Digital Sanskrit Buddhist Canon

सत्यविनिश्चयो नाम द्वितीयः समुच्चयः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
सत्यविनिश्चयो नाम द्वितीयः समुच्चयः



तत्सत्त्वजन्मतो जन्माधिष्ठानतश्चेति यश्च जायते सत्त्वलोकः, यत्र च जायते भाजनलोके, तदुभयं दुःख मित्युक्तं भवति। यश्च सत्त्वलोको यश्च भाजनलोकः कर्मक्लेशजनितः कर्मक्लेशाधिपतेय इत्याभ्यां तयोः सत्त्वभाजनलोक योर्दुःखत्वकारणं ज्ञापयति॥



अपि खलु जातिर्दुःखमित्येवमादि पूर्व समस्य दुःखसत्यलक्षणं व्युत्पाद्याधुना दुःखसत्यमारभ्य सूत्रोक्तस्य निर्देशस्यार्थ विभक्तुमारभते॥



जातिर्दुःखं संवाददुःखतां तदन्यदुखस्वाश्रयतां चोपादायेति मातुः कुक्षावामपक्वाश ययो रन्तरा ले आसीनस्य निष्क्रामतो वा कुक्षेर्विविधाशुचिद्रव्यासंपीडाङ्गसंमर्द दुःखानुभवनार्थेन, जातौ सत्यां जरादिदुःखाभ्यनुषङ्गार्थेन च यथाक्रमम॥



षट् समानान्य ष्टौ भवन्ति विपरिणतिदुखं त्रिधा कृत्वा॥



जात्यादिभिर्दुःखदुःखतापरिदीपनवचनं दुःखवेदनीयधर्मस्वलक्षणार्थेन। प्रियविनामावादिना विपरिणामदुःखतापरिदीपनवचनं प्राप्ताप्राप्तसुखवेदनीयधर्मविपरिणतिस्वलक्षणार्थेन। पञ्चोपादानस्कन्धा दुःख मित्यने न संस्कार दुःखतापरिदीपनवचनं द्वयाविनिर्मोक्षानित्येता नुबन्धयोगक्षेमार्थेन॥



जातिर्दुखमित्येवमादि संवृतिसत्येन दुखम्, लौकिकज्ञानविषयत्वात्। पञ्चोपादानस्कन्धा दुःखमिति परमार्थसत्येन दुखम्, संनिवेशतथतामुखेन लोकोत्तरज्ञानविषयत्वात्॥



दुःखसामान्यलक्षणे यैराकारैर्योगिने दुःखसत्यं व्यवचारयन्ति, तद्यथाऽनित्यतो दुःखतः शून्यतोऽनात्मतश्च॥



तत्र द्वादशविधेन लक्षणेनानित्यं दुःखसत्यं वेदितव्यम्। तत्पुन रसल्लक्षणं यथा नास्ति सर्वदा दुःखसत्यमा[त्मा]त्मोयस्वभावमिति योऽर्थः सोऽर्थोऽनित्यं दुःखसत्यमिति। अकारस्य प्रतिषेधार्थत्वात् नित्यशब्दस्य च सर्वकालार्थत्वादिति। विनाशलक्षणं संस्काराणां भूत्वाऽभावः। विपरिणतिलक्षणं प्रबन्धासादृश्येन प्रवृत्तिः। वियोगलक्षणं तदवस्थेष्वेव वस्तुषु स्वभाववशित्वभ्रंशः क्वचित्परैः स्वीकरणमपि वेदितव्यम्। संनिहितलक्षणं यत्तदानीमेवानुभूयमानानित्यता। धर्मतालक्षणं यामवश्यमनुभविष्यति। क्षणलक्षण मात्मलाभानन्तरमवश्यविनाशिता। प्रबन्धलक्षणमनादिमति संसारे आजवंजवी भावेन वृत्तिः। व्याधि जरामरणलक्षणं धातुवैषम्यं खलित्यादिकं स्थितिकालावेधो पयोगश्च। चित्तचित्ताकारवृत्तिलक्षणं विपक्षप्रतिपक्षावस्थानावस्थितत्वम्। भोगसंपत्ति लक्षणं सर्वलौकिकसमृद्धो नामनात्यन्तिकतया दुरन्तत्वम्। भाजन संवर्तविवर्तलक्षणं महापृथिव्यादिनामग्न्यादिभिः पुनः पुनविनाश[त]उत्पादतश्च, अग्न्यम्बुवायुसंवर्तनीभिर्दहनक्लेद नशोषणात्मिकाभिर्यथाक्रमम्। प्रथमद्वितीयतृतीयध्यानस्थानावसाने लोकसंनिवेशे संवृत्ते तदूर्ध्व यान्यवशिष्यन्ते द्वितीयतृतीयचतुर्थध्यानस्यानान्तराणि तानि तासां शीर्षाणि वेदितव्यानि। चतुर्थध्यानभूमिकानां तर्हि विमानानां केन संवर्तविवर्तः। न केन चिद्बाह्येन, तैरेव तु सर्वैर्जायमानैः सह तानि विमानानि निर्वर्तन्ते च्यवमानैः सह

तानि निरुध्यन्त इति। स एव तेषां संवर्तविवर्तो वेदितव्यः। यैः कल्पस्य निर्याणं भवतीति परिसमाप्तिर्भवतीत्यर्थः। एकोऽन्तरकल्पोऽपकर्षः विवर्तकाले एकान्नविंशति [त]मः। अष्टादश उत्कर्षापकर्षाः। तत ऊर्ध्वमेक उत्कर्षः पश्चिमः। आयुक्षयान्मरणं कालच्युतिमधिकृत्य यावदाक्षेपमायुषः परिसमाप्तत्वात्। पुण्यक्षयादकालच्युति [मधिकृत्य] समापत्त्यास्वादनतया तदायुराक्षेपककर्मभावनोपधातात्। कर्मक्षयात्प्रबन्धच्युतिमधिकृत्य, तस्मिन्नायतने उपपद्यापरपर्यायवेदनीयकर्मण उपयुक्तत्वादभावाद्वा तत्र र्भूयोऽनुत्पत्तितो वेदितव्यम्॥



अष्टाकारं वा दुःखमिति संबाधदुःखतादि। उत्पादांशिकी अनित्यता अभूत्वा भावः, स च दुःखपक्ष्याणां संस्काराणां बाधनात्मकः। इति तामनित्यतां प्रतीत्य दुःखदुःखता प्रज्ञायते। व्ययांशिकी भूत्वाऽभावः, स च सुखपक्ष्याणां संस्काराणामनभिप्रेतः। इति तां प्रतीत्य विपरिणामदुःखता प्रज्ञायते। सदौष्ठुल्यानां संस्काराणां प्रबन्धे नोदयोऽप्यनभिप्रेतः, व्ययोऽपीति तदुभयांशिकीमनित्यतां प्रतीत्य संस्कारदुःखता प्रज्ञायते। संस्कारानि त्यतां संस्कार विपरिणामतां च संधायोक्तम् - मया यत्किंचिद्वेदितमिदमत्र दुःखस्येत्ययमदुःखासुखस्य सुखस्य च वेदितस्य दुःख वचनेऽभिसंधिर्वेदितव्यः। दुःखस्य तु वेदितस्य दुःखत्वेन प्रसिद्धत्वाल्लोके न तत्र पुनरभिसंधिरुच्यत इति। येषु चानित्येषु संस्कारेषु जात्यादिकं प्रज्ञायते[तेषाम्] अनित्यत्वात् दुःखमित्यभिसंधिर्वेदितव्यः। अन्यथा मार्गोऽप्यनित्यत्वाद्दुःखं स्यादिति॥





शून्यता लक्षणं नित्यादिलक्षणस्यात्मनः संस्कारेभ्योऽर्थान्तरभूतस्य तेष्वभावः। तेषां च संस्काराणां नित्यकालं तद्रहितप्रकृतिकलक्षणस्य नैरात्म्यस्य भावस्तदुभयं शून्यतेत्युच्यते। स्वभावशून्यता परिकल्पितं स्वभाव मु[पा]दाय, तस्य स्व लक्षणेनैवाभावात्। तथाभावशून्यता परतन्त्रं स्वभावमुपादाय, तस्य येन येन प्रकारेण परिकल्प्यते तेन तेन प्रकारेणाभावात्। प्रकृतिशून्यता परिनिष्पन्नं स्व भावमुपादाय तस्य शून्यताप्रकृतिक त्वात्॥



अनात्मलक्षणं पुनस्तेषामेव संस्काराणामात्मवादिभिः परिकल्पितेनात्मलक्षणेनानात्मलक्षणता॥



विनाशादिलक्षणाऽनित्यता प्रसिद्धा, क्षणिकलक्षणा तु न प्रसिद्धा सर्वसंस्काराणामतः सा प्रसाधयितव्या। तत्र चित्तचैतसिकानां क्षणिकत्वं लोके प्रसिद्धमतः तेनाप्रसिद्धं रूपस्य क्षणिकत्वं प्रसाध्यते। कथमिति। चित्तोपात्ततामुपादाय, क्षणिकेन हि चित्तेन काय उपात्त। केनार्थेन। चित्तैकयोगक्षेमतामुपादाय, तथाहि कायः सविज्ञानक एव समुदागच्छति विज्ञानापक्रान्त्या च पूतीभवति। तस्माच्चित्तेनैकयोगक्षेमत्वात्तदिवास्य क्षणिकत्वं वेदितव्यम्। किं च चित्ताश्रयतामुपादाय, चित्तस्य हि [वि]कारेण कायस्य विकारो दृश्यते सुखदुःखरागद्वेषाद्यवस्थासु। अतः प्रतिक्षणं विकारिणश्चेतसोऽनुविधानात् कायस्य क्षणिकत्वं सिद्धम्। चित्ताधिपत्यसंभूततामुपादाय, चित्तस्य हि सेन्द्रियः काय आश्रयः प्रसिद्धः, यस्य च य उत्पत्याश्रयो नासौ स्वविनाशमन्तरेण तस्याश्रयी भव न्दृष्टः। तद्यथाग्न्यं कुरादीनामिन्धनबीजादिकः। तस्मात्प्रतिक्षणं चित्तस्याश्रयभावात्प्रतिक्षणमेव विनश्यतीति सिद्धम्। चित्तस्याधिपत्यसंभूततामुपादाय, सर्व ह्याध्यात्मिकबाह्यं रूपं चित्तस्याधिपत्येन संभवति। अतः कारणस्य क्षणिकत्वात्कार्यस्य क्षणि कत्वं वेदितव्यम्, ये हेतवो ये प्रत्ययाः रूपस्यात्पादाय तेऽप्यनित्याः, अनित्यान् खलु हेतुप्रत्ययान् प्रतीत्योत्पन्नं रूपं कुतो नित्यं भविष्यतीति सूत्रपदानुसारेण। चित्तवश वर्त्तितां चोपादाय, प्रभावविशिष्टस्य च चित्तस्य रूपं वशे वर्तते, तेन यथेष्टं परिणामात्। अतः प्रतिक्षणमन्यथाधिमोक्षे सत्यन्यथोत्पादात्क्षणिकत्वसिद्धिः। अपि खलु अन्ते विकारोपलब्धितामुपादाय, न हि प्रतिक्षणप्रकृतिविकारितामन्तरेणाकस्मिको रूपस्यान्ते विकारो युक्तः , स चोपलभ्यते। तस्मात्स्वासांतानिकप्रतिक्षणविकाराभिवृद्धिहेतुकत्वादन्त्यस्य रूपविकारस्य क्षणिकं रूपमिति सिद्धम्। उत्पन्नस्य चानपेक्ष्य प्रत्ययं स्वरसविनाशितामुपादाय, सर्वस्योत्पन्नस्य विनाशः प्रत्ययमनपेक्ष्य स्वरसेनैव भवति। अतः प्रत्ययान्तरनिरपेक्षोऽवश्यंभावी विनाश उत्पन्नमात्रस्यैव भावस्य न भवति पश्चाद्भतीति [न] किंचिद्विशेषणमस्ति। तस्मात्सर्वेण विनाशिनोत्पन्नमात्रेण विनष्टमिति सिद्धं क्षणिकत्वम्॥



एकप्रदेशाश्रयिभावार्थ उपादायार्थः, भूतदेशनिरपेक्षस्य पृथक् स्वतन्त्रवृत्तितासामार्थ्याभावात्। अस्ति समुदाय एकभौतिकस्तद्यथा शुष्को मृत्पिण्डः। अस्ति द्विभूतिकः स एवार्द्रः। अस्ति त्रिभूतिकः स एवोष्णः। अस्ति सर्वभूतिकः स एवार्द्र उष्णश्च मृत्पिण्डो गमनावस्थायामिति। अस्ति समुदाय एकोपादायरूपिकस्तद्यथा प्रभा। द्‍व्युपादायरूपिकस्तद्यथा शब्द गन्धो वायुः। त्र्युपादायरूपिकस्तद्यथा धूमः, तस्य रूपगन्धस्प्रष्टव्यविशेषप्रभावितत्वात्। स्प्रष्टव्यविशेषः पुनरत्र लघुत्वं वेदितव्यम्। चतुरुपादायरूपिकस्तद्यथा गुडपिण्डः। पञ्चोपादायरूपिकस्तद्यथा स एव सशब्दः। इत्य[न्य] त्रापि यद्यत्रोपलभ्यते भूतं भौतिकं वा तत्र तदस्तीति वेदितव्यं नान्यत्र।



निः शरीरः परमाणु रिति निःस्वभावो व्यवस्थानमात्रमित्यर्थः, अपकर्षमर्यादाभावात्। बुद्ध्या पर्यन्तभेदतस्तु परमाणु व्यवस्थानं बुद्ध्या यावानवयपापकर्षपर्यन्तः शक्यते प्रभेत्तुं तावता परमाणु व्यवस्थानं क्रियते। किं पुनः कारणं यदेवं निःशरीरोऽपि परमाणुर्व्यवस्थाप्यते। पिण्डसंज्ञाविभा[व]नतामुपादाय, अवयवशो हि बुद्ध्या भिद्यमाने रूपे सर्वमेतदेकं रूपमिति पिण्डसंज्ञा विगच्छति, यतः पुद्गलनैरात्म्यप्रवेशस्यानुकूल्यं भवताति। रूपद्रव्यापरिनिष्पत्तिप्रवेशतां चोपादाय, एवं हि बुद्ध्या भिद्यमानं रूपं न किंचिद्भवतीति मत्वा रूपद्रव्यस्यापरिनिष्पत्तिं प्रविशति, यतो विज्ञप्तिमात्रावतारेण धर्मनैरात्म्यप्रवेशस्यानुकूल्यं भवतीति॥



विपुलदुःखमसंलिखितं कामावचरमनुपचितकुशलमूलानाम्, सर्वदुःखतागतियोनिप्रभावितत्वात् कामधातोरनुपचित्तकुशलमूलत्वेनानावृतं सर्वगतिगमनत्वाच्च यथाक्रमं तद्विपुलमसंलिखितं च वेदितव्यम् संलिखितं तदेवोत्पन्नमोक्षभागीयानाम्, अवश्यं परिनिर्वाण नियमात्। संलिखितासंलिखितं तदेव कामावचरं दुःखं लौकिकवैराग्यावरोपितकुशलमूलानाम्, दुःखदुःखतादिसमतिक्रमनियमितत्वादनात्यन्तिकत्वाच्च यथाक्रमम्। एवं मध्यासंलिखितादीनि यथायोगं योजयितव्यानि। महासंलेखप्रत्युपस्थानमनेकसत्त्वसंतानिकदुःखापनयन प्रत्युपस्थानात्॥



कुशलादिचित्तस्य मरणमित्यात्मस्नेहसंप्रयुक्ताच्च्युतिचित्तापवर्गावस्थामधिकृत्य वेदितव्यम्। मनोमय उपपादुकत्वेन, चित्तमात्रहेतुकत्वात्। गन्धर्वो गन्धेनार्वणात् गन्धानुसारेणो पपत्तिदेश [ग] मना दित्यर्थः। परं सप्ताहं तिष्ठत्य न्तरेण च च्यवते यद्युपपत्तिप्रत्ययान लभते। अथ न लभते सप्ताहात्परेण च्युत्वा पुनरन्तराभव एव निवर्तते। एवं याव [त्] सप्तकृत्वः ततः परेण एकदा च व्यावर्तते यदि तदवस्था स्याद्यत्रोपपत्तिप्रत्य[य] बलवन्त आमुखीभूता भवन्ति चतुर्थध्यानलाभिनोऽर्हत्त्वाभिमानिनो भिक्षोस्तद्भूमिकान्तराभवाभिनिर्वृत्तौ मोक्षापवादि कमिथ्यादृष्टिप्रतिलम्भान्नारकान्तराभवाभि निर्वृत्तिवत्। तत्रस्थश्च कर्मोपचिनोति, पूर्वावेधवशेन कुशलादिचेतनासमुदाचारात्। सभागांश्च सत्त्वान्पश्यति यैः सह पूर्व तत्कुशलमकुशलं वा चरितं भवति तैः सह वर्तमानमात्मानं स्वप्न इव संजानीते। यत्र चासावुपपन्नो तत्पूर्वकालभवाकृतिर्निर्वर्तते। तत ऊर्ध्वमिन्द्रियाभिनिर्वृत्तिर्यथा प्रतीत्यसमुत्पाद इति नामरूपाद्यानुपूर्व्या। यथोक्तम् -



