Digital Sanskrit Buddhist Canon

प्राप्तिविनिश्चयो नाम चतुर्थः समुच्चयः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
प्राप्तिविनिश्चयो नाम चतुर्थः समुच्चयः



प्राप्तिविनिश्चयोऽधिगन्तृपुद्गलव्यवस्थानतोऽधिगमव्यवस्थानतश्च द्रष्टव्यः॥



असत्यपि पुद्गलद्रव्ये पुद्गलव्यवस्थानं चतुर्भिः कारणैः। तद्यथा सुखसंव्यवहारार्थम् , रूपादीनां बहूनां बहुधाभिन्नलक्षणसंज्ञानामेकया सामुदायिक्या सत्त्वप्रज्ञप्त्याऽकृच्छ्रेण एहि याहि इत्येव मादि संव्यवहरणात्। लोकानुवृत्त्यर्थम्, न हि लोके धर्ममात्रसंज्ञाभिः सर्वः संव्यवहारो निरूढः किंतर्हि प्रायेण सत्त्वसंज्ञया। तस्माल्लोकेन सह संव्यवहरद्भिरार्यैरवश्यं सोऽनुवर्तितव्य इति। अनुत्रासार्थम्, प्रतीत्यसमुत्पादधर्मतायाम कोविदाः सहसादितः सर्वथा सत्त्वाभावं श्रुत्वोत्त्रस्येयुरिति। आत्मनः परेषां च दोषवत्त्वगुणवत्त्वोद्भावनार्थ च, इतरथा हि सत्त्वप्रज्ञप्तिमन्तरेण संक्लेशव्यवदानलक्षणमात्रदेशनायां सत्याममुष्मिन् संतानेऽमी दोषाः प्रहीणा अमी वा गुणा उत्पन्ना इति न शक्यते विज्ञातुमिति॥



पुद्गलव्यवस्थानं पुनश्चरितादिप्रभेदेन सप्तविधम्॥



तत्र रागादि चरितस्तीव्रायतरागः, होनेऽपि रञ्जनीये वस्तुन्यधिमात्ररागोत्पादादुत्पन्नस्य च चिरमनुबन्धात्। इत्येवं यावद्वितर्कचरितो यथास्वं वस्तुनि योजयितव्यः। समभाग चरितःप्रकृति[स्थ]ः संक्लेशः औत्कटयमान्द्यविवर्जितसमाव स्थे क्लेश इत्यर्थः, यथावस्त्वनुरूपं क्लेशसमुदाचारात्। मन्दरजस्कः प्रकृतिस्थः तनुतरक्लेशः, प्रकृतिस्थेभ्य उक्तलक्षणेभ्यस्तनुतराः क्लेशा अस्य, सोऽयं प्रकृतिस्थः, उत्कटेऽपि वस्तुनि पूर्वप्रतिपक्षाभ्यासवशेन प्रकृत्या मृदुक्लेशसमुदाचारादिति॥



श्रावकयानिको गोत्रेन्द्रियप्रणिधानाशयालंवनप्रतिपत्तिफलप्रभेदैर्निदिष्टो वेदितव्यः। प्रकृत्या मृद्विन्द्रियत्वं पुनरस्य प्रत्येकबुद्धबोधिसत्त्वेन्द्रिया पेक्षया, इतरथा हि धर्मानुसार्यादयस्तीक्ष्णेन्द्रिया इत्येतद्विरुध्येत।

तत्रानुत्पादितपूर्वनिर्वेधभागीयोऽप्राप्तपूर्वकफलश्च खड्गविषाणकल्पो भवत्येक विहारी, तदन्यः प्रत्येकजिनो वर्गचारी द्रष्टव्यः। व्याकरणं च प्रत्यलभत इत्यष्टाभ्यां भूमावनुत्पत्तिकेषु धर्मेषु क्षान्तिं प्रतिलभत इत्यर्थः॥



असंभृतसंभारादयो मोक्षभागीयानां च मृदुमध्याधि मात्रतया निर्वेधभागीयोत्पादनं सत्याभिसमयं च प्रतिनियतानियत तज्जन्मकालिकत्वाद्यथाक्रमं वेदितव्याः। तत्र सत्याधिपतेये धर्मेऽधिमुक्तिप्रसादलक्षणानि मोक्षभागीयानि, तत्रैव धर्मनिध्यानक्षान्तिलक्षणानि निर्वेधभागीयानि, श्रद्धाप्रधानत्वात्प्रज्ञाप्रधानत्वाच्च यथाक्रमम्। लौकिका ग्रधर्मप्रकृत्यैव क्षणिक इत्यप्रावन्धिक इत्यर्थः। नो तु वासनापरिहाणित इति निर्वाणाधिकारिकस्य कुशलमूलस्योत्पादितपूर्वस्यापुनरुत्पाद्यत्वात्॥



मृदु मोक्षभागी यमधिकृत्योक्तं भगवता -

सम्यग्दृष्टिरधिमात्रं लौकिकी यस्य विद्यते।

अपि जातिसहस्त्राणि नासौ गच्छति दुर्गतिम्॥इति॥



अपि खलु चतुर्विधं मोक्षभागीयम् - आधिकारिकमाधिमोक्षिकमाधिकामिकमाभिगामिकं च। कुशल धर्मच्छन्द मुपादाय यावन्मोक्षार्थ क्रियते तदाधिकारिकम्। तत्प्रतिसंयुक्त देशनाधिमोक्षसहगतं यत्तदाधिमोक्षिकम्। प्रीतिप्रसादसहगतमोक्षालंबनमनस्कारबहुलं यत्तदाधिकामिकम्। निर्वेधभायीयोत्पाद नियतं तत्रैव जन्मनि यत्तदाभिगामिकम्॥



निर्वेधमागीयं षड्विधम् - आनुलोमिकं प्राकर्षिकं प्रातिवेधिकमन्यपारिणामिकमैकजन्मिकमेकासनिकं च। तत्र यत्सत्या लम्बनकारमादितो मृदुकं कुशलमूलमुत्पद्यते तदानुलोमिकम्। यन्मध्यं तत्प्राकर्षिकम्, ततः तत्प्रकृष्टतरत्वात्। यदधिमात्रं सत्यप्रतिवेधाय तत्रैव जन्मनि संवर्तते तत्प्रातिवेधिकम्। तत्पुनर्यदनि यतगोत्राणां बोधिविशेषाय परिणाम्यते तच्च प्रत्येकबुद्धानामनाचार्यकाभिसंबोधाय जन्मान्तरे परिणमति तदन्यपारिणामिकम्। यत्तत्रैव जन्मनि सत्यप्रतिवेधाय संवर्तते तदैकजन्मिकम्। यत्तत्रैवासने तदेकासनिकमिति॥



कायसाक्षी विमोक्ष लाभ्यनागामी, अष्टौ विमोक्षान् कायेन साक्षात्कृत्वोपसंपद्य विहरणात्। अष्टौ विमोक्षा रूपी रूपाणि पश्यतीत्येवमादयः पश्चान्निर्देक्ष्यन्ते। प्रज्ञाविमुक्तः प्रज्ञाविपक्षक्लेशावरणमात्राशेषप्रहाणात्। उभयतो भागविमुक्तः सर्वक्लेशसमापत्त्यावरणाभ्यां यो विमुक्तः। स्त्रोतापत्तिफलप्रतिपन्नक एकासनिकं नि र्वेधभागीयमारभ्य यावदाद्यं फलं न प्राप्नोति॥



कः पुनर्दर्शनमार्गावसाने आद्यं फलं प्राप्नोति। यः प्रदेशवैराग्येणापि कामेभ्योऽवीत रागः सम्यक्त्वं नियाममवक्रामति। यस्तु पूर्व लौकिकेन मार्गेण कामावचरान् भावनाप्रहातव्यान् षट्प्रकारान् प्रहाय यत्र यो वीतरागो भवन् पश्चात्सम्यक्त्वं नियामम वक्रामति स षोडशे चित्तक्षणे सकृदागाम्येव भवति। नवापि प्रकारान् प्रहाय कामवीतरागो भवन् यो नियाममवक्रामति सोऽनागाम्येव भवति॥



सर्वदर्शनप्रहातव्यप्रहाणेऽपि त्रयाणामेव संयोजनानां प्रहाणात् स्त्रोतापन्न वचनम्, एषां मोक्षप्राप्तिबिबन्धनत्वेन प्राधान्यात्। तथाहि सत्कायदृष्टया पञ्चोपादानस्कन्धानात्मत आत्मीयतश्चाभिनिवेश्यालयारामतया दुःखान्नोच्चलति। उच्चलितोऽपि कथंचिन्मोक्षं प्रति शीलव्रतपरामर्शेन विचिकित्सया चासन्मार्गाभिनिवेशात्सन्मार्गसंशयनाच्च मिथ्या निर्याति सम्यक्त्वमनिर्याति॥ पुनः सत्कायदृष्टया ज्ञेये विप्रतिपद्यते, दुःखमात्र [आ]त्मात्मीयलक्षण समारोपणात्। शीलव्रतपरामर्शेन दृष्टौ, तया शुद्धिप्रत्ययनात्। विचिकित्सया प्रतिपक्षे, रत्नत्रयानिश्चयनादिति॥



सकृदा[गा]मिफलप्रतिपन्नकः दर्शनमार्गादूर्ध्व कामावचरस्य यावन्मध्यमध्यस्य क्लेशप्रकारस्य प्रहाणमार्गे यः पुद्गलः। सकृदागामी मध्यमृदोः क्लेशप्रकारस्य प्रहाण मार्ग परिसमाप्तौ यः पुद्गलः। अनागामि फलप्रतिपन्नकः सकृदागामिफलादूर्ध्व कामावचराणां मृद्वधिमात्र मृदुमध्ययोः क्लेशप्रकारयोः प्रहाणमार्गे यः पुद्गलः। अनागामी नवमस्य मृदुमृदोः क्लेशप्रकारस्य प्रहाणाय मार्गपरिसमाप्तौ यः पुद्गलः॥



