Digital Sanskrit Buddhist Canon

धर्मविनिश्चयो नाम तृतीयः समुच्चयः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
धर्मविनिश्चयो नाम तृतीयः समुच्चयः



धर्मविनिश्चये धर्मो द्वादशाङ्गं वचोगतम्॥



तत्र सूत्रं यदभिप्रेतार्थसूचनाकारेण गद्यभाषितम्। किं पुनः कारणं तथागतस्तमभिप्रेतमर्थ विवृत्यैव न देशयतीत्याह दशानुशंसान् संपश्यंस्तथागतः सूचनाकारेण धर्म देशयति। सुखं व्यवस्थापयति, दैशिकैर्हि, बहुधा व्यवस्थाप्य प्रापणीयस्यार्थस्य, संक्षिप्याकृच्छ्रेण व्यवस्थापनात्। सुखं देशयति, अल्पेन महतोऽर्थविस्तरस्य प्रत्यायनात्, तद्यथा स्थापयति संस्थापयतीत्येवमादि। श्रोताऽपि सुखमुद्गृह्णाति। धर्मगौरवतया क्षिप्रं संभारान् परिपूरयति, भावगम्योऽयं धर्म इत्यवगम्य जातास्थस्य तस्मिन् धर्मे आदरमुखेन श्रद्धादिसंभारपरिपूरणात्। आशु धर्मतां प्रतिविध्यति, तथादरप्रयोगिणः प्रज्ञायाः तैक्ष्णीभावात्। रत्नेष्ववेत्य प्रसादं प्रतिलभते, देशनायाः सुव्यवस्थितभावगमेन दैशिकादिष्वभिप्रसादोत्पादात्। परमदृष्टधर्मसुखविहारं स्पृशति, अभिप्रायार्थ तीव्रेण योगेन चिन्तयित्वा लब्धवतः प्रामोद्यविशेषाधिगमात्। सांक थ्यविनिश्चयेन सतां चित्तमाराधयति, गूढार्थविवरणात्, अत एव पण्डितः पण्डित इति संख्यां गच्छति, यशोऽस्य समन्तान्निश्चरतीत्यर्थः। उभयं चैतत्पश्चिमसभिसमयैकोऽनुशंसो द्रष्टव्यः॥



नीतार्थ सूत्रं व्याकरणम् तेन विवृत्याभिसंधिव्याकरणात्॥



उदानं यदात्तमनस्केनोदाहृतम् तद्यथा यदा इमे प्रादुर्भवन्ति धर्मा इत्येवमादि॥



निदानं यत्किंचिदेव पुद्गलमुद्दिश्य भाषितं सोत्पत्तिकशिक्षा प्रज्ञप्तिकभाषितं वा, तद्यथास्मिन्निदानेऽस्मिन् प्रकरण इति विस्तरः॥



अवदानं सदृष्टान्तकं भाषितम् , तेनार्थव्यवदानादभिव्यञ्जनादित्यर्थः॥



वैपुल्यं वैदल्यं वैतुल्यमित्येते महायानस्य पर्यायाः, तदेतत्सप्तविधमहत्त्वयोगान्महत्त्वयानमित्युच्यते। सप्तविधं महत्वम् -- आलंबनमहत्त्वं शतसाहस्त्रिकादिसूत्रापरिमितदेशनाधर्मा लंबनाद्बोधिसत्त्वमार्गस्य। प्रतिपत्तिमहत्त्वं सकलस्वपरार्थ प्रतिपत्तेः। ज्ञानमहत्वं पुद्गलधर्मनैरात्म्यज्ञानात्। वीर्यमहत्वं त्रिषु महाकल्पासंख्येयेष्वनेकदुष्करशतसहस्त्रप्रयोगात्। उपायकौशल्यमहत्त्वं संसारनिर्वाणाप्रतिष्ठानात्। प्राप्तिमहत्वं वलवैशारद्यावेणिकबुद्धधर्माद्यप्रमेयासंख्येयगुणाधिगमात्। कर्ममहत्वं यावत्संसारबोध्यादिसन्दर्शनेन बुद्धकार्यानुष्ठानादिति॥



उपदेशो यत्राविपरीतेन धर्म लक्षणेन सूत्रादीनामर्थनिर्देशः।



निदानं सोत्पत्तिकशिक्षाप्रज्ञप्तिभाषितसंगृहीतं विनयपिटकम्, अवदाना दिकं तस्य परिवारो वेदितव्यः। अद्भुतधर्माणां बोधिसत्त्वसूत्रपिटके संग्रहणम्, तेषां विशेषेणाचिन्त्योदारप्रभावविशेषयोगात्। उपदेश उभयत्र श्रावकयाने महायाने चाभिधर्मपिटकम्॥



सूत्रपिटकव्यवस्थानं विचिकित्सोपक्लेशप्रतिपक्षेण विनेयानामुत्पन्नानुत्पन्न संशयच्छेदाधिकारेण सूत्रगेयादि देशनात्। विनयपिटक व्यवस्थानमन्तद्वयानुयोगोपक्लेशप्रतिपक्षेण, संनिधिकारपरिभोगादिप्रतिक्षेपात् शत साहस्त्रकवस्त्रानुज्ञानाच्च। अन्तद्वयं पुनः कामसुखल्लिकान्त आत्मक्लेमथान्तश्च। अभिधर्म व्यवस्थानं स्वयंदृष्टिपरामर्शोपक्लेशप्रतिपक्षेण, तत्र विस्तरेण धर्मलक्षणस्थापनात्॥



पुनः सूत्रपिटकं निश्रित्य विनेयाः शिक्षात्रये व्युत्पद्यन्ते, तत्र तस्य विस्तरेणोद्भावितत्वात्। विनयं निश्रित्याधिशीलमधिचित्तं शिक्षां निष्पादयन्ति, तत्र प्रातिमोक्षसंवरशिक्षामार्गोपदेशनिश्रयेण शीलपरिशोधनात्तत्परिशुद्धिकृताविप्रतिसाराद्यानुपूर्व्या च चित्तसमाधानात्। अभिधर्मनिश्रित्याधिप्रज्ञं शिक्षां निष्पादयन्ति, तत्र विस्तरेण धर्मप्रविचयोपायोपदेशादिति अतोऽपि पिटकत्रयव्यवस्थानम्॥



पुनः सूत्रपिटकं निश्रित्य ग्रन्थार्थव्युत्पत्तिः। विनयं निश्रित्य तदुभयसाक्षात्क्रिया, शिक्षाप्रतिपत्तिप्रभावि[त] त्वा - द्विनयस्य। ततो धर्मार्थयोः साक्षात्क्रियायाः पदस्थानमित्युच्यते आश्रयार्थेन। अभिधर्म निश्रित्य परस्परं सांकथ्यविनिश्चयकृतेन धर्मसंभोगेन स्पर्शविहारो भवति, तत्र बहुप्रकारं धर्माणां स्व लक्षणादिधर्मताया व्युत्पादनात्॥



एतान्येव त्रीणि पिटकानि चतुरशीतिधर्मस्कन्धसहस्त्राणि भवन्ति, श्रावकयानाधिकारेण यानि स्थविरानन्देनोद्गृहीतानि॥ किं पुनरेकस्य धर्मस्कन्ध[स्य] परिमाणम्। दशशतसंख्यो धर्मस्कन्धः सहस्त्रसंख्य इत्यर्थः। यद्येवं सहस्त्रसंख्य इत्येवं कि नोच्यते। साहस्त्रिकैकस्कन्धव्यवस्थाने प्रयोजनज्ञापनार्थम्। तथाह्येकादिवृद्धया दशसंख्या शतसंख्या सहस्त्रादिसंख्याः। तद्दशशतसंख्या उपनिषदो द्रष्टव्याः। तद्यथा दश शतानि सहस्त्रम्, शतं सहस्त्राणां शतसहस्त्रम्, शतं शतसहस्त्राणां कोटिरित्येवं सर्वासूत्तरासु संख्यास्ववश्यमनयोः दशशतसंख्ययो रन्यतरोपनिषद्भवति। अत एते एव समस्य दशशतान्येको धर्मस्कन्धो व्यवस्थाप्यते। अनया च गणनया चतुरशीतिधर्म स्कन्धसहस्त्राण्यष्टौ कोट्यः चत्वारिशच्च लक्षा भवन्ति॥



स एष पिटकत्रयसंगृहीतो धर्मः कस्य गोचरः। श्रुतमयादीनां चित्तचैतसिकानां गोचर आलंबनमित्यर्थः।



एतत्प्रसंगेन सालंबनादिलक्षणानां चित्तचैतसिकानां धर्ममारभ्यालंवनादिकं व्यवस्थाप्यते। तत्र धर्मे तेषां किमालंबनम्। सूत्रादि नामपदव्यञ्जनकायसंगृहीता सूत्रादिदेशनेत्यर्थः। आकारः, यान् स्कन्धादीनर्थ प्रकारानारभ्य सा देशना, तदाकारास्ते चित्तचैतसिका वेदितव्याः। आश्रयः पर विज्ञप्तिस्मृतिर्वासना च। तत्र देशनाकाले परविज्ञप्तिराश्रयो योऽसावुच्यते परतो घोषत इति तत उत्तरकालं स्मृतिराश्रयो यथाश्रुतमनुस्मृत्याभ्यसनात्। तत उत्तरकालं वासनाऽऽश्रयस्तदनुस्मृतिमन्तरेणापि पश्चादभ्यासभावना बलेन प्रतिभासनादिति। संप्रयोगः चित्तचैतसिकानामन्योन्यसहायभावेन सूत्राद्यालंबने स्कन्धादिप्रतिसंयुक्तार्थाकारैः संप्रतिपत्तिः॥