कललं प्रथमं भवति कललाज्जायतेऽर्वुदम्।

अर्बुदाज्जायते पेशी पेशी तो जायते धनम्॥

घनात्प्रशाखा जायन्ते केश लोमनखादयः।

इन्द्रियाणि च रूपीणि व्यञ्जनाद्यनुपूर्वशः॥



समुदयसत्यं यतो दुःख समुदेति। तत्पुनः कतमत्। क्लेशाः क्लेशाधिपतेयं च कर्म इति सास्त्रवमित्यर्थः। यद्येवं किमर्थ भगवता तृष्णैव समुदय निर्देशे निर्दिष्टा। सर्वत्रगत्वेन प्राधान्यात्। तृष्णा वस्तुसर्वत्रगा प्राप्ताप्राप्तसर्वात्मभावविषयवस्तुव्यापनात्। प्राप्ते आत्मभावे तृष्णा, अप्राप्ते पौनर्भविकी। प्राप्तेषु विषयेषु [नन्दीरागसहगता। अप्राप्तेषु विषयेषु ] तत्रतत्राभिनन्दिनी वेदितव्या। अवस्थासर्वत्रगा दुःखदुःखतादित्र्यवस्थेषु संस्कारेष्वनुग[ त]त्वात्। तत्र दुःखदुःखतावस्थेषु प्राप्तेषु वियोगतृष्णा, अप्राप्तेष्वसंयोगतृष्णा। विपरिणामदुःखतावस्थेषु अवियोगतृष्णा संयोगतृष्णा च, प्राप्ताप्राप्तभेदात्। संस्कारदुःखतावस्थेषु संमोहतृष्णा, क्लेशदौष्ठुल्यप्रभावितत्वाददुःखासुखवेदनाप्रभावितत्वाच्च। आलयविज्ञानं विशेषेण संस्कारदुःखतावस्थं तत्र चात्मसंमोहसुखेन तृष्णा प्रवृत्ता वेदितव्या। अध्वसर्वत्रगा त्रिष्वप्यध्वस्वनुगतत्वात्। अतीते तावदध्वन्यपेक्षाकारेणानुगता, अनागते अभिनन्दनाकारेण, प्रत्युत्पन्ने अध्यवसानाकारेण। धातुसर्वत्रिकात्रैधातुकस्फरणात्कामरूपारूप्यतृष्णाभिः। एषणासर्वत्रिका तया कामभवमिथ्याब्रह्मचर्यैषणात्। कामैषणया कामधातोरपरिमुच्यमानस्तत्रैव दुःखं निर्वर्तयति। तथा भवैषणया रूपारूप्यधात्वोः दुख निर्वर्तयति। मिथ्या ब्रह्मचर्यैषणया संसारादपरिमुच्यमानस्तत्र संसरतीति। प्रकारसर्वत्रिका शाश्वतोच्छेदप्रकारानुगतत्वाद्भवविभव तृष्णाभ्याम्॥



दृष्टेः प्रञ्चाकारो भेदः - सत्कायदृष्टिरन्तग्राहदृष्टिमिथ्यादृष्टिः दृष्टिपरामर्शः शीलव्रतपरामर्श इति॥



अप्रशान्तलक्षणता क्लेशानां सामान्यलक्षणं वेदितव्यम्। सा पुनः षडाकारा तद्यथा विक्षेपाप्रशान्तता विपर्यासाप्रशान्तता औद्धत्याप्रशान्तता स्त्यान मिद्धाप्रशान्तता प्रमादाप्रशान्तताऽलज्जाप्रशान्तता च॥



क्लेशानुशयश्चाप्रहीणो भवतीति तत्पक्षस्य दौष्ठुल्यस्यासमुद्घाति तत्वात्। क्लेशस्थानीयश्च धर्म आभासगतो भवति रंजनीयादिः। तत्र चायो निशोमनस्कारः प्रत्यवस्थितो भवतीति तस्मिन्विषये शुभनिमित्ताद्युद्ग्राहको रागाद्युत्पत्त्यनुकूलः॥



अविद्या दृष्टिविचिकित्सा ऊर्ध्वभूम्यालंवना अपि सन्ति न पुनरासां सा भूमिः साक्षादालंवनं वेदितव्यं यथा स्वभूमिः, तत्परिकल्पमुखप्रवृत्तत्वात् तु तदालंवनव्यवस्थानं वेदितव्यम्। तत्राविद्या ऊर्ध्वभूम्यालंवना या दृष्टिसंप्रयुक्ता। दृष्टिः सत्कायदृष्टि स्थापयित्वा, न हि परभूमिकान् संस्कारानहमित्यभिनिविशमानो दृष्ट इति। ऊर्ध्वभूमिकस्य तु क्लेशस्याधोभूमिरालंवनं न भवति, ततो वीतरागत्वात्। निरोधमार्गालंवनस्य तौ नालंवनम्, लोकोत्तरेण ज्ञानेन तत्पृष्ठलब्धेन वा प्रत्यात्मवेदनीयत्वात्। तत् परिकल्पितं त्वस्यालंवनमिति वक्तव्ये तत्परिकल्पस्त्वस्यालंवनमिति वचनम्, तदव्यतिरेकात्परिकल्पितस्य॥



रागः प्रतिधेन न सं[प्र]युज्यते, एकान्तविरुद्धयोरेकत्र वृत्त्ययोगात्। विचिकित्सयापि न सं [प्र] युज्यते, न हि विचिकित्साव्यवस्थितबुद्धिरध्यवस्यतीति। शिष्टैस्त्वस्य मानादिभिरविरुद्धत्वात्संप्रयोगो वेदितव्यः। प्रतिघो मानेन दृष्ट्या च न संप्रयुज्यते, न हि यो यत्र वस्तुनि प्रतिहतस्तेन स उन्नतिं गच्छति तद्वा संतीरयितुं शक्नोतीति, एवमन्यदपि योजयितव्यम्॥ क्रोधादय अन्योन्यं न संप्रयुज्यन्त इति विरुद्धा विरुद्धैर्न सं[प्र]युज्यन्ते। तद्यथा रागांशिकाः प्रतिघांसिकैः। अविरुद्धास्तु क्लेशवदेव संप्रयुज्यन्त इति वेदितव्यम्। आह्रीक्यानपत्राप्यं सर्वत्राकुशले संप्रयुज्यते, स्वपरनिरपेक्षतामन्तरेणाकुशलसत्स मुदाचारा संभवात्। एवं स्त्यानादयः सर्वत्र क्लिष्टे योजयितव्याः, अक र्मण्यादिकमन्तरेण क्लिष्टत्वा संभवादिति॥



यद्येन प्रकारेण यस्मिन् वस्तुनि संप्रयोजयति तन्निर्देशेन संयोजननिर्देशो वेदितव्यः। किं संयोजयति। अनुनयसंयोजनं तावत्त्रैधातुकरागस्वभावं संयोजयति। केन प्रकारेण संयोजयति। तद्वतः त्रैधातुकानुद्वेगे सत्यकुशलसमुदाचरतः कुशलासमुदाचरतश्च। कस्मिन् संयोजयति। आयत्यां दुःखाभिनिर्वृत्तौ। एवं प्रतिघसंयोजनादिषु योजयितव्यः। अविद्यासंयोजनेन संप्रयुक्तो दुःखधर्मान् समुदयधर्मान्ना ध्यवस्यति, फलहेतुभूतान्सास्त्रवान्संस्कारास्तदादीन वापरिज्ञानात्। दृष्टिसंयोजनेन संप्रयुक्तो मिथ्यानि सरणं पर्येषत इत्यह मोक्षो मम मोक्षो मुक्तश्च नित्यो भविष्यास्यु च्छेत्स्यामि वेति, न च बौद्धानामस्ति मोक्ष इति। परामर्शसंयोजनेन सं[प्र]युक्तो मिथ्यानिःसरणोपायं कल्पयत्यभिनिविशते, आर्याष्टाङ्गं मार्ग हित्वा सत्कायदृष्टया तत्पूर्वकेण च शीलव्रतेन शुद्धिप्रत्ययनात्॥



रागादिबन्धनैविपरिणामदुःखतादिबन्धनवचनं सुखादिवेदनानुशयितत्वात्। बाह्येन हि बन्धनेन वद्धो द्वयं न लभते - गन्तुं च न लभते, आसीनोऽपि यथेष्टमभिप्रेतचेष्टायां कामकारं न लभते। तत्साधर्म्ये णाध्यात्मिकं रागादिबन्धनं वेदितव्यम्॥



कामैषणाया अविरतस्य कामरागप्रतिघानुशया वनुशया ते, तन्मुखेन तयोः पुष्टिगमनात्। मिथ्या मोक्षं मोक्षोपायं च सन्तीरयन्तीति यथाक्रमं तिसृभिर्दृष्टिभिर्द्वाभ्यां च परामर्शाभ्यां यथा संयोजनेषूक्तमिति॥



षड् रागादीन् क्लेशान् स्थापयित्वा तदन्यः क्लिष्ट श्चैतसिकः संस्कारस्कन्धः क्रोधादिको वेदितव्यः।



कुशलपक्षान्तरायाय योगिनां पुनःपुनरुद्धेगेन चित्तं पर्यवनह्यन्तीति पर्यवस्थानानि। कुशलपक्षः पुनर्यथाकालं शमथप्रग्रहोपेक्षानिमित्तभावना तत्संनिश्रयश्च ब्रह्मचर्यादिशुद्धिसंगृहीतं शीलम्। तत्र शमथकाले स्त्यानमिद्धमन्तरायं करोति, आध्यात्मं संक्षेपावाहनात्। प्रग्रहकालें औद्धत्यकौकृत्यम्, बहिर्धा विक्षेपावाहनात्। उपेक्षाकाले ईर्ष्या मात्सर्यम्, तद्वतः परात्मसंपत्त्यमर्श ग्रहमुखेन मुहुर्मुहुश्चित्तकंपनात्। शीलविशुद्धिकाले आह्वीक्यानपत्राप्यम्, तदुभयवतः सर्वथाऽऽपत्तिस्थानेष्वलज्जनादिति॥



संक्लेशव्यवदानगुणवैगुण्यार्थेन यथाक्रममोघयोगव्यवस्थान वेदितव्यम्। आश्रिताश्रयसंबन्धयो गेनेति दृष्टयौ घ आश्रितः, अविद्यौघ आश्रयः, संमोहे सति मोक्षतदुपायविपरीतं संतीरणात्॥



दृष्टिशीलव्रतोपादानाभ्यां तीर्थ्या अन्योन्यं विवदन्ति, तत्रानेकमत्यात्। आत्मवादोपादाने [न] त्वन्योन्यं न विवदन्ति, आत्मनोऽस्तित्वं प्रति सर्वेषां मतसाम्यात्। आत्मवादोपादानेन तीर्थ्याहधार्मिकैः साद्धै विवदन्ति, एषां नैरात्म्यवादित्वात्॥



अभिध्यादयः कायग्रन्था इति न रूपकायस्यैत्ते ग्रन्था वेदितव्याः किंतर्हि समाहितचित्तस्वभावस्य कायस्य परिग्रन्थार्थेन ग्रन्थाः। पृथग्दृष्टिसंनिश्रयेणेदमेव सत्यं मोघमन्यदित्यभिनिविश्य ज्ञेयं संतीरयतामयोनिशो ज्ञेयसंतीरणहेतोः चित्तं विक्षिप्यते। कुतो विक्षिप्यते। समाहितचित्तस्य यथाभूतज्ञानदर्शनतः॥



कुशलपक्षस्यासंप्रख्यानाय चित्तं निवृण्वन्तीति निवरणानि कुशलप्रवृत्तेरन्तरायं कुर्वन्तीत्यर्थः। कामच्छन्दं प्रव्रज्याभिरतेरन्तरायं करोति, विषयोपभोगाभिलाप मुखेन तत्र तत्राभि रमणात्। व्यापादश्चोदनायां सम्यक्प्रतिपत्तेः, सब्रह्मचारिभिः शिक्षास्थानेषु चोद्य मानस्य व्यापन्नचित्ततयाऽसम्यक्‍शैक्षणात्। स्त्यानमिद्धमोद्धत्यकौकृत्यं च शमथप्रग्रहयोः, पूर्ववत्संक्षेपविक्षेपावाहनादिभिः। विचिकित्सा उपेक्षायाम्, निश्चय मन्तरेणाभ्युपेक्षितुमशक्यत्वात्॥



प्रतिपक्षलांगर्लैदुर्भे दार्थेन खिलव्यवस्थानं वेदितव्यम्, जन्मान्तरा भ्यासेन खिलीभूतत्वात्॥



दौःशील्याशुचिसंभावनानिमित्तत्वान्मलाः॥



पुनः पुनः संसारे जातिजरामरणयोगेन निध्नन्तीति निघाः॥



भवभोगेषु रत्नेषु च तृष्णाविचिकत्सामुखेनानुप्रविश्य तोदनाच्छल्याः॥



बहूपकरणपरिग्रहेण सकिंचनं कृत्वा भयादिभिर्योजनात् किंचनाः॥



प्राणातिपाताद्यकुशलचर्यावाहनाद्‍दुश्चरितानि। लोभद्वेषमोहानामेवाकुशलमूलत्वेन व्यवस्थानम् , एभिर्मुखैः सत्त्वानां दुश्चरितचरणात्। तत्रामिषकिंचित्कहेतोः भोगार्थिनो लोभेन दुश्चरितं चरन्ति। अपकारनिमित्तपरिकल्पहेतोः परापराधामर्षिणो द्वेषेण, मिथ्याधर्माभिनिवेशहेतोः विपरीतदर्शिनो मोहेन दुश्चरितं चरन्ति याज्ञिकादय इति॥



चित्तविसारं स्त्रु तं कुर्वन्तीत्यास्त्रवाः॥



कायिकचैतसिकविघातकरत्वाद्विघाताः॥



अयोनिशोनिमित्तमनुव्यञ्जनं च ग्राहयित्वा कायं चित्तं च परिदहन्तीति परिदाहाः॥



रूपादिके वस्तुनि रत्यध्यवसानं कारयित्वा तद्विपरिणामे शोकादिभिः सत्त्वानायासन्तीत्यु पायासाः॥



रणयन्ति शस्त्रादानादिभिरिति रणाः॥



अधर्मरागादिमहापरिदाहकरत्वात् ज्वरा इव ज्वरा वेदितव्याः॥ तत्राधर्मरागः योऽकुशलेषु कर्मपथेणानुरागः। विषमलोभोऽन्यायेनाधर्मेण विषय पर्यष्टिः। मिथ्याधर्मो दुराख्यातो धर्मविनयो वेदितव्यः॥



जाति मूलक संस्कारतरुवनं संजानयन्तीति वनसाः॥



कायसापेक्षादितया कुशलप्रयोगविबन्धनाद्विबन्धाः॥ कायसापेक्षतादीनि पुनः पञ्च चेतोविनिबन्धानधिकृत्य॥



रागो विषये दृष्टौ च विप्रतिपन्न इति भावनाप्रहातव्यो दर्शनप्रहातव्यश्च यथाक्रमम्। शुभता मात्रालंबनत्वाद्रागस्य योऽपि सत्त्वेषु रागः सोऽपि विषयमुखेनंव विप्रतिपन्नो वेदितव्यः। एवं प्रतिकूलमात्रालंबनत्वात् प्रतिघस्य सत्त्वेष्वपि प्रवर्तमानो विषयमुखेनैव विप्रतिपन्नो वेदितव्यः॥ मानः सत्त्वेषु दृष्टौ च [वि] प्रतिपन्नः हीनादस्मि श्रेयानित्येवमाद्याकारप्रवृत्तत्वात्सत्वेषु विप्रतिपन्नो वेदितव्यः। सत्कायान्तग्राहमिथ्यादृष्टयो ज्ञेये विप्रतिपन्नाः समारोपापवादमुखेन यथायोगम्। शीलव्रतपरामर्शादिः दृष्टौ विप्रतिपन्नः दृष्टिदोषेणैव शीलव्रतस्य शुद्धितः परामर्शनात्। विचिकित्सा प्रतिपक्षे विप्रतिपन्ना सत्येषु बुद्धिर्द्वघापादनात्। ते दुःखसमुदययोर्दशापि क्लेशा निदानं भवन्ति। तौ च तेषां पदस्थानम्। अतस्ते तन्निदानपदस्थानतो विप्रतिपन्ना इत्युच्यन्ते। निरोधे मार्गे चोत्त्राससंजननतो विप्रतिपन्नाः क्लेशवशात्संसारेऽभिरतस्य व्यवदानतः प्रपातसंज्ञात्रासात्। विपरीतकल्पनतश्च निरोधे मार्गे च विप्रतिपन्ना द्रष्टव्याः, तीर्थ्यैरन्यथा परिकल्प्य तत्र [वि]प्रतिपत्तेः॥



कामावचरो रागः पञ्चविज्ञानकायिकः सुखेन संप्रयुज्यते। मनोविज्ञानकायिकः सौमनस्येन। सर्व उपेक्षयाप्रबन्धोपरतिकाले। दुःखदौर्मनस्याभ्यां तु न संप्रयुज्यते, हर्षाकारप्रवृत्तत्वात्॥



प्रतिघो दुःखेन संप्रयुज्यते पञ्चविज्ञानकायिकः, षष्ठो दौर्मनस्येन, सर्व उपेक्षया पूर्ववत् सुखसौमनस्याभ्यां न संप्रयुज्यते, दैन्याकारप्रवृत्तत्वात्॥



मानः कामधतौ सुखेन न संप्रयुज्यते, पञ्चविज्ञानकायिकाभावात्। प्रथमद्वितीययोस्तर्हि ध्यानयोः कथं सुखेन संप्रयुज्यते। मनोभूमिकेन सुखेन। कथं तत्र मनोभूमिकं सुखम्। यत्तदुच्यते प्रीतिसुखमिति, यथोक्तम् -"प्रीतिः कतमा। या परिवृत्ताश्रयस्य परिवृत्तिविज्ञानाश्रिता चित्ततुष्टिः चित्तौद्विल्यं चित्तहर्षः चित्तकल्पता सातं वेदितं वेदनागतम्। सुखं कतमत्। यत्परिवृत्ताश्रयस्यालयविज्ञानाश्रित आश्रयानुग्रहत आश्रयह्लादः सातं वेदितं वेदनागतमिति।" तदेतदुक्तं भवति। सुखा वेदना प्रथमद्वितीययोर्ध्यानयोरुत्पद्यमाना येन चित्तचैतकलापेन संप्रयुज्यते तं च हर्षाकारेण प्रीणयति, आश्रयं चालयविज्ञानस्वभावं प्रस्त्रब्धिसुखेन ह्लादयति। अतस्तदुभयकृत्यकरत्वादुभयथैवास्या व्यवस्थानं वेदितव्यं प्रीतिः सुखं चेति। तस्मात्तया संप्रयुज्यमानो मानः सुखेन सौमनस्येन च संप्रयुज्यत इत्युच्यते।