सर्वकामावचरभावनाप्रहातव्यप्रहाणेऽपि पञ्चानामवरभागीयानां संयोजनानां प्रहाणादनागामिवचनं सूत्रे एषां गतिधात्ववरकारणत्वेन प्राधान्यात्। गत्यवरं पुनः नरकतिर्यक्प्रेतगतयः। धात्ववरं कामधातुः। तत्र सत्कायदृष्टिशीलव्रतपरामर्शविचिकित्साभिः गत्य वरासमतिक्रान्तत्वात्कारणत्वम्। कामच्छन्दव्यापादाभ्यां धात्ववरासमतिक्रमादिति॥



त्रैधातुकसर्वक्लेशप्रहाणेऽपि पञ्चानामूर्ध्वभागीयानां प्रहाणादर्हद्वचनम्, ऊर्ध्वोपादानापरित्यागकारणत्वेन प्राधान्यम्। तत्र रूपारूप्यरागाभ्यां कामधातौ ऊर्ध्वोपादानं रूपारूप्यधातूपपत्तिरित्यर्थः। औद्धत्यमानाविद्याभिरुर्ध्वापरित्यागः, तृष्णामानविचिकित्सोत्तरध्यायित्वेन सत्र संक्लेशादिति॥



कुलं कुलः कुलः स्त्रो तापन्न एव सकृदागामिफल प्रतिपन्नको देवेषु वा मनुष्येषु वा नियमेन द्वौ भवौ संसृत्य परिनिर्वाति। एकवीचिकः सकृदागाम्येवानागामिफलप्रतिपन्नको देवेष्वेवैकं भवं संसृत्यं परिनिर्वाति। एका वीचिरन्तरं जन्मावकाशोऽस्य सोऽयमेकवीचिकः। अन्तरापरिनिर्वायी येन क्लेशावेधेनोपपत्तिदेशं गत्वा प्रतिसन्दध्यात्तत्परिक्षये सति येनानुशयमात्रेण मरणादूर्ध्व स्कन्धानभिनिर्वर्तयन् तदवशेषे सत्यन्तराभवमभिनिर्वर्त्य पूर्वाभ्यस्तमार्गसंमुखीभावादेव स विशिष्टानुशय प्रहाणे परिनिर्वाति। स पुनरुपपत्तिदेशं प्रत्यनुच्चलितो च्चलितमात्रदूरगभावस्थतया त्रि विधो वेदितव्यः सत्पुरुषगतिसूत्रानुसारेण। अनभिसंस्कारेण यो मार्ग संमुखीकृत्येति पूर्व स्वभ्यस्तत्वात्स्वरसवाहितयाऽप्रयत्ने[ने]त्यर्थः। विपर्ययादभिसंस्कारपरिनिर्वायी। ऊर्ध्वस्त्रोता द्विविधः - अकनिष्ठगो भवाग्रगश्च। तत्र अकनिष्ठग आस्वादनाबहुलतयोत्पन्नोत्पन्नमृद्वादिध्यानप्रकारास्वादनात् ब्रह्मकायिकानारभ्य निरन्तरं सर्वेषु स्थानान्तरेषु सकृत्सकृदुपपद्यमानो यावदकनिष्ठान्प्रविश्य परिनिर्वाति। भवाग्रगश्चतुर्थस्य ध्यानस्याव्यवकीर्णभावित्वात् केवलं शुद्धावासान् परिहृत्य तथैव यावद्भवाग्र गत्वा परिनिर्वाति। व्यवकीर्णभावितस्य चतुर्थस्य ध्यानस्य मृद्वादिपञ्चप्रकारभावितत्वा द्यथाक्रमं पञ्चसु शुद्धावासेषूपपत्तिर्वेदितव्या। चेतयित्वाऽचेतयित्वेति स्वयमात्मानमुपक्रममाणोऽनु[प]क्रममाणो वेत्यर्थः। दृष्टधर्मसुखविहारात्परिहाणमेति लौकिकेभ्यो ध्यानेभ्य इत्यर्थः। इन्द्रियोत्तापनं पुनरधिमात्रतानयनं तीक्ष्णकरणमित्यर्थः। अत एवाकोप्यधर्मा भव्यश्चेन्द्रियाण्युत्तापयितुमिति नोक्तम्, प्रकृत्या तीक्ष्णेन्द्रियत्वात्॥



कामावचररूपावचर एव बोधिसत्त्वो नारूप्या वचरः, प्रभावप्राप्तस्य सत्त्वपरिपाचनानायतनतामुपादाय तत्रानुपपत्तितः। आरूप्य धातुव्यवकर्षितेन ध्यानेनेति पर्युदस्तारूप्योपपत्तिकेन समाधिनेत्यर्थः। ध्यानसुखविहरत्यपरिहीण एव ध्यानेभ्यः, ध्यानव्यावर्तनकुशलत्वात्। सत्त्वपरिपाचनार्थ कामधातावपि बोधिसत्त्व उपपद्यत इति वेदितव्यम्॥



सर्वा बोधिसत्त्वचर्यामिति तुषितभवनवासमुपादाय यावन्मारपराजयम्। बुद्धचर्या च दर्शयती त्यभिसंबोधिमुपादाय यावन्महापरिनिर्वाणम्॥



अधिमुक्तिचारी बोधिसत्त्वगोत्रे व्यवस्थित आदितो महाबोधिप्रस्थानमुपादाय यावत्प्रमुदितां भूमिं न प्रविशति, प्रत्यात्मं लोकोत्तराभिगमा भावात्। अध्याशयचारो दशसु भूमिषु, लोकोत्तरेणाधिगमेन विशुद्धाशय त्वात्। निमित्तचारी षट्सु भूमिषु, अनिच्छतोऽपि निमित्तव्यवकिरणात्। अनिमित्तचारी सप्तम्याम्, यत्नं कुर्वतो यावदिच्छं निमित्तासमुदाचारात्। अनभिसंस्कारचारी शेषासु भूमिसु, वैपाकिकनिर्विकल्पज्ञानप्रतिलम्भादिति॥



सकृन्नैर्याणिकः सकृत्त्रैधातुकावचरान्क्लेशान् प्रजहाति। प्रकारश इत्यधिमात्राधिमात्रान्कामरूपारूप्यावचरान्भावनाप्रहातव्याननुशयान् प्रजहाति, एवं यावन् मृदुमृदून् दर्शनप्रहातव्यान् न तु लौकिकमार्गवद्भूमिप्रकारभेदेन पृथक्पृथगित्यर्थः। तत्रेदं ज्ञापकं यथोक्तमंगुल्यग्रसूत्रे - " यत्किंचिद्रूपं यावद्विज्ञानमतीतानागतप्रत्युत्पन्नमिति विस्तरेण यावद्दूरे यद्वाऽन्तिके तत्सर्वमेकध्यमसंक्षिप्यकं भागं करोत्येकं पिण्डमेकं पुञ्जमेकं राशिं करोत्येकं कृत्वाऽतः प्रतिसंशिक्षते सर्वमेतदनित्यं सर्व दुःखमिति विस्तरः। द्वयोरेवाद्यन्तयोः फलयोः प्रज्ञाप्यते। तयोस्त्रैधातुकसर्वदर्शनभावनाप्रहातव्याशेषप्रहाणप्रभावितत्वाद्यथाक्रमम्। मध्ययोस्तु न प्रज्ञाप्यते, तयोर्दृष्टसत्यस्य कामवचराणामेव भावना प्रहातव्यानां सावशेषनिरवशेषप्रहाणप्रभावितत्वात्। सकृन्नैर्याणिकं चाधिकृत्य विभङ्गसूत्रे स्त्रोतापन्नानन्तरमर्हद्व्यवस्थानं वेदितव्यम्। स दृष्टे धर्मे यद्याज्ञां तारागयति सर्वतो निःशेषमवीतरागत्वात्प्रणिधानवशेन कामधातावुपपद्यते क्षिप्रपरिनिर्वाणार्थम्॥



अभिसमयव्यवस्थानं दशविधम्। तत्र धर्माभिसमयः सत्याधिपतेयेषु सूत्रादिषु धर्मेषु परतोघोषमधिपतिं कृत्वा धिमात्रस्याधिमुक्तिप्रसादस्य पश्चिममोक्षभागीयसंगृहीतस्य प्रतिलम्भः। तथाहि तदधिमुक्तिप्रसादप्रतिलम्भात्तानि सत्यानि धर्माभिसमयेनाभिसमितानीत्युच्यन्ते। अर्थाभिसमयस्तेष्वेव धर्मेषु योनिशोमनस्कार मधिपतिकृत्वाऽधिमात्रायाः सत्येषु धर्मनिध्यानक्षान्ते [:] पश्चिमनिर्वेधभागीय संगृही[ता]याः प्रतिलम्भः। सा पुनर्धर्मनिध्यानक्षान्तिस्त्रिविधेन योनिशोमनस्कारेण प्रभाविता अधिमात्रमृदुना तज्जन्मकालेषूष्मगतेषु, अधि मात्रमध्येन मूर्ध्वसु क्षान्तिषु च, अधिमात्राधिमात्रेण लौकिकेष्वग्रधर्मेष्विति। तत्त्वाभिसमयो दर्शनमार्गः। तत्र पुनः सत्यव्यवस्थापनान्यभिसमयान्तिकानि संवृतिज्ञानानि प्रतिलम्भतो लोकोत्तरज्ञानाधिपत्येन तदबीजपोषणान्न तु सम्मुखीकरोति षोडशानां दर्शनमार्गचित्तक्षणानां निरन्तरत्वेन लौकिकचित्तानवकाशात्। पृष्ठाभिसमयो दर्शनमार्गादूर्ध्वसर्वभावनामार्गो लौकिको लोकोत्तरो वा। रत्नाभिसमयः सम्यक्संबुद्धो वत भगवान्, स्वाख्यातोऽस्य धर्मविनयः, सुप्रतिपन्नः श्रावकसंघ इत्येवमवेत्य निश्चित्यार्यश्रावकस्य बुद्धादिषु प्रसादः। असमुदाचाराभिसमयो यस्याकरणसंवरस्यायंकान्तशील संगृहीतस्य लाभात्तद्विपक्षनरकाद्यसमुदाचारं प्रत्येवं निश्चयः प्रवर्त्तते क्षोणा मे नरकाः इत्येवमादिः सोऽसमुदाचाराभिसमयः। निष्ठाभिसमयः सर्वदौष्ठुल्यानां प्रतिप्रस्त्रब्धिरित्येवमादिर्यथा मार्गसत्ये निष्ठामार्गो निर्दिष्टः। एत एव सप्ताभिसमयाः श्रावकाणां परतोघोषमागम्य प्रतिलम्भतः श्रावकाभिसमय इत्युच्यते। परतोघोषमनागम्य प्रतिलम्भतः प्रत्येक[बुद्ध]भिसमय इति। बोधिसत्त्वाभिसमय एषु सप्तस्वभिसमयेषु बोधिसत्त्वस्य या समुदागमक्षान्तिः श्रावकप्रत्येकबुद्धविनयो पायकौशल्यार्थ नो तु साक्षात्क्रिया सत्त्वापेक्षया हीनयानानिर्याणात्। अपिखलु तत्प्रथमतो बोधिसत्त्वस्य भूमिप्रवेशाऽभिसमय इत्युच्यते॥



