Digital Sanskrit Buddhist Canon

लक्षणसमुच्चयो नाम प्रथमः समुच्चयः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
अभिधर्मसमुच्चयभाष्यम्

लक्षणसमुच्चयो नाम प्रथमः समुच्चयः

ओं नमो रत्नत्रयाय।

किमर्थमिदं शास्त्रमारब्धम्। स्कन्धा दोनारभ्य कति कस्मादित्येवमादिषु चिन्ता स्थानेषु कौशल्यकरणार्थम्। तथाह्यनेन कौशल्येन द्विविधोऽनुशंसो लभ्यते -मनस्कारानुशंसः सांकथ्यविनिश्चयानुशंसश्च। तत्र मनस्कारानुशंसः शमथानुकूल्याद्विपश्यनावृद्धयानुकूल्याच्च वेदितव्यः। शमथानुकूल्यं पुनरेषू स्थानेषु कृतकौशलस्य निःसंदेहतया यथेष्टमालंवने ऐ काग्रययोगेन सुखं चित्तसमा धानतः। विपश्यनावृद्धयानु कूल्यं बहुभिः प्रकारैः ज्ञेयपरीक्षया प्रज्ञाप्रकर्षगमनतः। सांकथ्यविनिश्चयानुशंस एषु स्थानेषु कुश लस्य सर्वप्रश्नव्याकरणशक्तियोगाद्वैशारद्यप्रतिलंभतो द्रष्टव्यः॥



पञ्चाकारात्मवस्तूद्भावनतामुपादायेत्यत्रचतुराकारमात्मनो वस्त्वित्यात्मवस्तु। पञ्चमं त्वात्मलक्षणमेव वस्त्वित्यात्मवस्त्विति वेदितव्यम्। सपरिग्रहदेहग्रहणेन बाह्यस्याध्यात्मिकस्य च रूपस्कन्धस्य ग्रहणं वेदितव्यम्। वेदनादीनामुपभोगादित्वं तल्लक्षणनिर्देशे ज्ञापयिष्यते। तदाश्रयात्मस्ववस्तु विज्ञानम्, तेषां सपरिग्रहदेहादीनामाश्रयमात्मलक्षणं वस्त्वित्यर्थः। तथाहि लोके प्रायेण विज्ञाने आत्मग्राहः, शेषेष्वात्मीयग्राह इति॥



देहपरिग्रहाभ्यामिति चक्षु[रादी] न्द्रियषट्केन रूपादिविषयषट्केन च। षडाकारोऽतीतो वर्तमानश्चोपभोगो विज्ञानषट्कम्, तस्य धारणमाश्रयालंवन भावतः। इत्येवं तद्धा रणत्वेन द्वादशानामिन्द्रियविषयाणां धातुत्वम्।

विज्ञानानां पुनरुपभोगलक्षण धारणत्वेन धातुत्वं वेदितव्यम्। यथाऽतीतप्रत्युत्पन्नाः चक्षुरादय उपभोगलक्षणधारका नै वमनागताः - २॥



आयद्वारमात्रत्वादिन्द्रियार्थमात्रग्रहणेन द्वादशैवायतनानि व्यवस्था पितानि, न तूपभोगलक्षणं विज्ञानषट्कमिति॥



उपादानं छन्दो रागश्च। तत्र छन्दोऽभिलाषः, रागोऽध्यवसानम्। छन्देनानागतमात्मभावमभिलाषमुखेनोपादत्ते, येनानागतान् स्कन्धानभिनिर्वर्त्तयति। रागेन वर्तमानमात्मभावमध्यवसानमुखेनोपादत्ते, येन वर्तमानान् स्कन्धान्न परित्यजति। तस्मादेतदेव द्वयमुपादानमित्युच्यते। तत्र स्कन्धवन्निर्देश इति। उपादानेन युक्तास्तस्मात्सोपादानधर्मा इति वेदितव्यम्॥



स्पर्शेन रूपाणामन्यथीभावो वेदितव्यः। या देशे इत्यभि मुखप्रदेशे। इदं चेदं चेत्यस्थिशंकला दिकं ज्ञेयवस्तुसभागं प्रतिबिम्बम्। एवं चैवं चेति वर्णसंस्थानभेदैः चित्रीकारतेति तथासंज्ञा। शुभानां कर्मणां सुखोऽनुभवः फलविपाकः। अशुभानां दुःखः। उभयेषामदुःखासुखः। तथाहि शुभानामशुभानां वा विपाक आलयवि ज्ञानं नित्यमुपेक्षयैव संप्रयुक्तं भवति। सैव चात्रोपेक्षा विपाकः। सुखदुःखयोस्तु विपाकजत्वाद्विपाकोपचारः। दृष्टश्रुततमविज्ञातानर्थानिति दृष्टं यच्च क्षुषानुभूतम्, श्रुतं यच्छ्रोत्रेणानुभूतम्, मतं यत्स्वयमभ्यूहितमेवं चैवं च भवितव्यमिति, विज्ञातं यत्प्रत्यात्ममनुभूतमिति। व्यवहरतीत्यभिलापैः प्राप[य]तीत्यर्थः॥ नानावस्थासु चेति सुखदुःखाद्यासु॥



येन चक्षुषा रूपाणि दृष्टवानित्यतीतविज्ञानोपभोगधारकत्वेन धातुत्व दर्शयति। प श्यतीति वर्तमानविज्ञानोपभोग धारकत्वेन। यच्च तस्य चक्षुषो बीजमुपचितमालयविज्ञानं यत आयत्यां चक्षुनिर्वर्तिष्यते, वैपाक्यं च यतो निर्वृत्तम्, तदपि द्विविधं बीजं चक्षुर्धातुरित्युच्यते, चक्षुषो हेतुत्वात्। यच्चक्षुर्धातोः रूपे आधिपत्यमिति रूपी न्द्रियाधिपत्येन बाह्यविषयनिर्वर्तनात्।



तद्धातुवद्द्रष्टव्यं तच्च यथायोगमिति येन चक्षुषा रूपाणि द्रक्ष्यति यच्च तद्बीजमित्येवमादि योजयितव्यम्॥



चत्वारि च महाभूतान्युपादायेति। कथमुपादायरूपम्। चत्वारि महाभूतान्युपादाय जननसंनिश्रयप्रतिष्ठोपस्तंभोपबृंहणहेतुत्वेन। जननादि हेतुत्वं पुनर्भूतानामुपादायरूपे पञ्चविधं हेतुत्वमधिकृत्य। उत्पत्तिहेतुत्वं तैर्विना तदनुत्पत्तेः। वृत्तिहेतुत्वं भूतानि प्रत्याख्यायोपादायरूपस्य पृथग्देशा वष्टम्भसाम र्थ्याभावात्। अनुवृत्तिहेतुत्वं भूतविकारेण तत्प्रतिष्ठितोपादायरूपविक्रियागमनात्। स्थितिहेतुत्वं सदृशोत्पत्तिकाले भूतैरुपादायरूपसंतानस्यानुपच्छेदयोगेन संधारणात्। उपचयहेतुत्वं वृत्ति काले भूतैरूपादायरूपाप्यायनादिति।



नीलादीनां पञ्चविंशतीनां रूपाणां व्यवस्थानं षड्भिराकारैर्वेदितव्यम्। लक्षणतः संनिवेशतो ऽनुग्रहोपघाततः क्रियासंनिश्रयतः क्रियालक्षणतः मण्डनतश्च चतुर्णा दशानामष्टानामेकै कस्य च यथाक्रमम्। तत्राभ्यवकाशस्तदन्यप्रतिवारकस्प्रष्टव्यरहितो यो देशः। नभो यदुपरिष्टान्नीलं दृश्यते॥



शब्दव्यवस्थानं लक्षणतोऽनुग्रहोपघाततः हेतुप्रभेदतो देशनाप्रभेदतो व्यवहारप्रभेदतश्च। लक्षणतः श्रोत्रेन्द्रियग्राह्यो योऽर्थ इति। देशनाप्रभेदतो लोकप्रसिद्धादयस्त्रयः। शेषं यथायोगं वेदितव्यम्। तत्रोपात्तमहाभूतहेतुकस्तद्यथा वाक्छब्दः। अनुपात्तमहाभूतहेतुकस्तद्यथा वृक्ष शब्दः। तदुभयस्तद्यथा हस्तमृदङ्ग शब्दः। लोकप्रसिद्धो लौकिकभाषासंगृहीतः। सिद्धोपनीत आर्येर्देशितः। परिकल्पितस्तीर्थ्येर्देशितः। आर्यानार्यव्यावहारिकौ तुदृष्टादीनष्टौ व्यवहारानधिकृत्य वेदितव्यौ॥



गन्धव्यवस्थानं स्वलक्षणतोऽनुग्रहोपघाततः प्रभेदतश्च॥ रसव्यवस्थानमप्येवमेव वेदितव्यम्॥ तत्र सहजो गन्धश्चन्दनादोनाम्, सांयोगिको धूपयुक्त्यदीनाम्, पारिणामिकः पक्वफलादीनामिति।



स्प्रष्टव्यैकदेशव्यवस्थानमामर्शनत आतुलनतः स्पर्शनत आपीडनतः संसर्गतो धातुवैषम्य साम्यतश्च। अब्वायुसंस र्गाच्छीतम्। अप्पृथवीसंसर्गात्पिच्छलम्। विश्रामो बलमूर्जा च धातुसाम्यात्। ऊर्जा पुनर्वैशारद्यं वेदितव्यम्। तृप्तिरुभयथा। शेषा जिघत्सादयो धातुवैषम्याद्वेदितव्याः॥



आभिसांक्षेपिकं परमाणुरूपम्। आभ्यवकाशिकं तदेव यथोक्तं तदन्यप्रतिवारकस्प्रष्टव्यरहितम्। सामादानिकमविज्ञप्तिरूपम्। परिकल्पितं प्रतिबिम्बरूपम्। वैभूत्विकं विमोक्षध्यायिगोचरं यद्रूपम्।



वेदनास्कन्धव्यवस्थानमाश्रयतः स्वभावत आश्रयसंकलनतः संक्लेशव्यवदानतश्च। तत्र रूपाश्रयसंकलनतः कायिकीवेदनाव्यवस्थानम्। अरूप्याश्रय संकलनतश्चैतसि कीवेदनाव्यवस्थानम्। संक्लेशतः सामिषादीनाम्, व्यवदानतो निरामिषादीनां व्यवस्थानं वेदितव्यम्। तत्तृष्णावियुक्तेति विसंयुक्ता विसंयोग्यानुकूला च वेदितव्या॥



अव्यवहारकुशलस्याशिक्षित भाषतया रूपे संज्ञा भवति न तु रूपमिति। तस्मादनिमित्तसंज्ञेत्युच्यते। अनिमित्तधातुसमापन्नस्य रूपादिसर्व निमित्ता पगतेऽनिमित्ते निर्वाणे संज्ञाऽनिमित्तसंज्ञा। भवाग्रसमापन्नस्या पटुत्वेनालंवनानिमित्तीकरणादनिमित्तसंज्ञा। परीत्तः कामधातुः निकृष्ट त्वात्। महद्गतो रूपधातुस्तत उत्कृष्टत्वात्। अप्रमाणे आकाश विज्ञानानन्त्यायतनेऽपर्यन्तत्वात्। तस्मात्तदालंवनाः संज्ञाः परीत्तादिसंज्ञा वेदितव्याः।



वेदनासंज्ञावर्ज्यानां सर्वेषां चैतसिकानां चित्तविप्रयुक्तानां च संस्कारस्कन्धलक्षणत्वे चेतनामात्रस्यैव तन्निदशे ग्रहणं तत्पूर्वकत्वादितरेषामिति कारणज्ञापनार्थमाह - यया कुशलत्वाय चेतयत इत्येवमादि। तत्र कुशला वक्ष्यमाणाः श्रद्धादयः। संक्लेशा रागादयः क्लेशोप क्लेशाः। अवस्थाभेदतः चेतनाप्रेरितसंस्कारावस्यासु प्रज्ञप्ताः चित्तविप्रयुक्ताः संस्काराः॥