धर्मे आलंबन प्रभेदो व्याप्यालंबनादिकश्चतुर्विधः।



व्याप्यालंबनं पुनः सविकल्पप्रतिबिम्बादिभेदेन चतुर्बिधम्। तत्र अधिमुक्तिमनस्कार एकान्तलौकिको यो मनस्कारः। तत्त्वमनस्कारो लोकोत्तरस्तत्पृष्ठलब्धश्च। यावद्भाविकतया धर्माणामेतावन्ति सर्वधर्मवस्तुनि यज्ज्ञेयव्यवस्थानम् तद्यथा स्कन्धधात्वायतनानि। यथावद्भाविकतया एभिः प्रकारैः सुज्ञेयमिति। तद्यथा सत्यमुखेन तान्येव स्कन्धधात्वायतनानि यथासंभवं दुःखतोज्ञेयानि यावन्मार्गतः। आकारमुखेनैकैकं सत्यं चतुर्भिराकारैर्ज्ञेयम्, अविशेषतश्च सर्वाणि तथताकारेण। धर्मोद्दानाधिकारेण वाऽनित्यतः सर्वसंस्कारा ज्ञेया यावच्छान्ततो निर्वाणम्। विमोक्षाधिकारेण वा शून्यतो यावदनिमित्त[त] इति॥ कार्यपरिनिष्पत्तिराश्रयपरिनिष्पत्तिः, परिनिवृत्ताश्रयस्याविपरीतालंबनसंप्रख्यानात्। यथावद्भाविकताया निर्दशे षोडशप्रकारा उक्तास्त्रयश्च विमोक्षाकाराः तेषां चान्योन्यसंग्रहः। कथ कृत्वा। षो डशानामाकाराणां द्वौ शून्यताकारौ - शून्याकाराऽनात्माकारश्च। षडप्रणिहिताकाराः - अनित्याकारा दुःखाकारो हेतुसमुदयप्रभवप्रत्ययाकाराश्च, तैस्त्रैधातुकेऽप्रणिधानात्। अष्टाविनिमित्ताकाराः शेषाः निरोधमार्गयोर्निमित्तोकर्तुमशक्यत्वात्॥



चरितविशोधनमालंबनं रागचरितादीनामशुभादि, तेनोत्सदरागाद्युपशमनात्॥



अविद्यादयो धर्माः संस्कारादीन्धर्मानभिष्यन्दयन्ति, न ह्येषां निर्हेतुक उत्पादो नापीश्वरादिविषमहेतुक इति यज्ज्ञानमिदं प्रतीत्यसमुत्पाद कौशल्यम्। धर्ममात्रहेतुकत्वेऽपि सत्यनुरूपाद्धेतोरनुरूपस्यैव फलस्योत्पत्तिः, तद्यथा सुचरितस्येष्टो विपाको दुश्चरितस्यानिष्ट इत्येवमादि यज्ज्ञानमिदं स्थानास्थानकौशल्यं वेदितव्यम्॥



क्लेशविशोधनमालंबनं लौकिकमार्गाधिकारेणाध‍ऊर्ध्वभूमीनामौदारिकशान्तता, तेन पर्यवस्थानविष्कम्भणात्। लोकोत्तरमार्गाधिकारेण समासतस्तथता, व्यासेन चत्वार्यार्यसत्यानि, तेनानुशयसमुद्घातात्॥



सूत्रादिधर्मविचाराणां संब्नधेन चतस्त्रो युक्तयो वर्ण्यन्ते, ताभिस्तद्विचारणात्॥ तत्र अपेक्षायुक्तिर्या संस्काराणामुत्पत्तौ प्रत्ययापेक्षा, तद्यथाङ्कुरस्योत्पत्तौ वीजो दकक्षेत्राण्यपेक्ष्यन्ते, विज्ञानस्येन्द्रियार्थमनस्कारा इत्येवमादि। कार्य कारणयुक्तिस्तद्यथा चक्षुरादीनां चक्षुर्विज्ञानाद्याश्रयभावः रूपादीनामालंबनभावः, चक्षुर्विज्ञानादीनां रूपादिप्रतिविज्ञापनम्, सुवर्णकारादीनां च शिल्पिनां सुवर्णादिघटनमित्येवमादि। उपपत्तिसाधनयुक्तिस्वभावविशेषसंगृहीतस्य साध्यस्यार्थस्य प्रत्यक्षादि प्रमाणाविरुद्धः प्रतिज्ञाद्युपदेशः। धर्मतायुक्तिस्तद्यथाग्निना दाहः, उदकेन क्लेद इत्येवमादिका प्रसिद्धा धर्माणां धर्मता। यथोक्तं चक्षुः समृद्धं शून्यं नित्येन यावदात्मीयेन। तत्कस्य हेतोः। प्रकृतिरस्यैषेति॥



नामपर्येषणा नामकायादीनां प्रज्ञप्ति सत्त्वादपरिनिष्पन्नमेषां स्वलक्षण मिति या विचारणा। वस्तुपर्येषणा स्कन्धादीनां तथा ऽपरिनिष्पत्तिर्यथा नामकायादिभिरभिलप्यन्त इति या संतीरणा परीक्षणेत्यर्थः। स्वभावप्रज्ञप्तिपर्येषणा याऽभिधानाभिधेयसंबन्धे स्वभावप्रज्ञप्तिमात्रस्य व्यवहारनिमित्तत्वेन संतीरणा। अभिधानाभिधेयसंबन्धः। पुनरन्योन्य संप्रत्ययनिमित्तत्वम्। तथाहि व्युत्पन्नव्यवहारस्याभिधानमात्रं श्रुत्वा तदभिधेये संप्रत्यय उत्पद्यते स्मृतिमुखेन, अभिधेयं वा पुनरुपलभ्य तदभिधाने। इत्येवंविधे संबन्धे प्रसिद्धे चक्षुरित्येवमादिस्वलक्षणप्रज्ञप्तिमात्रं तदाख्यामासपिण्डादिव्यवहारस्य निमित्तं भवतीति या परीक्षेयमुच्यते स्वभावप्रज्ञप्तिपर्येषणा। विशेषप्रज्ञप्तिपर्येषणा या तथैवाभिधानाभिधेय संबन्धे नित्यानित्योत्त रानुत्तररूप्यसनिदर्शनानिदर्शनता दि विशेष लक्षणप्रज्ञप्तिमात्रस्य व्यवहारनिमित्तता संतीरणा॥



चत्वारि यथाभूतपरिज्ञाना नि यथापर्येषितानि नामाद्यनुपलब्धिज्ञानानि॥



समाधिप्रयुक्तस्य यो गभूमिः पञ्चाकाराऽऽधारादिः। तत्र आधारो यादृशं बाहुश्रुत्यं शमथविपश्यनयोः प्रतिष्ठा भवत्यालंबनयोगेन तदाधार इत्युच्यते। तत्पुनः संभृत संभारस्य सत्याभिसमयमधिकृत्योद्गृहीतं यत्सूत्रादिकं श्रुतम्। आधानं तदालंबनो योनिशोमनस्कारः , तेन तस्मिन् बाहुश्रुत्येऽविपरीतार्थ चित्ताकारेण चित्ताकरणात्। आदर्शस्तद्बाहुश्रुत्यालंबनः सहनिमित्तेन समाधिः , ज्ञेयवस्तुसभागप्रतिबिम्बाकार इत्यर्थः । आ दर्शत्वं पुनरस्य तेन ज्ञेयबिम्बपरीक्षणाद्वेदितव्यम्। आलोको ग्राह्यग्राहकानुपलब्धिज्ञानं दर्शनमार्गसंगृहीतं प्रत्यक्षवृत्तित्वादिति। कथं च पुनः बोधिसत्त्व एकस्यां यौगभूमौ प्रयुक्तो नोपलम्भं स्पृशति संभृतपुण्यज्ञान संभारो बोधिसत्त्वः कल्पासंख्येयनिर्यातस्तथाप्रतिवेधानुकूलं श्रुतं योनिशोमनसि कुर्बन् समाधि निष्पादयति। स एवं समाहिते चित्ते यज्ज्ञेयप्रतिबिम्बं, निश्रित्य ध्यायति तत्त स्मात्समाहिता च्चित्तादनन्यदिति संपर्श्यं स्तस्मिन् प्रतिबिम्बे विषयसंज्ञां व्यावर्त्य तदाकार स्वसंज्ञामात्रमवधारयति। तदा चासौ स्वचित्तमात्रावस्थानादध्यात्म स्थितचित्तो भवन् सर्वथा ग्राह्यभावं प्रतिवेदयते। ततश्च ग्राह्याभावाद्ग्राहकमपि न परिनिष्पन्नमिति तस्याप्यभावं परिवेदयते। ततः प्रत्यात्मं तदुभयस्वभावोपलम्भापगतमनुपलम्भमधिगच्छति। एतदेव चाधिकृत्योक्तं भगवता प्रतिबिम्बं मनः पश्यन्नि ति विस्तरः। आश्रयः आश्रयपरिवृत्तिः, दौष्ठुल्यापगमात्परिशुद्ध आश्रय इत्यर्थः। सा चेयं योगभूमिर्हेतुतः फलतश्च निर्दिष्टा वेदितव्या। तत्राधारादिभिश्चतुर्भिर्हेतुनिर्देशः पश्चिमेनैकेन फलनिर्देश इति॥