एतं चाभिसमय निश्रित्योच्यते - श्रावकाभिसमयाद्बोधिसत्त्वाभिसमस्य कः प्रतिविशेषः आलंबनविशेषतो वैपुल्यालंवनत्वात्। उपस्तम्भविशेषतः परिपूर्णमहाकल्पासख्येयमहा पुण्यज्ञानसंभारपरिपूरणात्। प्रतिवेधविशेषतः पुद्गलधर्मनैरात्म्याधिपतेयधर्मप्रयोगवेधतो लोकोत्तरेण ज्ञानेन तदुभयप्रतिवेधात् अभ्युपगमविशेषतः स्वात्मसमतया सर्वसत्त्वा भ्युपगमात्। निर्याणविशेषतो दशभिर्भूमिभिर्निर्याणात्। परिग्रह विशेषतोऽप्रतिष्ठितनिर्वाणपरिग्रहणा त्॥ प्रतिष्ठापरिवारविशेषतो बुद्धक्षत्रपरिशीधनाद्विनेयजनोपग्रहणाच्च। अभिजन्मविशेषतः पितृवंशसंधारकौरसपुत्रलक्षणत्वात्। जन्मविशेषतः परिषन्मण्डलेषूपपन्नः। फलविशेषश्च पुनः [आश्रय] परिवृत्तिविशेषतः क्लिष्टाक्लिष्टसर्वप्रकार दौष्ठुल्यप्रहाणात्सर्वनिरुत्तरगुणाश्रयत्वेनाश्रयपरिवर्तनात्। गुणसमृद्धिविशेषतो बलवंशारद्यावेणिकबुद्धधर्माद्यपरिमितगुणनिष्पत्तेः। पञ्चाकारविशेषतो विशुद्धयादिविशेषात्। तत्र विशुद्धिविशेषः सवासनक्लेश प्रहाणात्। परिशुद्धिविशेषो बुद्धक्षेत्रपरिशोधनात्। कायविशेषो धर्म कायपरिनिष्पादनात्। भोगविशेषः सदा बोधिसत्त्वेः सह पर्षन्मण्डलेषु विचित्रधर्मसंभोगात्। कमविशेषो यथार्ह निर्माणेः समन्ता दनन्तापर्यन्तेषु लोकधातुषु बुद्धकृत्यानुष्ठानादिति। कायत्रयविशेषतः स्वभाविकसाम्भागिकनैर्माणिकायपरिनिष्पत्तिलाभात्। निर्वाणविशेषतो निरुपधिशेषे निर्वाणधातौ सर्वसत्त्वहिताय सर्वगुणासमुच्छेदात्। मिश्रोपमिश्रज्ञानशक्तिलाभविशेषतः सुविशुद्धधर्मधात्वेकरसतया तदाश्रितासु सर्वाकारवरज्ञतासु प्रत्येकं सर्वबुद्धानां सामर्थ्यात्। आवरणविशुद्धिविशेषतः सर्वक्लेशज्ञेयावरणप्रहाणात्। मिश्रोपमिश्रकर्मक्रियाविशेषत एकैकसत्त्वविनयनं प्रति सर्वबुद्धाधिपत्यात्। अभिसंबोधिनिर्वाणसंदर्शनोपायविशेषतो दशसु दिक्षु यथायोगं सर्वलोकधातुषु यावदपरान्तं पुनःपुनर्बुद्धोत्पादादि संदर्शनेन सर्वविनेयजनपरिपाचनविमोचनात्। पञ्चाकारपरित्राणविशेषतश्च वेदितव्य उपद्रवादिपरित्राणात्। तत्र उपद्रवपरित्राणं नगरप्रवेशादिभि रन्धादीनां चक्षुरादिप्रतिलम्भात्। अनुपायपरित्राणं लौकिक सम्यग्दृष्टिप्रतिलम्भेन सर्वकुदृष्टिविवेचनात्। अपायपरित्राणं दर्शनमार्गोत्पादनेन दुर्गतिसमतिक्रमणात् सत्कायपरित्राणमर्हत्त्वसाक्षात्क रणेन त्रैधातुकवि मोक्षाणात्। यान परित्राणं बोधिसत्त्वानां हीनयान विच्छन्दनादिति॥



वैशंषिकगुणा आर्यश्रावकैर्भावनामार्गे वाऽभिनिर्ह्रियन्तेऽशैक्षमार्गे वेत्यत एषां पृष्ठनिष्ठाभिसमयाभ्यां संग्रहो वेदितव्यः। ते पुनर्मैत्र्यादयो यथा सूत्रान्तरेषु निर्दिष्टाः श्रावकयाने महायाने च तथैव वेदितव्याः। तेषां चाय समासेन पञ्चभिराकारैर्यथायोगं लक्षणनिर्देशो वेदितव्यः - निश्रयत आलंबनत आकारतः स्वभावतः सहायतश्च॥



तत्र तावत् मैत्र्या ध्यानं निश्रयः, सत्त्वा आलंबनम्, सुखेन संप्रयुज्येरन्नित्याकारः, समाधिः प्रज्ञा च स्वभावः शमथविपश्यनासंगृहीतत्वात्सर्वगुणानाम्, चित्तचैतसिकाः सहाया इत्येवं करुणादिषु यथायोगं योजयितव्यम्। उपेक्षया सुखादिषु सत्त्वेष्वनुनयाद्यभ्युपेक्षणमहो वत संक्लेशाद्विमुच्येरन्नित्ययमाकारो वेदितव्यः। स च हिताशयविहार इत्युच्यते॥



अष्टौ विमोक्षाः। रूपी रूपाणि पश्यत्ययं प्रथमो विमोक्ष इति विस्तरः। तत्र कथं रूपी त्युच्यते। स्वात्मन्या रूप्यसमापत्तिसंनिश्रयेण रूपसंज्ञाया अभिभावनाद्रूपसंज्ञासंनिवेशनाद्वा द्रष्टव्यानि रूपसंज्ञासंमुखी करणादित्यर्थः। कथं रूपाणि पश्यतीत्युच्यते। सुवर्णदुर्वर्णादीनि रूपाण्यधिमुच्यदर्शनात्। कथं विमोक्ष इत्युच्यते। विमुच्यतेऽनेन निर्माणावरणादिति कृत्वा। अध्यात्ममरूपसंज्ञारूप्य समापत्तिसंनिश्रयेण द्रष्टरि स्वात्मनि रूपसंज्ञाविभावनादरूपसंज्ञासंनिवेशनाद्वाद्रष्टरि नामसंज्ञासंमुखीकरणादित्यर्थः। शेषं पूर्ववत्। शुभं विमोक्षं कायेन साक्षात्कृत्वोपसंपद्य विहरत, शुभाशुभेषु रूपेष्वन्योन्यापेक्षासंज्ञामन्योन्यानुगमसंज्ञां च निश्रित्या [न्यो]न्यैकरससंज्ञालाभात्॥ तथाहि शुभा नि रूपाण्यपेक्ष्य तदन्येष्वशुभानीति भवत्यशुभानि वापेक्ष्य शुभानीति नानपेक्ष्यैकजातीयानामेव दर्शने शुभाशुभताबुद्ध्यभावात्। तथाहि शुभेष्वप्यशूभतानुगताऽशुभेष्वपि शुभता, शुभसंमतस्यापि त्वङ्मात्रस्य केशादिषट्त्रिशदशुचिद्रव्यान्तर भावादित्येवमन्योन्यं सर्वरूपाणि मिश्रयित्वा शुभ तैकरसाका रया संज्ञया विमुच्यते। तस्यैवं रूपादिवि मोक्षविभु त्वलाभिनः शुभाशुभनिर्माणावरणं च प्रहीयते तत्र च संक्लेशो त्पत्त्यावरणम्। कः पुनर्निर्माणे संक्लेशः। शुभरूपनिर्माणे आ भोगः, अशुभरूपनिर्माणे प्राति कूल्यमिति। आकाशानन्त्यायतनादीनि चत्वार्यार्यश्रावकस्य यान्यना श्रवानुकूलानि शुद्धानि तानि विमोक्षकाख्यां लभन्ते, तदास्वादनविमोक्षणात्। ये ते शान्ता विमोक्षा अतिक्रम्य रूपाण्यारूप्यास्तेष्व सक्तिः परिशुद्धिः। तस्या आवरणमारूप्यास्वादनमिति। संज्ञावेदयितनिरोधस्य निश्रयो नैवसंज्ञाना संज्ञायतनम्, आलंबनाकारसहाया न सन्ति चित्तचैतसिकानामभावात्। स्वभावस्तस्य चित्तचैतसिकानां निरोधः। स च मोक्षानुसदृशो विहारः, लोकोत्तरेण मार्गेण परिवृत्याश्रयस्यार्यश्रावकस्य पुनश्चितचैतसिकानामप्यप्रवृत्त्यवस्थायाः परमशान्तत्वात् क्लिष्टमनोऽसमुदाचाराच्च। एते चाष्टौ विमोक्षा विहारा इत्युच्यन्ते, एभिरार्याणां विहरणात्। तत्रापि बहुलमाभ्यां विमोक्षाभ्यां विहरन्ति, तृतीयेनाष्टमेन च प्रधानत्वात्। अत एव चानयोः कायेन साक्षात्कृत्योपसंपद्य विहरतीति वचनं नान्येषु रूप्यरूपिविमोक्षावरणाशेषप्रहाणाद्यथाक्रमम्। तयोः संपूर्णाश्रयपरिवृत्तिसाक्षात्करणमुपादायेत्यपरः पर्यायः॥