चेतनादीनां चैतसिकानां लक्षणतः कर्मतश्च निर्देशो वेदितव्यः। तत्र चेतनायाः चित्ताभिसंस्कारो मनस्कर्मेति लक्षणनिर्देशः। कुशलाकुशलाव्याकृतेषु चित्तप्रेरणकर्मिकेति कर्मनिर्देशः। तथाहि यथाभिसंस्कारं कुशलादिषु धर्मेषु चित्तस्य प्रवृत्तिर्भवतीति। आलंबने चित्तधारणं तत्रैव पुनः पुनरावर्जनं वेदितव्यम्। अत एव समाधिलाभी मन(ः) संस्कारलाभीत्युच्यते। विज्ञानोत्पत्ताविन्द्रियस्य सुखादिवेदनोत्पत्त्यनुकूलो यो विकारस्तदाकारः स्पर्शो वेदितव्यः। तत्त दुपसंहिता कर्तुकामतेति दर्शनश्रवणादिसर्वक्रियेच्छासंग्रहार्थम्। यथानिश्चयं धारणा एवमेतन्नान्यथेत्यधिमुक्तिः। अत एव तत्प्रधानोऽन्यैः संहर्तु न शक्यते संस्तु तं वस्तु पूर्वानुभूतं वेदितव्यम्। अविक्षेपकर्मिकत्वं पुनः स्मृते रालंवनाभिलपनेसति चित्ताविक्षेपतामुपादाय । चित्तस्यैकाग्रताऽविक्षेपः। ज्ञानसंनिश्रयदानं समाहितचित्तस्य यथाभूतज्ञानात्। संशयव्यावर्तनं प्रज्ञया धर्मान् प्रविचिन्वतो निश्चयलाभात्। अस्तित्वेऽभिसंप्रत्ययाकारा श्रद्धा। गुणत्वे प्रसादाकारा। शक्यत्वेऽभिलाषाकारा, शक्यं मया प्राप्तुं निष्पादयितुं वेति। ह्रयादयः सुगमत्वान्न विभज्यन्ते। उपपत्तिप्रातिलम्भिकं श्रुतचिन्तामयं भावनामयं च यथाक्रमं विपाकागमाधिगमरूपं वेदितव्यम्। प्रतिसंख्याप्रज्ञा धैर्यस हिता। स्थामवान्वीर्यवानुत्साही दृढपराक्रमोऽनिक्षिप्तधुरः कुशलेषु धर्मेष्वित्येवमादिसूत्रपदानि यथाक्रमं संनाहादिष्वभ्युत्साहवस्तुषु योजयितव्यानि। परिपूरणंय था मौलं प्रवेशः। निष्पादनं तस्यैव सुपरिकर्मकृतत्वम्। सर्वावरणनिष्कर्षणं तद्वशेनाश्रयपरिवृत्तितो द्रष्टव्यम्। सर्वकुशलभावनाया वीर्यादिपूर्वकत्वात्तेष्वप्रमादप्रज्ञप्ति। सास्त्रवा धर्मा आस्त्रवा आस्त्रवस्थानीयाश्च विषया इह वेदितव्याः। चित्तसमतादिभिरुपेक्षाया आदिम ध्यावसानावस्था व्याख्याताः। तथाह्युपेक्षया युक्तं चित्तं लयादिवेषम्याभावादादितः समम्। ततोऽनभिसंस्कारेण वहनात्प्रशठम्। ततः संक्लेशाशङ्काभावादनाभोगावस्थितमिति। अ विहिंसा प्यद्वेषाव्यतिरेकात् प्रज्ञप्तिसती वेदितव्या। दुःखसंजननकर्मक इति तृष्णावशेन पञ्चोपादानस्कन्ध निर्वर्तनात्। अस्पर्शविहार आघातचित्तस्य दुःख विहारात्। अगौरवं गुरुषु गुणवत्सु च स्तब्धता। दुःखोत्पत्तिः पुनर्भवोत्पत्तिर्वेदि तव्या। मिथ्यानिश्चयैर्विपरीतं ज्ञानम्। विचिकित्सा संशयः। संक्लेशोत्पत्तिः रागादिक्लेशसमुदाचारः। तत्संनिश्रयदानं मूढस्य सर्वक्लेशप्रवृत्तेरिति। रत्नेषु विमतिर्मार्गसत्ये निरोधसत्ये च यथायोगम्। तया कुशलपक्षेऽप्रवृत्तिरलब्धनिश्चयस्यानारम्भात्॥



मध्यमा प्रतिपच्छाश्वतोच्छेदग्राहवर्जितं प्रतीत्यसमुत्पादज्ञानम्। शीलव्रतं कुदृष्टिपूर्वकं वेदितव्यम। श्रमवैफल्यं तेनानिर्याणात्। नास्ति दत्तं नास्तीष्टं नास्ति कृतं नास्ति सुचरितं नास्ति दुश्चरितमित्ययं हेत्वपवादः। नास्ति दुश्चरितसुचरितानां कर्मणां फलविपाक इति फलापवादः। नास्त्ययं लोको नास्ति परलोको नास्ति माता नास्ति पिता नास्ति सत्त्व उपपादुक इति क्रियापवादः, लोकान्तरगमनागमनक्रियाया बीजाधानक्रियायाः प्रतिसंधिबन्धक्रियायाश्चा पवादात्। न सन्ति लोकेऽर्हन्त इत्येवमादि सद्वस्तुनाशनम्। तदन्यद्यत् किंचिद्विपरीतदर्शनं तन्मिथ्या परि कल्पनं वेदितव्यम्। कुशलमूलसमुच्छेदो विशिष्टाया एव मिथ्यादृष्टेर्न सर्वस्याः।



पञ्चस्कन्धात्मके ज्ञेये आत्मात्मीयस्वभावसमारोपिका सत्कायदृष्टिः। आत्मनित्यानित्यविशेषसमारोपिकाऽन्तग्राहदृष्टिः। कुदृष्टावग्रता समारोपको दृष्टिपरामर्शः। तत्रैव शुद्धि समारोपकः शीलव्रतपरामर्शः। एका यद्भूयसेति मिथ्याविकल्पिका या नावश्यमपवादिकत्वात्। लक्षणतो द्वाभ्यामन्तग्राहमिथ्यादृष्टिभ्याम्, सपरिवारतः सर्वाभ्यः।



रूपादयो नात्मा, तद्विलक्षणत्वात् न हि ते आत्मलक्षणा इति। न तेष्वात्मा, अनित्यतादोषात्। न ह्याश्रयाभावे आश्रितं भवतीति। न रूपवानात्मा, अस्वातन्त्र्यदोषप्रसङ्गात्। न तेभ्योऽन्यत्रात्मा, निर्देहतादोषात्। न हि विना देहेना त्मपरिकल्प उपलभ्यत इति। अस्वातन्त्र्यतादोषः तेष्ववशवर्तनात्। अथैवंविधमात्मानं कश्चित्परिकल्पयेत् तथापि नोपपद्यतेऽरूपादिक आत्मा, अयत्नतो मोक्षदोषात्। देहादिबन्धनाभावे हि स्वरसेनैव मोक्षः स्यादिति॥



रूपामात्मेति समनुपश्यति वेदनां संज्ञां संस्कारान् विज्ञानमात्मेति समनुपश्यतीत्येताः पञ्चात्मदृष्टयः। शेषाः पञ्चदशात्मीयदृष्टयः॥



रूपवान् यावद्विज्ञानवानिति संबन्धेनात्मीयता, सा हि तत्संवन्धा त्तद्वान् भवतीति। आत्मीयं रूपं यावद्विज्ञानमिति वशवर्त्त्यात्मीयतामुपादाय, यस्य हि यद्वशेन वर्तते दाने विनियोगे वा तस्य तदात्मीयमित्युच्यते। रूपे यावद्विज्ञाने आत्मेत्यविनिर्भागवृत्त्यात्मीयता, अयमात्मा‍एष्वनुसृतो विस्तृतः प्रक्षिप्तोऽङ्गाङ्गानुसारिगत इति परिकल्पनात्॥



अनिरूपितवस्तुकत्वं पुना रूपमित्येवमादिलक्षणं निरूपयत आत्मदृष्टेरनवकाशात्। तद्यथा रज्जुं सर्पतो गृह्णाति कश्चित् सहसा, न पुना रज्जुरिति निरूपयंस्तां सर्पतो गृह्णीयादिति॥



क्रोधादयः प्रज्ञप्तिसन्तो वेदितव्याः, प्रतिघातादि व्यतिरेकेणाभावात्॥ तदूर्ध्वमिति क्रोधादूर्ध्वम्। अक्षान्तिरपकारामर्षणम्। धर्मतैषा यदवद्यं प्रतिच्छादयतः कौकृत्यम्, अतश्चास्पर्शविहार इति। उच्चप्रगाढपारुष्यवचनं परमर्मघट्टनयोगेन प्रत्यक्षरवादिता। असंलेखो मात्सर्येणानुपयुज्यमानानामप्युपकरणानां संनिचयाद्वेदितव्यः। भूतदोषविमालना अन्येनान्यस्य प्रतिसरणं वेदितव्यम्। सम्यगववादलाभपरिपन्थकर्मकत्वं यथाभूतमात्मानमनाविष्कृत्याववा दायोग्यत्वात्। दीर्घायुष्कलक्षणग्रहणं तद्विकल्पनादमरवितर्कपूर्वकं जीवितमदोत्पत्तेः। अन्यतमान्यतमा सास्त्रवा संपत्तिः कुलवलरूपमेधाबुद्धिभोगैश्वर्यादिका वेदितव्या। रागांशिकं नान्दीसौमनस्यं संक्लिष्टो हर्षविशेषः। शुभनिमित्तमनुसरतो रागानुकूलं पूर्वहसितरमितक्रीडितानुस्मरणात् चित्तस्यानुपशमो वेदितव्यः कौसीद्यसंनिश्रयदानकर्मकत्वमश्रद्दधानस्य प्रयोगच्छन्दाभावात्। असंविदिता कायवाक्चित्तचर्याऽभि क्रमप्रतिक्रमादिषु सम्यगप्रत्यवेक्षिततया वेदितव्या। एवं ह्यस्य करणीयाकरणीयाज्ञाना दापत्तयो भवन्तीति॥



स्वभावविक्षेपः पञ्चविज्ञानकायाः, प्रकृत्यैवाध्यात्मं समाधातुमशक्यत्वात्। बहिर्धाविक्षेपः श्रुतादिकुशले प्रयुक्तस्य तदालंबनाद्बहिः कामगुणेषु चित्तगमनं वेदितव्यम्। अध्यात्मविक्षेपः स माधिप्रयुक्तस्यैव तच्च्युतिकरौ लयौद्धत्यमास्वादना च। निमित्तविक्षेपः परे मां गुणवत्तया संभावयिष्यन्तीत्येतन्निमित्तमेतदर्थ कुशलप्रयुक्तस्य शनैः तत्परिहाणितो वेदितव्यः। दौष्ठुल्य विक्षेपोऽहंकारादिदौष्ठुल्यवशादुत्पन्नोत्पन्नेषु सुखादिषु वेदितेष्वहं मम अस्मीति वा करणात् कुशलपक्षापरिशुद्धितो वेदितव्यः। आदितस्तथोद्ग्रहणमुद्ग्रहः। व्यवकिर णा तदूर्ध्व तेन चित्तसंतानस्य मिश्रीभावः। निमित्तीकारः तस्यैव वेदितस्य पुनः पुनश्चित्रीकारो वेदितव्यः। मनस्कारविक्षेपः समापत्त्यन्तरं वा समापद्यमानस्य ध्यानान्तरं वा संश्रयतः पूर्वस्माद्ध्युत्थानतो वेदितव्यः। वैराग्यपरिपन्थकर्मक इत्युपक्लेशात्मकं विक्षेपमधिकृत्य॥



मिद्धनिमित्तं तद्यथा दौर्बल्यम्, श्रमः, कायगौरवः, अन्धकारनिमित्तस्य मनसिकरणम्, सर्वारम्भाणामध्युपेक्षणम् पुनः पुनस्तत्कालनिद्राभ्यासः, मन्त्रबलेन परैनिद्रोपसंहारस्तथा संवाहना दिभिर्वेति। मोहांशिक इति समाधितो विशेषणार्थम्। कुशला(दि) भाववचनं न त्ववश्यं मोहात्मक इति कृत्वा। काल इति रात्र्या मध्यमे यामे। अकालस्ततोऽन्यः। युक्तं काले यथानुज्ञम्, अकालेऽपि ग्लानस्य कर्मण्यतार्थ वा। अयुक्तस्ततोऽन्यः। कृत्यातिपत्तिसंनिश्रयदानमुपक्लेशात्मकस्य मिद्धस्य वेदितव्यः। अनभिप्रेतं करणमभिप्रेतपूर्विका सुचरितदुश्चरितक्रिया, अनभिप्रेतं करणं परैर्बलादवष्टभ्य कार्यमाणस्य क्लेशाभिभवाद्वा यथायोगं वेदितव्यम्। मोहांशिक इत्युपक्लेश संगृहीतः। काले यावन्न प्रतिविरमति, अकाले तदूर्ध्वम्। युक्तं स्थाने, अयुक्तमस्थाने। चेतनां वा निश्रित्य प्रज्ञां वेत्यनभ्यूहाभ्यूहावस्थायां यथाक्रमम्। पर्येषणाकारा मनसोऽभिजल्पना वितर्कः प्रत्यवेक्षणाकारा मनसोऽभिजल्पनाऽनु विचार इति॥ तावेव वितर्कविचारौ संवध्येते, औदारिकसूक्ष्मव्यवस्थानादनयोः॥



