्, पश्चाद्वक्तव्यं पूर्वमभिहितम्।



अस्थिरं यत्प्रतिज्ञायावज्ञातमवज्ञाय प्रतिज्ञातमतित्वरमाणया वाचा हि तूर्णपरामृष्टः।[अ] प्रदीप्तवचनं यच्छन्दलक्षणसमतिक्रान्तमप्रत्यनुभाष्योत्तरविहित्तम्, संस्कृतेनारभ्य प्राकृतेनावसितम्, प्राकृतेनारभ्य संस्कृतेन पर्यवसितं च। अप्रबद्धं यदन्तराधिष्ठितविच्छिन्नं वाक्प्रतिभानमिति॥



वाद निःसरणं येन वादान्निःसरति, अकरणेन वा गुणदोषौ विचार्य वादस्य निग्रहस्थानानासादनात्, करणेन वा निर्वहनादिति। तत्र प्रतिवादिन्यभाजनताऽकुशलात्स्थानाद्व्युत्थाप्य कुशले स्थाने प्रतिष्ठापयितुमशक्यता। पर्षदो वैगुण्यमसभ्याभिनिविष्टपक्षपातितादिना। आत्मनोऽकौशल्यं वादे यावद्वादालङ्कारे ऽव्युत्पत्तिः विपर्ययात्प्रतिवादिभाजनतादीनि वेदितव्यानि॥



वादे बहुकरा धर्मा ये वादेऽवश्यमुपयुज्यन्ते।

तद्यथा स्वपरसमयज्ञता वादे बहुकरो धर्मो येन सर्वत्र कथा वस्तुनि वादं करोति। शेषं सुगमम्॥



कुशलपक्षप्रयुक्तेनेत्युक्त्वा प्रतिपत्तिसारकेणेति वचनमाशयविशुद्धिज्ञापनार्थ न लाभसत्कारादिनिमित्तं श्रुतादिकुशलपक्षे प्रयुक्तेनेत्यर्थः। सत्त्वसंग्राहकेणेति श्रावकादिविशेषणार्थ परहितप्रतिपत्तिप्रधानेनेत्यर्थः। एवं च स्वहितपरहितप्रतिपन्नः क्षिप्रमनुत्तरां सम्यक्संबोधिमभिसंबुध्यत इत्ययमेषां पदानामनुसंधिर्वेदितव्यः। अविगृह्यापि तावद्वादे क्रियमाणे प्रकृतिगम्भीरत्वान्महायानधर्मस्य दुर्लभाऽऽज्ञा प्रागेव विगृह्य। यैश्च सह विगृह्य वादः क्रियते तेऽपि प्रतिपत्तारो नाज्ञाभिप्रायाः प्रतिब्रुवन्ति किंतर्ह्युपालम्भाभिप्रायाः। येष्वपि प्राश्निकेषु स वादः क्रियते ते वाऽसभ्या अव्युत्पन्ना वा भवन्त्यभिनिविष्टा वा। सर्वोऽपि च वादा प्रायेण षड्भिर्दोषैर्युक्तो भवति। तथाहि वादं कुर्वाणः कदाचिदतिरभसेनासत्पक्षमपि परिगृह्याभिनिवेशेन छलजातिनिग्रहस्थानान्यपि प्रयुक्ते। वचनपर्यवसानमनिगमय्याप्यकालेन वक्तुमारभते। सम्यगप्युक्तां प्रतिवादिनः कथामपपातयति पंसयतीत्यर्थः। परुषमपि ब्रुवते, येन प्रतिवाद्यादयः चित्तं प्रदूषयन्ति। स्वयं च तेषु चित्तं प्रदूषयतीत्येभिः षड्भिर्दोषै र्युक्तो भवति॥