अष्टावभिभ्वायतनानि तत्र अध्यात्मं रूपसंज्ञी बहिर्धा रूपाणि पश्यति परीत्तानि सुवर्णदुर्वर्णानि हीनप्रणी तानि, तानि खलु रूपाण्यभिभूय जानात्यभिभूय पश्यति तथा च संज्ञी भवति। इदं प्रथममभिभ्वायतनम्। अध्यात्मं रूपसंज्ञी बहिर्धा रूपाणि पश्यत्यधिमात्राणि सुवर्णदुर्वर्णानि विस्तरेण यावत्तया च संज्ञी भवति। इदं द्वितीयमभिभ्वायतनम्। इत्येते द्वे अभिभ्वायतने रूपी रूपाणि पश्यतीत्येतस्माद्विमोक्षादभिनिर्ह्रियेते। अध्यात्ममरूपसंज्ञी बहिर्धा रूपाणि पश्यति परीत्तानि विस्तरेण यावत्तथासंज्ञी च भवति। इदं तृतीयमभिभ्वायतनम्। अध्यात्ममरूपसंज्ञी बहिर्धा रूपाणि पश्यत्यधिमात्राणि यथा तथासंज्ञी च भवति। इदं चतुर्थमभिभ्वायतनम्। इत्येते द्वे अभिभ्वायतने अध्यात्ममरूपसंज्ञी बहिर्धा रूपाणि पश्यतीत्येत स्माद्विमोक्षादभिनिर्ह्रियेते। एवं कृत्वा द्वाभ्यां विमोक्षाभ्यां चत्वार्यभिभ्वायतनानि वेदितव्यानि। अध्यात्म[म]रूपसंज्ञी बहिर्धा रूपाणि पश्यति नीलानि नीलवर्णानि नीलनिदर्शनानि नीलनिर्भासानि। तद्यथा उमकापुष्पं संपन्नं वा वाराणसीयकं वस्त्रं नीलं नीलवर्ण नीलनिदर्शनं नीलनिर्भासमेवमेवाध्यात्ममरूपसंज्ञी बहिर्धा रूपाणि पश्यति नीलानि यावन्नी लनिर्भासानि तानि खलु रूपाण्यभिभूय जानात्याभिभूय पश्यति तथासंज्ञी च भवति। इदं पञ्चममभिभ्वायतनम्। अध्यात्ममरूपसंज्ञी बहिर्धा रूपाणि पश्यति पीतानि यावत्पीतनिर्भासानि। तद्यथा कर्णिकारपुष्पं संपन्नं वा वाराणसीयकं वस्त्रं पीतं पीतवर्णमिति विस्तरः। इदं षष्ठमभिभ्वायतनम्। अध्यात्ममरूपसंज्ञी बहिर्धा रूपाणि पश्यति लोहितानि यावल्लोहितनिर्भासानि। तद्यथा वन्धुजीवक पुष्पं संपन्नं वा वाराणसीयं वस्त्रं लोहितं लोहित[वर्ण]मिति विस्तरः। इदं सप्तममभिभ्वायतनम्। अध्यात्ममरूपसंज्ञी बहिर्धा रूपाणि पश्यत्यवदा तान्यवदातवर्णा न्यवदातनिदर्शनान्यवदातनिर्भासानि। तद्यथा उषसि तारकाया वर्ण संपन्न वा वाराणसीयकं वस्त्रमवदातमवदात वर्णमवदातनिदर्शनमवदातनिर्भासमेवमेवाध्यात्ममरूपसंज्ञी बहिर्धा रूपाणि पश्यत्य वदातान्यवदातवर्णान्यवदातनिदर्शनान्यवदातनिर्भासानि तानि खलु रूपाण्यभिभूय जानात्यभिभूय पश्यति तथासंज्ञी च भवति। इदमष्टममभिभ्वाय तनम्। एतानि चत्वारि शुभं विमोक्षं कायेन साक्षात्कृत्वोपसंपद्य विहरतीत्येतस्मा द्विमोक्षादभिनिर्ह्रियते॥



तत्र विमोक्षैरालंबनमधिमुच्यते परीत्तादिकम्, अभिभ्वायतनैस्त्वभिभवति, तदन्तर्धा नाद्यथेष्टं वा करणाद्वशवर्तमानतामुपादाय। तत्र परीत्तानि रूपाणि सत्त्वसंख्यातान्यल्पप्रमाणत्वात्। अधिमात्राण्यसत्त्वसंख्यातानि गृहविमानपर्वतादीनि महाप्रमाणत्वात्। सुवर्णदुर्वर्णानि शुभाशुभवर्णसंगृहीतानि। हीनप्रणीतानि मानुष्यकदिव्यानि यथाक्रमम्। तानि खलु रूपाण्यभिभूये ति वशे वर्तयित्वा। जानातीति शमथमार्गेण। पश्यतीति विपश्यनामार्गेण। तथासंज्ञी च भवतीत्यभिभूते नाभि भूते वा तन्निरभिमानसंज्ञितामुपादाय। नीलानीत्युद्देशपदम्। नीलवर्णानि सहजां नीलतामुपादाय। नीलनिदर्शनानि संयोगनीलतामुपादाय। नीलनिर्भासानि तदुभयोः प्रभानिर्मोक्षभास्वरतामुपादाय। यथा नीलान्येवं पीतलोहितावदातानि विस्तरेण वेदितव्यानि। दृष्टान्तद्वयं चैकैकस्मिन् सहजसांयोगिकवर्णोद्भावनतामुपादाय। अपरः पर्यायस्त द्यथा नीलमिति पुष्पवस्त्रयोः समानमुद्देशपदम्। नीलवर्णमिति पुष्पमेवाधिकृत्य, तस्य सांयोगिकनीलत्वसंभवात्। नीलनिर्भासमित्युच्यते पुष्पवस्त्रे अधिकृत्य, द्वयोरपि भास्वरत्वसंभवात्। इत्येवं कृत्वा दृष्टान्तेऽपि तद्यथोमकापुष्पं संपन्नं वा वाराणसीयकं वस्त्रं नीलं नीलवर्णमित्येवमादिनिर्देश उपपन्नो भवति। एवं पीतादिकं योजयितव्यम्। शिष्टं यथाधिमोक्षेषु। किं शिष्टम्। अध्यात्मं रूपसंज्ञी बहिर्धा रूपाणि पश्यतीत्ये वमादि। तत्पुनर्यथा रूपी रूपाणि पश्यतीत्येवमादि निर्देशानुसारेण द्रष्टव्यम्॥



एवमभिभ्वायत नैरालंवनं वशे वर्तयित्वा कृत्स्नायतनैः कृत्स्नं स्फरति समन्तानन्ता पर्यन्तं विस्तारयतीत्यर्थः। तानि पुनः कृत्स्नायतनानि दश भवन्ति। तद्यथा पृथिवीकृत्स्नमप्कृत्स्नं तेजःकृत्स्नं वायुकृत्स्नं पीतकृत्स्नं लोहितकृत्स्नमवदातकृत्स्नमाकाशानन्त्यायतनकृत्स्नं विज्ञानानन्त्यायतन कृत्स्नं च। कृत्स्नायतनेषु पृथिव्यादीनि यदि न व्यवस्थाप्येरन् तेनाश्रयमहाभूतैर्विना तदुपादायरूपं नीलादिकं स्फरितुं न शक्येत। तस्याश्रयस्य रूपस्य स्फरणसमृद्धिमुपादायैषां कृत्स्नेषु व्यवस्थानं वेदितव्यम्। शेषं यथासंभवं विमोक्षवदा काशानन्त्यायतनकृत्स्नादि॥



तत्र विमोक्षैरारम्भः, अभिभ्वायतनेः प्रयोगः, कृत्स्नायतनैः परिनिष्पत्तिर्विमोक्षाणां वेदितव्याः॥



अरणा विहारी येषां सत्त्वानामाभासं गन्तुकामो भवति तेषामात्मनि क्लेश समुदाचारमधिकृत्यानागतवृत्तान्तं विहारगत एव प्रणिधिज्ञान बलेनावलोक्य तथा तत्समीपमुपसंक्रामति न वा यथा ते तत्रानुनयप्रतिधेर्ष्यामात्सर्या दिकं क्लेशोपक्लेशसरणं नोत्पादयन्ति। अत इदमुच्यतेऽरणा ध्यानं निश्रित्य क्लेशोत्पत्त्यनुरक्षाविहारसमृद्धाविति विस्तरः।



प्रणिधिज्ञानं तल्लाभी यद्यदेव त्रैयध्विकादिकज्ञेयवृत्तान्तं ज्ञातुकामोभवति, तत्र तत्र मानसं प्रणिधायेदं जानीयामिति ध्यानं समापद्यते, ततो व्युत्थितस्य तत्प्रणिधानं समृध्यति, तज्ज्ञेयं जानातीत्यर्थः॥