तद्यथाऽलोभस्य लोभप्रहाणम्, श्रद्धा या आश्रद्धयप्रहाणम्। रागप्रतिपक्षो वैराग्यम्, तस्य परिपन्थकरणम् , तस्य तेन तदुत्पत्तावन्तरायकरणात्। एवं क्रोधादीनामप्युपक्लेशानां मैत्र्याद्यात्मीय प्रतिपक्षान्तरायकरणं वेदितव्यम्॥



चित्तविप्रयुक्तानां संस्काराणामधिष्ठानतः स्वभावतः प्रज्ञप्तितश्च निर्देशो वेदितव्यः। असंज्ञिसमापत्तिनिरोधसमापत्ती भूमितोऽपि निःसरणविहारसंज्ञापूर्वकाभ्यां मनस्काराभ्यामपि निर्दिष्टे। आसंज्ञिकं मनस्कारवर्ज्यैरेभिरेव। शेषा अधिष्ठानादिभिस्त्रिभिरेव।



तत्र कुशलाकुशला नां धर्माणामित्यधिष्ठाननिर्देशः। आचयापचय इति स्वभावनिर्देशः। तथाह्याचयेऽधिमात्रैः श्रद्धादिभिः समन्वा गत इत्युच्यते। अपचये सति मृदुभिरिति। प्राप्तिः प्रतिलम्भः समागम इति प्रज्ञप्तिरिति प्रज्ञप्तिनिर्देशः। एवमन्येष्वपि यथायोगं योजयितव्यम्॥





शुभकृत्स्नवीतरागस्येति तृतीयध्यानवीतरागस्य। उपर्यवीतरागस्येति चतुर्थध्यानावीतरागस्य। निःसरणसंज्ञापूर्वकेणेति मोक्षसंज्ञापूर्वकेण। अस्थावराणामिति प्रवृत्तिविज्ञानसङ्गृहीतानाम्। निरोध इति समापत्तिचित्तकृतः कालान्तरमस्थावरचित्तचैत्तसमुदाचारनिरोधो आश्रयस्यावस्थाविशेषो निरुध्यतेऽनेनेति कृत्वा। निरोधसमापत्तावुपर्यवीतरागस्येत्यवचनै भवाग्रवीत रागस्यार्हतोऽपि तत्संभवात्। तदेकत्यानां च स्थावराणामिति क्लिष्टमनःसंगृहीतानाम्। एते च समापत्ती भूमितः मनस्कारतोऽधिष्ठानतः स्वभावतः प्रज्ञप्तितश्च निर्देष्टे आसंज्ञिकं मनस्कारवर्जैरेभिरेव। शेषा अधिष्ठानादिभिस्त्रिभिरेव॥



निकायसभाग एकजन्मिकः स्कन्धसंतानः। स्थितिकालनियम इयन्तं कालमनेनास्मिन् निकायसभागेऽवस्थातव्यं वर्षशतं वर्षसहस्त्रं वेति कर्मकृतः सामर्थ्यविशेषः।



तस्मिस्तस्मिन् सत्त्वनिकाय इति देवमनुष्यादिषु सत्त्वजातिषु। आत्मभावसदृशतायामित्येकजातीयतायाम्।



बाह्यस्यापि रूपस्य जातिमत्त्वे निकायसभागमात्रग्रहणं सत्त्वसंताने लक्षणप्रज्ञप्तिज्ञापनार्थम्। बाह्यं हि रूपं संवर्त्तविवर्त्तप्रभावितमा ध्यात्मिकास्तु जातिजरादिप्रभाविता इति। प्रबन्धविनाशो मरणं वेदितव्यम्। एते च जात्यादयो न प्रतिक्षणं वेदितव्याः किंतर्हि प्रबन्धावस्थास्विति।



स्वभावाधिवचनं चक्षुः श्रोत्रं देवो मनुष्य इत्येवमादि। विशेषाधिवचनं सर्वसंस्कारा अनित्याः सर्वसत्त्वा मरिष्यन्तीत्येवमादि। तदुभयाश्रयेष्वि ति स्वभावविशेषाधिवचनाश्रयेष्वक्षरेषु अ इ उ इत्येवमा दषु। एतावच्च सर्व यदुत स्वभावो वि शेषस्तदुभयव्यवहारश्च, तत्सर्वमेभिरनुव्यवह्रियत इति। अत एते नामपदव्यञ्जनकाया व्यवस्थापिताः। पर्यायाक्षरणतामुपादायेति यथा चक्षुश्चक्षुरित्येतस्मात्पर्यायादन्येष्वपि नेत्राक्षिनयनलोचनादिषु पर्यायान्तरेषु क्षरति, तैरपि तत्संज्ञानात्। नैवं अ इत्येतदक्षरं अ इत्येतं पर्यायं मुक्त्त्वा पर्यायान्तरेण शक्यते ज्ञापयितुम्, अतः पर्यायाक्षरणादक्षराणि। क्षरणं पुनर्गमनं वेदितव्यम्॥



प्रबन्धानुपच्छेदे प्रवृत्तिव्यवस्थानमेकस्मिन् क्षणे व्यवच्छिन्ने वा तदुपचाराभावात् हेतुफलनानात्वमिष्टस्य फलस्य सुचरितमनिष्टस्य दुश्चरितमित्येवमादि। फलानां पृथक् पृथगन्योन्यहेतुकत्वम्। हेतुफलसारूप्यमन्यत्वेऽपि यद्यस्य फलं युज्यते। तद्यथा दानस्य भोगसंपदित्येवमादि। एकैकस्यैव प्रवृत्तिरयुगपत्प्रवृत्तिर्वेदितव्या। हेतुफलस्य प्रबन्धेन प्रवृत्तौ सत्यां यत्तत्र हेतुफलमुत्पन्ननिरुद्धं सोऽतीतः काल इति प्रज्ञप्यते, यदनुत्पन्नं सोऽनागतः कालः, यदुत्पन्नानिरुद्धं स प्रत्युत्पन्नः काल इति। हेतुफलस्य दिग्व्याप्तौ देशोपचारः । रूपसंगृहीतं चात्र हेतुफलं वेदितव्यमरूपिणां दिग्व्यापनसामर्थ्याभावात्। प्रत्येकशो भेदे संख्येत्यभिन्नैकात्मकत्वे द्वित्रिसंख्या द्यनुपपत्तेः। हेतुफल प्रत्ययानां समवधानं तद्यथा विज्ञानाख्यस्य हि हेतुफलस्ये न्द्रियापरिभेदो विपयाभासगमनं तज्ज्ञानं मनस्कारप्रत्युपस्थानं चेति। एवमन्यत्रापि योजितव्यम्॥



इत्येवमेते चित्तविप्रयुक्ताः संस्काराणां धर्माणाम वस्थासु प्रज्ञपनात्सर्वे प्रज्ञप्तिसन्तो वेदितव्याः। तत्र कुशलाकुशला द्याचया पचयावस्थायामेकः। चित्तचैतसिकाप्रवृत्त्यवस्थायां त्रयः। स्थित्यवस्थायामेकः। सादृश्यावस्थायामेकः। लक्षणावस्थायां चत्वारः। व्यवहारावस्थायां त्रयः। अलाभावस्थायामेकः। हेतुफलावस्थायां शेषा इति। हेतुफलं पुनरत्र सर्व संस्कृतं वेदितव्यम्। ततोऽन्यस्योत्पादाद्धेतुः। अन्यतस्तदुत्पादात् फलमिति॥



स्कन्धादीनां समुदाचारे तद्बीजपरिपुष्टिर्वासने त्युच्यते। सर्वबीजकं तेषामेव स्कन्धादीनामुत्पत्तिबीजैर्युक्तत्वात्। आलीयन्ते तस्मिन् धर्मा बीजतः, सत्त्वा वात्मग्राहेणेत्यालयवि ज्ञानम्। पूर्व कर्मनि र्मितत्वात् विपाकविज्ञानम्। पुनः पुनः प्रतिसंधिबन्धे आत्मभावोपादाना दादानविज्ञा नम्। तत्पुनरेतच्चि त्तमित्युच्यते, सर्वधर्मवासनाचित्तत्वात्॥



तदेतदालयविज्ञानमस्तीति कथं विज्ञायते। यस्मात्तेन विना‍उपात्तमादि स्पष्टत्वं बीजं कर्म न युज्यते।

कायिकोऽनुभवोऽचित्ते समापत्ती च्युतिस्तथा॥



एतस्याश्चोद्दानगाथाया विभागस्तद्यथा विनिश्चयसंग्रहण्याम ष्टाभिराकारै रालयविज्ञानस्यास्तिता प्रत्येतव्या। तद्यथा ऽन्तरेणालयविज्ञानं आश्रयो पादानासंभवतः आदिप्रवृत्यसंभवतः स्पष्टप्रवृत्त्यसंभवतो बीजत्वा संभवतः कर्मासंभवतः कायिकानुभवासंभवता ऽचित्तकसमापत्त्यसंभवतो विज्ञानच्युत्यसंभवतश्च॥



केन कारणेनाश्रयोपादानं न युज्यते । आह पञ्चभिः कारणैः। तथाहि आलयविज्ञानं पूर्वसंस्कारहेतुकम्। चक्षुरादिप्रवृत्तिविज्ञानं पुनर्वर्तमानप्रत्ययहेतुकम्। यथोक्तम् इन्द्रियविषयमनस्कारवशाद्विज्ञानानां प्रवृत्तिर्भवतीति विस्तरेण। इदं प्रथमं कारणम्। अपि च कुशलाकुशलाः षड्विज्ञानकाया उपलभ्यन्ते। इदं द्वितीयं कारणम्। अपि च षण्णां विज्ञानकायानां सा जातिर्नोपलभ्यते याऽव्याकृतविपाकसंगृहीता स्यात्। इदं तृतीयं कारणम्। अपि च प्रतिनियताश्रयाः षड्विज्ञानकायाः प्रवर्तन्ते, तत्र येन येनाश्रयेण यद्विज्ञानं प्रवर्तते तदेव तेनोपात्तं स्यादवशिष्टस्यानु पात्ततेति न युज्यते, उपात्ततापि न युज्यते विज्ञानविरहिततया। इदं चतुर्थ कारणम्। अपि च पुनः पुनराश्रयस्योपादान दोषः प्रसज्यते। तथाहि चक्षुर्विज्ञानमेकदा प्रवर्तते एकदा न प्रवर्त्तते एवमवशिष्टानि। इदं पञ्चमं कारणम्। इति पूर्वकर्मप्रवर्त्तमानप्रत्यहेतुतोऽपि कुशलाकुशलतोऽपि तज्जात्यनुपलंभतोऽपि प्रतिनियताश्रयतोऽपि पुनः पुनरु पादानदोषतोऽपि न युज्यते॥



केन कारणेनाऽदिप्रवृत्तिसंभवो न युज्यते। स चेत्कश्चिद्वदेद्यद्यालय विज्ञानमस्ति तेन द्वयोः विज्ञानयोः युगपत्प्रवृत्तिर्भविष्यति। स इदं स्याद्वचनीयः - अदोष एव भवान्दोषसंज्ञी। तथाहि भवत्येव द्वयोर्विज्ञानयोर्युगपत्प्रवृत्तिः। तत्कस्य हेतोः। तथाह्येकत्यस्य युगपद्रद्ष्टुकामस्य यावद्विज्ञातुकामस्यादि त इतरेतरविज्ञानप्रवृत्तिर्न युज्यते। तथाहि तत्र मनस्कारोऽपि निर्विशिष्ट इन्द्रियमपि विषयोऽपि॥



केन कारणेनासत्यां युगपद्विज्ञानप्रवृत्तौ मनोविज्ञानस्य चक्षुरादिविज्ञान सहानुचरस्य स्पष्टत्वं न संभवति। तथाहि यस्मिन् समये ऽतीतमनुभूतं विषयं समनुस्मरति तस्मिन् समयेऽविस्पष्टो मनोविज्ञानप्रचारो भवति न तु तथा वर्तमानविषयो मनःप्रचारोऽविस्पष्टो भवति। अतोऽपि युगपत्प्रवृत्तिर्वा युज्यतेऽविस्पष्टत्वं वा मनोविज्ञानस्य॥



केन कारणेन बीजत्वं न संभवति षण्णां विज्ञानकायानामन्योन्यम्। तथाहि कुशलानन्तरमकुशलमुत्पद्यते, अकुशलानन्तरं कुशलम्, तदुभयानन्तरमव्याकृतम्, हीनधातुकानन्तरं मध्यधातुकम्, मध्यधातुकानन्तरं प्रणीतधातुकम्, एवं प्रणीतधातुकानन्तरं यावद्धीनधातुकम्, सास्त्रवानन्तरमनास्त्रवम्, अनास्त्रवानन्तरं सास्त्रवम्, लौकिकानन्तरं लोकोत्तरम्, लोकोत्तरानन्तरं लौकिकम्। न च तेषां तथा बीजत्वं युज्यते। दीर्घकालसमुच्छिन्नापि च संततिश्चिरेण कालेन प्रवर्तते, तस्मादपि न युज्यते॥