यदुक्तं स्थविरानन्देन - पञ्चभिरायुष्मञ्छारिपुत्र धर्मैः समन्वागतो भिक्षुर्लघु च गृह्णाती त्यत्र सूत्रे तैरेव पञ्चभिर्धर्मैर्लघुग्रहणादीनि चत्वारि यथायोगं वेदितव्यानि। चत्वारि कथं कृत्वा। धर्मकुशलो लघु गृह्णाति बाहुश्रुत्यात्प्रायेण भिन्न पदव्यञ्जनतया। अर्थकुशलो बहु गृह्णाति, अभिधर्मादिलक्षणज्ञत्वात्, स्कन्धधात्वादिकथावस्त्वधिकारेण प्रभूतग्रन्थसंकलनतः। व्यञ्जनकुशलो निरुक्तिकुलश्च सूद्गृहीतं गृह्णाति , सुनिरुक्त व्यञ्जन ज्ञ त्वादात्मात्मेति जनपदनिरुक्तिमनभिनिविश्यानुव्यवहारज्ञ त्वाच्च ग्रन्थार्थयोरविपरोतग्रहणतः। पूर्वान्तापरान्तानुसंधिकुशल उद्गृहीतं न नाशयति, पूर्वमुद्गहीतान्धर्मान्निश्रित्य पश्चान्निः सर्तव्यमिति बुद्धा भिसंधिज्ञ त्वादधिगमेन तत्सारादानतः॥



धर्मविहारी भिक्षुर्धर्मविहारि भिक्षुरिति भदन्तोच्यत इत्यत्र सूत्रे भगवता समस्तेन श्रुतचिन्ताभावनाविहारेण धर्मविहारो भवति, नान्यतरप्रयोगमात्रेणेति संदर्शितम्। तत्र पर्याप्तिस्वाध्याय देशनाबहुला वितर्कणा बहुलाश्चेत्यनेन केवलं श्रुतचिन्ताप्रयुक्ता न भावनाप्रयुक्ता योगादिरिञ्चनादतो[न] धर्मविहारिणो व्यवस्थाप्यन्ते। योऽपि कश्चिच्छ्रुतचिन्तामनागम्य केवलं भावनाप्रयुक्तः स्यात्सोऽपि न धर्मविहारी व्यवस्थाप्यते। तत एव तावद्धर्मविहारिणं भिक्षुमारभ्य इह तु भिक्षुर्द्धर्म पर्याप्नोति सूत्रं गेयमिति विस्तरेणोक्त्वा पश्चादाह न रिञ्चति योगमित्येवमादि, यथा विज्ञायेत श्रुतं चिन्तां भावनां चागम्य तदुभयविहारेण धर्मविहारीति। न रिञ्चति यागमित्येवमादिना समाधिप्रयोगासंतुष्टिभ्यां भावनामयं संदर्शितम्। समाधि प्रयोगः पुनद्विविधः संदर्शितः सातत्यसत्कृत्यप्रयोगसंगृहीतश्च न रिञ्चति योगमित्यनेन, अविपरीत[प्र]योगसंगृहीतश्च न रिञ्चति मनस्कारमित्यनेन। असंतुष्टिर्न रिञ्चत्यध्यात्मचेतः शमथमित्यनेन संदर्शिता, तदनास्वादनादुत्तरशमथप्रयोगाच्चास्यारिञ्चनं वेदितव्यम्॥



केन कारणेन वैपुल्यं सूत्रान्तरे बोधिसत्त्वपारमितापिटकमित्युच्यते। तत्र पारमितानां संख्यानिर्देशाद्यावदन्योन्यविनिश्चयनाच्च॥



तत्र संख्या द्विविधा, गणनासंख्या तन्मात्रसंख्या च। षट्पारमिता इति गणनासंख्या। सर्वाकारयोर्वोधिसत्त्वाभ्युदय निःश्रेयसमार्गयोस्तिसृभिस्तिसृभिश्च संग्रहात् षडेवपारमिता न भूयस्यो नाल्पोयस्य इतीयं तन्मात्रसंख्या॥



त्रिविधोऽभ्युदयो महाभोगता महात्मता महापक्षता च। तत्र दानपार मिताया महाभोगता फलम्। शीलपारमिताया महात्मता फलम्, शीलेन सुगता त्मभावसंपत्तिप्रतिलम्भात्। क्षान्तिपारमिताया महापक्षता फलम्, क्षान्त्या सर्वजनाभिगमनोयताप्रतिलम्भादिति॥



त्रिविधो निःश्रेयसमार्गः - क्लेशमभिभूय कुशलपक्षप्रयोगोपायः , सत्त्वपरिपाचनोपायः, बुद्धधर्मसमुदानयनोपायश्च , एषामन्यतरेणापि विना बोधि सत्त्वस्य निःश्रेयसानुपपत्तेः। तत्र सत्त्वपरिपाचनोपायो ध्यानपारमिता, तत्संनिश्रयेणाभिज्ञाभिः सत्त्वपरिपाचनात्॥



पुनरप्रतिष्ठितनिर्वाणोपायतः षडेव पारमिताः। बोधिसत्त्वेन हि निर्वाणप्रतिष्ठाविपर्ययेण संसारेऽभ्युदयः परिग्रहीतव्यः। संसारप्रतिष्ठाविपर्ययेण तस्मिन्नसंक्लेष्टव्यम्। अतस्तिस्त्रोऽभ्युदयलाभोपायास्तिस्त्रस्तदसंक्लेशोपाया यथायोगं पूर्वानुसारेणैव वेदितव्याः। असंक्लेशोपाये तु वीर्येण प्रतिपक्षभावना, ध्यानेन क्लेशविष्कम्भणम्, प्रज्ञया क्लेशा नुशयसमुद्‍घात इति॥



सर्वानुग्रहतां क्लेशप्रतिपक्षतां चोपा[दा]त्यपरः पर्यायः। तत्र दानेन बोधिसत्त्वः सत्त्वानुपकरणोपसंहारानुग्रहेणानुगृह्णाति। शीलेन विघातोत्पीडाविहेठाऽकरणेनानुगृह्णाति , यथाक्रमं भोगकायचित्तो पघातानुपसंहारात्। क्षान्त्या विघातोत्पीडाविहेठामर्षणेनानुगृह्णाति, परेभ्य आत्मनो भोगाद्युपघातसहनात्। आभिस्तिसृभिरनुगृह्णाति॥ वीर्येणाविष्कम्भितक्लेशोऽपि कुशलपक्षे प्रयुज्यते। ध्यानेन क्लेशं विष्कम्भयति। प्रज्ञयानुशयं समुद्घातयति। इमास्तिस्त्रः क्लेशप्रतिपक्षा वेदितव्या॥



तत्र पारमितालक्षणम्। बोधिसत्त्वस्य दानपारमिता कतमा। यद्बोधिसत्त्वस्य बोधिसत्त्वधर्मतायां व्यवस्थितस्य बोधिचित्तं निश्रित्य करुणापुरः - सरेण चेतसा सर्वास्तिपरित्यागे का यवाङ्मनस्कर्म। एवं च कृत्वा दानपारमितायाः लक्षणं गोत्रतः प्रणिधानत आशयतो वस्तुतः स्वभावतश्च निर्दिष्टं वेदितव्यम्। तद्यथा बोधिसत्त्वधर्मता गोत्रम्, बोधिचित्तं प्रणिधानम्, करुणापुरःसरं चेत आशयः, सर्वास्तिपरित्यागो वस्तु, कायवाङ्मनस्कर्म स्वभाव इत्येवं यावत् प्रज्ञापारमिता विस्तरेण वेदितव्याः। अयं तु विशेषः। श लक्षान्तिवीर्यपारमितासु यथाक्रमं सर्वसंवरसमादानानुरक्षायां सर्वा पकारदुःखमर्षणाधिवासनायां सर्वकुशलधर्मसमुदानयनतायां यत्कायवाङ्मनस्कर्मेति वेदितव्यम्। ध्यानपारमितायां सर्वाकारकायवाङ्मनस्कर्मविभुत्वे सर्वाकारा चेतसः स्थितिरिति। प्रज्ञापारमिता [यां] सर्वाकारकायवाङ्मनस्कर्मविभुत्वे यः सर्वाकारो धर्मप्रविचय इति वक्तव्यम्। शेषं दानवदेव सर्व वेदितव्यम्॥