धर्मप्रतिसंवित् पर्यायेषु, तद्यथाऽविद्यादीनारभ्याज्ञानमदर्शनमनभिसमय इत्येवमादिष्व व्याघातसमृद्धौ यः समाधिरिति विस्तरः। अर्थप्रतिसंवित्स्वसामान्यलक्षणे धर्माणाम्, अर्थान्तराद्यभिप्राये चाव्याघातसमृद्धाविति विस्तरः। निरुक्तिप्रतिसंविज्जनपदभाषायामिति प्रतिविषयं यथास्वमन्योन्यसंज्ञान्तरानुव्यवहारे, धर्मनिर्वचने चेति तद्यथा लुज्यते प्रलुज्यते तस्माल्लोकः, रूप्यते तस्माद्रूप इत्येवमादिके। प्रतिभानप्रतिसंविद्धर्मप्रभेदेष्विति द्रव्यसन्तः प्रज्ञप्तिसन्तः संवृतिसन्तः परमार्थसन्त इत्येवमादिषु॥



ऋद्धयभिज्ञा विचित्रद्धिविकुवितसमृद्धाविति तद्यथा एको भूत्वा बहुधा भवतीत्येवमादौ। विचित्राणां शब्दानामनुश्रवसमृद्धाविति दिव्यमानुष्यकादीनाम्। परसत्त्वेषु चित्तचरित प्रवेशसमृद्धाविति सरागादिचित्तप्रचारयथाभूतज्ञानसमृद्धावित्यर्थः। पूर्वान्तचर्याया अनुस्मरणसमृद्धावित्यतीतं जन्मपरंपरामारभ्य नामजातिगोत्रादिप्रकारवृत्ताया इत्यर्थः। च्युत्युत्पादाभिज्ञा दिव्येन चक्षुषा सत्त्वानां च्यवमानानामुपपद्यमानानां सुवर्णानां दुर्वर्णानां सुगतिमपि गच्छतां दुर्गति मप्यपरान्तमारभ्य च्युत्युपपादसंदर्शनसमृद्धौ समाध्यादयः। आस्त्रवक्षयज्ञान समृद्धाविति येनोपायेनास्त्रवाः परिक्षोयन्ते, यश्चैषां परिक्षयस्तज्ज्ञाननिष्पत्तिनिमित्तमित्यर्थः॥



लक्षणानुव्यञ्जनानि यत्समाधिप्रज्ञाधिपत्येन बुद्धा भगवन्तो द्वात्रिशता लक्षणैरशीत्यानुव्यञ्जनैः विभ्राजमानं रूपकायं संदर्शयन्ति विनेया नाम्। तत्स्वभावानि तानि तेषां वेदितव्यानि, धर्मकायप्रभावितत्वाद्बुद्धानां भगवतामिति। वो धिसत्त्वानां तु तथासंदर्शनसमर्थानां समाधिप्रज्ञास्वभावानि। तदन्येषां पर्षन्मण्डलेषूपपन्नानां तत्समुत्थितविपाकस्वभावानि वेदितव्यानि॥



चतस्त्रः सर्वकाराः परिशुद्धयो बुद्धानां भगवतां महाभिज्ञाप्राप्तानां च बोधिसत्त्वानाम्। तत्र यथाकाममाश्रयस्योपादान स्थानपरित्यागानां समृद्धाविति यत्रेच्छति तत्रोपपत्तिग्रहणतः, तस्यां चोपपत्तावायुःसंस्कारानधिष्ठाय यावदिच्छमवस्थानतः, यदेच्छति तदायुःसंस्कारोत्सर्जनतश्च यथाक्रमम्। यथाकाममालंबनमधिकृत्य निर्माणपरिणामनज्ञानानां समृद्धावित्य पूर्वरूपादिनिर्माणतः, पूर्वोत्पन्नानां रूपादीनां सुवर्णादित्वेन परिणामतः, सर्वप्रकारावगमनतश्च यथाक्रमम्। यथाकामं समाधिमुखवशवर्तिसमृद्धाविति प्रतिक्षणं यथेष्टमपरिमितसमाध्यन्तरसमापत्तये। यथाकामं धारणीमुखसंधारणसमृद्धाविति द्वाचत्वारिंशतोऽक्षराणामन्यतमाक्षरमनसिकारे तदादिसर्वधर्मपर्यायाभिलपनसामर्थ्यप्रतिलम्भायेत्यर्थः॥



दश बलानि - स्थाना स्थानज्ञानबलं कर्मस्वकज्ञानबलं ध्या नविमोक्षसमाधिसमापत्तिज्ञानबलमिन्द्रियपरापरज्ञानबलं नानाधिमुक्तिज्ञानबलं नानाधातुज्ञानबलं सर्वत्रगामिनीप्रतिपज्ज्ञान बलं पूर्वनिवासानुस्मृतिज्ञानबलं च्युत्युपपादज्ञानबलमास्त्रवक्षयज्ञानबलं च। तत्र स्थानास्थानज्ञानबलं ध्यान निश्रित्य सर्वप्रकारहेत्वहेतुज्ञानासंगाप्रतिहतसंमुखीभावे समाध्यादयः। एवं कर्मस्वकज्ञानबलादिषु सर्वाकारकर्मस्वकताज्ञानासंगाप्रतिहतसंमुखीभाव इति योजयितव्यम्॥



चत्वारि वैशारद्यानि - सम्यक्संबुद्धस्य वत मे सत इमे ते धर्मा अनभिसंबुद्धा इत्यत्र मां कश्चिच्छ्रमणो वा देवो वा मारो वा ब्रह्मा वा सहधर्मेण चोदयेद्वा निमित्तमपि न समनुपश्याम्येतच्च निमित्त[म] समनुपश्यन् क्षेमप्राप्तश्च वैशारद्यप्राप्तश्चोदारमार्षभं स्थानं प्रजानामि, ब्रह्मचर्य प्रवर्तयामि, परिषदि सम्यक् सिंहनादं नदामि। क्षोणास्त्रवस्य वत मे सत इमे आस्त्रवा अपरिक्षीणा इति। ये वा पुनर्मे श्रावका[णा]म न्तरायिका धर्मा आख्याताः तान् प्रतिषेवमानस्य नालमन्त रायातेति यो वा पुनर्मे श्रावकाणां निर्याणाय मार्ग आख्यात आर्योनैर्याणिको नैर्वेधिकः स वत न सम्यङ्निर्याति तत्करस्य सम्यग्दुः[ख] क्षयाय दुःखस्यान्तक्रियायै इत्यत्र मां कश्चित् श्रम णो वा ब्राह्म णो वा यावत्सिंहनादं नदामोति विस्तरेणेकं कस्मिन् वक्तव्यम्। तान्येतानि वैशारद्यानि स्वार्थ परार्थ चारभ्य वेदितव्यानि। तत्र द्विविधः स्वार्थः - ज्ञानविशेषः प्रहाणविशेषश्च। द्विविधः परार्थः - विपक्षधर्मविवर्जनं प्रतिपक्षधर्मनिषेवणं च। तत्रभिसंबोधिवैशारद्यं ज्ञानात्मकं स्वार्थमेवारभ्य सर्वाकारं मया सप्रभेदपर्यन्तं ज्ञेयमभिसंबुद्धमित्येतस्याः प्रतिज्ञायाः सम्यङ्निरनुयोज्यत्वेन सर्वस्मिन् लोके प्रतिष्ठापनसमृद्धौ यः समाधिरिति पूर्ववत्। एवं शेषाण्यपि वैशारद्यानि योजयितव्यानि। सर्वाकाराः पुनरास्त्रवाः सवासनाः क्लेशा द्रष्टव्याः। सर्वाकारा अन्तरायिक्का धर्माः सर्वे सांक्लेशिकाः विपक्षधर्मा द्रष्टव्याः। सर्वाकारो नैर्याणिको मार्गः प्रयोगमार्गमारभ्य यावन्निष्ठामार्गो द्रष्टव्यः॥



त्रीण्यावेणिकानि स्मृत्युपस्था नानि। इह शास्ता श्रावकाणां धर्म देशयत्यनुकम्पकः कारु णिकोऽर्थकामो हितैषी करुणाय मानः - इदं वो भिक्षवो हिताय इदं सुखाय इदं हितसुखायेति। तस्य ते श्रावकाः शुश्रूषन्ते श्रोत्रमवदधत्याज्ञाचित्तमुपस्थापयन्ति प्रतिपद्यन्ते धर्मस्यानुधर्मम्। तत्र तथागतस्य न नान्दी भवति न सौमनस्यं न चेतस उत्प्लावितत्वमुपेक्षकस्तत्र तथागतो विहरति स्मृतः संप्रजानन्। इदं प्रथमावेणिकं स्मृत्युपस्थानम्। यदार्यः सेवते यदार्यः सेवमानोऽर्हति गणमनुशासितुम्। पुनरपरं शास्ता श्रावकाणां धर्म देशयति यावदिदं हित सुखाय। तस्य ते श्रावका न शुश्रूषन्ते यावन्न प्रतिपद्यन्ते धर्मस्यानुधर्मम्। तत्र तथागतस्य नाघातो भवति नाक्षान्तिर्नाप्रत्ययो न चेतसोऽनभिराद्धिरुपेक्षकस्तत्रेति विस्तरः। इदं द्वितीयम्। तृतीयेऽयं विशेषः - अस्यैके श्रावकाः शुश्रूपन्ते यावत्प्रतिपद्यन्ते धर्मस्यानुधर्ममेके न शुश्रूषन्ते यावन्न प्रतिपद्यन्ते धर्मस्यानुधर्मम्। तत्र तथागतस्य न नान्दो भवति यावच्चेतसो ना भिराद्धिरिति। एता[नि]त्रीणि स्मृत्युपस्थानानि शास्तुर्गणपरिकर्षणे यथाक्रमं सर्वाकारानुनयप्रतिघतदुभयसंक्लेशवासनाया असमुदाचारसमृद्धौ समाध्यादयः॥



त्रीण्यरक्षाणि। परिशुद्धकायसमुदाचारस्तथागतः। नास्ति तथा गतस्यापरिशुद्धकायसमुदाचारता यां तथागतः प्रतिच्छादयितव्यां मन्येत कच्चिन्मे परे वि[जा]नीयुरिति। एवं वाङ्मनःसमुदाचारते वेदितव्ये। एभिर्निर्वक्तव्यतया निराशङ्कत्वात्स्वयं शास्तुविनेयजनपरिकर्षणमारभ्य यथेष्टं निगृह्य प्रसज्याववादानुशासनीप्रयोगः समृद्धयतीति वेदितव्यम्॥