केन कारणेनासत्यां यु गपद्विज्ञानप्रवृत्तौ कर्म न संभवति। तथाहि समासतश्चतुर्विधं कर्म - भाजनविज्ञप्तिराश्रयविज्ञप्तिरहमिति विज्ञप्तिर्विषयविज्ञप्तिश्चेति। एता विज्ञप्तयः क्षणे क्षणे युगपत्प्रवर्तमाना उपलभ्यन्ते। न चैकस्य विज्ञानस्यैकस्मिन् क्षणे इदमेवंरूपं व्यतिभिन्नं कर्म युज्यते॥



केन कारणेनासत्यालयविज्ञाने कायिकोऽनुभवो न युज्यते। तथाह्येकत्यस्य योनिशो वाऽयोनिशो वा चिन्तयतो वा ऽनुवितर्कयतो वा समाहितचेतसो वाऽसमाहितचेतसो वा ये काये कायानुभवा उत्पद्यन्तेऽनेकविधा बहुनानाप्रकारास्ते न भवेयुरुपलभ्यन्ते च। तस्मादप्यस्त्यालयविज्ञानम्॥



केन कारणे नासत्यालयविज्ञानेऽचित्ता समापत्तिर्न संभवति। तथाह्य संज्ञिसमापन्नस्य वा निरोधसमापन्नस्य वा विज्ञानमेव कायादपक्रान्तं स्यात्। नानपक्रान्तं ततः कालक्रियैव भवेत्। यथोक्तम् भगवता - "विज्ञानं चास्य कायादनपक्रान्तं भवती"ति॥



केन कारणेनासत्यालयविज्ञाने च्युतिरपि न युज्यते। तथाहि च्यवमानस्य विज्ञान मूर्ध्वदेहं वा शोतिकुर्वन् विजहाति, अधोदेहं वा। न च मनोविज्ञानं कदाचिन्न प्रवर्तते। अतोऽप्यालयविज्ञानस्यैव देहोपादान कस्य विगमाद्देहशीतता उप[ल]भ्यते देहाप्रतिसंवेदना च। न तु मनोविज्ञानस्य। अतोऽपि न युज्यते॥



मनो निर्वचनत आलंवनतः संप्रयोगतः प्रवृत्तिकालतश्च निर्दिष्टं वेदितव्यम्। मार्गसंमुखीभावे तदभावः, परमार्थज्ञानस्यात्मदृष्टिसमुदाचारेणात्यन्तविरोधात्। तदूर्ध्वमालयविज्ञानात्प्रवृत्तिः , शैक्षस्याप्रहीणत्वात्। असंज्ञिसमापत्तितो निरोधसमापत्तेः शान्ततरत्वं तदसमुदाचारादेव वेदितव्यम्। समनन्तरनिरुद्धं मनोऽनुमतमिति कृत्वाऽनन्तरं मतमित्यर्थः॥



विज्ञानस्याश्रयत आलंवनतः स्वभावतश्च व्यवस्थानं वेदितव्यम्॥



धात्वायतनानां नास्ति पृथग्लक्षणव्यवस्थानम्, स्कन्धनिर्देश एव चक्षुरादीनामुक्त लक्षणत्वात्। तस्मात्स्कन्धेभ्य एव निष्कृष्य धातवो व्यवस्थाप्यन्ते, धातुभ्य आयतनानि॥



यत्तु स्कन्धैरसंगृहीतमसंस्कृतं तदष्टधाव्यवस्थाप्य इति। तथतायास्त्रैविध्यमाश्रयप्रकारभेदान्न स्वभावभेदादिति वेदितव्यम्। अनन्यथीम वता सदैव भाव नां निरात्मतया द्रष्टव्या। संक्लेशा प्रचारतामुपादायेति तेना लबनेन संक्लेश वस्तुनः संक्लेश शून्यीकरणात्। यदापि संक्लिष्टेत्युच्यते तदाप्यागन्तुकस्तत्रोपक्लेशो वेदितव्यः। कतमः पुनरागन्तुकस्तत्रोपक्लेशः। अनपोद्धृतग्राह्यग्राहकबीजस्य परतन्त्रचित्तस्य द्वयाकारा प्रवृत्तिः। न धर्मता चित्तस्य। प्रकृतिप्रभास्वरा हि सर्वधर्माणां धर्मतेति। निमित्तानि रूपं वेदना यावद्बोधिरिति प्रपञ्चितानि, तेषां तत्रोपशमादनिमित्तम्। भूतं यदविपरीतम्, तस्य कोटिः पर्यन्तः, नैरात्म्यात्परेण तत्त्वापर्येपणात्। आकाशं रूपाभाव इति रूपस्यव विपर्य ये णाभावलक्षणो यो धर्मो मनोविज्ञानविषयस्तदाकाशम्। मनोविज्ञानविषयत्व पुनः धर्मधात्वधिकारत्वेन वेदितव्यम्। रूपस्यैवेत्यवधारणाद्वेदनादिसाधारणास्तथताऽप्रतिसंख्याप्रतिसंख्यानि[रो]धानित्यताः पर्युदास्यन्ते। शशविपाणादीनामत्यन्तमभावो न तेषां विपर्ययेण विज्ञायते। यस्मात्त एवात्यन्तं न संभवन्ती ति। तेऽपि शशविषाणादयो नास्यैव विद्यमानस्य रूपस्य विपर्ययेण, वेदनादिसाधारणत्वात्। तस्माद्रूपस्यैव विपर्यये णेत्युच्यते। अभावलक्षणवचनेन वेदनादोनामरूपिणां पर्युदासः। न हि तेऽभावलक्षणा इति। यो निरोधो न च विसंयोग इत्यनुशयासमुद्धातात्। विपर्ययाद्विसंयोगः॥



द्वयमिदं प्रहातव्यम् - क्लेशाश्च तदाश्रयभूतं च वस्तु वेदितम्। तत्पुनर्वेदितं द्विविधम् - वैकारिकमवैकारिकं च, सुखदुःखमदुःखासुखं च यथाक्रमम्। तत्र क्लेशप्रहाणात् प्रतिसंख्यानिरोधव्यवस्थानम्। द्विविधवेदितप्रहाणाद्यथाक्रम मानिञ्ज्यस्य संज्ञावेदयितनिरोधस्य च व्यवस्थानम्। तत्र क्लेशप्रहाणं तत्पक्षदौष्ठुल्यापगमादाश्रयपरिवृत्तिः, वेदितप्रहाणं तत्प्रतिपक्षभूतायाः समापत्तेरावरणापगमादाश्रयपरिवृत्तिः। अत एव द्वितीये ध्याने दुःखनिरोधस्यासंस्कृता[व्य]वस्थानम्, वैकारिकस्य वेदितस्याशेषमप्रहाणात्॥



रूपस्कन्धेन दशरूपिणो धातवः संगृहीताः, धर्मधातुना स एव, मन आयतनेन सप्त विज्ञानधातव इत्येवं सर्वधर्मास्त्रयो भवन्ति॥



एवं व्यवस्थापितेषु स्कन्धधात्वायतनेष्वानुषंगिकमेतद्वयुत्पाद्यते॥



चक्षुःश्रोत्रघ्राणानां प्रत्येकं द्वित्वे सति कथं धा तूनां नैकविंशतित्वम्। यद्यपि चैषां द्वित्वं न तु धात्वन्तरत्वम्, लक्षणसाधर्म्येणोभयोश्चक्षुर्लक्षणत्वात्, कृत्यसाधर्म्येणोभयोश्चक्षुर्विज्ञानकृत्यत्वात्। एवं श्रोत्रघ्राणयोर्योज्यम्। द्वयोर्द्वयोस्तु निर्वृत्ति राश्रयशोभार्थम्। एवं सुविभक्तसमोभयपार्श्व आश्रयः शोभनो नान्यथा॥



किमेकैकमेव चक्षुर्निश्रित्य चक्षुर्विज्ञानमुत्पद्यते नित्यमाहोस्विद्द्व अपि। द्वे अपीत्युच्यते, स्पष्टग्रहणात्। यथा द्वयोश्चक्षुपोरुन्मिषितयोः रूपग्रहणं स्पष्टं भवति न तथैकस्मिन्नेवेति। तद्यथा एकस्मिन्नपवरके द्वयोः प्रदीपयोरेकं प्रभाप्रतानं स्पष्टतरं द्वौ प्रदीपौ निश्रित्य वर्त्तते। तद्वदत्रापि नयो द्रष्टव्यः॥



एकैकेनेन्द्रियद्वारेण विचित्र विषयप्रत्युपस्थाने तत्प्रकारेषु किं क्रमेण विज्ञानान्युत्पद्यन्ते आहोस्यिद्युगपदेकम्। युगपदेकमेव विचित्राकारं विज्ञानं वेदितव्यम्। जिह्वासंप्राप्ते कवडे जिह्वाकायविज्ञानयोर्नित्यं युगपदुत्पत्तिर्वेदितव्या॥



शब्दस्योच्छेदित्वान्न देशान्तरेष्वपरापरोत्पत्तिसंतानेन देशान्तरगमनमस्ति कितर्हि सकृत्। यथा स्वप्रदे शमवष्टभ्य प्रदीपप्रतानवत् शब्दप्रतानस्योत्पादो द्रष्टव्यः। यत्त्वासन्नतिरस्कृतस्य शब्दस्यास्पष्टं श्रवणं भवति तच्छब्दस्य प्रतिघातित्वादावरणसौषिर्य स्वल्पोक्ति तो वेदितव्यम्॥



षण्णां विज्ञानानां कति विज्ञानानि सविकल्पकानि कत्यविकल्पकानि। त्रिभिस्तावद्विकल्पैः मनोविज्ञानमेकं सविकल्पकम्। त्रयो विकल्पाःस्वभावविकल्पोऽनुस्मरणविकल्पोऽभिनिरूपणाविकल्पश्च। तत्र स्वभावविकल्पः प्रत्युत्पन्नेषु संस्कारेष्वनुभूयमानेषु यः स्वलक्षणाकारो विकल्पः। अनुस्मरणविकल्पो योऽनुभूतपूर्वसंस्काराकारः। अभिनिरूपणाविकल्पो योऽतीतानाग तप्रत्युत्पन्नेषु विपरोक्षेष्वभ्यूहनाकारो विकल्पः॥ अपि खलु सप्त विकल्पाः आलंवने स्वरसवाहो विकल्पः सनिमित्तो ऽनिमित्तः पर्येषकः प्रत्यवेक्षकः क्लिष्टो ऽक्लिष्टश्च विकल्पः। तत्र आद्यो विकल्पः पञ्च विज्ञानकायाः, अचित्रयित्वालंवनं यथास्वं विषयेषु स्वरसे नैव वहनात्। सनिमित्त स्वभावानुस्मरणविकल्पो वर्तमानातीतविषय चित्रीकरणात्। अनि मित्तोऽनागतविषयो मनोरथाकारो विकल्पः शेषा अभिनिरूपणाविकल्पस्वभावा वेदितव्याः। तथाह्येकदाऽभ्यूहमानः पर्येषते, एकदा प्रत्यवेक्षते, एकदा क्लिष्टो भवति, एकदाऽक्लिष्ट इति॥



यदा रूपादिप्रतिविज्ञप्तिकं विज्ञानं तत्केन कारणेन चक्षुरादि विज्ञानमित्युच्यते न रूपादिभिज्ञानमिति। पञ्चविधविग्रहोपपत्तेः रूपादिवचनानु पपत्तिः। कथ मिति। चक्षुषि विज्ञानं चक्षुर्विज्ञानम्, आश्रयदेशे विज्ञानोत्पत्तितः , सति च तस्मिस्तद्भावात्। तथाहि सति चक्षुषि चक्षुर्विज्ञानमवश्यमुत्पद्यते अनन्धानामनन्धतो ऽन्धकारस्यापि दर्शनात्। न रूपे सत्यवश्यम्, अन्धानामदर्शनादिति। चक्षुषा विज्ञानं चक्षु विज्ञानम् , तद्वशेनाविकृतेऽपि रूपे विज्ञानस्य विक्रियागमनत्वात्। तद्यथा कामल व्याध्युपहतेन चक्षुषा नीलादिरूपेष्वपि पीतदर्शनमेव भवतीति। चक्षुषो विज्ञानं चक्षुर्विज्ञानम्, विज्ञानबीजानुबन्धाच्चक्षुषस्तन्निर्वृत्तेः। चक्षुषे विज्ञानम्, तस्मै हिताहि[त]त्वात्। तथाहि विज्ञानसंप्रयुक्ते नानुभवेनेन्द्रिय स्यानुग्रह उपघातो वा भवति, न विषयस्येति। चक्षुर्विज्ञानं चक्षुर्विज्ञानम्, उभयोः सत्त्वसंख्यातत्वात् न त्ववश्यं रूपस्येति॥