मिथ्यादृष्टिः कामधातौ दौर्मनस्येन सौमनस्येन च संप्रयुज्यते, सुकृतदुष्कृतकारिणां तद्वैफल्यदर्शनेनाधृतिहर्षोत्पादात्। सुखदुःखाभ्यां न संप्रयुज्यते, मनोभूमिकत्वात् सर्वस्या दृष्टेः॥



विचिकित्सा कामधातौ सौम नस्येन न संप्रयुज्यते, अनिश्चितचित्तस्य नैर्वृत्त्यमन्तरेण सौमनस्याभावात्। रूपधातौ विचिकित्सोत्तरध्यायिनामपि प्रीतिसुखं समाधिवलाधानेनानुवर्तत एवेति तत्र सुखसौमनस्याभ्यामपि संप्रयुज्यते॥



आवेणिकाया अप्यविद्याया एष एव नयो द्रष्टव्यः सुख सौमनस्याभ्यां संप्रयोगासंप्रयोगमारभ्य॥



सर्वक्लेशा उपे क्षया संप्रयुज्यन्ते औदासीन्यमागम्यास्तगमनतामुपादायेति क्लेशप्रवन्धस्य मन्दतरतमतागमनेनोपरतवेगस्योपरमणादन्तेऽवश्यमौदासीन्यमुखेनोपेक्षायाः संप्रयोगो वेदितव्यः॥



रूपधातौ चतुर्विज्ञानकायिकस्तत्र घ्राणजिह्वाविज्ञानाभावात्। मानादयो मनोविज्ञानकायिका एव, परितुलनतामुखप्रवृत्तित्वात्। मानस्यैकदेश प्रवृत्तित्वं केनचिदेवांशेनोन्नतिगमनात्॥



कामधतौ दश दुखदर्शनप्रहातव्या इति ये तत्र तन्निदानपदस्थानतो विप्रतिपन्नाः। एवं समुदयादिषु यथायोगं विप्रतिपन्नास्तद्दर्शनप्रहातव्या इति वेदितव्याः। किं खलु ये यदालंबनास्ते तत्र विप्रतिपन्ना इति वेदितव्याः। नावश्यम्, अनास्त्रवालंवनानां सास्त्रवे वस्तुन्यनुशया दिति। रूपधातौ प्रतिधाभावान्नव एव दुःखादिदर्शनप्रहातव्या वेदितव्याः। एवमारूप्यधातौ। सहजा सत्कायदृष्टिः का भावनाप्रहातव्या। यामधिष्ठायोत्पन्नदर्शनमार्गस्याप्यार्य श्रावकस्यास्मिमानः समुदाचरति। यथोक्तम् -" नाहमायुष्मन्दासकेमान् पञ्चोपादानस्कन्धानात्मत [आ]त्मीयतो वा समनुपश्याम्यपि त्वस्ति मे एषु पञ्चसूपादानस्कन्धेष्वस्मीति मानोऽस्मीति छन्दोऽस्मीत्यनुशयोऽप्रहीणोऽपरिज्ञातोऽनिरोधितोऽवान्तीकृत इति। यथा क्लिष्टस्य धात्रीचैलस्योषादिभिः सुधौतस्य निर्मलस्यापि सतस्तदधिवासनाकृतं गन्धमात्रमनुवर्तते यत्तत्सुगन्धद्रव्यपरिभावनया भूयोऽप्यपनेतव्यं भवत्येवमेव दर्शनमार्गेण प्रहीणपरिकल्पितसत्कायदृष्टिमलस्याप्यार्यश्रावकस्य पूर्वाभिनिवेशाभ्यासकृतमपरिच्छिन्नवस्तुकमात्मदर्शनमनुवर्तते यत्तत्पुनर्मार्गभावनया प्रहातव्यं भवतीति। अन्तग्राहदृष्टिः सहजोच्छेददृष्टिसंगृहीता वेदितव्या, यया निर्वाणात् प्रत्युदावर्तते मानसं परित्रसनमुपादायाथ कस्तर्हि मे आत्मेति। रागादयो भावनाप्रहातव्या दृष्टिपक्षान् मुक्त्वा॥



तन्निदानवस्तुपरिज्ञानं क्लेशानुशयश्चा प्रहीणो भवत्येवमादि पूर्ववत्। स्वभावपरिज्ञानं क्लेश एष उत्पन्नः चित्तसंक्लेशात्मक इति। आदीनवपरिज्ञानभात्मा व्यावाधाय संवर्तते परव्याबाधायोभय व्या[बा]धाय, दृष्टधामिकमवद्यं प्रसवति सांपरायिकं दृष्टधर्मसांपरायिकमवद्यं प्रसवति तज्जं चैतसिकं दुःखदौर्मनस्यं प्रतिसंवेदयत इत्येवं त्रिभिः प्रकारैः परिज्ञायोत्पन्नः क्लेशो ऽनधिवासनयोगेन परिवर्ज्यते। अनुत्पन्नस्य त्वनुत्पादाय मार्गो भाव्यते॥



असभिन्नालंबनेन मनस्कारेणेति मिश्रालंबनेन सर्वधर्मसामान्य लक्षणाकारेणेत्यर्थः। यदि सर्वधर्मा अनात्मन इति नैरात्म्यज्ञानेनैव क्लेशप्रहाणं भवत्यनित्याद्याकाराः किमर्थमुपदिश्यन्ते। न ते क्लेशप्रहाणार्थ किंतर्ह्यनात्माकारपरिकर्मार्थम्। अनित्याकारं हि निःसृत्यानात्माकारः। यथोक्तम् -" यदनित्यं तद्दुखं यद्दुखं तदनात्मेति"। अत एवानात्माकारस्यानुत्तयै व्यवस्थानम्। आनुत्तर्याण्यारभ्य त्रीण्यानुत्तर्याणि - ज्ञानानुत्तर्य प्रतिपदानुत्तर्य विमुक्त्यानुत्तयै च। तत्र ज्ञानानुत्तर्य नैरात्म्यज्ञानम्, ततः परेण ज्ञानान्तरापर्येषणा[त्]। प्रतिपदानुत्तर्य सुखा क्षिप्राभिज्ञा, तस्याः सर्वप्रतिपदग्रत्वात्। विमुक्त्यानुत्तर्य मशैक्षाकोप्या च विमुक्तिः, सर्व विमुक्ति प्रतिविशिष्टत्वात्। एतानि च त्रीण्यानुत्तर्याणि यथाक्रमं दर्शन भावनानिष्ठा मार्गानधिकृत्य वेदितव्यानि॥



उपलब्धिकर्म चक्षुरादीनां रूपदर्शनादि। कारित्रकर्म पृथिव्यादीनां धारणादि यद्वा यस्य स्वलक्षणकृत्यम्। तद्यथा रूपणा रूपस्येत्येवमादि। व्यवसायकर्माभिसंधिपूर्वकं कायादिकर्म। परिणतिकर्म सुवर्णकारादीनामलंकारादि। प्राप्तिकर्मार्यमार्गादीनां निर्वाणाधिगमादि॥ अस्मिंस्त्वर्थे यद्भूयस्या व्यवसा कर्माभिप्रेतमिति प्राप्ति कारित्रकर्मणोरपि संभवात्॥



कायादिकर्म कर्मपथा इति सूत्रानुसारेण यथाप्रधानं निर्देशो वेदितव्यः, तत्प्रयोगादीनापि कायादिकर्मान्तर्भावात्। त्रयश्चत्वारस्त्रयश्च कर्मपथा यथाक्रमं कायवाङ्मनःकर्मलक्षणा वेदितव्याः॥ प्राणातिपातादीनां वस्तु सत्त्वसंख्यातमसत्त्वसंख्यातं वा यथायोगं यदधिष्ठाय प्राणातिपातादयः प्रवर्तन्ते। आशयस्तत्र वस्तुनि तत्संज्ञाशयस्तत्कर्मपथक्रियेच्छाशयश्च। प्रयोगस्तत्क्रियायै स्वयं परैर्वा कायवाङ्मनोभिरारम्भः। क्लेशः लोभद्वेषमोहा यथायोगं समस्तव्यस्ताः। निष्ठागमनं तेन तेन प्रयोगेण तस्य तस्य कर्मणः परिपूरणं तत्कालमूर्ध्वकालं वा॥ तत्र प्राणातिपातस्य वस्तु सत्त्वः। आशयस्तत्र तत्संज्ञिनो वधाभिप्रायः। प्रयोगो वधो यत्प्रहरणादिभिः। क्लेशो लोभादिकः। निष्ठागमनं तस्य प्राणिनस्तेन प्रयोगेणानन्तरं प्रश्चाद्वा मरणम्॥ अदत्तादानादोनां वस्तु च निष्ठागमनं च निर्धेक्ष्यामः। शेषं यथायोगं योजयितव्यम्। अदत्तादानस्य वस्तु परपरिगृहीतं सत्त्वसंख्यातम सत्त्वसंख्यातं वा। निष्ठागमनं तत्स्वीकरणम्। काममिथ्याचारस्य वस्त्वगम्या स्त्री गम्या वानङ्गादेशाकाले वमात्रायुक्ताभ्यां च सर्वश्च पुमात्रपुंसकं च। निष्ठागमनं द्वयद्वयसमापत्तिः। मृषावादस्य वस्तु दृष्टं श्रुतं मतं विज्ञातमदृष्टमश्रुतममतमविज्ञातं च।



आशयोऽन्यथावत्कुकामता। निष्ठागमनं पर्षत्प्रतिवादिविज्ञापनम्। पैशुन्यस्य वस्तु समग्रव्यग्राः सत्त्वाः। आशयस्तेषामेव भेदाप्रतिसंधानाभिप्रायः। निष्ठागमनं भेद्यविज्ञा पनम्। पारुष्यस्य वस्त्वाघातनिमित्तभूताः सत्त्वाः। निष्ठागमनं पारूषाणाम्। संभिन्नप्रलापस्य वस्त्वनर्थोपसंगृहीतार्थः। निष्ठागमनं तस्य भाषणम्। अभिध्याया वस्तु परकीयं वित्तोपकरणम्। आशयस्तत्र तत्संज्ञिनस्तथारुचिः। प्रयोगस्तत्स्वीकरण संप्रधारणम्। निष्ठागमनं तत्स्वीकरणनिश्चयः। व्यापादस्य वस्त्वाघातनिमित्तभूताः सत्त्वाः। निष्ठागमनं प्रहनननिश्चयः। मिथ्यादृष्टेर्वस्तु सन्नर्थः। आशयः सत्यतत्संज्ञिन स्तथारुचिः। निष्ठागमनमपवादनिश्चयः॥



पराज्ञप्तिसंचेतनीयता यथा कश्चिदनिच्छन्नपि परैर्वलादाज्ञाप्य मनोऽभिसंघायाकुशलमाचरति। परसंज्ञप्तिसंचेतनीयता यथा कश्चिदनिच्छन्निव परैः संज्ञाप्यमानः समादाप्यमानो हितमेतदिति ग्राह्यमाणोऽभिसंघाया कुशलमाचरति। अविज्ञाय संचेतनीयता यथा कश्चिद्गुणदोषानभिज्ञोऽनभिनिविष्टः यदृच्छयाभिसंधायाकुशलमाचरति। मूलाभिनिवेशसंचेत नीयता यथा कश्चिद्कुशलमूलैः लोभादिभिरभिभूत आविष्टचित्तस्तीव्रेणाभिनि वेशेनाभिसंघायाकुशलमा चरति। विपर्याससंचेतनीयता यथा कश्चिद्धर्मकामो विषमहेतुदृष्टि रायत्यामिष्टफलार्थमभिसंधाया कुशलमा चरति। तत्र पूर्विकाभिस्तिसृभिः संचेतनीयताभिः कृतमपि कर्म नैवोपचीयते यतोऽस्य नावश्यं विपाकः प्रतिसंवेदनीयः। पश्चिमाभ्यां तु संचेतनीयाभ्यां यदि कृतं भवत्युपचितं चावश्यमेवास्य विपाकः प्रतिसंवेद्यते। उपचयो वासनावृद्धिरित्यालयविज्ञाने विपाकबीज परिपोषणं वेदितव्यम्॥



कर्मक्रियानियमः पूर्वकर्मभिरेव नियम्य विपाकसंततिराविद्धा भवति। यदस्मिन् जन्मन्यनेनेदं कर्म करणीयमिति स तमवधि मलंघयित्वा तत्कर्म करोति, यस्याकरणाय प्रतिबन्धं बुद्धा अपि भगवन्तो न समर्थाः कर्तुम् यथाहेतुनियमनं फलसंतानपरिणामादिति। विपाकप्रतिसंवेदनानियमः संचेतनीयस्य कर्मणः पूर्ववत्। अवस्थानियमे दृष्टधर्मवेदनीयादि भिरवस्थापि नियमिता भवतीति। यथानेन विपाकेन दृष्टे धर्मे भवितव्यमनेनोप पद्यानेनापरस्मिन् पर्याय इति॥



अकु शलानां कर्मपथानां मृदुमध्याधि मात्राणां विपाकफलं तिर्यक्प्रेतनरकेषु वेदितव्यम्। निष्यन्दफलमपायेभ्यश्च्युत्वा मनुष्येषूपपन्नानं प्रत्येकं प्राणातिपातादत्तादानाद्यानुरूप्येणात्मभावपरिग्रहयोर्विपत्तिः। तद्यथाऽल्पायुष्कता दारिद्रयमित्येवमादि यथायोगम्। अधिपतिफलं प्रत्येकं तदानुरूप्येणंव बाह्यानां भावानां [स] स्यादीनां विपत्तिः। तद्यथा प्राणातिपातस्याधिपत्येनाल्पौजसो भवन्त्येव मादि॥



यथासूत्रम् - "सर्वैर्दशभिरकुशलैः कर्मपथैरासेवितैर्भावितैर्बहुलीकृतैर्नरकेषू पपद्यते। तदेषां विपाकफलम्। स चेदिच्छत्व मागच्छति मनुष्याणां सभागताम्, प्राणातिपातेनाल्पायुर्भवति अदत्तादानेन भोगव्यसनी भवति। काममिथ्याचारेण ससपत्न दारः। मृषावादेना भ्याख्यानबहुलः। पैशून्येन मित्रभेदोऽस्य भवति। पारुष्येणामनोज्ञशब्दश्रवणं भवति। संभिन्नप्रलापेनानादेयवाक्यः। अभिध्यया तीव्ररागः। व्या पादेन तीव्रद्वेषः। मिथ्यादृष्टया तीव्रमोहः, तस्या मोहभूयस्त्वात्। इदमेषां निष्यन्दफलम्। प्राणातिपातेनात्यासेवितेन बाह्याभावा अल्पौजसो भवन्ति। अदत्ता दानेनाशनिरजोबहुलाः। काममिथ्याचारेण रजोऽवकीर्णाः। मृषावादेन दुगन्धाः। पशून्येनोत्कूलनि कूलाः। पारूष्येणोषरजङ्गलाः प्रतिक्रुस्टाः पापभूमयः। संभिन्नप्रलापेन विषमर्तुपरिणामाः। अभिध्यया सूक्ष्मफलाः। व्यापादेन कटुकफलाः। मिथ्यादृष्टयाऽल्पफला अफला वा। इदमेषामधिपतिफलम्॥



दशानां कुशलानां कर्मपथानां विपाकफलं देवमनुष्येषु। निष्यन्दफलं तेष्वेव प्रत्येकमानुरूप्येणात्मभावपरिग्रहसंपत्तिः।



यथाऽकुशलानां कर्मपथानां विपाकफलादि त्रिफला वस्थानं कृतम्, एवं कुशलादीनां कर्मपथानां सास्त्रवाणां देवमनुष्येषु त्रीणि फलानि यथायोगं योजयितव्यानि॥



एकेन कर्मणा एकमात्मभावमाक्षिपति, एकेन कर्म[क्ष]णेनैक जन्मिकस्यैव विपाकस्य बीजपोषणात्। एकेनानेकमाक्षिपति, तेनैवानेकजन्मिकविपाकबीजपोषणात्। अनेकेनैकमाक्षिपति, बहुभिः कर्मक्षणैः तस्यैवैकस्य पुनः पुनः बीजपोषणात्। अनेकेनानेकमाक्षिपति, बहुभिरन्योन्यापेक्षया जन्मपरंपराबीजपोषणादिति॥



केन कारणेन रूपारूप्यप्रतिसंयुक्तं कुशलमानिज्यमित्युच्यते। यथा कामावचरमन्यगतिकमपि परिपूरकं कुशलमूलमन्यत्र विपाकं प्रयच्छति, नैवं रूप्यारूप्या वचरम्, भूमिनैयम्येन फलदानात्। अतो विपाकदानं प्रत्यकम्पनार्थेनानिज्यमुक्तं समाहितभूमिकत्वाच्चाकम्पनार्थे [ने]ति॥



फलविपाकसंमूढस्यापुण्याः संस्काराः संभवन्ति, तेषामेकान्तक्लिष्टत्वेनाविद्यासांनिध्ये सति फलविपाकाभिसंप्रत्ययाकारायाः सम्यग्दृष्टेरनवकाशात्। तत्त्वार्थसंमूढस्य पुण्यानिंज्या स्तत्त्वार्थ उच्यते चत्वार्यायं सत्यानि। तत्र संमोहः कुशलचित्तानामप्यदृष्टसत्यानामनुशयतोऽनुबुद्धो भवति यद्वशेन ते दुःखतस्त्रैधातुकस्य यथाभूतमपरिज्ञानात् पुनर्भवहेतुभूतान् पुण्यानिज्यसंस्कारानुत्थापयन्ति। न त्वेवं दृष्टसत्यास्तत्त्वार्थसंमोहाभावात्। अतस्ते तद्धेतुका इत्युच्यन्ते॥