असंमोषधर्मता सर्वविनेयकार्यमारभ्य यथावत्कृतस्य भाषितस्य चाभिलपनसमृद्धौ समाध्यादयः॥



वासनासमुद्घातः सर्वज्ञस्य सतः क्लेशज्ञेयावरणशेषसूचकानां कायवाक्चेष्टितानामसमुदाचारसमृद्धौ समाध्यादयः॥



महाकरुणा त्रैधातुकावचरेषु सर्वसत्त्वेषु निरन्तर सर्वप्रकारदुःखालंबन करुणाविहारसमृद्धौ समाध्यादयः॥



अष्टादशावेणिका बुद्धधर्मास्तद्यथा नास्ति तथागतस्य स्खलितम्, नास्ति रवितम्, नास्ति मुषिता स्मृतिः, नास्त्यसमाहितं चित्तम्, नास्ति नानात्वसंज्ञा, नास्त्य प्रतिसंख्यायोपेक्षा, नास्ति छन्दप रिहाणिः, नास्ति वीर्यपरिहाणिः, नास्ति स्मृतिपरिहाणिः, नास्ति समाधिपरिहाणिः, नास्ति प्रज्ञारिहाणिः, नास्ति विमुक्तिपरिहाणिः, सर्वतथागतस्य कायकर्म ज्ञानपूर्वगमं ज्ञानानुपरिवर्ति, सर्व वाक्कर्म ज्ञानपूर्वगमं ज्ञानानुपरिवर्ति, सर्व मनस्कर्म ज्ञानपूर्वगमं ज्ञानानुपरिवर्ति, अतीतेऽध्वन्यसङ्गमप्रतिहतं ज्ञानम्, अनागतेऽध्वन्यसङ्गमप्रतिहतं ज्ञानम्, प्रत्युत्पन्नेऽध्वन्यसङ्गमप्रतिहतं ज्ञानमिति॥



एषां पुनर्व्यवस्थानम्, तद्यथा अर्हन् भिक्षुः क्षीणास्त्रवः ग्रामं पिण्डाय चरन्नेकदा चण्डेन हस्तिना सार्घ समागच्छति। यथा चण्डेन हस्तिनेवं चण्डनाश्वेन, चन्डया गवा, चण्डेन कुक्कुरेण। गहनं वा कण्टकबाटं वा मृद्नाति। अलगर्द वा पदाभ्यां समाक्रामति। तद्रूपं वाऽगारं प्रविशति यत्रैनं मातृग्रामोऽयोगविहितेनोपनिमन्त्रयति। अरण्ये वा पुनमार्ग हित्वा कुमार्गेण गच्छति। चोरैर्वा तस्करैर्वा सार्ध समागच्छति सिंहैर्व्याघ्रैर्वाप रवृकैर्वा इत्येवं भागीयं स्खलितमर्हतस्तथागतस्य सर्वेण सर्व नास्ति। पुनरयमर्हन्ने कदाऽरण्ये प्रवणेऽन्वाहिण्डन्मार्गादपनश्य शून्यागारं प्रविश्य शब्दमुदीरयति, घोषमनुश्रावयति , महारुतं रवति। वासना दोषं वाऽऽगम्य क्लिष्टं महाहासं हसति, दन्तविदर्शकं संचग्धितमुपदर्शयति। इत्येवंभागीयमर्हतो रवितं तथागतस्य सर्वेण सर्व नास्ति। नास्ति तथागतस्य मुषिता स्मृतिरक्लिष्टचिरकृतचिरभाषि तानुस्मरणतामुषादाय। पुनरपरमर्हन् समापन्नः समाहितो भवति व्युत्थितोऽसमाहितः। तथागतस्य तु सर्वावस्थं नास्त्यसमाहितं चित्तम्। पुनरपरमर्हन्नेकान्तेनोपधा च प्रतिक्रमणसंज्ञी भवति निरुपधिके च निर्वाणे शान्तसंज्ञी। तथागतस्य उपधौ निर्वाणे च नानात्वसंज्ञा नास्ति, परमोपेक्षाविहारितामुपादाय। पुनरपरमर्हन्नप्रतिसंख्याय सत्त्वार्थक्रियामध्युपेक्षते। तथागतस्य त्वियमेवंभागीयाऽप्रतिसंख्यायोपेक्षा नास्ति। पुनरपरमर्हन् ज्ञेयावरणविशुद्धिमारभ्याप्राप्तपरिहाण्या छन्देना पि परिहीयते वीर्ये णापिस्मृत्या समाधिना प्रज्ञया विमुक्त्या विमुक्तिज्ञानदर्शनेना पि परिहीयते। इतीयं सप्ताकारा परिहाणिस्तथागतस्य नास्ति। पुनरपरमर्हन्नेकदा कुशले कायकर्मणि प्रवर्तते, एकदाऽव्याकृते। यथा कायकर्मण्येवं वाक्कर्मणि मनस्कर्मणि च। तथागतस्य त्रयाणामपि कर्मणां ज्ञान पूर्वगमत्वाज्ज्ञानानुपरिवर्तित्वाच्च नास्त्यव्याकृतं कर्म तत्र ज्ञानसमुत्थापनतामुपादाय ज्ञानपूर्वगमम्। ज्ञानसहचरतामुपादाय ज्ञानानुपरिवर्ति। पुनरपरमर्हन् त्रैयध्विकं ज्ञेयवस्तु न चाभोगमात्रात्प्रतिपद्यते येनास्य सक्तं ज्ञानदर्शनं भवति। न च सर्व प्रतिपद्यते येनास्य प्रतिहतं ज्ञानदर्शनं भवति। तथागतस्त्रैयध्विकमाभोगमात्रात् सर्व वस्तु प्रतिपद्यते। तस्मादेते अष्टादशावेणिका बुद्धधर्मा इत्युच्यन्ते। तत्रैषामाद्याः षट् असाधारणकायवाङ्मनस्कर्मपरिशुद्धिसमृद्धौ समाध्यादयः। तत्र नास्ति स्खलितमित्ययं कायकर्मपरिशुद्धिमारभ्य। नास्ति रवितमित्ययं वाक्कर्मपरशुद्धिमारभ्य। तत्र नास्ति मुषितस्मृतिः नास्त्यसमानितं चित्तं नास्ति नानात्वसंज्ञा नास्त्यप्रतिसंख्यायोपेक्षेत्येतच्चतुष्टयं मनस्कर्मपरिशुद्धिमधिकृत्य वेदितव्यम्। नास्ति छन्दपरिहाणिर्यावन्नास्ति विमुक्तिज्ञानदर्शनपरिहाणिरिति साश्रयाणां सफलानां तथागतेन्द्रियाणामप्राप्त्यपरिहाणिसमृद्धौ समाध्यादयः। तत्राश्रयश्छन्दः। फलं विमुक्तिर्विमुक्तिज्ञानदर्शनं च। इन्द्रियाणि वीर्यादीनि वेदितव्यानि। सर्व कायकर्म वाक्कर्म मनस्कर्म ज्ञानपूर्वगमं ज्ञानानुवर्तीत्येते त्रयोऽसाधारणकर्मचारसमृद्धौ समाध्यादयः। अतीते ऽध्वन्यसङ्गमप्रतिहतं ज्ञानं यावत्प्रत्युत्पन्नेऽध्वनीत्येते त्रयोऽसाधारणज्ञानविहारसमृद्धौ समाध्यादयः॥



स्कन्धधात्वायतनेषु सर्वाकारज्ञतासमृद्धाविति स्कन्धादीनां स्वभावविशेषलक्षणप्रभेदपर्यन्तज्ञाननिष्पत्तावित्यर्थः॥



तेषां पुनरभिनिर्हारो निश्रयतो ऽभिनिर्हारकपुद्गलतोऽभिनिर्हारोपायतश्च परिदीपितः। अभिनिर्हारोपायः पुनर्यथाव्यवस्थानं मनस्कारबहुलीकारता यथादेशनं समाहितस्य चित्तस्य पुनःपुनस्तत्र धारणमित्यर्थः। तद्यथाऽप्रमाणान्यभिनिर्हर्तुकामो मंत्रीसहगतेन चित्तेनावैरेणासपत्नेनेत्येवमादिकां देशनां ध्यानसंनिश्रयेण भावयन् मनसिकुर्वन् बहुलीकरोति, एवमभिज्ञादीनभि निर्हर्तुकाम एको भूत्वा बहुधा भवतीत्येवमादिकं व्यवस्थानं मनसिकुर्वन् बहुलीकरोतीति योजयितव्यम्॥



त एतेऽप्रमाणादयो गुणा द्विप्रकाराः। स्वकारित्रप्रत्युपस्थानाश्च यैरार्यो यथायोगं विपक्षप्रहाणादिकं कर्म करोति, वैहारिकाश्च यैः परमप्रशान्तनिर्विकल्पज्ञानसंगृहीतैरनालंबनाप्रमाणादिभिर्दृष्टे धर्मे सुखं विहरति॥



तत्राप्रमाणैविपक्षं प्रजहातीति यथाक्रमं व्यापादं विहिंसामरतिमनुनयप्रतिघौ च। एतानि च चत्वार्यप्रमाणान्यनुकम्पेत्युच्यते, एभिः सत्त्वार्थ प्रत्यनुगुणं प्रवर्तनात्। अतस्तैर्विहरमाणः सर्वसत्त्वेष्वनुकम्पाविहारितया पुण्यसंभारं परिपूरयति। अत एव सत्त्वपरिपाके च न परिखिद्य ते , सर्वसत्त्वानुकम्पित्वेन स्वात्मनिरपेक्षत्वात्॥