किं तावच्चक्षू रूपाणि पश्यतीति वेदितव्यमथ विज्ञानम्। नैकं नापरं पश्यतीति वेदितव्यम्, निर्व्यापारत्वात् धर्माणाम्। सामग्रयां तु सत्यां दर्शनप्रज्ञप्तिः। अपि खलु षड्भिराकारैः चक्षुषो रूपदर्शने प्राधान्यं वेदितव्यं न विज्ञानस्य। कतमैः षड्भिः। उत्पत्तिकारण (त)ः , चक्षुषस्तदुत्पत्तेः। तत्पदस्थानतः, दर्शनस्य चक्षुराश्रयणात्। अचल वृत्तितः, चक्षुषो नित्यमेकजातीयत्वात्। स्वतन्त्रवृत्तितः, प्रतिक्षणमुत्पत्तिप्रत्ययसामग्रयनपेक्षत्वात्। शोभावृत्तितः, तेनाश्रयशोभनात्। आगमतः, "चक्षुषा रूपाणि दृष्ट्वे" ति वचनात्। एतच्च यथोक्तं सर्व विज्ञानस्य न संभवतीति। चलवृत्तित्वं त्वस्य बहुप्रकारोत्पत्तितो वेदितव्यम्॥



यथा धातुष्वायतनेषु चासंस्कृतं व्यवस्थापितमेवं कस्मान्न स्कन्धेष्वपि व्यवस्थापितम्। स्कन्धार्थासंभवात्। रूपादीना मतीतादि प्रकाराभिसंक्षेपेण राश्यर्थः स्कन्धार्थो निर्दिष्टः। स च नित्यस्य न संभवतीति न स्कन्धेष्वसंस्कृतव्यवस्थानम्॥



केन कारणेन त एव धर्मा स्कन्धधात्वायतनमुखैः पृथग्देशिताः। विनेयानां समासव्यासनिर्देशकौशल्योत्पादनार्थम्। तथाहि स्कन्धनिर्देशे ये रूपविज्ञानेसमासेन निर्दिष्टे ते धात्वायतनेष्वेकादशधा। सप्तधा च भित्त्वा व्यासेन निर्दिष्टे यथायोगम्। ये तु तत्र वेदनादयो व्यस्ताः ते धात्वायतनेषु धर्मधात्वायतनत्वेन समस्ता इति। अपि खलु लक्षणमात्रव्यवस्थानतः स्कन्धनिर्देशः, ग्राह्यग्राहकग्रहणव्यवस्थानतो धातुनिर्देशः , ग्रहणाय द्वारभूतस्य ग्राह्यग्राहकमात्रस्य व्यवस्थानत आयतननिर्देशो वेदितव्यः। समाप्तमानुषंगिकम्॥



अतः परं मूलग्रन्थस्यैवार्थनिर्देशो द्रष्टव्यः। अर्हतश्चरमं चक्षुः परिनिर्वाणकाले पश्चिमम्। तत्र धातुः, चक्षुर न्तरस्याहेतुत्वात्। आरूप्योपपन्नस्य पृथग्जनस्य चक्षुर्हेतुरिति ततः प्रच्युत्य रूपिणि धातावुपपद्यमानस्य यस्मादालय विज्ञानसंनिविष्टाच्चक्षुर्बीजाच्च क्षुर्निर्वर्तिष्यते, न त्वार्यस्य पुन रनागमनादिति॥ कायधातुर्न काय आरूप्योपपन्नस्य पृथग्जनस्य यः कायधातुरित्येतदत्र वक्तव्यम्, अण्डगतादीनां कायसंभवात् प्रनष्टकायस्य चाजीवि[त]स्वादिति॥ स्यान्मनोधातुर्न मन इत्यत्रासंज्ञिसमापन्न स्याग्रहणम्, क्लिष्टमनःसद्भावात्॥



जातो भूतः निर्वृत्ति वृद्धि चाधिकृत्य यथाक्रमम्॥ आरूप्यावचरेण मनसाऽऽरूप्यावचरान् स्वभूमिकाननास्त्रवांश्च धर्मान् विजानातीत्यार्यश्रावकमधिकृत्य। बाह्यकः पृथग्जनः स्वभूमिकानेव विजानातीति। इह धार्मिकस्तु कश्चित्पूर्वश्रुतपरिभावनावशादुर्ध्वभूमिकानप्यालंवते तदुत्पादनार्थम्॥



यथा रूपं तथानुभव इति सुखादिवेदनीयादिन्द्रियार्थद्वयात्सुखादिवेदनोत्पत्तेः। यथा वेदयते तथा संजानीत इति यथानुभवं निमित्तोद्ग्रहणात्। यथा संजानीते तथा चेतयति यथासंज्ञं कर्मा भिसंस्करणात्। यथा चेतयते तथा विज्ञानं तत्र तत्रोपगं भवतीति यथाभिसंस्कारं विषयेषु गत्यन्तरेषु च विज्ञानपरिणामात्॥



यत्र संक्लिश्यते व्यवदायते चेति सेन्द्रिये काये। येनानुभवेनेति सामिषनिरामिषाद्येन यथाक्रमम्। येन निमित्तग्रहणाभिसंस्कारेणेत्ययोनिशो योनिशश्च प्रवृत्तेन। यत्सं क्लिश्यते व्यवदायते चेति चित्त दौष्ठुल्यादौष्ठुल्योपपत्तितः॥



एकादशविधात्तृष्णा प्रकाराद्रूपादीनामतीतादिप्रकारव्यवस्थान वेदितव्यम्। सा पुनः अपेक्षातृष्णा अभिनन्दनातृष्णा अध्यवसानतृष्णा आमतृष्णा विषयतृष्णा कामतृष्णा समापत्तितृष्णा दुश्चरितदुःखतृष्णा सुचरितसुखतृष्णा विप्रकृष्टतृष्णा सनिकृष्टतृष्णा च। अस्याः तृष्णाया आलंवनत्वेन यथाक्रममतीतादयः प्रकारा योजितव्याः। अपरः पर्यायः। उत्पन्नानुत्पन्नभेदतो ग्राहकग्राह्यभेदतो बहिर्मुखान्तर्मुखभेदतः क्लिष्टाक्लिष्टभेदतो विप्रकृष्टसंनिकृष्टभेदतश्वातीतादीनि यथायोगं वेदितव्यानि। तत्रोत्पन्नमतीतं प्रत्युत्पन्नं च। अनुत्पन्नमनागतम्। वहिर्मुखमसमाहितभूमिकम्। अन्तर्मुखं समाहितभूमिकम्। शिष्टः सुगमत्वान्न विभक्तः। दुःखवैपुल्यलक्ष णतामुपादायेति रूपादिसंनिश्रयेण जात्थादिदुःखप्रतानात्। संक्लेशभारोद्वहनं रूपाद्याश्रितत्वात् क्लेशादिसंक्लेशस्य। तद्यथा लोके येन शरीरप्रदेशेन भार उह्यते तत्र स्कन्धोपचारो दृष्टः, स्कन्धेन भारमुद्धहतीति॥



सर्वधर्मबीजार्थ इति हेत्वर्थमधिकृत्यालयविज्ञाने। कार्यकारण भावधारणमष्टादशसु धातुषु षण्णां विज्ञानधातूनामिन्द्रियार्थधातूनां, च यथाक्रमम्। सर्वप्रकारधर्मसंग्रहणेन सूत्रान्तरनिर्दिष्टानां पृथिवीधात्वादीनामन्येषामपि धातूनामेष्वेवाष्टादशसु यथायोगं संग्रहणाद्वेदितव्यम्॥



बीजार्थः सर्वप्रकारधर्मसंग्रहार्थश्चायतनार्थोऽपि वेदितव्यः॥



रूपादानां फेनपिण्डो पमत्वमसतो रिक्ततः तुच्छतोऽसारतश्च ख्यानाद्वेदितव्यम्। एतेषां पुनः सूत्रपदानामर्थ आत्मशुचिसुखनित्यविपर्यासप्रतिपक्षेण यथाक्रममनात्मता मुपादायेत्येवमादिभिः पदर्वेदितव्यः॥



कथं कति किमर्थिभिरिति प्रश्नत्रयव्यवस्थापनं लक्षणवस्तुसंमोहयोः समारोपस्य च प्रहाणार्थम्।



तत्र कथं द्रव्यसदिति द्रव्यसतो लक्षणनिर्देशेन तत्संमोहः प्रहीयते। सर्वाणि द्रव्यसन्तीत्यनेन वस्तुसंमोहः प्रही यते आत्मद्रव्याभिनिवेशत्याजनार्थमित्यनेन समारोपः प्रहीयते। एवमन्यत्रापि योज्यम्। अभिलापनिरपेक्ष इन्द्रियगोचरस्तद्यथा रूपं वेदनेत्येवमादिकं नाम्नाऽचित्रयित्वा यस्यार्थस्य ग्रहणं भवति। तदन्यनिरपेक्षस्तद्यथार्थान्तरमनपेक्ष्य यत्र तद्बुद्धिर्भवति। न यथा घटादिषु रूपादीनपेक्ष्य घटादिबुद्धिरि ति॥



संक्लेशालंबनं संवृतिसत् संक्लेशवृत्त्यर्थेन। आत्मा संक्लेशस्य निमित्तमित्यभिनिवेशत्याजनार्थम्।।



विशुद्धये आलंबनं परमार्थसत् परमज्ञानगोचरार्थेन। सर्वाणि षरमार्थसन्तीतिति तथताऽव्यतिरेकात्सर्वधर्माणाम्॥



येन संक्लिश्यते व्यवदायते चेति रागादिभिश्चेतसिकैः श्रद्धादिभिश्चेति वेदितव्यम्। या च तत्रावस्थेति रूपचित्तचेतसिकाव स्थासु प्रज्ञप्ताश्चित्तविप्रयुक्ताः संस्काराः। यच्च व्यवदानमित्यसंस्कृतं व्यवदानं वेदितव्यम्। तच्च यथायोगम्। पुनस्त्रयोदशविधस्य विज्ञानस्य यो विषयः तज्ज्ञेयमनेन प्रदर्शितम्। तत्पुनः श्रुतमयं ज्ञानं चिन्तामयं ज्ञानं लौ किकभावनामयं ज्ञानं परमार्थज्ञानं परचित्तज्ञानं धर्मज्ञानम् अन्वयज्ञानं दुःखज्ञानं समुदयज्ञानं निरोधज्ञानं मार्गज्ञानं क्षयानुत्पादज्ञानं महायानज्ञानं च। एतेऽन्ये च यथाक्रममधिमुक्ति ज्ञानादीनि वेदितव्यानि। तत्र परचित्तज्ञानं परात्म ज्ञानम् , परात्म चित्तविषयात्। धर्मज्ञानमधरज्ञानम्, सत्येष्वादित उत्पादात्। अन्वयज्ञानमूर्ध्वज्ञानम्, धर्मज्ञानादूर्ध्वमुत्पादात्। विदूषणायासमुत्थापनायानुत्पादे ज्ञाने निष्ठायां महार्थेषु ज्ञानं तद्विदूषणं ज्ञानं यावन्महार्थज्ञानमिति योजयितव्यम्। महार्थत्वं पुनः स्वपरार्थत्वात्॥