प्राणातिपातस्य लोभेन प्रयोगो मांसिकादीनाम्। द्वेषेणैव वैरनिर्यातनकामानाम्। मोहेन याज्ञिकादीनाम्। द्वेषेणैव निष्ठा निर्घृणतामन्तरेण परसत्त्वविपादनासंभवात्। एवं पारुष्यादीनां यथायोगं योजयितव्यम्।

अभिध्यादीनां कथं लोभादिभिः प्रयोगः। तत्राभिध्याकर्मपथः परवित्तोपकरणस्वीकरणनिश्चय इत्युक्तम्। तद्यदि तेनैव वित्तोपकरणेनार्थी भव[ति]तत्स्वीकरणायाभिसंस्करोत्यतोऽस्य लोभेन प्रयोगो व्यवस्थाप्यते। अथ मैवास्य भूदित्येवं द्वेषेण। अथ परस्वीकरणे न कश्चिद्दोष इति मोहेन प्रयोगो वेदितव्यः। एवमन्यदपि योजयितव्यम्॥



अन्योन्याधिपतेयमपि कर्म साधारणं वेदितव्यं यद्वशात्सत्त्वा अन्योन्यं चितचै त्तपरिणामनिमित्तं भवन्तीति॥



वैपक्षिकात् कर्मणः प्रातिपक्षिकै कर्म बल[व]द्द्रष्टव्यम्, प्रतिपक्षबलेनाक्षिप्तस्यापि विपक्षफलस्यान्यथात्वापादनात्। सर्व च कुशलं कर्म संचेतनीयं प्रतिपक्षबलिकस्याकुशलाद् बलवद्द्रष्टव्यम्। प्रतिपक्षवल दुर्बलस्य त्वकुशलं कुशला द्बलवत्। सर्व चाविशेषेण कुशलाकुशलं नियतविपाकमार्य मार्गेणाप्रहीणं बलवदित्युच्यते। कामप्रतिसंयुक्तमकुशलं प्रकृत्या बलवत्, क्लेशोपक्लेशादिबहुपरिवारत्वात्। यद्यपि पूर्वा भ्यस्तं तदपि बलवत्, संततेस्तेन भावितत्वात्। यदपि पदस्थं परिपूर्ण वयसाम्, तीब्राभि निवेशप्रसादकरणात्।यदप्यसाध्यमपरिनिर्वाणधर्मकाणाम्, प्रतिपक्षेणानुद्धार्यत्वात्। क्षेत्रतोऽपि मातृबधादिकम्। चित्ताभिसंस्कारतोऽपि महाबोधिप्रणिधानादिकं बलवत्कर्म वेदितव्यम्। पुनर्नव भिराकारैर्बलवत्कर्म वेदितव्यम्। तद्यथा क्षेत्रतो यदि गुणवद्दक्षिणीयं क्षेत्रं भवति। वस्तुनो यदि प्रणीतं प्रभूतं देयवस्तु भवति। स्वभावतो दानाच्छीलं शीलाद्भावनेत्येवमादिः। आश्रयतः पुण्यानां कर्ता यदि वीतरागो भवति। मनस्कारतो यदि तीव्रप्रसादसहगतो मनस्कारो भवति। आशयतो यदि निर्वाणाशयो भवति। सहायतो यदि तदन्यपुण्यक्रियावस्तुपरिगृहीतं भवति। बहुलीकारतः यदि पौनः पुन्ये न कृतं भवत्यनुवितर्कितं वा। बाहुजन्यतो यदि स्वयं च कृतं भवत्यन्यैश्च कारितमिति॥



य एवं वदेत् - यथा यथायं पुरुषपुद्गलः कर्म करोत्युपचिनोति तथा तथा विपाकं प्रतिसंवेदयत इत्येवं सति ब्रह्मचर्य वासो न भवत्यवका शश्च न प्रज्ञायते सम्यग्दुःखक्षयाय दुःखस्यान्तक्रियायै। कथं कृत्वा ब्रह्मचर्यवासो न भवति। तीब्रक्लेशस्य प्रतिसंख्याय सहदुःखेन सहदौर्मनस्येन शीलपरिपालनात्। यदि तद्विपाकस्तथैव सहदुःखेन सहदौर्मनस्येनानुभूयेत वृथा तत्परिपालनं स्यात्। पारदारिकप्रभृतीनां च सहसुखेन सहसौमनस्येन दौः शील्यकरणाद्यदि तद्विपाकस्तथैवानुभूयेत वृथा तद्विरतिः स्यादित्येवं कृत्वा ब्रह्मचर्यवासो न भवति॥ कथमवकाशश्च न प्रज्ञायते सम्यग्दुःखक्षयाय दुःखस्यान्तक्रियायै। अत एव तदुपनिषद्भतस्य ब्रह्मचर्यवासस्य दुःखविपाकत्वादिति। एवं च कृत्वा सुखसहगतस्य कर्मणः सुखसहगत एव विपाको दुःखसहगतस्य दुःखसहगतो ऽदुःखासुखसहगतस्य तत्सहगत एवेति नियमः प्रतिषिद्धः॥ अत्र य स्त्वेवं यथावेदनीयं यथावेदनीयमित्येवमादिना सुखसहगतस्य कुशलाकुशलस्य यथायोगमायत्यां सुखदुःखादुःखासुखवेदनीयस्य सुखादिको विपाकोऽनुज्ञातः। एवं दुःखादुःखासुखसहगतस्य सुखादिवे दनीयस्य सुखादिको विपाकोऽनुज्ञायत इति॥



प्रव्रजितस्य संवरः पञ्चविधो भिक्षुसंवरो यावच्छामणेरीसंवर इति। स दुश्चरितविवेकचरितं कामविवेकचरितं च पुद्गलमधिकृत्य व्यवस्थापितः। तथाहि स तादृशः शक्नोति यावज्जीवं प्राणातिपाताद ब्रह्मचर्याच्च विरन्तुमिति। उपासकोपासिकासंवरो दुश्चरितविवेक चरितमधिकृत्य नो तु कामविवेकचरितम्। अतः एवास्य यावज्जीवं काममिथ्या चारविरतिर्व्यवस्थाप्यते नाब्रह्मचर्यविरतिरिति। उपवाससंवरो नैव दुश्चरित विवेकचरितं न कामविवेकचरितम्। अत एवास्याहोरात्रिक उपवाससंवरः प्रज्ञप्तः, शनैस्तदुभयाभ्यसनार्थमिति। यथा पण्डपण्डकानां भिक्षुभिक्षुणी पक्षोपासनायोग्यत्वादुपासकत्वप्रतिषेधः, एवमुभयव्यञ्जनानामपि स्त्रीपुरुषक्लेशसमुदाचारेणोभयपक्षोपासनायोग्यतेति न ते पृथगुक्ताः। ध्यान संवरो दौः शील्यसमुत्थापकानां लोभादीनां कामावचराणां क्लेशोपक्लेशाना विष्कम्भणप्रतिपक्षेण बीजोपघाते सति प्रदेश वैराग्येणापि कामेभ्यो बीतरागस्य या तस्माद्वौः शील्याद्विरतिः। यावत्तृतीयध्यानवीतरागस्य दूरीभावप्रतिपक्षेण तेषामेव दौःशील्यसमुत्थापकानां सुलरां बीजोपघातो वेदितव्यः। चतुर्थध्यानवीतरागस्य त्वारूप्येषु रूपाभावाच्छोलसंवराव्यवस्थानं वेदितव्यम्॥



औरभ्रिका ये पशून् हत्वा तद्विक्रयेण जीविकां कल्पयन्ति। एवं कौक्कुटिकादयो यथासंभवं योजयितव्याः। नागबन्धका अरण्यात् हस्तिनो वद्धवाद[म]यन्ति। नागमण्डलिका ये सर्पानादाय तत्क्रीडनैर्जीवन्ति। मूत्रका ये परान् पैशुन्येनोपहत्व जीवन्ति। अभिजन्मतो वा तत्कर्मसमादानतो वेति तत्कुलीनस्यान्यकुलीनस्य च यथाक्रमम्। कायवाक्प्रयोगपूर्वकः तत्कर्माध्याचारनिश्चयोऽसंवर इत्युच्यते।



यथोक्तसंवरासंवरविनिर्मुक्तस्य दानप्रियवचनादिकं खटचपेटादिकं च कर्म नवसंवरोनासंवर इत्युच्यते॥



दृष्टधर्मवेदनीयं कर्म यत्र जन्मनि कृतं तत्रैव यद्विपच्यते। उपपद्यवेदनीयं यदनन्तरे जन्मनि, तद्यथा पञ्चानन्तर्याणि कर्माणि। यस्य तावदेक मेवानन्तर्य तस्य तद्विपाकोऽनन्तरं युक्तः, यस्येदानीं संबहुलानि तस्य कथं तद्विपाकप्रतिसंवेदना। सर्वेषां युगपद्विपाकः प्रतिसंविद्यते, तथाह्यनेकानन्तर्यकारिण आश्रयः सुकुमारतरो निर्वर्तते, कारणाश्च बहुतीव्रविचित्रा यद्वशाद्भूयसीं वेदनां प्रत्यनुभवति॥



आरम्भं च प्रत्येतानि दृष्टधर्मवेदनीयादीनि व्यवस्थाप्यन्ते, न तन्मात्रवेदनीयतामधिकृत्य। यस्य तत्रैव जन्मनि विपाको विपक्तुमारभते तद्दृष्टधर्मवेदनीयम्। यस्यानन्तरे जन्मन्यारभते तदुपपद्यवेदनीयम्। यस्यानन्तरं जन्म लघयित्वारभते तदपरपर्यायवेदनीयमि त्येवं च कृत्वा हाचित्तावदाने - " आनन्तर्यस्य कर्मणो नरके पुनःपुनश्च्युत्युपपादेन विपाकप्रतिसंवेदनम्" - अनुलोमितं भवतीति॥



कृष्णं कृष्णविपाकं कर्माकुशलम्, क्लिष्टत्वादनिष्टविपाकत्वाच्च॥



विपर्ययाच्छुक्लं शुक्लविपाकं त्रैधातुकं कुशलम्॥



कृष्णशुक्लं कृष्णशुक्लविपाकं यत्कामप्रतिसंयुक्तं विपाकं व्यामिश्रं कुशलाकुशलमित्यर्थः। कथमेकं कुशलं भवत्यकुशलं च। नात्र प्रवृत्तिक्षणनैयम्येनोच्यते तदेवोभयमित्यपि तु सहाशयप्रयोगेणैकं कर्मेत्ययमत्राभि संधिर्वेदिव्यः। तयोश्च कृष्णशुक्लतां प्रत्यन्योन्यासादृश्ये सत्येकं कर्म कृष्णशुक्लं व्यवस्थाप्यते। तत्राशयतः कृष्णं प्रयोगतः शुक्लं यथापि कश्चित्परान् वञ्चयितुकामस्तेषां संप्रत्ययननिमित्तं भावेन दानानि ददाति यावत्प्रव्रजत्यपि। प्रयोगतः कृष्णमाशयतः शुक्लं यथापि कश्चित्पुत्रं वा शिष्यं वाऽहितान्निवारयितुकामो हिते च नियोजयितुकामोऽनुकम्पाचित्तः कायेन वाचावा परुषया तस्मिन्काले संक्लिश्यते॥



अकृष्णशुक्लाविपाकं कर्म कर्मक्षयाय संवर्तते प्रयोगानन्तर्य मार्गेष्वनास्त्रवं कर्म प्रयोगमार्गा नन्तर्यमार्गाणां प्रहाणप्रतिपक्षत्वात्। तत्राकृष्णं क्लेशमलाभावात्। शुक्लमेकान्तव्यवदानत्वात्। अविपाकं संसारविरोधित्वात्। कर्मक्षयाय संवर्ततेऽस्यैव कृष्णादिकस्य त्रिविधस्य सास्त्रवस्य कर्मणस्तेनानास्त्रवेण कर्मणा विपाकदानवासनासमुद्घातात्॥



अविशेषेण च सर्वस्यानास्त्रवस्य कर्मणः परिपन्थमानुकूल्यं स्वभाव मधिकृत्य वंकदोषकषायाणां शौचेयानां मौनेयानां च यथाक्रमं व्यवस्थानं वेदितव्यम्॥



तत्र वंक मृजुकमार्गस्याष्टाङ्गस्योत्पत्त्यावरणभूतं कायवाङ्मनःकर्म। दोषो येन कायादिकर्मणा दूषिते संताने तत्तादृशमावरणभूतं कर्मोत्पद्यते। कषायाः तीर्थिकदृष्टिसंनिश्रितं कायादि कर्म, बुद्धशासनप्रसादविपक्षेणाश्रद्धय कालुष्यपरिगृहीतत्वात्। अपरः पर्यायः - शाश्वतोच्छेदानुपतितं मध्यमाप्रतिपद्विरोधार्थेन वंकम्। अपवाददृष्टिपरिगृहीतं व्यवदानव्यवस्थानप्रद्वेषार्थेन दोषः। सत्कायदृष्टिपरिगृहीतं नैरात्म्यतत्त्वदर्शनप्रतिवद्धा र्थेन कषाय इति॥



शौचेयानि सुविशुद्धशीलसंगृहीतमृजुदृष्टिसंगृहीतं च यत्कायवाङ्मनःकर्म, शीलदृष्टिविपत्तिमलवर्जितत्वात्। मौनेयानि शैक्षाशैक्षाणां यदनास्त्रवं कायवाङ्मनःकर्म मुनीनां तत्कर्मेति कृत्वा। दानसंपदमधिकृत्य दानं दाता भविष्यतीत्य नेनाभीक्ष्णदानतां दर्शयति, तच्छीलतया पुनः पुनर्दानात्। श्रमणेभ्यो ब्राह्मणेभ्य इत्येवमादिनाऽपक्षपात दानताम्, अविशेषे ण सर्वार्थिभ्यो दानात।



अन्नपानमित्येवमादिनेच्छापरिपूरणदानताम्, यथाभिप्रायं सर्वोपकरणवस्तुपरित्यागात्। मुक्त्यागः प्रततपाणिर्व्यवसर्गरतो यायजूकस्त्यागसंपन्नो दान संविभागरत इत्येभिः पदैर्यथाक्रममनिश्रितदानतादयो वेदितव्याः। अनिश्रितदानता पुनर्भवभोगापरिणामितत्वेन वेदितव्या॥ देयसंपदमधिकृत्योथान वीर्याधिगतैरित्यनेनानभिद्रुग्धदेयवस्तुतां दर्शयति। अभिद्रुग्धं ह्यनुत्थानबीर्याधिगतं भवति, स्वस्थाने स्थित्वा परनिक्षेपा[प]लपनेन प्रतिलब्धत्वात्। बाहुबलोपार्जितैरित्यनेनापरापहृतदेयवस्तुताम्। परेभ्यो ह्यपहृतं न बाहुवलोपार्जितं भवति, तैः कृच्छ्रेण विविधैरूपायैरजितस्यापहरणात्। स्वेदमला पक्षिप्तैरित्यने नाकुथितविमलदेयवस्तुताम्, स्वेदमलाभ्यामपक्षिप्तत्वादुज्झितत्वादित्यर्थः। धार्मिकैरित्यनेन कल्पिक देयवस्तुताम्, शस्त्रविषमद्याद्यकल्पिकवस्तुविवर्जितत्वात्। धर्म लब्धैरित्यनेत धर्मार्जितदेयवस्तुतां दर्शयति, तुलाकूलादिमिथ्याजीव परिवर्जनेनोपार्जितत्वात्॥



शीलं समादायाखण्डनेन तद्योगाच्छीलवान् भवति। मोक्षं प्रति यः संवरः स प्रातिमोक्षसंवरः। स हि संसारान्निर्याणाय भवति। आचारसंपन्नः सद्भिरगर्हितेर्यापथादित्वात्। गोचरसंपन्नः पञ्चागोचरपरिवर्जनात्। पञ्च भिक्षोरगोचराः - घोषो वेशः पानागारं राजकुलं चण्डालकठिनमेव पञ्चमम्। प्रज्ञप्तिसावद्येष्वपि प्रकृतिसावद्ये ष्विव तीव्रेण गौरवेण शिक्षणादणुमात्रेष्ववद्येषु भयदर्शी भवति। समन्तात् परिपूर्ण शिक्षामादाय शिक्षते शिक्षापदेष्वित्युच्यते॥



अतः परं शीलमारभ्य यद्भगवता सूत्रान्तरेषु निर्दिष्टं कायेन संवृतो भवतीत्येवमादि तस्यार्थ उच्यते। तत्र कायेन वाचा संवृतो भवति संप्रजन्यपरिगृहीततया यथनुज्ञातमभिक्रमप्रतिक्रमादिषु बुद्धिपूर्व सम्यग्वर्तनात्।

कायवाक्संपत्त्या संपन्नः आपत्त्यनध्यापन्नतया शीलाविपादनात्। परिशुद्धकाय वाकसमुदाचारः समाधिसंनिश्रयतया समाधिबलेन दौःशील्यमलदूरीकरणात्। कुशल[काय] वाक्समुदा चारः क्लिष्टवितर्काव्यवकीर्णतयैकान्तशुभत्वात्। अनवद्यकायवाक्समुदाचारो भवभोगापरिणामितत्वेन सद्भिः प्रशस्त त्वात्। अव्याबध्यकायवाक्समुदाचार आत्मोत्कर्षणादिभिः परेषामवज्ञादुःखसंवासेनाघट्टनात्। आनुलोमिककायवाक्समुदाचारो निर्वाणानुप्राप्त्यनुकूलतयार्यमार्गावाहनात्। अनुच्छविककायवाक्समुदाचारः स्वदोषगुणाविष्कम्भणछादनार्थम्। ओपयिककायवाक्समुदाचारः सब्रह्मचार्युपग्रहणशीलतयोपगमनार्हत्वात्। प्रतिरूपकायवाक्समुदाचारो गुरुषु गुरुस्थानीयेषु च निहितमानतया यथार्हमुपचरणात्। प्रदक्षिणकायवाक्समुदाचारोऽववादे प्रदक्षिणग्राहितयाऽस्वयंदृष्टिपरामर्शत्वात्। अतप्तकायवाक्समुदाचारः कष्टतपोलूहाधिमुक्तिविवर्जिततयाऽनात्मतपत्वात्। अननुताप्यकायवाक्समुदाचारः समुत्सृष्टान् भोगान् कर्मान्तांश्चारभ्याविप्रतिसारितया पश्चातापाभावात्। अविप्रतिसारकायवाक्समुदाचारः कुशलपक्षमा रभ्याल्पमात्रेणासंतुष्टस्या विप्रतिसारितया यावच्छक्यं संपादनात्॥