पुनर्यद्दानं सर्वज्ञतामारभ्य सर्वज्ञतायै संवर्तते सर्वज्ञतां परिगृह्णाति सर्वज्ञताकृत्यं च करोति तद्दानपारिमितेत्युच्यते। एतानि पुनश्चत्वारि पदानि यथाक्रममारम्भतो वासनातः कायतो निस्यन्दतश्च वेदितव्यानि। तत्रारम्भतः सर्वज्ञतामारभ्योत्पन्नोत्पन्नस्य तत्र परिणामनात्। तदेव पुनर्दानं संतति वासयते, यत आयत्यां सर्वज्ञतायै संवर्तते। तदेव यदा परिपूर्ण भवति तदा धर्मकायपरिनिष्पादनयोगेन सर्वज्ञतां परिगृह्णाति। तत उत्तरकालं सांभोगिकर्नर्माणिककायनिस्यन्दमुखेन सर्वज्ञताकृत्यं करोति। एवं यावत्प्रज्ञापारमिता वेदितव्याः॥



अनुक्रमः। उत्तरोत्तरसंनिश्रयतामुपादाय दानपारमितयाऽऽध्यात्मिकबाह्यसर्ववस्तुपरित्यागाभ्यासात्कायजीवितनिरपेक्षो बोधिसत्त्वो महान्तम पि भोगस्कन्धं प्रहाय शीलसमादानं करोति। शीलानुरक्षी - आक्रुष्टेन मया न प्रत्याक्रोष्टव्यम् - इत्येवमादिभिः प्रकारैः क्षमो भवति। क्षमः शीतादीनाम्, तन्निदानं प्रयोगास्त्रसनादारब्धवीर्या भवति।

आरब्धवीर्यः प्रयोगनिष्ठाफलाधिगमादध्यानं संपादयति। संपन्नध्यानश्च समाहितचित्तो यथाभूतज्ञानाल्लोकोत्तरां प्रज्ञां प्रतिलभत इति॥



पुनरुत्तरोत्तराधारतः, शीलं दानस्याधार एवं यावत्प्रज्ञा ध्यानस्य। तथाहि शीलवतो दानं विशुद्धं भवति, दानेनानुगृहीतस्य शीलेन पघाताकरणतः। एवमस्य प्रतिग्राहकस्य बोधिसत्त्वेन विहेठाविरहितोपकरणसुखोपसंहाराच्छीलबलेन दानपारमिता विशुद्धिर्वेदितव्या। एवं क्षमिणः शीलविशुद्धिः, परापकारैः शिक्षा पदाखण्डनात्। आरब्धवीर्यस्य क्षान्तिविशुद्धिः, उत्साहबलेनोत्पत्य संसारमभ्युपगतवतोऽकृच्छ्रेण सत्त्वविप्रतिपत्ति दुःखस[ह] नात्। ध्यायिनी वीर्यविशुद्धिः, सह सुखेन सौमनस्येन सर्वकुशलधर्मप्रयोगात्। प्रज्ञावतो ध्यानविशुद्धिः, बहुप्रकारान्धर्मान्विपश्यत्यध्यात्मं शमथतः समाध्यभिवृद्धेः, नास्ति ध्यानमप्रज्ञस्येति गाथायां वचनादिति॥



यथौदारिकश्चापरोऽनुक्रमो वेदितव्यः। सर्वौदारिकं हि दानमतः प्रथमतो व्यवस्थाप्यते। तदनन्तरं क्षान्त्यादिभ्यः शीलमौदारिकमेवं यावत्प्रज्ञाया ध्यानमौदारिकम्। सर्वसूक्ष्मा तु प्रज्ञा, अतः सर्वपश्चाद्व्‍यवस्थाप्यत इति॥



निर्वचनम्। केन कारणेन दानंदानपारमितेत्युच्यते। महद्दानं निर्दोषं निर्मलं दानपारमितेत्युच्यते। तत्र महद्दानं सर्वप्रकाराध्यात्मिकबाह्यवस्तु दानतो दीर्घकालदानतश्च। निर्दोषं विषमपर्येष्टयादिविवर्जितत्वात् निर्मलं मात्सर्यविपक्षप्रहाणात्। यथोक्तं दानपारमितामारभ्यार्याक्षयमतिनिर्देशसूत्रे निर्मलं सवासनविपक्षप्रहाणात्। तदनया त्रिविधया परमतया दानपारमितेत्यभिद्योतितं भवति। त्रिविधा परमता - स्वभावपरमता सहपरिचयेन, उपायपरमता, फलपरमता च। परिचयः पुनर्दीर्घकालदानतो वेदितव्यः। एवं याव त्प्रज्ञापारमिता वेदितव्या। शीलादीनां पुनर्निर्दोषत्वमा त्मसमारोपवर्जितत्वादिभिर्यथायोगम्, तदक्षयमतिसूत्रेषू द्रष्टव्यम्॥



पुनर्द्वादशविधेन परमत्वेन योगात्पारमितेत्युच्यते। द्वादशविधं पुनः परमत्वम् - औदार्यपरमत्वं सर्वलोकसम्पत्त्यनर्थित्वादुत्कृ[ष्ट] त्वाच्च। आयतत्वपरमत्वं त्रिकल्पासंख्येयपरिभावनात्। अधिकारपरमत्वं सर्वसत्त्वार्थक्रियाधिकारप्रवृत्तत्वात्। अक्षयत्वपरमत्वं महाबोधिपरिणामनयाऽत्यन्तमपर्यादानात्। नैरन्तर्यपरमत्वमात्मपरसमताधिमोक्षात्सर्वसत्त्वदानादिभिः पारमितापरिपूरणात्। अकृच्छ्रत्वपरमत्वमनुमोदनामात्रेण परदानादीनां पारमितापरिपूरणात्। विभुत्वपरमत्वं गगनगञ्जसमाध्यादिभिर्दानादिपरिपूरणात्। परिग्रहपरमत्वं निर्विकल्पज्ञा परिगृहीतत्वात्। आरम्भपरमत्वमधिमुक्तिचर्याभूमावधिमात्रायां क्षान्तौ। प्रतिलम्भपरमत्वं प्रथमायां भूमौ। निस्य न्दपरमत्वं तदन्यास्वष्टासु। निष्पत्तिपरमत्वं दशम्यां भूमौ ताथा गत्यां च बोधिसत्त्वपरिनिष्पत्त्या बुद्धपरिनिष्पत्त्या चेति॥



पुनः परमैरीहिता इताश्चेति पारमिताः, बुद्धबोधिसत्त्वैश्चेष्टिता गताश्चेत्यर्थः॥



पुनर्ज्ञेयपारंगताः पारमिताः, बुद्धत्वे प्रतिष्ठिता इत्यर्थः।



पुनः पराना त्मानं च परमामीति तारयन्तोति पारमिताः, परानात्मानं च दुःखार्णवमतिक्रामन्तीत्यर्थः॥ इदं तावत्साधारणं निर्वचनम्॥



प्रत्येकं पुनर्दायकदारिद्रयापनयताद्दानम्, दाहापनयनाद्वा प्रतिग्राहकानाम्॥ शान्तेन्द्रियालम्भनाच्छुभगतिलीयनाच्छैत्यालयाच्च शीलं यथाक्रममिन्द्रियेषु गुप्तद्वारतावाहनात् सुगतिगमनहेतुभावनादविप्रतिसाराद्यानुपूर्व्या यावन्निर्वाणा श्रयत्वादिति। क्रोधक्षारतिरस्करणात् क्षतिचित्ता गति तिरस्करणात् क्षेमाविष्करणाच्च क्षतिनां क्षान्तिः। क्षतिचित्तं पुनर्येनाप कारिणां प्रत्यपकारः क्रियते तस्यागतस्यानया विलोपनं तिरस्करणं वेदितव्यम्। क्षतमेषां वैरं विद्यत इति क्षतिनस्तेषामभयप्रकाशनं क्षेमस्याविष्करणं वेदितव्यम्। वधवृद्धोहायोगाद्वोर्यम्। तत्र वधायेहा ऽकुशलधर्मविगमाय द्वाभ्यां सम्यक्प्रहाणाभ्याम्, वृद्धये ईहा कुशलधर्मसमुदागमाय द्वाभ्यां सम्यक्प्रहाणाभ्यां च। धारणयमनसंयमनविनयननयनाद्ध्यानम्। तत्र धारणामालंबने चित्तस्य, यमनं विक्षेपतः, संयमनं चित्तस्य, विनयनं पर्यवस्थानानां विष्कम्भणम्, नयनं विभुत्वस्य प्रापणं वेदितव्यम्। परप्रणीतज्ञानात् प्रत्यात्मज्ञानात् प्रकारज्ञानात् शमप्राप्तिगुणप्रकर्षज्ञानाच्च प्रज्ञा। तत्र परप्रणीतज्ञानं परतो घोषान्वया योनिशोमनस्कारसंप्रयुक्ता प्रज्ञा , प्रत्यात्मज्ञानं लोकोत्तरा, प्रकारज्ञानं लोकोत्तरपृष्ठलब्धा, शमप्राप्तये ज्ञानं भावनामार्गे क्लेशप्रतिपक्षभूता, गुणप्रकर्षाय ज्ञानं वैशेषिकगुणाभिनिर्हाराय प्रज्ञा वेदितव्या॥