तत्र अविकल्पनतः पञ्चभिर्विज्ञानकायैः। विकल्पनतः मनोविज्ञानेन। हेतुत आलयविज्ञानम्। प्रवृत्तितस्तदन्यद्विज्ञानम् निमित्त त इन्द्रियार्थाः। नैमित्तिकतो विज्ञानानि। विपक्षप्रतिपक्षतः सरागं विगतरागं सद्वेषं विगतद्वेषमित्येवमादि। सूक्ष्मप्रभेदतः सप्तविधदुर्विज्ञानविज्ञप्तिभेदात्। सप्तविधादुर्विज्ञाना विज्ञाप्तिस्तद्यथा असंविदितविज्ञप्तिः भाजनविज्ञप्तिः, सर्वकालमपरिच्छिन्नाकारत्वात् चित्राकार विज्ञप्तिरेकस्यानेक आकारो विचित्रश्चेति दुर्व्यवस्थापनादस्याः सूक्ष्मत्वम्। सहभावविज्ञप्तिरेककालोत्पन्नाति विज्ञानानि कथं पृथग्यथास्वं विषयं परिच्छिन्दन्ती ति दुर्व्यवस्थापनात्सूक्ष्मत्वम्। सूक्ष्मत्वमिति सर्वत्राधिकृतं वेदितव्यम्। विपक्षप्रतिपक्षलघुपरिवृत्तिविज्ञप्तिः कथं रागादिसमस्तबन्धनं चित्तं तन्मुहुरेव सकृद्वीतरागादिकं भवतीति। वासनाविज्ञप्तिः कथं कर्मभिः समुदाचरद्भिः चित्तं वास्यते, न च तस्मादन्या सा वासना, नापि तन्मात्रमेव, फलदानं च प्रति क्रमेण वृत्तिलाभ इति। प्रतिसंधिविज्ञप्तिः कथमनेकप्रकारात्मभावनिर्वर्तककर्मपरिभावितं सद्विज्ञानं तथाप्यपरि स्फुटायां मरणावस्थायां सहसा प्रबुद्धयान्यतरकर्मवासनामन्यतरस्यां गतौ प्रतिसंधि वध्नानीति। मुक्तविज्ञप्तिः कथमर्हतश्चित्तं परमं निष्प्रपञ्चं धर्मताप्राप्तं संसारोचितसर्वप्रकारसाश्रवचर्या समतिक्रान्तमनेनाकारेण वर्तत इति दुर्व्यवस्थापनादस्याः सूक्ष्मत्वं वेदितव्यम्। द्रष्टादिग्रहणेन द्रष्टा श्रोता घ्राता स्वा दयिता स्प्रष्टा विज्ञाता चेत्येषां ग्रहणं वेदितव्यम्॥



अभिज्ञेयं षण्णामभिज्ञानां विषय। गमनविशेष प्रभावितत्वा दृद्धयभिज्ञायास्तद्विषयस्य संक्रान्तितोऽभिज्ञेयत्वम्। सरागादिनिमित्तज्ञानाच्चरितप्रवेशात्। अतीतजन्मपरंपरागमनज्ञानादागतितः। अनागतोत्प त्तिगमनज्ञानात् गतितः। त्रैधातुकनिर्मोक्षोपायज्ञानान्निसरणतः। सर्वाण्यभिज्ञेयान्यन्त्यानां तिसृणां सवंविषयत्वात्।



तत्र रूपीति रूपं तस्य धर्मस्यात्मस्व भावस्तस्मादसौ रूपी, न तु रूपान्तरेण युक्तत्वात्। यावदुक्तं स्याद्रूपस्वभाव इति। भूताश्रयतोऽपीति रूपान्तर योगा दपि रूपित्वमिति दर्शयति, उपादाय रूपस्य भूतरूपेण योगाद्भतरूपाणां च परस्परमि ति। नान्दीसमुदय इति नान्द्येव यस्य समुदयस्तद्रूपि, न तु यथा वेदनादीनां पूर्विका च नान्दो समुदयः, प्रत्युत्पन्नश्च स्पर्शादिरिति। सप्रदेशतः सावयवत्वात्। देशव्याप्तितो दिक्षु प्रत्यास्परणात्। देशोपदेशतोऽमुष्यां दिशीति व्यवदेष्टुं शक्यत्वात् देशगोचरतः कस्मिश्चित्प्रदेशे स्थितस्यालंवनीभावात्। द्वयसमगोचरतः सत्त्वद्वयस्य कस्मिश्चित्प्रदेशे स्थितस्यालं वनोभावात्। द्वयसमगोचरतः सत्त्वद्वयस्य सममालं वनीभावान्न त्वेवमरूपिणो यथात्मानुभवं परैः परिग्रहीतुमशक्यत्वादिति। संबन्धतश्चक्षुर्विज्ञाना दीनामपि पर्यायेण रूपित्वम्, रूपीन्द्रियसंबन्धात्। अनुबन्धत आरूप्याणां पृथग्जनानां रूपबीजानुबन्धात्। प्ररूपणतो वितर्कविचारा णामालंवनप्ररूपणात्। व्याबाधनतः पञ्चानां स्कन्धानां पाण्यादिसंस्पर्शैः शोकादिभिश्च यथायोगं रूपणात् बाधनादित्यर्थः। संप्रापणतो देशनाया अर्थनिरूपणात्। संचयव्यवस्थानतः परमाणोरूर्ध्व रूपस्य सावयवव्यवस्थानात्। बहिर्मुखतः कामावचरस्य रूपस्य कामगुणतृष्णासंभूतत्वात्। अन्तर्मुखतो रूपावचरस्य रूपस्य समापत्तिचित्ततृष्णासंभूतत्वादत एवास्य मनोमयत्वं वेदितव्यम्। आयततः पृथग्जनस्य पूर्वान्तापरान्तयोः पर्यन्तव्यवस्थानाभावात्। परिच्छिन्नतः शैक्षस्य रूपस्य पर्यन्तीकृतसंसारत्वात्। तत्कालतोऽशैक्षरूपस्य प्रत्युतत्पन्नभवमात्रावशेषात्। निदर्शनतो बुद्धादिरूपस्य संदर्शनमात्रत्वादनिष्पन्नतामुपादाय॥ तत्र सर्वाणि रूपीणि व्यावाधनरूपित्वेन। यथायोगं शेषैर्वेदितव्यम्। बहिर्मुखतादयस्तु षड् रूपिभेदा वेदनादिसाधारणा वेदितव्याः।



शिष्टस्य रूपिवत् प्रभेद इति। इति कथम्। यथा रूवितदात्मतोऽपीति विस्तरेण रूपी त्युक्तं तथा सनिदर्शनतदात्मतोऽपि सनिदर्शनं विस्तरेण योजयितव्यम्। तत्र सर्वाणि सनिदर्शनानि सर्व निदर्शनसंबन्धादिनाऽरूपिणामपि सनिदर्शनत्वात्॥



आवृणोत्याव्रि यत इति गमनप्रतिबन्धार्थेन। आवृणोतीत्येतावति वक्तव्ये आव्रि यते चेति वचनं प्रभादिरूपस्य सप्रतिघत्वव्यवस्थापनार्थम्। तद्धयाव्रि यत एव नावृणोतीत्येषा तस्य जातिरेष स्वभाव इत्यर्थः। परमाणोरूर्ध्वमित्येकस्य परमाणो रप्रतिघत्वात्। यन्न समाधिवशवर्ति रूपमिति समाधिवशेन वर्तमानस्याप्रतिघत्वात् समचित्तक देवतावत। प्रकोपपदस्थानं यत्राश्रय आलंवने वा द्वेष उत्पद्यते। अनेन च सप्रतिघार्थेन स र्वाणिसप्रतिघानि। यथायोगं वेति शेषैः॥



आस्त्रवतदात्मत आस्त्रवाणां सास्त्रवत्वमास्त्रवस्वभावेन युक्तत्वात्। आस्त्रवसंबन्धतस्तत्सहभुवां चितचैत्तानां चक्षुरादीनां चास्त्रवसंप्रयुक्तत्वादास्त्रव [श्रय]त्वाच्च यथाक्रमम्। आस्त्रव बन्धतः कुशलसास्त्रवाणां तद्वशेन पुनर्भवनिर्वर्तनात्। आस्त्रवानुबन्धतोऽन्यभूमिकानामप्यन्यभूमिकास्त्रवदौष्ठुल्याश्रयत्वात्। आस्त्रवानुकूल्यत इति क्लेशदौष्ठुल्यानुगतत्वेऽपि निर्वेद्यभागीयानामनास्त्रवत्वव्यवस्थापनार्थम्, सर्वभववैमुख्येन तत्प्रतिपक्षत्वात्। आस्त्रवान्वयतोऽर्हतां स्कन्धानां पौर्वजान्मिकक्लेशसंभूतत्वात्॥ पञ्चस्कन्धाः सास्त्रवाः। पञ्चदश घातवोऽन्त्यांस्त्रीन् हित्वा। दशायतनान्यन्त्ये द्वे हित्वाः। त्रयाणां धातूनां द्वयोश्चायतन योः प्रदेशः सपरिवारमा र्यमार्ग म संस्कृतं च हित्वा॥



शस्त्रादानादिरणहेतवो रागादयो रणाः। यावन्ति सास्त्रवाणि तावन्ति सरणाणीत्येवमादि तदानुबंध्यार्थेन वेदितव्यम्॥



पुनर्भवाध्यवसानहेतवो रागादय आमिषम्। कथं द्वेषस्यं - पुनर्भवाध्यवसानहेतुत्वम्। व्यावदानि कधर्मद्वेषेण पुनर्भवाध्यवसानात्॥



कामगुणाध्यवसानहेतवो रागादयो ग्रेधः। कीदृशेन द्वेषेण तदध्यवसानम्। नैष्क्रम्यद्वेषेण॥



कामकारेण संमुखीभावो विमुखीभावश्च नासंस्कृतस्य संभवति नित्यत्वात्। नैवसं स्कृत नासंस्कृतस्य द्वया व्यतिरेकाद्यदुक्तम् - द्वयमिदं संस्कृतं चासंस्कृतं चेति। तत्कथं द्वयमेवमेव भवतीति। कामकारसंमुखी भावार्थेन संस्कृतमेवेति वक्तव्यम्। कर्मक्लेशानभि संस्कृततार्थेनासंस्कृतमेवेति। न द्वयाद्वयतिरिच्यते॥



तत्प्रतिभासमिति त्रैधातुकपर्यापन्नाकारम्, तथतादिप्रतिभासस्यैकान्तेनानुचितत्वेन लोकोत्तरत्वात्। स्कन्धानामेकदेशं सम्यग्ज्ञानसंगृहीतं लोकोत्तरप्रतिभासांश्च पृष्ठलब्धान् स्थापयित्वा। तच्चासंस्कृतं च स्थापयित्वा त्रयाणां धातूनां द्वयोश्चायतनयोः प्रदेशो द्रष्टव्यः॥



त्रैधातुकप्रतिपक्ष आर्यमार्गः। स पुनः श्रावकप्रत्येकबुद्धानां नित्यादिचतुर्विधविपर्यासप्रति पक्षत्वादविपर्यास निर्विकल्पतया निर्विकल्पः। बोधिसत्त्वानां रूपादिसर्वधर्मप्रपञ्चप्रति पक्षत्वान्निष्प्रपञ्च निर्विकल्पतया निर्विकल्पः। असंस्कृतं तु सर्वविकल्पापस्थानान्निर्विकल्पः।



आद्युत्पन्नं प्रतिसंधिकाले। प्रबन्धोत्पन्नं तत ऊर्ध्वम्। उपचयोत्पन्नं चतुर्विधे नोपचयेन स्वप्नाहारब्रह्मचर्यसमापत्तिहेतुकेन। आश्रयत्वोत्पन्नमध्यात्मकमिन्द्रियम्। विकारोत्पन्नं सुखा दिवेदनोत्पत्तौ तदनुकूल इन्द्रियपरिणामः। परिपाकोत्पन्नं जीर्णावस्थम्। हान्युत्पन्नं सुगतेश्च्युत्वादुर्गतावुत्पद्यमानस्य। विशेषोत्पन्नं विपर्ययात्। प्रभास्वरोत्पन्नं क्रीडाप्रमोषकाणां मनःप्रदूषकाणां निर्माणरतीनां परनिर्मितवशवर्तिनां रूपारूप्यावचराणां च देवानां प्रमोदबाहुल्याद्भोगेषु विहारे च स्ववशवर्त्तनाद्यथायोगम्। अप्रभास्वरोत्पन्नं तदन्यत्। संक्रान्त्युत्पन्नं गमनावस्थायाम्। सबीजो त्पन्नमर्हतश्चरमान् स्कन्धान् वर्जयित्वा। अबीजोत्पन्नं चरमाः स्कन्धाः। प्रतिबिम्बविभुत्वनिदर्शनोत्पन्नं ज्ञेयं वस्तु सभागं वैमो क्षिकं ताथागतं च रूपं यथाक्रमम्। परंपरोत्पन्नं जन्मप्रबन्धे। क्षणभङ्गोत्पन्नं प्रतिक्षणं संस्काराणां लक्षणम्। संयोगवियोगोत्पन्नं प्रियाप्रियसंयोगवियोगावस्थायां चित्तस्य च सरागविगतरागाद्यवस्थायाम्। अवस्थान्तरोत्पन्नं कललाद्यवस्थासु व्याध्याद्यवस्थासु च। च्युतोपपादोत्पन्नं सत्त्वलोकः। संवर्तविवर्तोत्पन्नं भाजनलोकः। पूर्वकालोत्पन्नं पूर्वकालभवः। मरणकालोत्पन्नं मरणकालभवः। अन्तरोत्पनमन्तराभवः। प्रतिसंधिकालोत्पन्नमुपपत्तिभवः॥