कर्म स्वकमेषां त इमे कर्मस्वकाः। कथं पुनस्तेषां कर्म स्वकं भवति। स्वयंकृतकर्मविपाकप्रतिसंवेदनतामुपादाय, तद्धि नाम स्वकमित्युच्यते यत्परैरसाधारणमिति। कर्माणि दायाय एषां त इमे कर्मदायादाः। कथं कर्म णां दायादत्वम्। तस्यां स्वयंकृतविपाकप्रतिसंवेदनायां कुशलाकुशलानां कर्मणामन्योन्यदाया दतामुपादाय यथास्वमि ष्टानिष्टफलसंविभजनात्। ते पुनः स्वकृतकर्मेष्टानिष्टविपाकप्रतिसंवेदिनः सत्त्वाः कुत आदितः संभूताः किमहेतुका आहोस्वित् प्रकृतीश्वरादिहेतुका इत्याह कर्मयोनीयाः। कर्मेवेषामहेतु विषमहेतुवर्जितो योनिः सत्त्वानां संभवायेत्यर्थः। एवं तावत्प्रवृत्तिमारभ्य निवृत्तिमप्यारभ्य कर्मप्रतिसरणाः, सास्त्रवकर्मप्रहाणायानास्त्रवकर्मसंश्रयणात् कर्मैवैषां प्रतिसरणं भवतीति॥



यदुक्तमचिन्त्यः सत्त्वानां कर्मविपाक इति न सर्वैः प्रकारैः [अ] सावचिन्त्यो वेदितव्यः। कथं तर्हि चिन्त्यः कथमचिन्त्यः।

कुशलाकुशलस्येष्टानिष्टो विपाकः सुगतिदुर्गत्योरिति चिन्त्यः, शक्यत्वात् सम्यग्दृष्ट्यादिगुणावाहनाच्च। अनेन कर्मणा सत्त्वानामात्मभावस्य वर्णसंस्थाना दि प्रकारभेदवैचित्र्यमित्यचिन्त्यः, अशक्यत्वात् सर्वज्ञादन्यस्योन्मादादिदोषाबाहनाच्च। तदेव कर्मस्थानादिभिरचिन्त्यम्। [तत्र स्थानं] यत्र प्रदेशे स्थित्वा यत्कर्म कृत्वा ग्रामे वा नगरे वेत्यादि। वस्तु यदधिष्ठानं सत्त्व संख्यातमसत्त्वसंख्यातं वा। हेतुः कुशलाकुशलादेः कुशलाकुशलमूलानियथायोगम्। विपाकस्तदेवात्मभाववैचित्र्यम्। बाह्यभाववैचित्र्याभिनिर्वर्तकं कर्माचिन्त्यम्, कीदृशेन खलु कर्मणा कण्टकादीनां तैक्ष्णादिकं कृतमिति लोकचिन्ता नन्तर्भूतत्वात्। मणिमन्त्रौषधिमुष्टियोगप्रतिसंयुक्तं कर्माचिन्त्यम्। तत्र मणि[प्रति]संयुक्तं चन्द्रकान्तादीनामुदकक्षरणादि। मन्त्रप्रतिसंयुक्तं तदभिमन्त्रितानामदाहादि। औषधिप्रतिसंयुक्तं तया गृहीतयाऽन्तुर्धातादि। मुष्टियोगप्रतिसंयुक्तं तेन तेन मुष्टियोगेन ज्वरापगमादि। सर्व च योगिनां प्रभावकर्माचिन्त्यम्। कथम्। ते चित्तप्रभावेन महापृथिवी कम्पयन्त्याकाशेन वोत्पतन्तीत्येवमादि। बोधिसत्त्वानां वशिताभिर्यत् क्रियते कर्म तदचिन्त्यम्। तद्यथा आयुर्वशितया बोधिसत्त्वा आयुःसंस्कारानधिष्ठा य यावदिच्छन्ति तिष्ठन्ति। चित्तवशितया यथेच्छं समाधीन् समापद्यन्ते परिष्कारवशितया ऽप्रमेयमनर्धेयमुपकरणवर्ष सत्त्वानां वर्षन्ति। कर्मवशितया ऽन्यधातु भूमिगतियोन्यवस्थावेदनीयानि कर्माण्यन्यथा परिणामयन्ति। उपपत्ति वशितया ध्या नैरपि विहृत्यापरिहीणा एव कामधातावुपपद्यन्ते। अधिमुक्तिवशितया पृथव्यादीनवादित्वेनाधिमुच्यन्ते। प्रणिधानवशितया यथेष्टं स्वपरार्थसंपत्तिकराण्यसंख्येयानि महाप्रणिधानान्यभिनिर्ह[र]न्ति। ऋद्धिवशितया सत्त्वानामावज नार्थमप्रमेयमृद्धिप्रतिहार्य संदर्श [य]न्ति। ज्ञानवशितया धर्मार्थनिरुक्तिप्रतिभानानां प्रकर्षपर्यन्तं गच्छन्ति। धर्मवशितया यथार्ह यावत् सर्वसत्वानामन्यान्यैर्नामपदव्यंजनकार्यः सूत्रादीन् धर्मान् व्यवस्थाप्य युगपच्चित्तपरितोषणे समर्था भवन्तीति॥



बुद्धानां बुद्धकृत्यानुष्ठानकर्माचिन्त्यम्। कथम्। अनाभोगप्रतिगता धर्मधात्वेकरसताप्राप्ता सर्वे बुद्धा भगवन्तः सत्त्वानां यथा यदा यावत्कृत्यमनुष्ठातव्यं तत्सर्वमनुतिष्ठन्ति एवं बुद्धानां बुद्धविषयोऽचिन्त्यः॥



पुनर्भवस्य वासनाया आहारकं कारणमिति हेतुः। उपचितवासनानां सत्त्वनां देवादिसत्वनिकाये तदाकृतिप्रकृतिसादृश्येन समस्योदयस्य कारणमिति समुदयम्। प्रत्यात्मंसंताननैयभ्येन गतियोन्यादिसर्वप्रकारैः प्रकर्षण यावद्भवाग्रगतस्योद्भवस्य कारणमिति प्रभवः। अपूर्व स्यान्यस्यात्मभावस्य प्राप्तौ पूर्वात्मभावात्ययेन कारणमिति प्रत्ययः॥



संस्काराणामुपरमात्स निरोधोऽन्यः स्यात्तदसंवध्यमानोऽर्थान्तरभूतः स्यात्। अथानन्यः स्यात्संक्लेशलक्षणः स्यात्। अत एव नोभयो नानुभयश्च। प्रपञ्चः पुनरस्मिन्नर्थेऽयोनिशश्चिन्त्येत्यमार्गेणान्यायेनानयेन चिन्त्येत्यर्थः , अन्यथा चिन्तयितव्येऽन्यथाचिन्तना[त्]। कथं पुनश्चिन्त्यः। शान्तः प्रणीत इत्येवमादिभिः प्रकारैः॥



निरलंकारः प्रज्ञाविक्तानां विद्यादिवैशेषिकगुणालंकाराभावात्॥



पर्यायतोऽशे षप्रहाणमित्युद्देशः, शेषो निर्देशः। अत एव तत्परिशिष्टानि पदान्युपादायेत्युच्यते, तैस्तस्य निर्देशात्। कथं कृत्वाऽशेष प्रहाणम्। पर्यवस्थानानुशयप्रहाणात्। तत्र प्रतिनिःसर्गः पर्यवस्थानप्रहाणमधिकृत्य, उत्पन्नस्य परिवर्जनात्। व्यन्तीभावोऽनुशयप्रहाणम्, मूलाभावेऽत्यन्तमनुत्पादात्। तत्पुनर्दर्शनभावनामार्गप्रतिपक्षभेदाद्द्विधा व्यवस्थाप्यते - क्षयो विराग इति। तत्र दर्शनमार्गेण विरागतामधिकृत्य क्षयः, अल्पमात्रावशिष्टत्वात् क्लेशराशेः। भावनामार्गेण वि रागः, तस्य भूमिवैराग्यगमनप्रविभावितत्वात्। तदुभयविसंयोगे पुनः सत्यायत्यां च दुःखं निरुध्यते, अनुत्पत्तिधर्मतापाद नात्। दृष्टे च धर्मे दौर्मनस्यं व्युपशाम्यति, असमुदाचारात्। अतस्तत्फलभूतस्य दुःखस्य प्रहाणमधिकृत्याह - निरोधो व्युपशम इति। पूर्वकर्म क्लेशसमुदागतानां तु सत्त्वानां स्वरसेनैवोपरम[म]धिकृत्याह - अस्तंगम इति। एवं कृत्वाशेषप्रहाणं निर्दिष्टं वेदितव्यम्॥



असंस्कृतमुत्पादव्ययस्थित्यन्यथात्वाभावात्संस्कृतविपर्ययेण। दुर्दृशमार्यस्यैवैकस्य प्रज्ञा चक्षुषो गोचरत्वात्। अचलं नरकादिगत्यसंचारेण स्थिरत्वात्। अनतं कामरूपारूप्यतृष्णाऽभावेन भवेष्वनमनात्। अमृतं मरणाश्रयस्कन्धाभावात्। अनास्रवमा स्त्रवाभावात्। लयनं विमुक्ति प्रीतिसुखसंनिश्रयत्वात्। द्वीपं संसारमहार्णवे स्थलभूतत्वात्। त्राणं तत्प्राप्तौ जात्यादिसर्वोपद्रवापगमनात्। शरणं तत्कृताशयप्रयोगयोरवन्धत्वस्य पदस्थान तयाऽऽश्रयणो [य]त्वात्। परायणं परमस्यार्यत्वस्यागमनाय पदस्थानत्वादार्हत्यत्वप्राप्त्युपायालंवनत्वादित्यर्थः। अच्युतम्[अ] जातत्वेन भ्रंसासंभवात्। निर्ज्वरं सर्वेच्छाविघातसंतापाभावात्। निष्परिदाहं शोकादिसर्वपरिदाहप्रतिप्रस्त्रब्ध्या शीतलत्वात्। क्षेमं व्याधिजरामरणभयरहितार्य विहाराश्रयत्वात्। शिवं सर्वकुशलधर्माश्रयत्वात्। सौवर्णकं लोकोत्तरसुखवस्तुत्वा[त्]। स्वस्त्ययनं सुखेन प्रयोगेण तत्प्प्राप्तये आलंबनभवात्। आरोग्यं क्लेशाद्यावरणरोगरहितत्वात्। आनिञ्ज्यं सर्वविषयप्रपञ्चविक्षेपरहितत्वात्। निर्वाणं रूपादिसंज्ञापग[म]स्य शान्तसुख विहारस्यालंबनत्वात्॥



पुनर्निरोधसत्यमारभ्याजातादयः पर्यायाः दुःखलक्षणविपर्ययार्थेन वेदितव्याः। दुखं हि तत्र तत्र सत्त्व निकाये प्रतिसंधिबन्धेन जायते। तत उत्तरकालमात्मभावपरिपूर्या वर्धते। तच्च दुःखं पूर्वकर्मक्लेशावेधेन कृतम्। तच्च वर्तमानं दुःखं कर्मक्लेशानां चान्यभवसंस्करणे पदस्थानं भवति। ततोऽव्युच्छेदयोगेन पुनर्भवस्य संतत्युत्पादो भवति। अतस्तद्विपर्ययेण दुःखनिरोध आर्यसत्यं यथाक्रममजातमभूतमकृतमसमुत्पन्नं वेदितव्यम्।



अपि खलु निरोधसत्य मधिकृत्य। शान्तलक्षणं संस्कारदुःखतया ऽप्रशान्तलक्षणानामुपादानस्कन्धानां विसंयोगमधिकृत्य। प्रणीतलक्षणं क्लेशदुःखविसंयोगात् स्वयं शु चिसुखस्वभावतामधिकृत्य। निःसरणलक्षणं नित्यहितस्वभावतामधिकृत्य , अपुनरावर्तनात् क्षेमत्वाच्च यथाक्रमं हितं कुशलमिति शक्यत्वात्॥



मार्गसत्यं येन दुखं परिजानीत इत्येवमादि, सत्येष्वस्य कृत्याधिकारेण लक्षणनिर्देशो वेदितव्यः। पञ्चविधो मार्ग इति प्रभेदाधिकारेण। पञ्चप्रभेदः सपरिवारमार्गसत्याधिकाराद्वेदितव्यम्॥



तत्र संभारमार्गः शीलादिको यस्य परिपूर्णत्वादु ष्मगताद्यानुपूर्व्या सत्यदर्शनाय तदावरणप्रहाणाय च संतानस्य योग्यतां प्रतिलभत इति। यद्वा पुनरन्यदौपनिषदं कुशलमित्यविप्रतिसारादिकं वेदितव्यम्॥



उष्मगतं प्रत्यात्मं सत्येष्वालोकलब्धः समाधिः प्रज्ञा ससंयोग इति समाहितेन चित्तेन सत्याधिपतेयस्य सूत्रादिकस्य धर्मस्य मनोजल्पस्य मुखैरर्थसंप्रख्याने सति शमथश्च विपश्यना चोष्मगतमिति वेदितव्यम्॥ तद्वृद्धिर्मू र्घानस्तदुपरि व्यवस्थापनार्थेन। क्षान्तिरे कदेशप्रविष्टानुसृतः समाधिरिति। कथमेकदेशप्रविष्टो भवति। एकान्तेन ग्राह्यभावलक्षणात्। कथमेकदेशानुमृतः ग्राहकाभावप्रतिवेधानुकूल्यावस्थानात्। लौकिकोऽग्रधर्मो यदन्तरमादितो लोकोत्तरो मार्गः॥



दर्शनमार्गो लौकिकाग्रधर्मानन्तरं निर्विकल्पश मथविपश्यनालक्षणो वेदितव्यः। समसमालंब्यालंवनज्ञानमपि तदिति तेन ग्राह्य ग्राहकाभावतथताप्रतिवेघात्। प्रत्यात्ममपनीत सत्त्वसंकेतधर्मसंकेत सर्वतोऽपनीतोभयसंकेतालंबनधर्मज्ञानमपि तदिति। कथं प्रत्यात्ममपनीतसत्त्वसंकेतालंबनधर्मज्ञानम्। तेन स्व[स]न्ताने आत्मनिमित्ताविकल्पनात्। कथं प्रत्यात्ममपनीतधर्मसंकेतालंबन धर्मज्ञानम्। तेन स्वसंतान एव रूपादिधर्मनिमित्ता विकल्पनात्। कथं सर्वतोऽपनीतोभयसंकेतालंबनधर्मज्ञानम्। सर्वत्राविशेषेणात्म धर्मनिमित्ताविकल्प[न]दिति॥



प्रभेदशः पुनर्दर्शनमार्गः सत्येषु षोडशधर्मान्वयक्षान्तिज्ञानानि। तत्र दुःखे धर्मज्ञानक्षान्तिः प्रयोगमार्गे दुःखसत्याधिकारिकसूत्रादिधर्मविचारणाज्ञानं योनिशो मनस्कारसंगृहीतमधिपति कृत्वा स्वसंतानिकदुःखसत्ये तत्तथताप्रत्यक्षानुभाविनो लोकोत्तरा प्रज्ञा सम्यग्दृष्टिस्वभावोत्पद्यते यया दुःखदर्शनप्रहातव्यांस्त्रैधातुकानष्टाविंशतिमनुशयान् प्रजहाति। तस्मादुच्यते दुःखे धर्मज्ञानक्षान्तिरिति। तया क्षान्त्या दुःखदर्शनप्रहातव्यक्लेशप्रहाणात् परिवर्तित आश्रये तदनन्तरं येन ज्ञानेन तामाश्रयपरिवृत्ति प्रत्यनुभवति तद्दुःखे धर्मज्ञानमित्युच्यते। एतच्चोभयमाद्यं क्षान्तिज्ञानमन्वयः सर्वेषां शैक्षाशैक्षाणामार्यधर्माणाम्, ततस्तेषां समुदागमात्। अतस्तदालंब्यान्वय एष आर्यधर्माणामिति प्रत्यात्मं प्रत्यक्षानुभाविन्यनास्त्रवा प्रज्ञा दुःखे अन्वयज्ञानक्षान्ति। तामन्वयज्ञानक्षान्तिं येन ज्ञानेन प्रत्यनुभवति तदन्वयज्ञानमित्युच्यते। लोकोत्तरस्य हि मार्गस्य द्वयं विषयः - तथता सम्यग्ज्ञानं च। तत्र धर्मज्ञानपक्षस्य मार्गस्य तथता विषयः। अन्वयज्ञानपक्षस्य सम्यग्ज्ञानम्। अत इदमुच्यते -धर्मज्ञानक्षान्तिज्ञानैर्ग्राह्यावबोधः, अन्वयक्षान्तिज्ञानैर्ग्राहकावबोध इति। यो भगवता षष्ठोऽ[नि]मित्तविहारी पुद्गल आख्यातः स एतेषु क्षान्तिज्ञानेषु वर्तमानो वेदितव्यः, सर्वनिमित्ता नुपलंभात्। त एते क्षान्ति [ज्ञान] संगृहीताः षोडश चित्तक्षणा दर्शनमार्गः, तैरदृष्टपूर्वाणामार्यस त्यानां प्रत्येकं चतुर्भिर्दर्शनात्। न चात्र भावस्याभत्वा प्रादुर्भावमात्रं चित्तक्षणो वेदितव्यः। किं तर्हि यावता ज्ञेये ज्ञानात्पत्तेः परिसमाप्तिर्भवति। तद्यथा दुःखं परिज्ञेयमित्येकश्चित्तलक्षणः। एवं समुदयः प्रहातव्य इत्येवमादिः। यच्चैतद्दर्शनमार्गमारभ्य विस्तरेण विपंचित्तं व्यवस्थानमात्रं तत्सर्व वेदितव्यम्, प्रत्यात्ममेव वेदनीयत्वात् लोकोत्तराया अवस्थायाः॥