भावना पञ्चविधा, उपधिसंनिश्रिता यावद्विभुत्वसंनिश्रिता॥



तत्रोप धिसंनिश्रिता चतुराकारा। हेतुसंनिश्रिता यो गोत्रबलेन पारमितासु प्रतिपत्त्यभ्यासः विपाकसंनिश्रिता य आत्मभावसंपत्तिबलेन। प्राणिधान संनिश्रिता यः पूर्वप्रणिधानबलेन। प्रतिसंख्यानबलसंनिश्रिता यः प्रज्ञाबलेन पारमितासु प्रतिपत्त्यभ्यासः॥



मनस्कार संनिश्रिता पारमिताभावना चतुराकारा। अधिमुक्ति मनस्कारेण सर्वपारमिताप्रतिसंयुक्त सूत्रान्तमधिमुच्यमानस्य। आस्वादनामनस्कारेण लब्धाः पारमिताः , आस्वादयतो गुणदर्शनयोगेन। अनुमोदनामनस्कारेण सर्वलोकधातुषु सर्वसत्त्वानां दानादिकमनुमोदमानस्य। अभिनन्दनामनस्कारेणात्मनः सत्त्वानां चानागतं पारमिताविशेषमभिनन्दमानस्य॥



आशयसंनिश्रिता पारमिताभावना षडाकारा - अतृप्ताशयेन वैपुल्या शयेन मुदिताशयेनोपकराशयेन निर्लेपाशयेन कल्याणाशयेन च। तत्र बोधिसत्त्वस्य दानेऽतृप्ताशयो यद्बोधि सत्त्वस्यैकक्षणे गङ्गानदीवालिकासमान्लोक धातून् सप्तरत्नपरिपूर्णान् प्रतिपादयतो गङ्गानदीवालिकासमांश्चात्मभाव नेवं प्रतिक्षणं गङ्गानदी बालिकासमान् कल्पान् प्रतिपादयतः। यथा चैकसत्त्वस्यैवं यावान् सत्त्वधातुरनुत्तरायां सम्यक्संबोधौ परिपाचितव्यः। तमनेन पर्यायेण प्रतिपादयेदतृप्त एव बोधिसत्त्वस्य दानाशय इति। य एवंरूपं आशयोऽयं बोधिसत्त्वस्य दानेऽतृप्ताशयः। न च बोधिसत्त्व एवंरूपां दान परंपरां क्षणमात्रमपि हापयति विच्छिनत्त्याबोधिमण्डनिषदनादिति। य एवंरूप आशयोऽयं बोधिसत्त्वस्य दाने विपुलाशयः। मुदिततरश्च बोधिसत्त्वो भवति तान्सत्त्वांस्तथा दानेनानुगृह्णन्, न च ते सत्त्वास्तेन दानेनानुगृह्यमाणा इति। य एवंरूप आशयोऽयं बोधिसत्त्वस्य दाने मुदिताशयः। उपकरतरांश्च बोधिसत्त्वस्तान् सत्त्वानात्मनः समनुपश्यति येषां तथा दानेनोपकरोति नात्मानम्, तेषामनुत्तरसम्यक्संबोध्युपस्तम्भतामुषा[दा]य इति। य एवंरूप आशयोऽयं बोधिसत्त्वस्य दाने उपकराशयः। न च बोधिसत्त्वः सत्त्वेषु तथा विपुलमपि दानमयं पुण्यमभि संस्कृत्य प्रतिकारेण वाऽर्थी भवति विपाकेन वेति। य एवंरूप आशयोऽयं बोधिसत्त्वस्य दानपारमिताभावनायां निर्लेपाशयः। यद्बोधिसत्त्वस्तथा विपुलस्यापि दानस्कन्धस्य विपाकं सत्त्वेष्वेवाभिनन्दति नात्मनः, सर्वसत्त्वसाधारणं च कृत्वानुत्तरायां सम्यक्संबोधौ परिणामयतीति। य एवंरूप आशयोऽयं बोधिसत्त्वस्य दानपारमिताभावनायां कल्याणाशयः।



तत्र बोधिसत्त्वस्य शीलपारमिताभावनायां यावत्प्रज्ञापारमिताभावनायामतृप्ताशयः, यद्बोधिसत्त्वो गङ्गानदीवालिकासमेष्वात्मभावेषु गङ्गानदी वालिकासमकल्पायुःप्रमाणेषु सर्वोपकरणनिरन्तरविघाती त्रिसाहस्त्रमहासाहस्त्रे लोकधातावाग्निपरिपूर्णे चतुर्विधमीर्यापथं कल्पयन्नेकं शीलपारमिताक्षणं यावत्प्रज्ञापारमिताक्षणं भावयेत्, एतेन पर्यायेण यावच्छीलस्कन्धो यावत्प्रज्ञास्कन्धो येनानुत्तरां सम्यक्संबोधिमभिसंबुध्यते, शीलस्कन्धं यावत्प्रज्ञास्कन्धं भावयेत्, अतृप्त एवं बोधिसत्त्वस्य शीलपारमिताभावनायामाशयो यावत्प्रज्ञापारमिताभावना[या]माशय इति। य एवंरूप आशयोऽयं बोधिसत्त्व[स्य]शीलपारमिताभावनायामतृप्ताशयो यावत्प्रज्ञापारमितायां भावनायाम्। यद्बोधिसत्त्वस्तां शीलपारमिताभावनापरंपरां यावत्प्रज्ञापारमिताभावनापरंपरमा बोधिमण्डनिषदनान्न भ्रंशयति न विच्छिनत्तीति। य एवंरूप आशायोऽयं बोधिसत्त्वस्य शीलपारमिताभावनायां यावत्प्रज्ञापारमिताभावनायां विपुलाशयः। मुदिततरश्च बोधिसत्त्वो भवति तया शीलपारमिताभावनया यावत्प्रज्ञापारमिताभावनया सत्त्वाननुगृह्णन्, न त्वेव ते सत्त्वा अनुगृह्यमाणा इति। य एवंरूपआशयोऽयं बोधिसत्त्वस्य शीलपारमिताभावनायां यावत्प्रज्ञापारमिताभावनायां मुदिताशयः। उपकरतरांश्च स बोधिसत्त्वस्तान् सत्त्वानात्मनः समनुपश्यति येषां तथा शीलपारमिताभावनया यावत्प्रज्ञापारमिताभावनया उपकराति नात्मानम्, तेषामनुत्तरां सम्यक्संबोध्युपस्तम्भतासु पादायेति। य एवरूप आशयोऽयं बोधिसत्त्वस्य शीलपारमिताभावनायां यावत्प्रज्ञापारमिताभावनायामुपकराशयः। न च बोधिसत्त्वस्तथा विपुलमपि शीलपारमितामयं यावत्प्रज्ञा पारमितामयं पुण्यमभिसंस्कृत्य तस्य प्रतिकारेण वाऽर्थी भवति विपाकेन वेति। य एवंरूप आशयोऽयं बोधिसत्त्वस्य शीलपारमितायां यावत्प्रज्ञापारमिता यां निर्लेपाशयः। तत्र यद्बोधिसत्त्व एवं शीलपारमिताभावनामयस्य यावत्प्रज्ञापारमिताभावनामयस्य पुण्यस्कन्धस्य विपाकं सत्त्वेष्वेवाभिनन्दति नात्मनः, सर्वसत्त्वसाधारणं च कृत्वानुत्तरायां सम्यक्संबोधौ परिणामयतीति। य एवंरूप आशयोऽयं बोधिसत्त्वस्य शीलपारमितायां भावनायां यावत्प्रज्ञापारमिताभावनायां कल्याणाशयः॥



उपायसंनिश्रिता पारमिताभावना त्रयाकारा निर्विकल्पेन ज्ञानेन त्रिमण्डलपरिशुद्धिप्रत्यवेक्षणतामुपादाय। तथाहि स [उ]पायः सर्वमनस्काराणामभिनिष्पत्तये॥



विभुत्वसंनिश्रिता पारमिताभावना त्रयाकारा कायविभुत्वतः, चर्याविभुत्वतः देशनाविभुत्वश्च। तत्र कायविभुत्वं ताथागतौ द्वौ कायौ द्रष्टव्यौ स्वाभाविकः सांभोगिकश्च। तत्र चर्याविभुत्वं नैर्माणिकः कायो द्रष्टव्यो येन सर्वाकारां सर्वसत्त्वानां सहधार्मिकचर्या दर्शयति। देशना विभुत्वं षट्पारमितासर्वाकारदेशनायामव्याघाततः॥