रूपसंस्कारस्कन्धैकदेश इतीन्द्रियलक्षणः संप्रयुक्तलक्षणश्च यथाक्रमम्। धर्मधात्वायतनैकदेशः संप्रयुक्तस्वभावः। भोक्तात्मा इष्टानिष्टानां विषयाणामुपलंभार्थेन वेदितव्यः। अप्राप्तग्राहकं चक्षुः श्रोत्रं मनश्च। प्राप्तग्राहकं तदन्यदिन्द्रियम्। स्वलक्षणस्य वर्तमानस्य प्रत्येकं प्रतिनियतस्य विषयस्य ग्राहकं पञ्चेन्द्रियजम्। स्वसामान्यलक्षणस्य सर्वकालस्य सर्वस्य विषयस्य ग्राहकं षष्ठेन्द्रियजम्॥ प्रत्ययसामग्रया विज्ञानस्योत्पत्तिमधिकृत्य प्रज्ञप्त्यां ग्राहकोपचारो वेदितव्यः, न तु भूतार्थेन व्यापारत्वाद् धर्माणामिति।



यत्तावद्ग्राहकं ग्राह्यमपि तत् चक्षुरादीनामपि मनोविज्ञानेन ग्राह्यत्वात्। ग्राहकगोचर एवेत्यवधारणं चैतसिकव्युदासा र्थम्॥



श्रुतचिन्तामय तदनुधर्मप्रतिपत्तिसंगृहीतस्या बहिर्मुखत्वम्, निष्यन्दधर्महेतुकत्वात्, तद्वशेन निर्वाणाद्यालंवनतो द्रष्टव्यम्। निष्यन्दधर्मः पुनर्बुद्धादीनामधिगमान्वया देशना वेदितव्या। चत्वारो धातवो घ्राणविज्ञानधातुर्गन्धधातुर्जिह्वाविज्ञानधातुः रसधातुश्च। द्वे आयतने गन्धरसायतने तदन्येषामेकदेशः कामधातुसंगृहीतः॥



दशानां धातूनामिति सप्तानां विज्ञानधातूनां रूपशब्दधर्मधातूनां च। चतुर्णामायतनानामिति रूपशब्दमनोधर्मायतनानाम्॥



हेतुफलोपयो गत इत्युत्पन्नत्वान्निरुद्धत्वाच्च यथाक्रमम्। संक्लेशव्यवदानकारित्रसमतिक्रान्तत इति प्रत्युत्पन्नरागादिश्रद्धादिवच्चित्तसंक्लेशव्यवदानसामर्थ्याभावात्। हेतुपरिग्रहविनाशतो वासनां स्थापयित्वा विनष्टत्वात्। फलस्वलक्षणभावाभावतो वर्तमाने काले तदाहितवासनासद्भावात्तदाधायकद्रव्याभावाच्च। स्मरसंकल्पादीनां निमित्तत्वमालंवनमात्र भावादवेदितव्यम्। सर्वेषामेकदेशो ऽनागतप्रत्युत्पन्नासंस्कृतवर्जः॥



हेतौ सत्यनुत्पन्नत इत्यसंस्कृताद्विशेषणार्थम्, तद्धयनुत्पन्नमपि सन्न हेतुमदिति। लब्धस्वलक्षणतोऽनिर्वृत्तस्वभावत्वात्। हेतुफलानुपयोगतस्तद्बीजस्याकृतकृत्यत्वात् तस्य चानुत्पन्नत्वात्॥।



हेतुफलोपयोगानुपयोगतः पुनरनिवर्त्यत्वादस्थितत्वाच्च। अतीतानागतप्रभावननिमित्ततः प्रत्युत्पन्नमधिष्ठायातीतानागतप्रज्ञप्तेः। यत्तामवस्थां प्राप्स्यति तदनागतम्। यत्प्राप्तं तदतीतमिति। कारित्रप्रत्युपस्थानतश्चक्षुरादीनां विज्ञानाश्रयादिभावात्॥



अतीतनिर्देशाधिकारेणेदमपि ज्ञाप्यते - किमर्थ भगवतातीतादीन्येव त्रीणि कथावस्तूनि व्यवस्थापितानि न निर्वाणमिति। निर्वाणस्य प्रत्यात्मवेदनीयतया निरभिलाप्यतामुपादाय कथयितुमशक्यत्वादित्यर्थः, दृष्टश्रुतमतविज्ञातव्यवहाराणां भूतभव्यवर्तमानाधिष्ठानत्वात्।



दशानां धातूनां विज्ञानधातूनां रूपशब्दधर्मधातूनां च। चतुर्णामायतनानां रूपशब्दमनोधर्मायतनानाम्। तेष्वेवेति श्रद्धादिषु। प्रकृत्याऽप्रतिसंख्यायेति स्वरसेन, विना कल्याणमित्रादिबलेनेत्यर्थः। रुचिः संतिष्ठत इति न केवलं रुचिरेवोपपत्तिप्रातिलम्भिका किं तर्हि सह तैः श्रद्धादिभिरिति। कुशलस्य भावना सर्वे श्रुतमयादयः कुशला धर्मावेदितव्याः। स्वर्गाढ्यकुलोपपत्तिपरिग्रहाभ्यामभ्युदयहेतुं दर्श्यति। व्यवदानानुकल्यपरिग्रहेण प्राप्तिहेतुमिति। विदूषणाप्रतिपक्षादयः परस्तान्निर्देक्ष्यन्ते।



तदन्यः क्लेशोपक्लेशो दुश्चरितसमुत्थापक इति स पुनर्यः कामा[व] चरोऽनैःसर्गिकः, नैः सर्गिकस्तु यो दुश्चरितसमुत्थापकः सोऽकु[श]लः। तदन्यो निवृताव्याकृतो वेदितव्यः। हिंसापूर्वकं चैत्यं प्रतिष्ठापयति यत्रोरभ्रमहिषादयो हन्यन्ते। कुदृष्टिपूर्वकं यत्रानशनादिभिः पु ण्यार्थिनो वरार्थिनश्च क्लिश्यन्त इति। आक्षेपकं वा परिपूरकं वेति दुर्गतिमधिकृत्य। सुगतौ तु परिपूरकमेव, येनात्रोपपन्नो दारिद्रयादिकं व्यसनं प्रत्यनुभवति। कुशलान्तरायिका धर्मा अभीक्ष्णं गणसंनिपातादयः।।



अष्टौ धातवश्चक्षुः श्रोत्रघ्राणाजिह्वाकायगन्धरसस्प्रष्टव्यधातवः। अष्टावायतनानि तान्येव। अदुष्टाप्रसन्नचितस्येति कुशलाकुशलविपर्ययं दर्श[य]ति। तैरेव परिगृहीता इति तदाकारत्वेन मनोजल्पसुखवृत्तत्वात्। तेषामेवाभिलापवासनेति नाम कायादिभिश्चितवासनाऽऽयत्यामभिलापप्रवृत्तये। तत्परिगृहीतेश्चित्तचैतसिकैर्धर्मैर्यत्समुत्थापितमित्यप्रदुष्टाप्रसन्नचित्तस्य नामाद्यभिलापाकारै[ः]। अक्लिष्टाकुशलचेतसो यद्यस्य न क्लिष्टं नापि कुशलं चेतो भवति, तत ऐर्यापथिकाद्यव्याकृतं भवत्यन्यथा कुशलाकुशलं यथायोगमिति। यथापि तदप्रतिसंख्यायेति कुशलत्वाद्विशेपयति, अक्लिष्टचित्त इत्यकुशलत्वात्। प्रतिसंख्याय भैषज्यं निषेवते स र्वव्याधिप्रतिपक्षेणारोग्यार्थम्। अधिगम निष्यन्दतोऽव्याकृतं निर्माणचित्तं सहजामिति यैश्चित्तचैतसिकैः विक्रीडनार्थ निर्माणं निर्मे मीयते। सत्त्वहितार्थ तु कुशलं वेदितव्यमिति॥ निदर्शनतः कुशलादिकं यद्बुद्धादयो विनेयार्थवशात्संदर्शयन्ति। अकु[श]लस्य कथं संदर्शनम्। चोरादि निर्माय तदन्यसत्त्वभीषणार्थ कर चरणशिरश्छेदादिसंदर्शनात्॥



अवीतरागस्येति प्रदेशवैराग्येणाप्ययुक्तस्याऽसमाधिलाभिन इत्यर्थः। इतरथा ह्यनागम्यं काम प्रतिसंयुक्तं प्राप्नुयात्। सह समाधिलाभात् प्रहाणाभिरतिविपक्षभूतस्य दौष्ठु[ल्य]स्य प्रहाणात् प्रदेशवैराग्यमस्तीति वेदितव्यम्। बाह्यं त्विह रूपादिकमवीतराग कर्माधिपत्यनिर्वृत्तत्वात् कामप्रतिसंयुक्तम्। सर्वसत्त्वसाधा रणकर्माधिपत्यसंभूत वचनमवीतरागकर्मणा रूपारूप्यावचरेष्वपि वीजिनोऽस्तित्वात्। चत्वारो धातवो गन्धरसघ्राणजिह्वाविज्ञानधातवः। द्वे आयतने गन्धरसायतने। तदन्येषामे कदेशः रूपारूप्यावचरानास्त्रववर्जः।



चतुरो धातून् द्वे चायतने स्थापयित्वा नन्तरोक्तानि। तदन्येषां स्कन्धधात्वायतनानामेक देशः कामरूप्या वचरानास्त्रववर्ज्यः।



चतुर्णा स्कन्धानां वेदनादीनाम्। त्रयाणां धातूनां मनोधर्ममनोविज्ञानधातूनाम्। द्वयोरायतनयोर्मनोधर्मायतनयोः। प्रदेशः कामरूपा वचरानास्त्रववर्ज्यः।



एकदेशवैराग्यं भूमिमधिकृत्य यावदष्टमस्य क्लेशप्रकारस्य प्रहाणात्। सकलवैराग्यं नव [म]स्य प्रहाणात्। सत्कायवैराग्यं वा पुनरधिकृत्य शैक्षस्यैकदेशवैराग्यमशैक्षस्य सकलवैराग्यं वेदितव्यम्। प्रतिवेधवैराग्यं दर्शनमार्गेण। उपघातवैराग्यं लौकिकेन मार्गेण। समुद्धातवैराग्यं लोकोत्तरेणेति वेदितव्यम्। दशवैराग्याणीत्यत्र प्रातिकूल्यार्थो वैराग्यार्थो वेदितव्योना वश्यं प्रहाणार्थः। उच्चतरं स्थानं प्राप्तवतो निहीनेस्थाने इत्युच्चतरं नगरश्रैष्ठयादिस्थानं प्राप्तवतो ग्राममहत्तरादिस्थाने निहीने। बालानां निर्वाण इति तस्य शान्तत्वाज्ञानात् सत्कायाभिष्वङ्गाच्च। प्रतिलब्धदर्शनमार्गस्य त्रैधातुक इति संस्कारदुःखतां परिज्ञातवतः सर्वसास्त्रव[व]स्तुनिर्वेदात्। प्रकृत्या वैराग्यं प्रकृतिवैराग्यं यावत्प्रहाणेन वैराग्यं प्रहाण वैराग्यमिति पदविग्रहजातिर्वेदितव्या॥



मोक्षप्रयुक्तस्य कुशलं शैक्षमिति संभृतसंभारावस्थायाः प्रभृतिमोक्षार्थ प्रयुक्तस्य वेदितव्यम्। संभृतसंभा रावस्था पुनराधिगामिकमोक्षभागीयावस्था वेदितव्या। दशानां धातूनां विज्ञानरूपशब्दधर्मधातूनाम्। चतुर्णामायतनानां रूपशब्दमनोधर्मायतनानाम्।



शिक्षायां निष्ठागतस्येत्यधिशीलमधिचित्तमधिप्रज्ञं च शिक्षायां निष्ठागतस्यार्हत इत्यर्थः॥



पृथग्जनस्य कुशलादिकमिति मोक्षप्रयुक्तवर्जस्य। स हि शिक्षाया[म]भिशिक्षणाच्छैक्ष उच्यत इति। शैक्षस्य क्लिष्टाव्याकृतमित्यत्र क्लिष्टमकुशलं निवृताव्याकृतं च यथासंभवम्। अव्याकृतं पुनरनिवृताव्याकृतं वेदितव्यम्॥



परिकल्पिता क्लिष्टा दृष्टिरसद्धर्मश्रवणपूर्विका पञ्च दष्टयः। परिकल्पितग्रहणं सहजसत्कायान्तग्राहदृष्टिव्युदासार्थम्। अन्तग्राहदृष्टिः कीदृशी सहजा। उच्छेददृष्टिर्यतो ऽभिसमयप्रयुक्तस्योत्त्रासो भवत्यथ कस्तर्हि मे आत्मेति। दृष्टिस्थानं दृष्टिसहभुवो धर्मास्तद्वीजं च तथैव विचिकित्सास्थानमपि वेदितव्यम्। ये च दृष्टौ विप्रतिपन्नाः क्लेशोपक्लेशा इति ये दृष्टिमुखेन प्रवृत्ता तदालंवनाश्च रागादयः। सर्वेषामेकदेशो भावनाप्रहातव्यानास्त्रववर्जः॥