सर्वं हि मार्गसत्यं चतुर्भिः प्रकारैरनुगन्तव्यम् - व्यवस्थानतो विकल्पनतोऽनुभवतः परिपूरितश्च। तत्र व्यवस्थानत, यथास्वमधिगमनिष्ठाप्राप्ता श्रावकादयस्तत्पृष्ठलब्धेन ज्ञानेन परेषां प्रापणनिमित्तं नामपदव्यञ्जनकायैः मार्गसत्यं व्यवस्थापयन्ति, इत्यपि सत्येषु क्षान्तयो ज्ञानानी त्येवमादि। विकल्पनतः, अभिसमयप्रयुक्ता लौकिकेन यथाव्यवस्थानं विकल्पयतो यदभ्यस्य न्ति। अनुभवतः, तथाभ्यस्यन्तो यामादितो दर्शनमार्गाख्यां लोकोत्तरां निष्प्रपञ्चावस्थां प्रत्यात्ममनुभवन्ति परिपूरितः तदूर्ध्व यामाश्रयपरिवृत्तिं परिपूर्य [या] वदधिगमनिष्ठां प्राप्नुवन्ति। ते पुनरधिगमनिष्ठाप्राप्तास्तत्पृष्ठलब्धेन ज्ञानेन मार्गसत्यं व्यवस्थापयन्ति। इत्येवमादि तच्च [तु]राकारं मार्गचक्रं पुनः पुनरन्योन्याश्रयेण प्रवर्तत इति वेदितव्यम्॥



यदुक्तं विरजो विगतमलं धर्मेषु धर्मचक्षुरुत्पद्यत इति तद्दर्शनमार्गमधिकृत्योक्तम्, तत्प्रथमतः सत्येष्वार्यप्रज्ञाचक्षुःस्वभावत्वात्। तत्र धर्मक्षान्तिभिर्विरजः, ताभिः क्लेशरजःप्रहाणात्। धर्मज्ञानैर्विगतमलम्, तेषां प्रहाणतदावरणमलाश्रयोत्पादात्। पुनरनयोरेव क्षान्तिज्ञानावस्थयोर्यथाक्रमं परिज्ञया प्रहाणेन च मार्गस्य विशुद्धतामधिकृत्य विरजो विगतमलं वेदितव्यम्॥



दृष्टे त्येवमाद्यापि दर्शनमार्गमेवाधिकृत्य वेदितव्यम्, विनेयानां सत्याभिसमयानन्तरं वचनात्। तत्र धर्मक्षान्तिभिर्दृष्टधर्माः, ताभिस्तत्त्वप्रतिवेधात्। धर्मज्ञानैः प्राप्तधर्माः, तैराश्रयपरिवृत्तिसाक्षात्करणात्। अन्वयक्षान्तिभिर्विदितधर्माः, ताभिरार्यधर्मान्वय एष इति तदुभयसंवेदनात्। अन्वयज्ञानैः पर्यवगाढधर्माः, तैर्यावज्ज्ञेयं परिसमापनात्। सर्वै स्तीर्णकांक्षः सर्वैः क्षान्तिज्ञानैः, लोकोत्तरेण मार्गेण फलाधिगमे सति दीर्घरात्रमभिकांक्षिते स्वाधिगमेऽसंदेहात्। तीर्णविचिकित्सः परिधिगमे सर्वैरिति वर्तते, पराधिगमे तदवस्थस्या न्येषामपि विशेषाधिगमं प्रति विमत्यभावात्। अपरप्रत्ययो मार्गभावनायां परोपदेशमन्तरेणापि स्वयंकुशलत्वात्। अनन्यनेयोऽवेत्य प्रसादप्रतिलभेन शास्तुः शासनेऽन्यतीर्थ्यैर्जन्मान्तरेऽप्यहार्यत्वात्। धर्मेषु वैशा रद्यप्राप्तोऽधिगममारभ्य परिप्रश्नधर्मेषु पापेच्छाभिमानिकवदवलीनचित्तताभावात्॥



भावनामार्गो लौकिको मार्गः। तत्र लौकिको मार्गो ध्याना [न्या] रूप्याश्च। ते पुनर्ध्यानारूप्याः संक्लेशतो व्यवदानतो व्यवस्थानतो विशुद्धितश्च वेदितव्याः॥



कथं संक्लेशतः। चत्वार्यव्याकृतमूलानि तृष्णा दृष्टिर्मानोऽविद्या च, तैः संक्लिष्टचित्तानां क्लिष्टध्यानमुखेन रूपारूप्यावचरसर्वनिवृताव्याकृतक्लेशोपक्लेशा वर्तनात्। तत्र तृष्णयाऽऽस्वादसंक्लेशेन संक्लिश्यते, प्रस्त्रब्धिसुखास्वादात्। दृष्ट्या दृष्ट्यु तरध्यायितया संक्लिश्यते, ध्यानं निश्चित्य पूर्वान्तकल्पादिदृष्टिसमुत्थापनात्। मानेन मानोत्तर ध्यायितया संक्लिश्यते, तेन विशेषाधिगमेनोन्नतिगमनात्। अविद्यया विचिकित्सोत्तरध्यायितया संक्लिश्यते, तत्त्वा प्रतिवेधेन मोक्षकामस्य तस्मिन्वि शेषाधिगमे मोक्षो न मोक्ष इति विचिकित्सोत्पादनात्॥



कथं व्यवदानतः। शुद्धका ध्यानारूप्या लौकिका अपि कुशलत्वात्पर्य वस्थानमलापगतत्वेन व्यवदाता इत्युच्यन्ते॥



कथं व्यवस्थानतः। ध्यानानां तावच्चतुर्धा व्यवस्थानम्, अङ्गसमापत्तिमात्रासंज्ञाक रणभेदात्। आरूप्याणां त्रिधाऽङ्गवर्जैः॥



किं पुनरधिकृत्य ध्यानेषु। वितर्कादय एवाङ्गत्वेन व्यवस्थापिताः सत्स्वन्येषु धर्मेषु। तावद्भिः प्रतिपक्षानुशंसतदुभयाश्रयाङ्गपरिसमाप्तेः। प्रथमे तावद्धयाने वितर्को विचारश्च प्रतिपक्षाङ्गम्, ताभ्यां कामव्यापादविहिंसावितर्कादिप्रहाणात्। प्रीतिः सुखं चानुशंसाङ्गम्, वितर्कविचाराभ्यां प्रतिपक्षिते विपक्षे तद्विवेकजप्रीतिसुखलाभात्। चित्तैकाग्रता तदुभयनिश्रयाङ्गम्, समाधिसंनिश्रयबलेन वितर्कादिप्रवृत्तेरिति। तथा द्वितीये ध्यानेऽध्यात्मसंप्रसादः प्रतिपक्षाङ्गम्, तेन वितर्कविचारप्रतिपक्षणात्। प्रीतिसुखे चित्तैकाग्रता च शेषे अङ्गे पूर्ववत्। तृतीये ध्याने उपेक्षा स्मृतिः संप्रजन्यश्च प्रतिपक्षाङ्गम् , तैः प्रीतिप्रतिपक्षणात्। सुखं चित्तैकाग्रता च शेषे अङ्गे यथाक्रमम्। चतुर्थे ध्याने उपेक्षापरिशुद्धिः स्मृतिपरिशुद्धिश्च प्रतिपक्षाङ्गम्, ताभ्यां सुखप्रतिपक्षणात्। अदुःखासुखा वेदनाऽनुशंसाङ्गम्। चित्तैकाग्रता तदुभयाङ्गमिति॥



कथं पुनः प्रथमं ध्यानं समापद्यमानस्य सप्त मनस्कारा भवन्ति। येन समाहितभूमिकेन मनस्कारेण कमेष्वादीनवादिदर्शनेनौदारिकलक्षणं प्रतिसवेदयते। तदभावाच्च प्रथमध्याने शान्तलक्षणम्। अयमुच्यते लक्षणप्रतिसंवेदनीय मनस्कारः , स च श्रुतचिन्ताव्यवकीर्णो वेदितव्यः। तदुर्ध्व श्रुतं चिन्तां चातिक्रम्यैकान्तेन भावनाकारेण तदौदारिकशान्तलक्षणनिमित्तालंबनां शमथविपश्यनां भावयन् पुनः पुनर्यथापर्येषिता मौदारिकशान्ततामधिमुच्यते इत्ययम धिमोक्षिकः। तदभ्यासात्तत्प्रथमतः प्रहाणमार्गसहगतो मनस्कारः प्राविवेक्यः, तेनाधिमात्रक्लेशप्रकारप्रहाणात्तत्पक्षदौष्ठुल्यापगमाच्च। स योगी तदूर्ध्व प्रहाणारामो भवति प्रहाणे ऽनुशंसदर्शी परीत्तप्रविवेकप्रीतिसुखसंस्पृष्टः कालेन कालं प्रसदनीयेन मनस्कारेण संप्रहर्षयति यावदेव स्त्यानमिद्धौद्धत्योपशमाय। अयं रतिसंग्राहकः। तस्यैवं सम्यक्प्रयुक्तस्य कुशलपक्षप्रयोगोपस्तब्धत्वात् कामावचरक्लेशपर्यवस्थानासमुदाचारे सति तत्प्रहीणाप्रहीणतावगमार्थ तदुत्पत्त्यनुकूलशुभनिमित्तमनस्कारेण प्रत्यवेक्षणं मीमांसामनस्कारः। तस्यैवं मीमांसाप्रतिपक्षं भावयतः तावत्कालिकयोगेन सर्वकामावचरक्लेशविसंयोगाय प्रथमध्यानप्रयोगपर्यवसानगतः प्रतिपक्षमनस्कारः प्रयोगनिष्ठः। तदनन्तरं मौलप्रथमध्यानसहगतः प्रयोगनिष्ठाफल इति। तत्र लक्षणप्रतिसवेदिना प्रहातव्यं प्राप्तव्यं च सम्यक्परिज्ञाय प्रहाणाय प्राप्तये च चित्तं प्रणिघत्ते। आधिमोक्षिकेन तदर्थ सम्यक्प्रयोगमारभते। प्राविवेक्येनाधिमात्रान् क्लेशान् जहाति। रतिसंग्राहकेण मध्यं क्लेश प्रकारं जहाति। मीमांसकेन प्राप्तिनिरभिमानता यां चित्तमवस्थापयति। प्रयोगनिष्ठेन मृदुं क्लेशप्रकारं जहाति। प्रयोगनिष्ठाफलेन एषां मनस्काराणां सुभावितानां भावनाफलं प्रत्यनुभवति। यथा प्रथमध्यान समापत्तये सप्त मनस्कारा एवं यावन्नैवसंज्ञानासंज्ञायतनसमापत्तये यथायोगं योजयितव्याः। औदारिकलक्षणं पुनः सर्वास्वधोभूमिषु यावदाकिंचन्यायतनात् समासेन द्विविधं वेदितव्यम् - दुःखतरविहारिताऽप्रशान्तविहारितया, अल्पायुस्कतरता च तद्विपर्ययेणोर्ध्वभूमेः शान्तलक्षणं वेदितव्यम्॥



मात्राव्यवस्थानं ध्यानानां तावन्मृदुमध्याधिमात्रपरिभावितत्वात्। प्रत्येकं त्रिधा ध्यानोपपत्तिः फलं भवति। तद्यथा ब्रह्मकायिका ब्रह्मपुरोहिता महाब्रह्माणं इत्येवमादि यथापूर्वमुक्तम्। आरूप्येषु तु विमानस्थानान्तरसंनिवेशासंभवादेवमुपपत्ति भेदो न व्यवस्थाप्यते। अपि तु तेषामप्यस्ति मृद्वादिपरिभावितानामुपपत्तावुच्चनीचता आयुरादिविशेषेण, हीन प्रणीतता च क्लिष्टाक्लिष्टताबाहुल्यविशेषेणेति॥



संज्ञाकरणव्यवस्थानं चतुर्थध्यानप्रभेदा नां समाधीनामसंख्येयान्यचिन्त्यानि च नामानि। तथाहि यावतः प्रथमध्यानसंगृहीतान् समाधीन् बुद्धा भगवन्तो बोधिसत्त्वाश्च महाप्रभावप्राप्ताः समापद्यन्ते, तेषां समाधीनां श्रावकाः प्रत्येकबुद्धाश्च नामान्यपि न जानन्ति। कुतश्चैषां संख्यां ज्ञास्यन्ति समापत्स्यन्ते वा। यथा निर्दिष्टं प्रज्ञापारमितायाम् - "साधितं समाधिशतम्"। एवमन्येष्वपि तेषु तेषु महायानसूत्रेष्विति॥



कथं विशुद्धितः। प्रान्तकोटिका ध्यानारूप्या विशुद्धिरित्युच्यते, वैशेषिकगुणाभिनिर्हाराय निकामला [भा]दिभिः कर्मण्यताप्रकर्षनयनात्॥



लोकोत्तरमार्गो भावनामार्गेऽष्टौ दुःखा[दिधर्मा] न्वयज्ञानानि यथा दर्शनमार्गे निर्दिष्टानि। तत्संप्रयुक्तश्च समाधिरनागम्यसंगृहीतः प्रथमं ध्यानं यावदाकिंचन्यायतनम्। नैवसंज्ञानासंज्ञायतनम परिस्फुटं संज्ञाप्रचारतया परमपटुप्रचारस्यार्यमार्गस्यासंनिःश्रयत्वादेकान्तेन लौकिकं वेदितव्यम्। अत एव च तत्संज्ञामान्द्यादालम्बना निमित्तीकरणार्थेनानिमित्त मित्युच्यते। कुतः पुनरेतत् ज्ञायते नैवसंज्ञानासंज्ञायतने आर्यमार्गो नास्तीति। यस्मादुक्तं भगवता "यावदेव संज्ञासमापत्तिस्तावदाज्ञाप्रतिवेध" इति। निरोधसमापत्तिर्लोकोत्तरा, आर्यमार्गपृष्ठलभ्यत्वात्। मनुष्येष्वभि[नि]र्ह्रियते उत्पाद्यतआदित इत्यर्थः, पूर्वोत्पादितायाः पश्चात्संमुखोभावो मनुष्येषु वा तस्मिन्नेव जन्मनि रूपधातौ वा उपपद्य। कथमारूप्यलाभिनो रूपधातुवीतरागस्यार्यश्रावकस्य रूपधातावुपपतिः। नावश्यं रूपधातुवीतराग एवाऽऽरूप्यं समापद्यते। अत एवात्र चतुष्कोटिकं भवति - यो रूपवीतरागः सर्वः स आरूप्यशान्तविमोक्षसमापत्ता, यो वा आरूप्य शान्तविमोक्षसमापत्ता सर्वः स रूपवीतराग इति। प्रथमा कोटिः - अनागम्यं निश्रित्य रूपवीतरागः। द्वितीया कोटिः - चतुर्थध्यानलाभी आर्य आर्यो पपत्त्याऽनर्थी प्रहाणमार्ग निराकृत्य विशेषमार्ग निश्रित्यारूप्यशान्तविमोक्षसमापत्ता। तृतीया कोटिः - स एव वैराग्यार्थी प्रहाणमार्ग निश्रित्यारूप्यशान्तविमोक्षसमापत्ता। चतुर्थी - एतानाकारान् स्थाप यित्वा। आरूप्ये षूपपन्नानां कस्मान्न संमुखीभवति। शान्तेन विहारेण विहर्तुकामा आर्या मनुष्येष्वेनामभिनिर्हृत्य संमुखीकुर्वन्ति। आरूप्येषु तूपपन्नास्तेऽप्रय त्नेनैव वैपाकिकैः परमशान्तैः विमोक्षविहारैर्विहरन्तीत्यतस्तत्संमुखीकरणार्थ न पुनः प्रयत्नमारभन्त इति॥



मृदुमध्याधिमात्रो मार्गः प्रत्येकं पुनः मृद्वादिभिस्त्रिभिः प्रकारैर्भित्त्वा नवप्रकारो व्यवस्थाप्यते, भावना हेयानां क्रमेण प्रहाणज्ञापनार्थम्। किं पुनः कारणं मृदुमृदुना मार्गेणाधिमात्रः क्लेशः प्रहीयते। स ह्यत्यर्थः विपन्नह्रीव्यपन्नाप्या लज्जिनः संताने समुदाचरति सूपलक्षश्चासौ सुपरिच्छेदस्तस्मादसौ स्थूलमलवदल्पेना पि प्रतिपक्षेणापनीयते। यस्त्वयं दुष्परिच्छेदसमुदाचारः सूक्ष्मलीनः संताने मृदुमृदुक्लेशः सूक्ष्ममलवन्महता प्रतिपक्षबले नापनीयत इत्यदो विपक्षप्रकारविपर्ययेण प्रतिपक्षप्रकारव्यवस्थानं वेदितव्यम्॥



प्रयोगमार्गो येन मार्गेण भाव्यमानेन प्रत्येकमधिमात्राधिमात्रादिक्लेशप्रकारादिजातिपक्षस्य दौष्ठुल्याङ्गस्यापगमात्क्रमेणाश्रयः परिवर्तते स भावनामार्गे प्रयोगमार्गे इत्युच्यते॥



यस्य त्वनन्तरं तत्प्रकारक्लेशजातितत्पक्षदौष्ठुल्या वशेषापगमात्तेन दौष्ठुल्येन निर्दौठुल्य आश्रयः परिवर्तते स आनन्तर्यमार्गः॥