प्रभेदतोऽष्टादशभिरुपस्तम्भैः षण्णां पारमितानां प्रभेदो वेदितव्यः। अष्टादशोपस्तम्भाः - कायोपस्तम्भः, चित्तोपस्तम्भः, कुशलोपस्तम्भः, सुगत्युपस्तम्भः, बोध्युपस्तम्भः, करुणोपस्तम्भः, सत्त्वापरित्यागोपस्तम्भः , हीनचित्तपरित्यागोपस्तम्भः। अनुत्पत्तिकधर्मक्षान्त्युपस्तम्भः कुशलमूलप्रयोगोपस्तम्भः, कुशलमूलसमुदागमोपस्तम्भः, कुशलमूलाक्षयतोपस्तम्भः, अपरिखेदोपस्तम्भः, सर्वचिन्तितार्थसमृद्धयुपस्तम्भः, गणपरिकर्षणो पस्तम्भः, भूमिप्रवेशोपस्तम्भः, बुद्धधर्मसमुदानयनोपस्तम्भः, बुद्धकृत्यानुष्ठानोपस्तम्भश्च॥



प्रत्येकं दानादीनां त्रैविघ्यात् त्रिभिस्त्रिभिरुपस्तम्भैर्यथाक्रमं संग्रहो वेदितव्यः। तत्र त्रिविधं दानम् - अभयदानं धर्मदानमामिषदानं च। त्रिविधं शीलम् - संवरशीलं कुशलधर्मसंग्राहकं शीलं सत्त्वार्थक्रियाशीलं च। त्रिविधा क्षान्तिः - अपकारमर्षणक्षान्तिर्दुःखाधिवासनाक्षान्तिर्धर्मनिध्यानक्षान्तिश्च। त्रिविधं वीर्यम् - संनाहवीर्य प्रयोगवीर्य सत्त्वा र्थक्रियावीर्य च। त्रिविधं ध्यानम् - दृष्टधर्मसुखाविहाराय ध्यानमभिज्ञानिर्हाराय ध्यानं सत्त्वार्थक्रियायै च ध्यानम्। त्रिविधा प्रज्ञा - संवृत्यालंबना परमार्थालंबना सत्त्वार्थालम्बना च॥



तत्रामिषदानं कायोपस्तम्भः, अन्नपानाद्युपकरणैः प्रतिग्राहकाश्रयानुग्रहणात्। अभयदानं चित्तोपस्तम्भः दौर्मनस्यविशेषा[प]गमाय चेतस आश्वासाय संहारात्। इत्येवमन्यदपि योज्यम्॥



हीनचित्तं पुनर्बोधिसत्त्वस्य संसारदुःखपरिखेदितया श्रावकप्रत्येकबुद्धचित्तम्, तत्परित्यागोपस्तम्भो दुःखाधिवासनक्षान्तिर्वेदितव्या॥



कुशलमूला क्षयता सर्वसत्त्वेषु क्रियार्थाधिकारितया यावत्सारं निरुपधिशेषेऽपि निर्वाणधातावपरित्यागः, तदुपस्तम्भः सत्त्वार्थक्रियायं वीर्य वेदितव्यम्॥



गणपरिकर्षणं कर्म अधिगमं निश्रित्य विनेयानामसमाहितस्य चित्तस्य समाधानाय समाहितस्य वा चित्तस्य विमोक्षायाववादानुशासनोप्रदानम्, तदुपस्तम्भः सत्त्वार्थक्रियायै ध्यानम्॥



भूमिप्रवेशो यया देशनया धर्माधिमुक्तिपूर्विकया संभारपरिपूर्याप्रमुदितां भूमि प्रविशति, तदुपस्तम्भः संवृतिसत्यालंबना प्रज्ञा॥



शेषं सुयोज्यत्वान्न योजितम्॥



पुनः प्रभेदः सप्त दानामि - मूलदानं गोत्रावस्थस्य बोधिसत्त्वस्य दानपारमिता, गोत्रमात्रं निश्रित्य दानात्। आधानदानं चित्तोत्पादावस्थस्य, प्रणिधानसमादानं निश्रित्य दानात्। अनुग्रहदानं स्वपरार्थप्रत्यवस्थस्य। अनवग्रहदानं तत्त्वार्थपरी क्षावस्थस्य, दायकादिविकल्पाभिनिवेशावग्राहाभावात्। निष्परिग्रहदानं प्रभावावस्थस्य, विना वाह्येनोपकरणपरिग्रहेण गगनगञ्जादिसमाधिभिराकाशे पाणि संचार्य यथेष्टं रत्नादिवर्षणात्। प्रत्यर्हदानं परिपाकावस्थस्य, यथाविनेयानुरूपं दानात्। महादानं परमबोध्यवस्थस्य, निरुत्तरत्वात्। एवं यावत्प्रज्ञा यथायोगं वेदितव्यम्॥



संग्रहः दानादभिर्बोधिसत्त्वभूमिसंग्रहार्थेन, तत्रेदमुदाहरणमात्रं पारमितादिभिः। गोत्रसंग्रहो दानपारमितादिगोत्रं लिङ्गतोऽनुगन्तव्यम्। चित्तोत्पादसंग्रहो विशिष्टचित्तोत्पादसं[ग्र]हणात्। द्विविधो हि चित्तोत्पादः - अविशिष्टो विशिष्टश्च। तत्राविशिष्टोऽहो वताहमनुत्तरां सम्यक्संबोधिमभिसंबुध्येयेति। विशिष्ट एवं दानपारमितां परिपूरयेयं यावत्प्रज्ञापारमितामिति। तदनेन विशिष्टेन चित्तोत्पादेन पारमितानां संग्रहो वेदितव्यः, तासां कारणभावात्। स्वपरार्थसंग्रहो यद्दानेनै श्वर्य परिगृहणात्ययं स्वार्थः, यत्पुनः परानुपकरणोपसंहारेणानुगृह्णात्ययं स्वार्थः एवमवशिष्टाभिः संग्रहो वेदितव्यः। परमार्थसंग्रहः - धर्मधातुमारभ्य, तथताया दानादिसामान्यलक्ष[ण]त्वात्। ज्ञानसंभारमारभ्य, सर्वज्ञताभाजनतापादनात्। ज्ञानपरिग्रहमारभ्य सर्वज्ञतापरिनिष्पादनात्। ज्ञानानुपरिवर्ततामारभ्य, पञ्चानां प्रज्ञापारमितानुपरिवर्तनात्। ज्ञानलक्षणमारभ्य, प्रज्ञापारमिताः सम्यग्ज्ञानस्वभावत्वात्। इत्येवं तथतासम्यज्ज्ञानस्वभावतः परमार्थो दानादिभिः संगृहीतो वेदितव्यः। एतेनोदाहरणमात्रेण शेषः संग्रहो वेदितव्यः॥



विपक्षो दानादीनां यथाक्रमं मात्सर्यदौःशील्ये क्रोधकौशीद्ये विक्षेपदौःप्रज्ञे। अपि खलु यावन्तः कुशला धर्माः पारमिताभिः संगृहीतास्तेषां यो विपक्षो ज्ञेयावरणं च स तासां विपक्षो वेदितव्यः॥



अनुशंसः पञ्चविधफलाधिकारेणाप्रमेयो वेदितव्यः। तद्यथा यथास्वमासां विपक्ष प्रहाणं विसंयोगफलम्। दृष्टे धर्मे स्वपरानुग्रहणं पुरुषकारफलम्। आयत्यामुत्तरात्तरविशिष्टत्तरतमोत्पत्तिर्निष्यन्दफलम्। महाबोधिरधिपतिफलम्। महाभोगता सुगतिगमनमवराभेदसुखसौमनस्य बहुलता सत्त्वाधिप पत्यमव्याबाध्यात्म भावता महेशाख्यता च यथाक्रमं दानादीनां विपाकफलं वेदितव्यम्।



अन्योन्यविनिश्चयस्त्रिविधः - प्रायोगिकः, प्राभेदिकः, प्रभिद्यसांदर्शिकश्च॥

तत्र प्रायोगिकः दानप्रयोगे सर्वासां वृत्तिरूपलभ्यते। तद्यथाऽध्यात्मिकं बाह्यं वस्तुपरित्यजनतः दानप्रयोगः। तत्र यः परित्यागः स दानपारमिता। तत्रैव या मैत्रचित्तस्य परत्रविघा तोत्पीडाविहेठसंवरणता सा शीलपारमिता। तत्रैव योपरोधविघातखेदमर्षणता सा क्षान्तिपारमिता। तत्रैव या भूयो भूयश्चित्तस्योत्सहनता सा वीर्यपारमिता। तत्रैव या चित्तस्यैकाग्रता कुशलाद्बहिरविसरणता सा ध्यानपारमिता। त त्रैव या यथावद्धेतु फलसुगृहीतता दृष्टय परामर्षणता सा प्रज्ञापारमिता। एवं यावत्प्रज्ञापारमितायां यथायोगं योजयितव्यमुभयदानं सर्वज्ञज्ञानमिति कृत्वा॥



तत्र प्राभेदिकः स्वभावप्रभेदेन, अनुकारप्रभेदेन च। तत्र दानादीनां स्वभावो यथाक्रमं विसर्गः संवरो मर्षणाऽभ्युत्साहश्चितस्थितिः प्रविचयश्च। तत्र दानादिप्रयोगेषु तदन्यपारमिताना मनुवृत्तिः पूर्ववत्। तत्र दानादीनामुपयोगः समादापना वर्णवादिता सुमनोज्ञता च। तत्र दानादीनां रोपणा या परसंताने प्रतिष्ठापना। तदत्र दानपारमिताऽऽमिषदानम्, तदन्याः पञ्चाभयदानम्, सर्वाः स द्धर्मदानं परसंताने रोपणात्॥