उपशान्तस्य च दुर्लभो वादः। सति चानुपशमे दुर्लभं परचित्तानुरक्षणं स्वचित्तानुरक्षणं च येन परे प्रसादं लभेरन् विमुक्त्यायतनयोगेन स्वचित्तं समाधीयते। प्रायेण वादे कथमहं जयेयं परे पराजीयेरन्नित्येवं चित्तं समुदाचरति। सति च तस्मिन् परिदाहदुःखसंक्लेशः। तस्मिन्सत्यस्पर्शविहारः। ततो निरन्तरकुशलपक्षप्रयोगासामर्थ्यात्ततो विशेषाधिगमं प्रत्यप्राप्तिपरिहाणिरिति॥



मातरं पितरं हत्वा इत्यस्यां गाथायां लोके यदत्यर्थमवद्यं पातक तदभिधायीन्यक्षराण्येतानि विंशुद्धौ परिणामितानि। किं च लोकेऽत्यर्थमवद्यं संमतम्। गुरुजनघातो महाजनघातश्च। स पुनर्गुरुजनो द्विविधः प्रतिनियतो लोक[साधारणश्च]। लोकसाधारणोऽपि पुनद्विविधः - परिपालको दक्षिणीयश्च। तत्र प्रतिनियतो गुरुजनो माता पिता च, पालको राजा, दक्षिणीयः श्रोत्रियब्राह्मणाः, तेषां शुद्धतरसमतत्वात्। तदेषां सर्वेषां घातो गुरुजनघात इत्युच्यते। महाजनघातो राष्ट्रस्य सानुचरस्य घातः। अनुचराः पुनः गवाश्वमहिषो ष्ट्रादयो वेदितव्याः॥



कथं पुनरेता न्यक्षराणि विशुद्धौ परिणाम्यन्ते। मात्रादिघातवचनस्य तृष्णादिप्रहाणपरिणामना द्यथाक्रमं तृष्णाम्, कर्मभवम् , सोपादानं विज्ञानम्, दृष्टिशीलव्रतपरामर्शद्वयम्, षडायतनं च सगोचरमधिकृत्य मात्रादयो द्रष्टव्याः, तत्साधर्म्यात्। तत्र तृष्णा निर्वृत्ति हेतुः। कर्मभव उत्पत्तिहेतुः। स च भावनाबीजाघानयोगेन पितृभूतो द्रष्टव्यः। आभ्यां हेतुभ्यां सोपादानं विज्ञानं प्रवर्तते। तस्यैवं प्रवर्तमानस्य सत्यपि मोक्षाभिलाषे मोक्षप्राप्तिविघ्नकरावनुपायाग्रशुद्धिप्रत्यायकौ परामर्शौ। श्रोत्रियसाधर्म्यमनयोरेतदेव वेदितव्यं यदुताग्रशुद्धयभिनिवेशः। तस्यैव पुनर्विज्ञानस्याश्रयालंबनभावेन षडायतनं सगाचरं वेदितव्यमिति॥



अश्राद्धश्चाकृतज्ञश्चेत्यस्यां गाथायां हीनार्थाभिधायीन्यक्षराण्युत्तमार्थ परिदीपितानि। हीनो लोके चतुर्विधः - मनस्कर्महीनः कायकर्महीनो वाक्कर्महीन उपभोगहीनश्च। मनस्कर्महीनः पुनर्द्विविधः कुशलप्रवृत्तिवैलोम्येन चाश्राद्धः, परलोकाद्यसंप्रत्ययेन दानादिष्वप्रयोगात्। अकुशलप्रवृत्त्यानुकूल्येन चाकृतज्ञः, यत्रोपकारानपेक्षित्वेन मातृवधादिदुश्चरिते निर्मर्यादत्वात्। कायकर्महीनश्चौरः संधिच्छेदकः अत्यर्थगर्हितजीवितत्वात्। वाक्कर्महीनो मृषावादादि प्रधानः, तद्रूपस्य सभादिषु प्रवेशाभावात्। उपभोगही नः श्वा का कः प्रेतो वेत्येवमादिकः, छर्दितभक्षणादिति॥