विमोक्षेषु द्वाभ्यां विमोक्षाभ्यां निर्माणकर्माभिनिर्हरति। तृतीयेन शुभे निर्माणे न संक्लिश्यते। चतुभिरार्य विमोक्षैः शान्तेषु मोक्षेषु न सज्जते। प्रश्चिमेन परमप्रशान्तेनार्यविहारेण विहरति। तथा तथाऽधिमोक्षार्थश्च विमोक्षो वेदितव्यः॥



अभिभ्वायतनादीनां कर्म पूर्ववत् तन्निर्देशानुसारेणैव योजयितव्यम्॥



अरणाया आदेयवचनो भवति, परचित्तानुरक्षणप्रधानतया यथानुरूपं वचनात्॥



प्रणिधिज्ञानेन बहुमतश्च भवति लोकस्य, सर्व जानातीति गौरवितत्वात्॥



प्रतिसंविद्भि र्देशनया सत्त्वचित्तानि संतोषयति, बहुविचित्रैः प्रकारैः संशयच्छेदनात्॥



ऋद्धिदिव्यश्रोत्रपरचित्तज्ञानपूर्वेनिवासच्युत्युपपादास्त्रवक्षयाभिज्ञाभिर्यथाक्रमं कायकर्मादिना शासने आवर्जयति। दिव्यश्रोत्राभिज्ञया सर्वरुतप्रकाराभ्युपपत्तितो वाक्कर्मणाऽऽवर्जनं वेदितव्यम्॥



आश्रयपरिशुद्धया यथाकाममाश्रयस्योपादानस्थान परित्यागानधिकृत्य संचिन्त्य भवोपपत्तिपरिग्रहणादीनि त्रीणि वेदितव्यानि। आलंबनपरिशुद्धया धर्मवशवर्ती भवति, चित्तपरिशुद्धया समाधिवशवर्ती, ज्ञानपरिशुद्धया सद्धर्म धारयति॥



बलेषु द्वाभ्यां बलाभ्यामभ्युदयमार्ग देशयति शेषैर्निःश्रेयसमार्गमे तावच्च बुद्धानां भगवतां करणीयम्। तत्र स्थानास्थानज्ञानबलेन भगवन्निर्हे तुकोऽभ्युदयः प्रकृतीश्वरादिहेतुको वेत्ये वमहेतुविषमहेतुवादं प्रतिक्षिपति। कर्मस्वकताज्ञानबलेन स्वयमकृतमपि कर्मागच्छतीत्येवमकृताभ्यागमवादं प्रतिक्षिपति, यतः सम्यगविपरीतं सुगतिमार्ग देशयति। ध्यानविमोक्षसमाधिसमापत्तिज्ञानबलेन सत्त्वानां चित्तचरितानि चेतः प्रचराननुप्रविशति। इन्द्रियपरापरज्ञानबलेन देशनाभाजनतां श्रद्धादीन्द्रियपरिपाकमनुप्रविशति। नानाधिमुक्तिज्ञानबलेनाशयं हीनप्रणीताधिमुक्तिकतामनुप्रविशति। नानाधातुज्ञानबलेनानुशयसमुद्घातनशक्यक्लेशतामनुप्रविशति। सर्वत्रगामिनीप्रतिपज्ज्ञानबलेनालंबनं श्रावकयानं महायानं वा देशनाधर्म संगृहीतधर्म मनुप्रविशति। पूर्वेनिवासानुस्मृतिज्ञानबलेन संभारं पूर्वजन्म समुदायगतमार्यमार्गहेतुमनुप्रविशति॥ च्युत्युपपादज्ञानबलेन भव्यता मायत्यामनुप्रविशति। आस्त्रवक्षयज्ञानबलेन निःसरणं च सर्वस्मात्त्रैधातुकाद नुप्रविशति यतो यथावन्मोक्षमार्ग देशयति॥



बलत्वं पुनरेषामेभिः स्कन्धक्लेशदेवपुत्रमरणमारनिग्रहणविशेषात्। विशेषः पुनर्ज्ञेयावरणप्रहाणेऽप्यनन्तरायकृतत्वात् , स्थानास्थाने यावदास्त्रवक्षय इति सर्वत्र प्रश्नं पृष्टस्य प्रश्नव्याकरणव्याघाताच्च॥



वैशारद्यैः परिषदि सम्यगात्मनः शास्तृत्वमात्मपरहितप्रतिपन्नत्वं व्यवस्थापयति। चोदकांश्चाभिसंबोधौ यावन्मार्गे तीर्थ्यान् सहधर्मेण निगृह्णाति॥



स्मृत्युपस्थानैरसंक्लिष्टो गणं परिकर्षति, शूश्रूषमाणादिष्वनुनयादिसंक्लेशाभावात्॥



अरक्ष्यैनिरन्तरं गणमववदति समनुशास्ति, स्वदोषाविर्भावना शंकयानुरक्ष्याभावात्॥



असंमोषधर्म तया बुद्धकृत्यं न हापयति, उपस्थिते सत्त्वार्थकृत्ये प्रमादेन क्षणमप्यलंघनात्॥



वासनास मुद्घातेन निःक्लेशः क्लेशप्रतिरूपां चेष्टां न दर्शयति यथाऽर्हन् भिक्षुः स्खलितादिकं दर्शयति॥



महाकरुणया षट्कृत्वा रात्रिंदिवसेन लोकं व्यवलोकयति, को हीयते कः परिहीयत इत्येवमादिभिः प्रकारैः प्रत्यवेक्षणात्॥



आवेणिकानां बुद्धधर्माणां कर्मासाधारणकायवाङ्मनस्कर्मपरिशुद्धिसमृद्धावित्येवमादिलक्षणनिर्देशाधिकारेण योजयितव्यम्॥



सर्वकारज्ञतया सर्वसत्त्वानां सर्वसंशयान् छिनत्ति, सर्वत्राव्याहतज्ञानत्वात्। धर्मनेत्रीं च दीर्घकालमवस्थापयति, तत्र तत्र विनेयसंशयच्छेदनार्थ देशितानां धर्मपर्यायाणां संगीतिकारैरनुक्रमेण संज्ञापनात्। धर्मनेत्रीं निस्त्रित्या परिपक्वाः सत्त्वाः परिपच्यन्ते परिपक्वाश्च विमुच्यन्ते॥



विशिष्टमार्ग लाभे हीनमार्गविहानिस्तद्यथा फलसंगृहीतमार्गलाभे प्रतिपन्नकमार्गो विहीन इत्युच्यते, पुनरसंमुखीकरणात्। सकलप्रहाणं च सा क्षात्करोति फलप्राप्तिकाले तु तद्विपक्षजातीयक्लेशप्रतिपक्ष दौष्ठुल्याशेषप्रहाणादाश्रयपरिवृत्तिविशेषलाभतः समवसर्गविहान्या विजहाती[त्य] त्यन्तासमुदाचारं विजहा[ती]त्यर्थः। नो तु बोधिसत्त्वस्तथा विजहाति, सर्वसत्त्व परिनिर्वाणाभिप्रायपूर्वकत्वात्तन्मार्गस्य। अत एव बोधिसत्त्वा अक्षयकुशलमूला अक्षयगुणा इत्युच्यन्ते तद्यथाऽक्षमिति[सूत्रे]ऽक्षयतानिर्दिष्टेति॥



शाश्वतो लोक अशाश्वत इत्येवमादिषु प्रश्नेष्वव्याकृतवस्तुव्यवस्थानमनर्थोपसंहितत्वेनायोनिशत्वात्। तेषां तेषां प्रश्नानां कीदृशः पुनः प्रश्नो ऽर्थोपसंहितः। तद्यथा चत्वार्यार्यसत्यान्या रभ्य यः प्रश्नः। तथाहि सहेतुफल संक्लेशव्यवदानचिन्तान्तर्भूत इति॥



बोधिसत्त्वस्य न्यामावक्रान्तावपि श्रोतापन्नत्वाव्यवस्थानम्, अप्रतिष्ठितमार्गप्रतिलम्भात् प्रतिश्रोतः प्रतिपत्त्यपरिनिष्पन्नतामुपादाय॥



ज्ञेयं षड्विधं - भ्रान्तिर्यावदभ्रान्तिनिष्यन्दश्च। तत्र भ्रान्तिर्ग्राह्यग्राहकाभिनिवेशः। भ्रान्त्याश्रयो यस्मिन्नार्यज्ञा नगोचरे संस्कारनिमित्तमात्रेऽभूतपरिकल्पात्मके सति बालानां सोऽभिनिवेशः प्रवर्तते। अभ्रान्त्याश्रयस्तथता, निर्विकल्पस्य ज्ञानस्य तदधिष्ठानत्वात्। भ्रान्त्यभ्रान्तिलोकोत्तरज्ञानानुकूलाः श्रुतमय्या दयः कुशला धर्माः, ज्ञेयविकल्पनान्नि र्विकल्पज्ञानानुकूल्याच्च। अभ्रान्तिर्निर्विकल्पज्ञानम्। अभ्रान्तिनिष्यन्द आर्यमार्गपृष्ठलब्धाः कुशला धर्माः॥



उपायकौशल्यं पुनश्चतुर्विधम्। सत्त्वपरिपाककौशल्यं चत्वारि संग्रहवस्तूनि, तैः संगृह्य कुशलेषु धर्मेषु नियोजनात्। बुद्धधर्मपरिपूरणकौशल्यं प्रज्ञापारमिता, दानपारमितां यावत् सर्वाकारवरज्ञतां परिपूरयितुकामेन बोधिसत्त्वेन महासत्त्वेनास्यामेव प्रज्ञापारमितायां शिक्षितव्यमिति वचनात्। क्षिप्राभिज्ञताकौशल्यं षट्कृत्वा रात्रिदिवसं पापप्रतिदेशना पुण्यानुमोदना बुद्धाध्येषणा कुशलमूलपरिणामना च यथाक्र[म]मार्यमैत्रेयपरिपृच्छायाम्। धर्मानुपच्छेदकौशल्यं चाप्रतिष्ठितनिर्वाणतया पुनःपनरनुप रतमत्यन्तं च समन्ताल्लोकधातुषु यथाविनेयं बुद्धबोधिसत्त्वचर्यासंदर्शनादिति॥