विमुक्तिमार्गो येन नामाश्रयपरिवृत्ति प्रत्यात्म [म]नुभवति।



विशेषमार्गस्तदूर्ध्वावशेषक्लेशप्रहाणं कुर्वतो ये प्रयोगानन्तर्यविमुक्तिमार्गाः। अपरः पर्यायऽविशेषमार्ग स्तस्य क्लेशप्रहाणप्रयोगमध्युपेक्ष्य सूत्रादीन् धर्माश्चिन्तयतः, पूर्वचिन्तिताधिगतधर्मप्रत्यवेक्षणाविहारेण वा विहरतः समापत्त्यन्तरं वा समापद्यमानस्य यो मार्गः। पुनरभिज्ञादीन् वैशेषिकान् गुणानभिनिर्हरतस्तैर्वा विहरतो यो मार्गः॥



इत्येवं भावनामार्ग विस्तरेण निर्दिश्य तदनुषंगेण मार्गभावना वर्ण्यते।



चतुर्विधा मार्गभावना सम्यक् प्रहाणानधिकृत्य यथायोगम्। तत्र प्रतिलम्भाय भावना प्रतिलम्भभावना, तयाऽलब्धकुशलधर्मप्रतिलम्भात्। निषेवण मेव भावना निषेवण भावना, लब्धकुशलधर्माभ्यसनात्। निर्धावनाय भावना निर्धावनभावना, समुदाचारावस्थाकुशलधर्मनिर्वासनात्। प्रतिपक्षस्य भावना प्रतिपक्षभावना, अनागताकुशलधर्मानुत्पत्तिधर्मतापादनात्॥



अपरः पर्यायः - मार्ग उत्पद्यमानः स्वां वासनां स्थापयति[सा]धासना प्रतिलम्भभावना, ततस्तदन्वयानामुत्तप्ततरापत्तेः। अस्यैव मार्गस्य संमुखीभावोऽभिनिषेव णभावना। तेन स्वविपक्षदौष्ठुल्यनिरोधनान्निर्धावनभावना। आश्रयस्य परिवृत्तत्वादायत्यामनुत्पत्तिधर्मतायामवस्थाप नं प्रतिपक्षभावना। पुनः प्रतिपक्षस्य विदूषणादिकः चतुर्विधः प्रभेदो वेदितव्यः। तत्र विदूषणाप्रतिपक्षः सास्त्रवेषु संस्कारेष्वादीनवदर्शनम्, तेन रोगगण्डादिभिराकारैरुपादानस्कन्धदूषणात्। प्रहाण प्रतिपक्षः प्रयोगानन्तर्यमार्गाः, तैः क्लेशप्रहाणात्। आधारप्रतिपक्षो विमुक्तिमार्गाः, तैः प्रहाणप्राप्तिसंधारणात्। दूरीभावप्रतिपक्षस्तदुपरिमो मार्गः, तेन पूर्वप्रहीणक्लेशदूरीकरणात्॥



पुनर्बोधिपक्ष्यादिभेदेनैकादशविधो मार्गो व्यवस्थाप्यते। तद्यथा वस्तुपरीक्षामार्गः स्मृत्युपस्थानानि, आदितस्तेनाशुभादिभिराकारैः कायवेदना चित्तधर्मवस्तुपरीक्षणात्। व्यावसायिको मार्गः सम्यक्प्रहाणानि , तथा सर्वाणि वस्तूनि परीक्ष्यानेनावरणप्रहाणाय वीर्यारम्भात्। समाधिपरिकर्ममार्ग ऋद्धिपादाः, तथापरिशोधितावरणस्यानेन छन्दवीर्यचित्तमीमांसामुखैः समाधेः कर्मण्यतापाद नात्। अभिसमयप्रयोगिको मार्ग इन्द्रियाणि, तथाकृतसमाधिपरिकर्मणोऽनेनार्यमार्गसमुदागमायाधिपतिभूतोष्मगतोर्ध्व प्रयोगात्। अभिसमयश्लिष्टो मार्गो बलानि, तथाधिपत्यप्राप्तस्यानेना [न]न्तरं सत्यप्रतिवेधा याश्रद्धा दिविपक्षानभिभूतक्षान्त्यग्रधर्मप्रयोगात्। अभिसमयमार्गो बोध्यङ्गानि , तेनादितः प्रत्यात्मं तत्त्वाभिसंबोधात्। विशुद्धिनैर्याणिको मार्ग आर्याष्टाङ्गो मार्गः, तदूर्ध्व तेन भावनाप्रहातव्यक्लेशप्रहाणाय विशुद्धये निर्याणादिति। अत एवैषां बोधिपक्षाणामेवानुपूर्वी वेदितव्या। निश्रयेन्द्रियभिन्नो मार्गः चतस्त्रः प्रतिपदः। तत्र दुःखा प्रतिपदना गम्यारूप्यनिश्रिता यथाक्रमं शमथविपश्यनामान्द्यात्। सुखा ध्याननिश्रिता युगनद्धवाहित्वात्। धन्धाभिज्ञा द्वयोरप्यनयोर्दुःखसुखनिश्रययोर्मृद्विन्द्रियाणाम्। क्षिप्राभिज्ञा तयोरेव तीक्ष्णेन्द्रियाणामिति। शिक्षा त्रयपरिशोधनो मार्गः चत्वारि धर्मपदानि। तत्रानभिध्याऽव्यापादमधिशीलं शिक्षायाः परिशोधनम्, अननुनयाप्रतिघमुखेन शिक्षापदाखण्डनात्। सम्यक्स्मृत्याधिचित्तं शिक्षायाः परिशोधनम्, आलंवनासंमोषे सति चित्तसमाधानात्। सम्यक्समाधिनाधिप्रज्ञं शिक्षायाः परिशोधनम्, समाहितचित्तस्य यथाभूतज्ञा नादिति॥ सर्वगुणा भिनिर्हारको यो मार्गः शमथविपश्यना, ततः सर्वलौकिकलोकोत्तरगुणाभिनिष्पत्तेः। मार्गसंग्रहमार्गस्त्रीणीन्द्रियाणी, तत्रानाज्ञातमाज्ञास्यामीन्द्रियेण प्रयोगदर्शनमार्गयोः संग्रहः, आज्ञेन्द्रियेण भावनामार्गस्य, आज्ञातावीन्द्रियेण निष्ठामार्गस्येति॥



पुनर्बोधिपक्ष्याणां धर्माणां पञ्चभिः प्रकारैः व्यवस्थानं वेदितव्यम् - आलम्बनतः स्वभावतः सहायतो भावनातो भावनाफलतश्च॥



तत्र स्मृत्युपस्थानानामालंबनं यथाक्रमं कायो वेदना चित्तं धर्माः। किमर्थ पुनरेतदेवमा लंबनं व्यवस्थाप्यते। यस्माद्विपर्यस्तबुद्धयो बालाः प्रायेण सेन्द्रियं कायमाश्रित्य सुखादिमुपभुञ्जाना उपलब्ध लक्षणा आत्मरागादिभिः श्रद्धादिभिश्च संक्लिश्यन्ते व्यवदायन्ते चेति विकल्पयन्त्यत आदितः सम्यक्तद्वस्तुलक्षणपरीक्षार्थमेवं चतुर्धालम्बनव्यवस्थानं वेदितव्यम्॥



स्वभावतः प्रज्ञा स्मृतिश्च, कायाद्यनुपश्यनावचनात् स्मृत्युपस्थानवचनाच्च यथाक्रमम्॥



सहायतस्ताभ्यां संप्रयुक्ताश्चितचैतसिकाः॥



भावनाऽध्यात्मं बहिर्धाऽध्यात्मबहिर्धा च कायादिषु कायाद्यनुपश्यना॥



तत्राध्यात्मं कायश्चक्षुश्रोत्रघ्राणजिह्वा कायेन्द्रियाणि, आध्यात्मिकायतनसंगृहीतत्वात्सत्त्वसंख्यातत्वाच्च। बहिर्धा कायो बहिर्धारूपशब्दगन्धरसस्प्रष्टव्यानि, बाह्यायतनसंगृहीतत्वादसत्त्वसंख्यातत्वाच्च। अध्यात्मबहिर्धा कायश्चक्षुराद्यायतनसंबद्धानि रूपादीन्यायतनानीन्द्रियाधिष्ठानभूतानि, सत्त्वसंख्यातत्वाद्वाह्यायतनसंगृहीतत्वाच्च। पारसंतानिकानि चाऽऽध्यात्मिकानि रूपीण्यायतनान्यध्यात्मबहिर्धा कायः, आयतनव्यवस्थां संतानव्यवस्थां च प्रमाणयित्वा॥



काये कायस्य सादृश्येन पश्यना काये कायानुपश्यना, विकल्पप्रतिबिम्बकायदर्शनानुसारेण प्रकृतिबिम्बकायावधारणात्॥



अध्यात्मं वेदनादयोऽध्यात्मं कायमुपादायोत्पन्नाः चक्षुराद्यालंबनतया स्वाश्रयोत्पन्ननतया वा। बहिर्धा वेदनादयो बहिर्धा कायमुपा दायोत्पन्नाः, रूपाद्यालम्बनतया पराश्रयोत्पन्नतया वा। अध्यात्मबहिर्धा वेदनादयो ध्यात्मबहिर्धाकायमुपादायोत्पन्नाः, स्वसन्तानिकबाह्या[यतना]लम्बनतया पारसंतानिकाध्यात्मिकायतनालंबनतया वा॥



चेतसो लीनत्वं विशेषाधिगमप्रत्यात्मपरिभवमुखैः विषादः। परिस्त्रवपरिखेदो दंशमशकाद्युपद्रवोत्पीडनासहनम्। अल्पमात्रसंतुष्टिः अलं मे तावता कुशलपक्षेणेति प्रतिवारणम्। आपत्तिविप्रतिसारोऽभिक्रमप्रतिक्रमादिष्वसंप्रज्ञानचारिणः शिक्षाव्यतिक्रमपूर्वः पश्चात्तापः। निक्षिप्तधुरता प्रमाददोषेण यथारम्भं कुशलपक्षप्रयोगान्ता निर्वाह इति॥



फलं यथाक्रमं स्मृत्युपस्थानानां शुचिसुखनित्यात्मविपर्यासप्रहरणम्, अशु[भ]भावना[तः], यत्किंचित् वेदितमिदमत्र दुःखस्येति ज्ञानात्, आश्रयालंबनादिभेदैः प्रतिक्षणं विज्ञानस्यान्यथावगमात्, निर्व्यापारसंक्लेशब्यवदानधर्ममात्रपरीक्षणाच्चेति॥



पुनरेषां यथाक्रमं चतुःसत्यावतारः फलम्। का यस्मृत्युपस्थानेन दुःखसत्यमवतरति, संस्कारदुःखतालक्षणेन दौष्ठुल्येन प्रभावितत्वात् कायस्य। तथाहि तत्प्रतिपक्षभूता प्रस्त्रब्धिः काय एव विशेषेणोत्पद्यत इति। वेदनास्मृत्युपस्थानेन समुदयसत्यमवतरति, सुखादिवेदनाधिष्ठानत्वात् संयोगादितृष्णायाः। चित्तस्मृत्युपस्थानेन निरोधसत्यमवतरति, निरात्मकं विज्ञानमात्रं न भविष्यतीति पश्यत आत्मोच्छेदाशङ्कामुखेन निर्वाणोत्त्रासाभावात्। धर्मस्मृत्युपस्थानेन मार्गसत्यमवतरति, विपक्षधर्मप्रहाणाय प्रतिपक्षधर्मभावनादिति। पुनरेषां कायवेदनाचित्तधर्मविसंयोगः फलं यथाक्रमं वेदितव्यम्, तद्भावनया कायादिपक्षदौष्ठुल्यापगमादिति॥



सम्यक्प्रहाणानां प्रथमस्यानुत्पन्नो विपक्षआलंबनम्, तेनानुत्पन्न पापकाकुशलधर्मानुत्पादाय छन्दजननात्। द्वितीयस्योत्पन्नो विपक्षः। तृतीयस्यानुत्पन्नः प्रतिपक्षः। चतुर्थस्योत्पन्न आलंबनमिति यथासूत्रं योजयितव्यम्।



छन्दं जनयतीत्येवमादिभिः साश्रया वीर्यभावना परिदीपिता। अत्राश्र यश्छन्दः, तत्पूर्वकत्वादुद्योगस्य। यदा शमथादिनिमित्तमनस्कारेण निरपेक्षालंबनं केवलं प्रतिपक्षं भावयति तदा व्यायच्च्झत इत्युच्यते। यदा तुलयोपक्लेशे उत्पन्ने तदपकर्षणार्थ प्रसदनीयादिमनस्कारैः चित्तमुन्नामयति, औद्धत्योपक्लेशे चोत्पन्ने प्रत्यासंक्षेपमुखेन चित्तं धारयति तदा वीर्यमारभत इत्युच्यते। अत एव लयौद्धत्यापकर्षणोपायसंदर्शनार्थमनन्तरमाह चित्तं प्रगृह्णाति प्रदधातीति।



फलं प्रथमद्वितीययोः सम्यक्प्रहाणयोरशेषविपक्षहानिः, ताभ्यां यथायोगमुत्पन्नानुत्पन्नपापकाकुशलधर्मप्रहाणात्। तृतीयस्य प्रतिपक्षप्रतिलम्भः, तेनानुत्पन्नकुशलधर्मोत्पादनात्। चतुर्थस्य प्रतिपक्षवृद्धिः, तेनोत्पन्न कुशलधर्मविपुलतापादनादिति॥



ऋद्धिपादालंबनं निष्पन्नेन समाधिना यत्करणीयमृद्धयादिकं कृत्यम्॥



छन्दसमाधिर्यत् सत्कृत्यप्रयोगमागम्य स्पृशति चित्तस्यैकाग्रतां तीव्रेण छन्देन तीव्रे णादरेण प्रयोगः सत्कृत्यप्रयोग इति कृत्वा। वीर्यसमाधिर्यत्सातत्यप्रयोगमागम्य स्पृशति चित्तस्यैकाग्रताम्। तद्वीर्यमित्युच्यते यन्नित्यं प्रयुज्यत एव न कदाचिन्न प्रयुज्यते। चित्तसमाधिर्यत्पूर्वजन्मान्तरे समाधिभावनामागम्यतत्परिपुष्टबीजत्वाच्चित्तस्य स्वरसेन समाध्यनुकूल परिणामे सति स्पृशति चित्तस्यैकाग्रताम्। अपि खलु ऋद्धिपादाभिनिर्हारयोर्निदर्शनार्थमेव सम्यक्प्रहाणभावनायां छन्दं जनयतीत्येवमादिनिर्देशो वेदितव्यः। चित्तं प्रदधाति प्रगृह्णातीत्येषा चात्र पाठानुपूर्वी वेदितव्या। तत्र चित्तसमाधिर्यच्चितं प्रदधत् स्पृशतीति प्रत्यात्मं चित्तमेव चित्तं धारयन् शमयन्नभिसंक्षिप न्नधिगच्छतीत्यर्थः। मीमांसासमाधिर्यच्चितं प्रगृह्णन्निति धर्मविपश्यनामुखेन चित्तमुत्तापयतीत्यर्थः॥



भावना छन्दादीनामष्टानां प्रहाणसंस्काराणामभ्यासः। ते पुनरष्टौ प्रहाणसंस्काराश्चतुर्धा क्रियन्ते। तद्यथा व्यावसायिकश्छन्दव्यायामश्रद्धाः॥ तत्र छन्दो व्यायामस्याश्रयः। छन्दस्य पुनः श्रद्धा निमित्तम्। तथाहि यो येनार्थी भवति तत्प्राप्त्यर्थ व्यायच्छते। अर्थित्वं च नान्तरेण तदस्ति त्वाद्यभिसंप्रत्यमिति। अनुग्राहिकः प्रस्त्रब्धिः, तया कायचित्तानुग्रहकरणात्। औपनिबन्धिकः स्मृतिसंप्रजन्ये, आलंबनासंप्रमोषेण चित्त स्यैकाग्रावस्थानात्, तत्प्रमादे च सति परिच्छेदात् यथाक्रमम्। प्रातिपक्षिकश्चेतनोपेक्षे, चित्तप्रग्रहप्रधानाभिसंस्काराभ्यामुत्पन्नलयौद्धत्यपरिवर्जनान्निरुपक्लेशशमथादिनिमित्तानुकरणा च्चेति॥



संक्षेपनिदानं विपश्यनारहितस्य कौसीद्यमुखेन लयः। विक्षेपनिदानमशुभसंज्ञारहितस्यौद्धत्यमुखेन संप्रग्रहः। संक्षेपः स्त्याननिमित्त मुखे नान्तःसंकोचः। विक्षेपः शुभनिमित्तानुसारमुखेन विषयेषु विसारः। आलीनत्वानुकूला भावना प्रत्यवेक्षणानिमित्तं निश्रित्य धर्मविपश्यना। अविक्षेपानुकूलाऽशुभतः केशादिद्रव्यप्रत्यवेक्षा। तदुभयानुकूला ऽऽलोकसंज्ञा। एतच्च यथा क्रममधिकृत्योक्तं भगवता - नच मे छन्दोऽतिलीनो भविष्यति, नातिप्रगृहीतः, नाध्यात्मं संक्षिप्तः न बहिर्धा विक्षिप्तः , पश्चात्पूर्व संज्ञी भविष्यति ऊर्ध्वमधःसंज्ञी च, विवृतेन चेतसाऽपर्यवनद्धेन सप्रभाससहगतं चित्तं भावयिष्यामि न च मेऽन्धकारायत्तत्वं भविष्यति चेतस इति।



फलं यथेष्टमृद्धयादिगुणनिष्पादनात्॥



इन्द्रियाणां चत्वार्यार्यसत्यान्यालंबनम्, सत्याभिसमयप्रयोगसंगृहीतत्वेन तदाकारत्वात्॥ फलं तदाधिपत्यादचिरेण कालेन दर्शनमार्गस्योत्पादः तस्मिन्नेव च काले निर्वेधभागीयभजनं च संतानस्य॥