कथं पुनरेता न्यक्षराण्युत्तमार्थे परिणाम्यन्ते। अश्राद्धादिवचनाना मर्हति परिणामनात्। तत्राश्राद्धो विमुक्तिज्ञानदर्शनयोगेन स्वप्रत्ययत्वात्। अकृतज्ञोऽसंस्कृतनिर्माणज्ञानात्। संधिच्छेत्ता पुनर्भवप्रतिसंधिहेतुक्लेशप्रहाणात्। हतावकाश आयत्यां सर्वगतिषु दुःखानभिनिर्वर्तनात्। वान्ताशो दृष्टे धर्मे उपकरणबलेन कायं संधा रयतोऽपि भोगजीविताशाभावादिति॥



यथा चोक्तम् - असारे सारमतय इति। अस्या गाथायाः पूर्ववदर्थनिर्देशो द्रष्टव्यः। शरीरं पुनरस्याः समाधि निश्रित्य बोधिसत्त्वा दर्शनभावनामार्गाभ्यां महाबोधिं स्पृशन्तीति॥



मात्सर्यधर्मतामनुवृंहयतीति सवासनमात्सर्यानुशयप्रहाणेन तत्तथताश्रयपरिवृत्तिसाक्षात्करणात्। दानेन च परिखिद्यते, दीर्घकालं दाननिमित्तं परमदुष्करश्रमाभ्युपगमात्। याचनकं च द्वेष्टि, स्वयं ग्राहाभिरुचिततया याचनकप्रातिकूल्यात्। न किंचित् कदाचिद्ददाति, सर्वस्य वस्तुनः सर्वदा दानात्। दूरे च भवति दानस्य, आसाद्यदाना दिपरिवर्जनात्॥



तत्र परमेण ब्रह्मचर्येण समन्वागत इति लोको त्तरेण मार्गेणेत्यर्थः। नान्यत्र मैथुनान्मैथुनस्य निःसरणं पर्येषत इति तस्यैव यथाभूत परिज्ञानेन तत्प्रहाणात्। यथाभूतपरिज्ञानं पुनरस्य तथता प्रतिबेधाद्वेदितव्यम्। मैथुनप्रहाणेनोपेक्षको भवति, अब्रह्मचर्यप्रहाणोपेक्षणात्। उत्पन्नं च मैथुनरागमधिवासयति, कामरागस्याध्यात्ममुत्पन्नस्य बहिःप्रवासनात्। मैथुनप्रतिपक्षेण च धर्मेणोत्त्रस्यति तत्प्रतिपक्षेण मार्गेण सर्वसत्त्वोत्तरणाय व्यवस्यतीति कृत्वा। अभीक्ष्णं च द्वयद्वयं समापद्यते संक्लेशव्यवद नद्वयेन फलहेतुभेदेन चतुःसत्यात्मकेन [शमथविपश्यनाद्वयेन] पुनःपुनलौकिकलोकोत्तरमार्गद्वयं समापद्यत इति कृत्वा॥



किमुपादायेदं शास्त्रमभिधर्मसमुच्चय इति नाम लभते। निरुक्तिन्यायेन। समेत्योच्चयतामुपादाय तत्त्वमभिसमेत्याधिगम्य बोधिसत्त्वंः संकलनादित्यर्थः। समन्तादुच्चयतामुपादायाभिधर्मसूत्रतः सर्वचिन्तास्थानसंग्रहादित्यर्थः। सम्यगुच्चयत्वायायतनतां चोपादायेत्यविपरीतेनोपायेन यावद्बुद्धत्वप्रापणादित्यर्थः॥ इत्यभिधर्मसमुच्चये भाष्यतः सांकथ्यविनिश्चयो नाम पञ्चमः समुच्चयः समाप्तः॥



लिखापितमिदं पण्डितवैद्य श्री‍अमरचन्द्रेण जगद्बुद्धत्वसंपद इति॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project