तत्र प्रभिद्यसांदर्शिक एकावचारकादिभिः। तद्यथा या दानपारमिता शीलपारमितापि सा, या वा शीलपारमिता दानपारमितापि सा, पश्चात्पादकः - या यावच्छीलपारमिता दानपारमितापि सा, स्याद्दानपारमिता न शीलपारमिता शीलपारमितयाऽसंगृहीता या दानपारमिता। एवं यावत्यज्ञापारमित याऽसंगृहीता दानपारमिता पश्चात्पादकैर्योजयितव्या। यद्दानं सर्वा सा पारमिता, या दान पारमिता सर्व तद्दानमिति चतुष्कोटिकम्। स्याद्दानं न पारमिता यन्न महोबोधिपरिणामितम्। स्यात् पारमिता न दानं शीलादयो महाबोधिपरिणामिताः। स्याद्दानं च पारमिता च बोधिपरिणामितानि दानादीनि। स्यान्न दानं न पारमिता उक्तविनिर्मुक्ता धर्माः। एवं यावत्प्रज्ञापारमितामारभ्य चतुष्कोटिकं प्रत्येकं योजयितव्यम्। यो दानं समाचरति सर्वोऽसौ दानपारमितान्वयं पुण्यं प्रसवतीति च तुष्कोटिकम्। प्रथमा कोटिः - महाबोध्यपरिणामितं दानं समाचरति। द्वितीया कोटिः - दानपारमितां यां समादापनवर्णभाषणसुमनोज्ञताभिः। तृतीया कोटिः - महाबोधिपरिणामितेन दानेन। चतुर्थी कोटिः - एतानाकारान् स्थापयित्वा। एवं यावत्प्रज्ञापारमितामारभ्य प्रत्येकं चतुष्कोटिकं योजयितव्यम्॥



विशेषतो वैपुल्ये औदार्यगाम्भीर्यदेशना तत्फलस्य सर्वज्ञत्वस्य परमोदार गम्भीरत्वात्फलानुरूप्येण हेनुनिर्देशो द्रष्टव्यः॥



एकत्यानां तदनधिमोक्षे त्रासः बोधिसत्त्वगोत्रवैकल्यं प्रकृत्या हीनचित्ततया गाम्भीर्यौदार्यदेशनां नाधिमोक्तुं शक्नुवन्ति। सत्यपि तद्गोत्रत्वे महाबोधिमारभ्य प्रणिधानादीनां कुशलमूलादो नामनवरोपणात्, सत्यपि तदवरोपणे महायानप्रतिक्षेपकसत्त्वपरिगृहीतत्वादिति। अधिमुच्यमानानामप्येकत्यानामनिर्याणं नीतार्थ सूत्रम[न]न्विष्य स्वयं दृष्टिपरामर्षस्थायितया यथारुतमर्थाभिनिवेशात। तद्यथा सर्वधर्मनिः स्वभावतावचनात् सर्वलक्षणेन सर्वभावापवादिनः। एवमन्येऽपि यथारुतार्थाभिनिवेशिनो महायाने न निर्यान्तोतिवेदितव्यं नानाभिप्रायभाषितत्वात् महायानस्येति। इदं च संधायोक्तं भगवता महाधर्मादर्शे धर्मपर्याये - बोधिसत्त्वस्य यथारुतमयोनिशो धर्मान् विचिन्वतो ऽष्टाविंशतिरसद्दृष्टय उत्पद्यन्ते॥



अष्टाविंशतिरसद्दृष्टयः कतमाः। निमित्तदृष्टिर्यावदभिमानदृष्टिश्च। तत्र निस्वभावाः सर्वधर्मा अनुत्पन्ना इत्येवमादिकं महायाने रुतमुपलभ्य तदभिसंध्यकुशलाः यथारुतमेवास्यार्थमधिमुच्यमाना अभाव एवायं भगवता देशितः सर्वधर्माणामनुत्पाद एवेत्यभावादिनिमित्तमभिनिविशन्ते सैषां भवति निमित्तदृष्टिः। त एवमभावादिनिमित्तमभिनिविशमानास्त्रोन्स्वभावानवदन्ते परिकल्पितं स्वभावं परतन्त्रं परिनिष्पन्नं च। तत्रायं परिकल्पितः स्वभावो यद्रूपमिति वा यावन्निर्वाणामिति वाऽभिलापप्रज्ञप्तिमात्रभभूतो निःशरीरार्थो यद्बाला रूपादिलक्षणं समारोपत्तः परिकल्पयन्ति। तत्रायं परतन्त्रः स्वभावा यत्तदेवाभूतपरिकल्पमात्रम्। तत्रायं परिनिष्पन्नः स्वभावो यत्सर्वधर्माणां तत्त्वं तथता।



तदपवादाकारास्तिस्त्रो दृष्टयो भवन्ति - प्रज्ञप्त्यपवाददृष्टिः परिकल्पापवाददृष्टिस्तत्त्वापवाददृष्टिश्च। त एवं सर्वथा सर्वधर्मानपवदमा नास्तस्या अपवाददृष्टेः प्रतिष्ठाप नार्थं कांचिदेव युक्तिं परिगृह्णन्ति, येऽपि नीतार्थाः सूत्रान्ता निरभिलापधर्मताद्योतकास्तानपि सर्वान् स्वदृष्टयानुलोम्येन परिणामयन्ति। ते एव द्वे दृष्टो भवतः परिग्रहदृष्टिः परिणतिदृष्टिश्च। ते पुनरेवंदृष्टयो भवन्ति - य एतामीदृशीं दृष्टिं निश्रित्य कुशलमकुशलं वा समाचरति स निरवद्य एव भवति निर्दोषः सर्वमेवास्य तत्कल्याणतां याति, पूर्वोपचिताच्चावरणात्स निःसरतोत्येवमेषां द्वे दृष्टी अनवद्यतादृष्टिर्निःसरणदृष्टिश्च। ते चैवं स्वदृष्टावभिनिविष्टास्तद् दृष्टिविपर्ययेण स्कन्धादिधर्मव्यवस्थापकं श्रावकपिटकमवजानन्ति, ये च तामपवाददृष्टिमनधिमुक्ताः श्रावकया नीयास्तान् प्रद्विषन्ति। ते एते द्वे दृष्टी भवतोऽवज्ञादृष्टिः प्रकोपदृष्टिश्च। स्वद्ष्टयनुसारेण चैते यथावच्छून्यतानिमित्ताप्रणिहितानि व्यवस्थापयमाना अतल्लक्षणे तल्लक्षणसंज्ञिनो विपरीतमेषां लक्षणं व्यवस्थापयन्ति, एवंचित्ताश्च भवन्ति - यस्यामीदृश्यां धर्मतायामवतरन्त्यवतारयन्ति वा सर्वे तेऽप्रमेयं पुण्यं प्रसवन्तीत्येवमेते दृष्टी विपरीतदृष्टिः प्रसवदृष्टिश्च। यदा पुनस्ते तां दृष्टिमारभ्य परंरनुयुज्यन्ते तदा न किंचित्स्वयमिच्छन्त्यभ्युपगन्तुम्, छलजातिभ्यां च पराननुयुञ्जन्ते। ते एते अनभ्युपगमदृष्टिः कुसृतिदृष्टिश्च। ते चैवमभिमानिनो भवन्ति - य एवं प्रतिपद्यन्ते [ते] सम्यग्बुद्धान् भगवतः पूजयन्ति सत्कुर्वन्तीत्येषां सत्कारदृष्टिः। अविपरीतधर्मताकुशलैश्च तता दृष्टेर्विवेच्यमानाः सूपपन्नया प्रसिद्धया युक्तया प्रत्यायमाना अपि तां दृष्टिं न कथंचित् परित्यजन्ति, एतदेव तथ्यं मिथ्यान्यदित्येषा दृढमूढतादृष्टिः। एतासां च यथानिर्दिष्टानां दृष्टोनां यद्वासनादौष्ठुल्यं सा मूलदृष्टिः। एत एव च सप्तदशदृष्टयो दोषोद्भावनामुखेनावशिष्टाभिः दृष्टिभिः पुनर्निदिश्यन्ते। तद्यथा दृष्टावदृष्टदृष्टि निमित्तदृष्टिरित्युच्यते, अ भावादिनिमित्ताभिनिवेशिन एव सतः सर्वनिमित्तानभिनिवेशसज्ञित्वात्। प्रज्ञप्त्यपवाददृष्टिः परिकल्पापवाददृष्टिस्तत्त्वापवाददृष्टिश्च प्रयोगनिराकरणदृष्टिः, सर्वापवादिनो व्यायामनिः सामर्थ्यसंज्ञित्वात्। परिग्रहदृष्टिः परिणतिदृष्टिश्चानैर्याणिकदृष्टिः, अनुपायप्रयुक्तस्य तत्फलानवाप्तेः।