अभूतपरिकल्पो दशविधः। तत्र मूलविकल्प आलयविज्ञानम्, सर्वविकल्पानां वीजभूतत्वात्। निमित्तविकल्पो देहप्रतिष्ठाऽऽभोगप्रतिभासा विज्ञप्तयः, ग्राह्यनिमित्तभूतत्वात्। ताः पुनर्यथाक्रमं रूपीन्द्रिय भाजनलोकरूपादिविषयलक्षणा द्रष्टव्याः। निमित्तप्रतिभासस्य विकल्पः षड्विज्ञानकायाः मनश्च, यथोक्तग्राह्यनिमित्ताकारत्वात्। निमित्तविकारविकल्पो यथोक्तदेहादिनिमित्तस्यान्यथात्वेनोत्पादः। निमित्तप्रतिभासविकार विकल्पो यथोक्तस्य चक्षर्विज्ञानादिनिमित्तप्रतिभासस्य सुखाद्यवस्थान्तरेणोत्पादः। परोपनीतो विकल्पो देशनासंगृहीतनामपदव्यञ्जनकायलक्षणः। स पुनर्द्विविधः - दुराख्यातधर्मविनयात्मकः स्वाख्याधर्मविनयात्मकश्च। अतस्तदधिपतेयमनस्कारसंगृहीतौ यथाक्रमं योनिशोविकल्पो ऽयोनिशोविकल्पश्च वेदितव्यः। अभिनिवेशविकल्पोऽयोनिशो विकल्पाद्वा वष्टिदृष्टिगतसंगृहीतो यो विकल्पः। वि क्षेपविकल्पः योनिशो विकल्पादभावादिग्राहलक्षणो यो विकल्पः॥



स पुनर्दशविधः - अभावविकल्पः यावद्यथार्थनामविकल्पश्च। स एष दशविधो विकल्पः प्रज्ञापारमिताऽऽदिनिर्देशमधिकृत्य वेदितव्यः। यथोक्तम् इह शारिपुत्र बोधिसत्त्वो बोधिसत्त्व एव सन् बोधिसत्त्वं न समनुपश्यति। बोधिसत्त्वनाम न समनुपश्यति। प्रज्ञापारमितां न समनुपश्यति। बोधि न समनुपश्यति। चरतीति न समनुपश्यति। न चरतीति न समनुपश्यति। तथाहि नाम स्वभावेन शून्यं न शून्यतया, रूपं स्वभावेन शून्यं न शून्यतया यावद्विज्ञानं स्वभावेन शून्यं न शून्यतया। तत्कस्य हेतोः। या रूपस्य शून्यता न तद्रूपम्, नाप्यन्यत्र, रूपाच्छन्यता, रूपमेव शून्यताः , शून्यतैव रूपम्, एवं यावद्विज्ञानम्। तत्कस्य हेतोः। नाममात्रमिदं यदुत बोधिसत्त्वनामेति बोधिसत्त्व इति प्रज्ञापारमितेति बोधिरिति रूपमिति यावद्विज्ञानमिति। स्वभावस्य हि नोत्पादो न निरोधो न संक्लेशो न व्यवदानम्। प्रज्ञापारमितायां चरन् बोधिसत्त्व उत्पादमपि न समनुपश्यति यावद्वयवदानमपि न समनुपश्यति। तत्कस्य हेतोः। कृत्रिमं नाम प्रति प्रति ते धर्माः कल्पिता आगन्तुकेन नाम्नाऽनुव्यवह्रियन्ते। [यथा यथाऽनुव्यवह्रियन्ते] तथा तथाभिनिविशन्ति। तानि बोधिसत्त्वः सर्वनामानि न समनुपश्यति , असमनुपश्यन्नाभिनिविशते। तत्र अभावविकल्पप्रतिपक्षेणाह - बोधिसत्त्वो बोधिसत्त्व एव सन्नित्येवमादि, सच्छब्दस्य भावार्थत्वात्। भावविकल्पप्रतिपक्षेणाह - बोधिसत्त्वं न समनुपश्यति यावद्वयवदानमपि न समनुपश्यति यावन्न चरतीति न समनुपश्यति पुद्गलधर्मभावप्रतिषेधात्। समारोपविकल्पप्रतिपक्षेणाहतथाहि नाम स्वभावेन शन्यमिति, अभूतपरिकल्पस्य स्वभावप्रतिषेधात्। अपवादविकल्पप्रतिपक्षेणाह - न शून्यतयेति, तस्मिन्नाम्नि तेन परिकल्पितेन परिकल्पित स्वभावेन विरहिततायाः सर्वदास्तित्वात्। एकत्वविकल्पप्रति पक्षैणाह - या रूपस्य शून्यता न तद्रूपं यावद्विज्ञानमिति , भावान्तरत्वात्। रूपादयो हि परिकल्पितः स्वभावः शून्यता परिनिष्पन्न इति। पृथकत्व विकल्पप्रतिपक्षेणाह - नाप्यन्यत्र रूपाच्छून्यताया रूपम्, यावच्छन्यतैव विज्ञानमिति, परिकल्पितस्वभावस्या लक्षणत्वात्तद्व्यतिरेकेण तद्भा वासंभवतः। स्वभावविकल्पप्रतिपक्षेणाह - नाममात्रमिदं यदुत रूपमिति यावद्विज्ञानमिति, अभिलापव्यतिरेकेणाभिलाप्यस्वभावाभावात्। विशेषविकल्पप्रतिपक्षेणाह -स्वभावस्य नोत्पादो यावद्वयवदानमपि न समनुपश्यतीति, उत्पादादिविशेषलक्षणप्रतिषेधात्। यथानामार्थविकल्पप्रतिपक्षेणाह - कृत्रिमं नाम प्रति प्रति ते धर्माः कल्पिता आगन्तुकेन नाम्ना व्यवह्रियन्ते इत्येवमादि। यथार्थनामविकल्पप्रतिपक्षेणाह - तानि बोधिसत्त्वः सर्वनामानि न समनु पश्यन्नाभिनिविशत इति , यथार्थ नाम्नामदर्शना[न]भिनिवेशात्॥



निर्विकल्पनात् त्रिधा संतुष्टिनिर्विकल्पनादि भिः। तत्र पृथग्जना यदि [अ] नित्यतादिकां कांचिदेवधर्मतामारभ्य चित्तपर्यवसानं नीत्वा लब्धपरितोषा भवन्त्येव मेतदिति निश्चिन्वन्तः सा तेषां संतुष्टिनिर्विकल्पतेत्युच्यते, तत्र सर्वतर्काख्यविकल्पोपर तेः। श्रावकाः स्कन्धेषु नित्या दिविपर्यासप्रतिपक्षेण यथावद्रूपादिकं धर्मधातुं परीक्षमाणा लोकोत्तरेण ज्ञानेन नैरात्म्यं प्रतिविध्यन्त्यतः सा तेषामविपर्यासनिर्विकल्पतेत्युच्यते। बोधिसत्त्वास्तदपि रूपादिधर्ममात्रं प्रपञ्च इति विदित्वा सर्वधर्मनिमित्तानि विभावयन्तः परमशान्तेन लोकोत्तरेण ज्ञानेन सर्वत्रगां तथतां प्रतिविध्यन्त्यतः सा तेषां निष्प्रपञ्चनिर्विकल्पतेत्युच्यते। कथं पुनरसौ निष्प्रपञ्चनिर्विकल्पतेत्युच्यते। यद्यमनस्कारतस्तेन सुप्तमत्तादीनां निर्विकल्पताप्रसङ्गः, तेषां धर्मनिमित्तामनस्कारात्। अथ समतिक्रमतस्तेन द्वितीयध्यानात् प्रभृति सर्वत्र निर्विकल्पता प्राप्नोति, [वि] तर्कविचारविकल्पानां समतिक्रमात्, ततश्च विकल्पस्य शरीरं हि चित्तचैत्ताः त्रैधातुका इत्यस्य विरोधः। अथ व्युपशमतस्तेन संज्ञावेदितनिरोधसमापत्तिर्निविकल्पता प्राप्नोति, तत्र चित्तचैतविकल्पव्युपशमात्, ततश्च ज्ञानाभावः प्रसज्यते। अथ स्वभावतस्तेन रूपं निर्विकल्पता प्राप्नोति, तस्याविकल्पस्वभावत्वात्। अथालंबनेऽभिसंस्कार स्तेन सविकल्पतैव निर्विकल्पता प्राप्नोति, निर्विकल्पमेतदित्येतस्याभिसंस्कारस्य निमित्तविकल्पलक्षणत्वात्। तस्मान्नैभिः प्रकारैः निर्विकल्पता द्रष्टव्या। अपि त्वालंबनेऽनभिसंस्कारताद्रष्टव्या। कथं कृत्वा। यदा ह्यस्य बोधिसत्त्वस्यानुलोमिकमववादमागम्य प्रकृत्या सर्वधर्मनिमित्तान्यपरिनिष्पन्नानीति विचारयतस्तद्विचारणाभ्यासबलाधानात् प्रत्यात्ममनभिसंस्कारेणैव यथावन्निष्प्रपञ्चधातौ सर्वधर्मत थतायां चित्तं समाधीयते साऽसावुच्यते निष्प्रपञ्च निर्विकल्पतेति॥



प्रकृत्या तीक्ष्णेन्द्रियो बोधिसत्त्व इत्युक्तं प्राक्कथं तेन कालेन कालमिन्द्रियाण्युतापयितव्यानीत्युच्यते। स्वजातीयानां मृद्वादित्रैविध्यादुत्तरोत्तराभिनिर्हारतस्तदुत्ताप नं वेदितव्यम्। अन्यथा तीक्ष्णेन्द्रियगोत्राणामिन्द्रियाणामैकविध्ये सति बोधिसत्त्वानामिन्द्रियकृतो विशेषो नैवोपलभ्यते। स चोपलभ्यत इति॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project