बलानामालंबनादिकमिन्द्रियैः समानम्॥ फले तु विशेषः। तथाह्येषां तच्च यथोक्तम् - आश्रद्व्यादिविपक्षनिर्लेखश्चाधिक इत्यत एवैषां तुल्यानामालंवनस्वभावादिकानामप्यनवमृद्यतार्थविशेषेण बोधिपक्षान्तरत्वम्॥



बोध्यङ्गानामालंबनं चतुर्णामार्यसत्यानां यथाभूततेति परमार्थो विशुद्धयालंवनमित्यर्थः। स्वभावः स्मृत्यादयः सप्त धर्माः। तत्र स्मृतिः संनिश्रयाङ्गम्, उपस्थितस्मृतेः सर्वकुशलधर्माभिलपनात्। धर्मविचयः स्वभावाङ्गम्, संबोधिलक्षणत्वात्। वीर्य निर्याणाङ्गम्, तेन यावद्गम्यं गमनात्। प्रीतिरनुशंसाङ्गम्, तया संतानप्रीणनात्। प्रस्त्रब्धिः समाधिरुपेक्षा चासंक्लेशाङ्गम्। तत्र प्रस्त्रब्ध्या न संक्लिश्यते, तया दौष्ठुल्यस्त्रावणात्। समाधौ न संक्लिश्यते, तत्र स्थितस्याश्रयपरिवर्तनात्। उपेक्षाऽसंक्लेशः, अभिध्यादौर्मनस्यापगताक्लिष्टावस्थास्वभावत्वात्। भावना स्मृतिसंबोध्यङ्गं भावयति विवेकनिश्रितमित्येवमादिरेभिः चतुर्भिः पदैर्यथाक्रमं चतुःसत्या लंबना बोध्यङ्गभावना परिदीपिता। तथाहि दुःखं दुःखत आलंबमानस्य तद्विवेकान्वेषणाद्दुःखालंबनं विवेकनिश्रितमित्युच्यते। तृष्णालक्षणं दुःखसमुदयं दुःखसमुदयत आलंब मानस्य तद्विरागान्वेषणात्तदालंबनं विरागनिश्रितम्। दुःखनिरोधं दुःखनिरोधत आलंब मानस्य तत्साक्षात्करणान्वेषणात्तदालंबनं निरोधनिश्रितम्। दुःखनिरोधगामिनी प्रतिपद् व्यवसर्ग इत्युच्यते, तया दुःखविसर्जनात्। तां तथा लंवमानस्य तद्भावनान्वेषणात्तदालंबनं व्यवसर्गपरिणतमित्युच्यते। फलं दर्शनहेयानां क्लेशानां प्रहाणम्, बोध्यङ्गानां दर्शनमार्गस्वभावत्वात्॥



मार्गाङ्गानामालंबनं दर्शनमार्गादुत्तरकालं सैव यथादृष्टानां सत्यानां यथाभूतता। स्वभावः सम्यग्दृष्टयादयोऽष्टौ धर्माः। तत्र सम्यग्दृष्टिः परिच्छेदाङ्गम्, तया यथानुभवं तत्त्वावधारणात्। सम्यक्संकल्पः परसंप्रापणाङ्गम्, तेन यथाधिगमं व्यवस्थाप्य वाक्समुत्थापनात्। सम्यग्वाक्कर्मान्ताजीवाः परसंप्रत्ययाङ्गम्, तैर्यथाक्रममधिगन्तुः परैदृष्टयादिविशुद्धिनिश्चयनात्। तत्र सम्यग्वाचाऽधिगमानुरूपप्रश्नव्याकरणसांकथ्यविनिश्चयेनास्य दर्शनविशुद्धिर्विज्ञायते। सम्यक्कर्मान्तेनाभिक्रमप्रतिक्रमादिषु संपन्नचारित्रतया शीलविशुद्धिः सम्यगा जीवेन यथानुज्ञं धर्मेण चीवरादिपर्येषणादाजीवविशुद्धि रिति। सम्यग्व्यायामः क्लेशावरणविशोधनाङ्गम्, तेनाशेष संयोजनप्रहाणात्। सम्यक्स्मृतिरूपक्लेशावरणविशोधनाङ्गम्, तया सम्यक्‍शमथादिनिमित्तासंप्रमोषेण लयाद्युपक्लेशानवका शात्। सम्यक्समाधिर्वैशेषिकगुणावरणविशोधनाङ्गम्, तेनाभिज्ञादिगुणाभिनिर्हरणात्। भावना बोध्यङ्गवत्, तद्यथा सम्यग्दृष्टि भावयति विवेकनिश्रितामिति विस्तरः। तेषां च पदानामर्थः यथानिर्दिष्टं पुरस्तात्तथानुगन्तव्यः॥



प्रतिपदां धर्मपदानां च पूर्ववदर्थनिर्देशो वेदितव्यः दुखा प्रतिपदनागम्यारूप्यनिश्रिता यथाक्रमं शमथविपश्यनामान्धात्। सुखा ध्याननिश्रिता युगनद्धवाहित्वात् धन्धाभिज्ञा द्वयोरप्यनयोर्दुःखसुखनिश्रययोर्मृद्विन्द्रियाणाम्। क्षिप्राभिज्ञा तयोरेव तीक्ष्णेन्द्रियाणामिति॥



शमथः नवकारचित्तस्थितिः। तत्र बाह्यालंबनेभ्यः प्रतिसंहृत्या ध्यात्ममविक्षेपापादितश्चित्तस्योपनिबन्धः स्थापना। तस्य चित्तस्यैवमादित उपनिबद्धस्य चलस्यौदारिकस्य तस्मिन्नेवालंवने संततियोगेन सूक्ष्मोकरणेन चाभिसंक्षेपः संस्थापना। तस्य स्मृतिसंप्रमोषाद्वहिर्धा विक्षिप्तस्य पुनः प्रतिसंहरणमवस्थापना। आदित एव तस्य चित्तस्य वहिरविसारायोप स्थितस्मृतितोपस्थापना। पूर्वमेव विक्षेपनिमित्तेषु रूपादिष्वादीनवसंज्ञामधिपति कृत्वा चित्तस्य प्रसरादानं दमनम्। चेतःसंक्षोभकरेषु वितर्कोपक्लेशे ष्वादीनवदर्शनेन प्रसरादानं शमनम्। स्मृतिसंप्रमोषाद्वितर्कादिसमुदाचारे सति तदनधिवासना व्युपशमनम्। अभिसंस्कारेण निश्छिद्रनिरन्तरसमाधिप्रवाहावस्थापना एकोतीकरणम्। स्वभ्यस्तत्वादनभिसंस्कारेणानाभोगेन चित्तसमाधिप्रवाहस्याविक्षेपेण प्रवृत्तिः समाधानमिति॥



विपश्यना यथापि तद्धर्मान्विचिनोतीत्येवमादिः। तत्र चरित विशोधनमालंवनं कौशल्यालंबनं वा क्लेशविशोधनं वा यावद्भाविकतया विचिनोति, यथावद्भाविकतया प्रविचिनोति, सविकल्पेनमनस्कारेण प्रज्ञासहगतेन निमित्तीकुर्वन् परिवितर्कयति, संन्तीरयन् परिमीमांसामापद्यत इति॥



अपि खलु [शमथ]विपश्यनामागम्य चत्वारो मार्गा इति चत्वारो मार्गोपदेशनामधिकृत्य। तत्र प्रथमः शमथस्य लाभित्वादभिनिषीदन्नेव चित्तं स्थापयति यावत्समाधत्ते, विपश्यानाया अलाभित्वात्तु समाधि निश्रित्य पश्चात्त थानिषण्णस्तान् धर्मान्विचिनोति यावत्परिमीमांसा मापद्यते। द्वितीयो विपर्ययेण वेदितव्यः। तृतीया उभयस्यालाभ्युभयत्र योगं करोति। कथं कृत्वा, श्रुतोद्ग्रहण मुखेन विवश्यनायां योगं करोति तत्पूर्वकं च शमथे। चतुर्थ उभयस्य लाभात्॥



अज्ञातमाज्ञा स्यामीन्द्रियं प्रयोगमार्गे निर्वेधभागीयसंगृहीते पञ्चदशसु च दर्शनमार्गचित्तक्षणेषु यदिन्द्रियम्, तद्यथा मन‍इन्द्रियम्, पञ्च श्रद्धादीनि, अनागम्यादिनिश्रयभेदेन यथासंभवं सुखसौमनस्य दौर्मनस्योपेक्षेन्द्रियाणां चान्यतमम्। दौर्मनस्येन्द्रियं पुनः प्रयोगकाले निर्वेधभागीयपृष्ठेनोत्तरविमोक्षस्पृहासंगृहीतं वेदितव्यम्। तदेतत्संभवतो दशविधमिन्द्रियमनाज्ञातपूर्वस्य तत्त्वस्याज्ञा यै प्रवृत्तत्वादनाज्ञातमाज्ञास्यामीन्द्रियमित्युच्यते। एतदेव दशविधमिन्द्रियं षोडशाद्दर्शनमार्गचित्तक्षणाद्यावद्वज्रोपमः समाधिरित्येतस्मिन्शैक्षमार्गे आज्ञेन्द्रियमित्युच्यते, अपूर्वज्ञेयाभावात्। एतदेव पुनर्नवविधमिन्द्रियं दौर्मनस्येन्द्रियवर्जमशैक्षमार्गे आज्ञातावी न्द्रियमित्युच्यते, आ ज्ञाताविनोऽर्हत् इन्द्रियमिति कृत्वा॥



भावना मार्गाधिकारेणेदमपि वक्ष्यते। ऊर्ध्वभूमिके मार्गे संमुखीभावेन भाव्यमानेऽसंमुखीभूतान्यप्यधोभूमि कानि कुशलमूलकानि भावनां गच्छन्ति, तेषु विभुत्वलाभात्। विभुत्वं पुनरुत्तप्तसंमुखी भावेन तशिता वेदितव्या॥



निष्ठामार्गः सर्वदौष्ठुल्यानां प्रतिप्रस्त्रब्धेरिति विस्तरः॥



तत्र सर्वदौष्ठुल्यानि चतुर्वितिर्भवन्ति। तद्यथा सर्वत्रगमभिलापदौष्ठुल्यं या चक्षुरादिसर्वधर्मनामा भिनिवेशवासनाऽऽलयविज्ञाने संनिविष्टाऽनादिकालानुसृता, याऽसावुच्यते प्रपञ्चवासनेति, यतश्चक्षुरादयो धर्माः सनामा भिनिवेशाः पुनः पुनः प्रवर्तन्त इति। वेदितदौष्ठुल्यं सास्त्र वाणां वेदनानां वासना। क्लेशदौष्ठुल्यं क्लेशानामनुशयः। कर्मदौष्ठुल्यं सास्त्रवाणां कर्मणां वासना। विपाकदौष्ठुल्यं विपाकस्या कर्मण्यता। क्लेशावरणदौष्ठुल्यं तीब्रायतक्लेशता। कर्मावरणदौष्ठल्यं मार्गान्तरायिकानन्तर्यादिककर्मावृतता। विपाकावरणदौष्ठुल्यं सत्याभिसमयविधुरनारकाद्यात्म भावप्रतिलम्भः। निवरणदौष्ठुल्यं कुशलपक्षप्रयोगान्तरायिककामछन्दाद्यभिभूतता। वितर्कदौष्ठुल्यं प्रव्रज्याभिरति विवन्धकामवितर्काद्यभिभूतता। आहारदौष्ठुल्यमत्यल्पबहुभोजननेन प्रयोगायोग्यता। मैथुनदौष्ठुल्यं द्वयद्वयसमापत्तिकृता कायचित्तव्यथा। स्वप्नदौष्ठुल्यं मिद्धकृतमाश्रयजाड्यम्। व्याधिदौष्ठुल्यं धातुवैष म्यकृताऽस्व स्थता। जरादौष्ठुल्यं भूतविपरिणामकृताऽविधेयता। मरणदौष्ठुल्यं म्रियमाणस्य सर्वेन्द्रियाकुलता। परिश्रमदौष्ठुल्यमतिगमनादिकृतोऽङ्गमर्दः। दृढदौष्ठुल्यं यथासंभवमेत देवाभिलापदौष्ठुल्यादिकमपरिनिर्वाण वताम्। औदारिकमध्यसूक्ष्म दौष्ठुल्यानि यथाक्रमं कामरूपारूप्यावचराणि वेदितव्यानि। क्लेशावरणदौष्ठुल्यं श्रावकप्रत्येकबुद्धबोधि[वि]पक्षः। समापत्त्यावरणदौष्ठुल्यं नवा[नु]पूर्वसमापत्त्यभिनिर्हार[वि]पक्षः। ज्ञे यावरणदौष्ठुल्यं सर्वज्ञताविपक्षः। इत्येवमेषां यथायोगं सर्वदौष्ठुल्यानां प्रतिप्रस्त्रव्धेनिष्ठामार्गः। यथोक्तं - " तस्य चेतोविमुक्तेः पारिपूर्या प्रज्ञाविमुक्तेः पारिपूर्या कायदौष्ठुल्यानां प्रतिप्रस्त्रब्धेः। स्मृत्या समन्वागमहेतोरेवमस्य प्रथमं द्वारं सुदान्तं भवति सुगुप्तं सुरक्षितं सुसंवृतं सुभाषितम्, यदुत चक्षुर्विज्ञेयेषु रूपेष्वेवं यावन्मनो विज्ञेयेषु धर्मेष्वि" ति॥



वज्रोपमः समाधिर्भावनामार्गस्यान्त्या प्रहाणमार्गावस्था वेदितव्या। स च समाधिर्निरन्तरस्तत्प्रवाहरय लौकिकेन मार्गे णान्तराखण्डनात्। दृढः सर्वावरणैरच्छिद्रणात् सर्वावरणभेदितया च सारत्वात्। एकरस इति निर्विकल्पैकरसत्वात्। व्यापी सर्वज्ञेयसामान्यतथतालंवनत्वात्। एतदर्थप्रतिबिम्बनार्थ भगवतोक्तम् - तद्यथा महाशैलः पर्वतोऽखण्डोऽच्छिद्रोऽशुषिर एकधनः सुसंवृत इति॥



निरन्तराश्रयपरिवृत्तिविधाऽर्शक्षमार्गलाभिनः। चित्ताश्रयपरिवृत्तिर्धर्मता, चित्तस्य प्रकृतिप्रभास्वरस्याशेषागन्तुकोपक्लेशा पगमाद्या परिवृत्तिः, तथतापरिवृत्तिरित्यर्थः। मार्गाश्रयपरिवृतिः पूर्व लौकिको मार्गोऽभिसमयकाले लोकोत्तरत्वेन परिवृतः शैक्षश्चोच्यते सा वशेषकरणीयत्वात्। यदा तु निर्हताशेषविपक्षो भवति त्रैधातुकवैराग्यात्तदास्य मार्गस्वभावस्याश्रयस्य परिपूर्णा परिवृत्तिर्व्यवस्थाप्यते। दौष्ठुल्याश्रयपरिवृत्तिरालयविज्ञानस्य सर्वक्लेशानुशयापगमेन परिवृत्तिर्वेदितव्या॥



क्षये सति, विषये वा तस्मिन् यज्ज्ञानं क्षय ज्ञानमेतदुक्तं भवति। निरवशेषं प्रक्षीणे समुदये यज्ज्ञानं तदवस्थस्य हेतुनिरोधालंबनं वा क्षयज्ञानमिति॥



तथानुत्पादे सति विषये वा तस्मिन् यज्ज्ञानमनुत्पादज्ञानम् आयत्यां सर्वस्य दुःखस्यात्यन्तमनुत्पत्तिधर्मतायां सत्यां यज्ज्ञानमन्यसत्यालंबनमिति। यद्वा दुःखसत्यानुत्पादालंबनं तदनुत्पादज्ञानमित्यर्थः॥



दशाशैक्षा धर्मा अशैक्षाञ्छीलादीन् पञ्च स्कन्धानधिकृत्य। तत्र अशैक्षा सम्यग्वाक्क र्मान्ताजीवा अशैक्षशीलस्कन्धः। सम्यक्स्मृतिसमाधिः समाधिस्कन्धः। सम्यग्दृष्टि संकल्पव्यायामाः प्रज्ञास्कन्धः। सम्यग्विमुक्तिर्विमुक्तिस्कन्धः। सम्यग्ज्ञानं विमुक्तिर्ज्ञानदर्शनस्कन्ध इति॥



पुनर्मार्गसत्यस्य चत्वार आकाराश्चत्वारि लक्षणानि। तत्र तत्त्वार्थ मार्गयत्यनेति मार्गः। अय[था]भूतानां क्लेशानां प्रतिपक्षत्वात् न्यायः। तत्त्वानववोधदोषेणानित्यादिविपर्यासैर्विपर्यस्तस्य चित्तस्याविपर्यासे तत्त्वाववोधे प्रतिपादनात्प्रतिपत्। नित्य आत्यन्तिके निःसरणपदे यानान्नैर्याणिक इति॥



दुःखादिसत्येष्वनित्यादयः षोडशाकारा लौकिका लोकोत्तराश्च सन्ति। तत्र लौकिका ज्ञेयेऽप्रविष्टाः सावरणाः सविकल्पाश्च, तथताया अप्रतिवेधात् क्लेशानुशयित्वादभिलापमुखेन प्रपञ्चनाच्च यथाक्रमम्। विपर्ययेण लोकोत्तराः सुप्रविष्टा निरावरणाश्च सन्तो निर्विकल्पतया लौकिकेभ्यो विशिष्यन्ते। कथं पुनरेतेऽविकल्पयन्तो ज्ञेयेषु प्रविष्टा भवन्ति। यस्मादेतेषु वर्तमानोऽनित्यार्थ पश्यति साक्षादनुभवति, न त्वनित्यमिति पश्यत्यभिलापप्रपञ्चमुखेनेति। एवं दुःखादिष्वाकारेषु योजयितव्यम्॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project