अनवद्यतादृष्टिनिःसरण दृष्टिश्चावरणोपचयदृष्टिः, मिथ्याप्रतिपद्यमानस्यावरणक्षयासंभवात्। अवज्ञादृष्टिः प्रकोपदृष्टिश्चापुण्यप्रसवदृष्टिः, सद्धर्मसब्रह्मचारिविप्रतिपत्तिमुखेन महाक्षतिसमासादनात्। विपरीतदृष्टिः प्रसवदृष्टिश्च वैफल्यदृष्टिः, [अ]सम्यग्धर्मताव्यवस्थापनग्रहणग्राहणैर्विशेषा नधिगमात् , अनभ्युपगमदृष्टिः कुसृतिदृष्टिश्च निग्राह्यदृष्टिः, [अ]न्यायेन वादं कुर्वतो जयासंभवात्। सत्कारदृष्टिरभ्याख्यानदृष्टिः, अतदाख्यायिनि तत्समारापणात्। दृढमूढतादृष्टिरकथ्यदृष्टिः, मिथ्याभिनिवेशिना सह सां कथ्यप्रतिषेधान्निरथकतामुपादाय। मूलदृष्टिर्महादृष्टिः, तत आयत्यां पुष्टतरसर्वदृष्टिगतप्रतापनात्। सर्वा एताः सप्तविशतिदृष्टयोऽभिमानदृष्टिः, अभूताभिमानसमुत्थितत्वात्। अत एवानन्तरं तत्रैव सूत्र उक्तमितीमाः सप्तदश समानाः दश भवन्ति, दश समानाः सप्तदश भवन्ति, सप्तविंशतिः समाना एका भवति, एका समाना सप्तविंशतिर्भवन्तीति॥



निः स्वभावाः सर्वधर्माः यस्मात्स्वयमेषां भावो नास्ति, प्रत्ययां स्त्वपेक्ष्य भावो न प्रतिषिध्यते। येन वा स्वभावेनैते पूर्वमभूवन्न तेन स्वेन भावेन भूयः शक्यमेभिर्भवितुमिति निःस्वभावाः। प्राप्ताभ्रष्टलक्षणानामपि प्रत्युत्पन्नानां स्वे भावेऽवस्थानाभावान्निःस्वभावाः। यादृशो वाऽदृष्टसत्यैर्धर्माणां स्वभावो लक्षणमभिलापप्रपञ्चवासनामुखेन गृह्यते तेन बालग्राहानुरूपेण स्वभावेन वि[र]हितत्वान्निः स्वभावाः॥



अपि खलु सर्वधर्मा उच्यन्ते त्रयः स्वभावाः। तत्र परिकल्पितस्य स्वलक्षणमेव नास्त्यतः स्वलक्षणनिःस्वभावतया निःस्वभावः। परतन्त्रस्य स्वयमुत्पत्तिर्नास्ति प्रत्ययापेक्षणादतो नास्य स्वेन भावेन भाव इत्युत्पत्तिनिः स्वभावतया निःस्वभावः। परिनिष्पन्नो विशुद्ध्यालंबनत्वात् परतन्त्रपरिकल्पितलक्षणाभावस्वभावत्वाच्च परमार्थश्चैष निःस्वभावताप्रभावितश्चेति परमार्थनिःस्वभावतया निःस्वभावः। इत्येवं च कृत्वा निःस्वभावाः सर्वधर्मा द्रष्टव्याः, न तु सर्वथालक्षणाभावमधिकृत्येति॥



अपि खलु महायाने तथागतस्य सर्वेऽभिप्रायाः संक्षेपेण चत्वारो भवन्ति। तद्यथा समताभिप्रायो यदाह - अहमेव तस्मिन् समये विपश्यी सम्यक्संबुद्धोऽभूवमिति, अवशिष्टधर्मकायत्वात्। कालान्तराभिप्रायोयदाह - ये सुखावत्यां लोकधातौ प्रणिधानं करिष्यन्ति ते तत्रोप पत्स्यन्त इति, विमलचन्द्रप्रभवस्य च नामधेयग्रहणमात्रेण नियतो भवत्यनुत्तरायां सम्यक्संबोधाविति, कालान्तरेणेत्यभिप्रायः। अर्थान्तराभिप्रायो यदाह - निःस्वभावाः सर्वधर्मा अनुत्पन्ना इत्येवमादि, अयथारुतार्थत्वात्। पुद्गलाशयाभिप्रायो यत्तदेव कुशलमूलं कस्यचित्प्रशंसन्ति कस्यचिद्विगर्ह तेऽल्पमात्रसंतुष्टस्य। तथा रागचरितस्य बुद्धक्षेत्रविभूति दर्शयति, मानचरितस्य केषांचिदेव बुद्धानामधिकां संपत्ति वर्णयन्ति। कौकृत्येनावृतस्य ये बुद्धबोधिसत्त्वेष्वपकारमपि करिष्यन्ति ते सर्वे स्वर्गोपगा भविष्यन्तीत्याह। अनियतगोत्रस्य महाश्रावका[न्]बुद्धत्वे व्याकरोति, एकं च यानं न द्वितीयमस्तीति देशयति श्रावकत्वाशयत्याजनार्थम्॥



पुनः सर्वेऽभिसंघयोऽभिसमस्य चत्वारो भवन्त्य वतारणाभिसंध्यादयः। तत्र अवतारणाभिसंधिः श्रावकेषु द्रष्टव्यः, शासना वतारणार्थमनुत्रासाय रूपाद्यस्तित्वदेशनात्। लक्षणाभिसंधिस्त्रिषु परिकल्पितादिस्वभावेषु द्रष्टव्यः, निःस्वभावानुत्पन्नादिसर्वधर्मदेशनात्। प्रतिपक्षाभिसंधिः दोषाणां विनये द्रष्टव्यो यथाष्टावरणप्रतिपक्षताग्रयानसंभाषा। अष्टावरणानि बुद्धधर्मावज्ञेति विस्तरः। तदुदाहरणानि च यथायोगं चतुरभिप्रार्यान र्देशानि द्रष्टव्यानि। परिणामनाभिसंधिरभिधानगाम्भीर्ये द्रष्टव्यः, यदाह -



असारे सारम[त]यो विपर्यासे च सुस्थिताः।

क्लेशेन च सुसंक्लिष्टा लभन्ते बोधिमुत्तमाम्॥ इति।



अत्रायमभिसंधिः - अविक्षेपे येषां सारबुद्धिः प्रधानबुद्धिः, विक्षेपो हि विसारश्चे तसः विपर्यासे च सुस्थिताः इति नित्यसुखशुच्यात्मविपर्ययेणानित्यादिके विपर्यासे च सुस्थिता अपरिहाणितः क्लेशेन च सुसंक्लिष्टाः इति दीर्घदुष्कर व्यायामश्रमेणात्यर्थ परिक्लिष्टाः॥





वैपुल्ये धर्मसमाधिकुशलबोधिसत्त्वनिर्देशः शमथानुशंसं विपश्यनानुशंसं तदुभयानुशंसं चाधिकृत्य वेदितव्यः। तत्र शमथानुशंसो द्विविधः। क्षणे क्षणे प्रकर्षगामिन्या प्रस्त्रब्ध्या निरन्तरमाश्रयस्फरणात् प्रतिक्षणं सर्वदौष्ठुल्याश्रय द्रावणम्, अविशेषेण सर्वदेशनाधर्मे करसताधिमोक्षसमाधानाद्विविधस्कन्धाद्यर्थाकारसंज्ञाविगतायाः सूत्रादि धर्मारामरतेः प्रतिलम्भश्च। विपश्यनानुशंसोऽपि द्विविधः। यथाप्रविचित्तधर्मनिरन्तरासंप्रमोषात्प्रतिस्मृतिमात्रमुखेनापरिच्छिन्नाकारोऽप्रमाणः सूत्रादिधर्मेषु प्रज्ञावभासः, आश्रयपरिवृत्तिपूर्वरूपभूतानां चाविकल्पितानामनभिसंस्कृतानां निमित्तानां समुदाचारश्च। तदुभयानुशंसो धर्मकायस्य ज्ञेयावरण प्रहाणाश्रयपरिवृत्तिसंगृहीतस्य परिपूरये दशम्यां भूमौ परिनिष्पत्तये वा ताथागत्यां भूमावुत्तरादुत्तरतर निष्यन्दवासनाधानयोगेन हेतुपरिग्रह इति॥



तदेतत्पञ्चविधाया भावनायाः फलं पञ्चविधं निर्वर्तत इति संदर्शितम्। पञ्चविधा भावना कतमा। प्रस्त्रब्धिनिमित्तभावना[ऽ] संभिन्नभावनाऽनिमित्तभावनाऽनाभोगभावना परिनिर्वृतिनिमित्तभावना च॥



केन कारणेन तुल्ये धर्मकायनिष्यन्दत्वे वैपुल्यधर्मो धूपमाल्यादिभिः पूज्यो न तथा श्रावकयान धर्मः। वैपुल्यधर्मस्य सर्वसत्त्वहितसुखाधिष्ठानतामुपादाय महार्थतया निरुत्तराप्रमेयपुण्यप्रसवायतनत्वात्॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project