दर्शनप्रहातव्याविपर्ययेण सास्त्रवा इति परिकल्पितक्लिष्टदृष्टयादिकादन्ये सास्त्रवा इत्यर्थः। अत्र पुनः सास्त्रवग्रहणेन निर्वेधभागीयानामपि ग्रहणं वेदितव्यं दौष्ठुल्यानुबन्धार्थेन। सर्वेषामेकदेशः दर्शनप्रहातव्यानास्त्रववर्जः॥



स्कन्धानामेकदेशोऽप्रहातव्यः , लोकोत्तरो मार्गस्तत्पृष्टलब्धश्च। दशानां [धातूनां चतुर्णा चायतनानाम् (एकदेश) इति ] स चा संस्कृतं च । कीदृशो रूपशब्दधातू न प्रहातव्यौ। अशैक्षस्य कुशल कायवाक्कर्मस्वभावौ।



अविद्याप्रत्ययाः संस्कारा इत्येवमादि। तत्र अस्मिन् सतीदं भवति निरीहप्रत्ययोत्पत्तितामुपादाय। सति केवलं प्रत्यये फलं भवति, न तु फलोत्पादनं प्रति प्रत्ययस्य काचिदीहेत्यर्थः। अस्योत्पादादिदमुत्पद्यते अनित्य प्रत्ययोत्पत्तितामुपादाय, न ह्यनुत्पादि कारणात् किंचिदुत्पद्यमानं कार्य सिद्धमिति कृत्वा। अविद्याप्रत्ययाः संस्कारा इत्येवमादि समर्थप्रत्ययोत्पत्तितामुपादाय निरीहकत्वानित्यत्वेऽपि सति न यतः कुतश्चित् प्रत्ययात् सर्वमेव फलमुत्पद्यते, कितर्हि समर्थात्। तद्यथाऽविद्यातः संस्कारा यावज्जातितो जरामरणमिति॥



यान्यविद्यादीनि द्वादशाङ्गानि विभक्तानि तान्येव पुनः समस्य चत्वार्यङ्गानि भवन्त्याक्षेपा ङ्गादीनि। एतावच्च प्रवृत्तिनिर्देशे निर्देष्टव्यम् यदुत हेतुकाले येनाक्षिप्यते यच्चाक्षिप्यते फलकाले येनाभिनिर्वर्त्यते यच्चाभिनिर्वत्यते तदेतत्सर्वमेभिरङ्गैनिर्दिष्टं वेदितव्यम्। तत्र आक्षेपकाङ्गमविद्यासंस्कारा विज्ञानं च, अनागतजन्माभिनिर्वृत्तये सत्येष्वज्ञानपूर्वकेण कर्मणा चित्तवासनार्थेन। आक्षिप्ताङ्गं नामरूपं षडायतनं स्पर्शो वेदना च, तया चित्तवासनया नामरूपादीना मायत्यां पूर्वोतरसंनिश्रयक्रमेणाभिनिर्वृतये बीजपुष्टितः। अभिनिर्वर्तकाङ्गं तृष्णा उपादानं भवश्च, अप्रहीणकामादि तृष्णादि वसेन कामादिषु सुचरित दुश्चरितप्रकार रतिपूर्वकेण छन्दरागेण सोपादाने विज्ञाने सति मरणावस्थायां फलदानं प्रति छन्द रागानुरूप्यान्तरकर्मवासनाभिमुखीभावात्। अभिनिर्वृत्त्यङ्गं जातिर्जरामणं च, तेन प्रकारेण कर्मान्तरवासनाभिमुख्ये सत्यन्यतरस्मिन् गतियोन्यादिभेदभिन्ने निकायसभागे यथाक्षिप्ते नामरूपादिनिर्वृत्तेः। जातिजरामरणवचनं संस्कृतलक्षणत्रयाधिकारेणोद्वेजनार्थम्। जरामरणस्यैकाङ्गकरणं विनापि जरां मरण संभवा त्। न त्वेवं जरायुजायां योनौ विना नामरूपादिभिः षडायतनादीनां संभव इत्येषां पृथगङ्गीकरणं वेदितव्यम्॥



अङ्गप्रत्य[यत्वव्य] वस्थानं चतुरः प्रत्ययानधिकृत्य। तत्र तावदविद्या संस्काराणां पूर्वोत्पन्नावासनतो हेतुप्रत्ययः, तत्परिभावितसंतानोत्पन्नानां कर्मणां पुनर्भवाभिसंस्करणसामर्थ्यात् तत्कालसमुदाचारिणी। आवेधतः समनन्तरप्रत्ययः, तदाक्षेपकविशेषेण संस्कारस्त्रोतानुप्रवृत्तेः। मनस्कारत आलंबनप्रत्ययः, मूढावस्थाया अग्रता दिभिरयोनिशोमनस्कारालंवनीभावात्। सहभावतोऽधिपतिप्रत्ययः, तदाधिपत्येन तत्संप्रयुक्तायाश्चेतनाया विपरीतालंवनाभिसंस्करणात्।



अविद्या भवे सत्त्वान् संमोहयति, तदावृत्तेः पूर्वान्तापरान्तमध्यान्तानां यथाभूतापरिज्ञानात्। यत एवं विचिकित्सति - किं न्वहम भूवमति[ते] ऽध्वन्याहोस्विन्नाभूवमित्येवमादि। प्रत्ययश्च भवति संस्काराणाम् तद्वशेन पुनर्भविककर्मोपचयात्। संस्कारा गतिषु सत्त्वान विभजन्ति, कर्मवशेन सत्त्वानां गत्यन्तरगमनवैचित्र्यात् । प्रत्ययाश्च भवन्ति विज्ञानस्य वासनायाः, आयत्या नामरूपा भिनिर्वृत्तये वीजपोषणात्। विज्ञानं कर्मबन्धं धारयति, सस्कारा हितवासनासहोत्पत्तेः। प्रत्ययश्च भवति नामरूपस्य, मातुः कुक्षौ विज्ञानावक्रान्त्या नामरूपविवृद्धिगमनात्। नामरूपमात्मभावं सत्त्वान् ग्राहयति तन्निवृत्त्या सत्त्वानां निकायसभागान्तरभ जनात्। नामरूपा दोनां षडायतनादिप्रत्ययभावः पूर्वाङ्गसंनिश्रयेणोत्तराङ्गनिर्वृत्ति तो द्रष्टव्यः। षडायतन मात्मभावपरिपूरि च सत्त्वान् ग्राहयति, तन्निवृत्ताविन्द्रियान्तरावैकल्यात्। प्रत्ययश्च भवति स्पर्शस्य। स्पर्शो विषयोपभोगे सत्त्वान् प्रवर्तयति, तन्मुखेन सुखवेदनीयादित्रिविधविषयोपभोगात्। प्रत्ययश्च भवति वेदनायाः। वेदना जन्मोपभोगे च सत्त्वान् प्रवर्तयति, तदधिष्ठानेनेष्टादिकर्मविपाकोपभोगात्। प्रत्ययश्च भवति तृष्णायाः, तत्संप्रयोगाद्यभिलाषमुखेन तृष्णोत्पत्तेः। तृष्णा जन्मनि सत्त्वानाकर्षति, तद्वशेन जन्मान्तरस्त्रोतोऽनुपच्छेदात्। प्रत्ययश्च भवत्युपादानस्य, आस्वादप्रार्थनामुखेन कामादिषु छन्दरागप्रवृत्तेः। उपादानं पुन र्भवादानाय सोपादानं च सत्त्वानां विज्ञानं करोति, नरकादिगतिविशिष्टपुनर्भवप्रतिसंधये कर्मवासनानियमात्। प्रत्ययश्च भवति भवस्य, तद्वशेन संस्कारवासनयोवृ त्तिलाभात्। भवः पुनर्भवे सत्त्वानभिमुखोकरोति, अनन्तरगत्यन्तरावाहनात् प्रत्ययश्च भवति जातेः, ततो निकायसभागान्तरनिर्वृत्तेः। जातिर्नाम रूपाद्यानुपूर्व्या सत्त्वानभिनिर्वर्तयति, उत्तरोत्तरावस्थान्तरावाहनात्। प्रत्ययश्च भवति जरामरणस्य, जातौ सत्यां तत्प्रबन्ध स्यान्यथात्वविनाशसंभवात्। जरामरणं पुनःपुनर्वयः परिणामेन जीवितपरिणामेन च सत्त्वान् योजयति, यौवनायुषोविनाशेन योजनात्॥



विज्ञानस्य कर्म[सं]क्लेशसंग्रहणं संस्कारवासनाप्रभावितत्वाद्विज्ञानाङ्गस्यः



निष्कर्तृकार्थ ईश्वरादिकर्तृरहितत्वात्। सहेतुकार्थोऽविद्यादिहेतुकत्वात्। निःसत्वार्थः स्वयमनात्मत्वात्। परतन्त्रार्थः प्रत्ययाधीनत्वात्। निरीहकार्थः प्रत्ययानां निर्व्यापारत्वात्। अनित्यार्थोऽशाश्वतत्वात्। क्षणिकार्थ उत्पत्तिकालात् परेणानवस्थानात्। हेतुफलप्रबन्धानुपच्छेदार्थः कारणक्षण निरोधसमकालं कार्यक्षणोत्पादात्। अनुरूपहेतुफलपरिग्रहा र्थः सर्वतः सर्वस्यासंभवात्। विचित्र हेतुफलार्थोऽनेकै कजातीयात्कारणादेका नेकजातीयकार्योत्पत्तेः। प्रतिनियतहेतुफलार्थः संतानान्तराफलनात्॥



पुनरेभिरेवार्थः प्रतीत्यसमुत्पादस्य पञ्चविधं गाम्भीर्य वेदितव्यम्। हेतुगाम्भीर्य विषमहेत्वहेतुवादप्रतिपक्षेन द्वाभ्यामर्थाभ्याम्। लक्षणगाम्भीर्य निरात्मकतयैकार्थेन। उत्पत्तिगाम्भीर्य प्रत्ययेभ्यः फलोत्पत्तावप्यतत्कृततया द्वाभ्याम र्थाभ्याम्। स्थिति गाम्भीर्यमव्यवस्थितानां स्थित्याभासनाद्द्वाभ्यामर्थाभ्याम्। प्रवृत्तिगाम्भीर्य हेतुफलप्रवृत्तिदुर्विज्ञानत्वाच्चतुर्भिरर्थैरिति॥



अन्तरेण एव कर्तारं कर्म क्रिया चास्ति तत्फलोपभोगश्चेत्ययमत्र कर्मफलाविप्रणाशो वेदितव्यः॥



न स्वयंकृतो धर्मोऽनुत्पन्नस्याभावाद्येनासौ क्रियेत। न परकृतः प्रत्ययानामकर्तृकत्वात्। नोभयकृत एतेनैव कारणद्वयेन। नास्वयंकाराप[र]कारहेतुसमुत्पन्नः हेतुप्रत्ययानां फलोत्पत्तौ सामर्थ्यात्॥ अपरः पर्यायः। न स्वयंकृतः प्रत्ययापेक्षणात्। न परकृतः सत्स्वपि प्रत्ययेषु निर्वीजस्यानुत्पादात्। नोभय कृत स्तदुभयोनिरीहकत्वात्। नाहेतुसमुत्पन्नो बीजप्रत्ययानां शक्तिसद्भा[वा]दिति। भवति ह्यपि-



स्वबीजत्वान्न परतः न स्वयं तदपेक्षणात्।

निश्चेष्टत्वान्न च द्वाभ्यां तच्छक्तेर्नाप्यहेतुतः॥ इति।



न स्वयं न परतो द्विविधकोटिप्रतिक्षेपे ऽपि गम्भीरः प्रतीत्यसमुत्पादः स्यात् प्रागेव यत्र चतस्त्रोऽपि कोटयः प्रतिक्षिप्यन्ते, तस्मादेतस्य परमगाम्भीर्य वेदितव्यम्॥



विज्ञानोत्पत्तिप्रभेदतश्चक्षुःप्रतीत्यरूपाणि चोत्पद्यते चक्षुर्विज्ञानमित्येवमादि। व्युत्पत्तिप्रभेदतः सत्वलोकमधिकृत्य, अविद्याप्रत्ययाः संस्कारा इत्येवमादि। बाह्य वस्योत्पत्तिप्रभेदतो बीजं प्रतीत्याङ्कुरः , अङ्कुरं प्रतीत्य काण्डः। तथा नाऽपत्रपुष्पफलानि योज्यानि। संवर्तविवर्तप्रभेदतः सर्वसत्त्वसाधारणकर्माधिपत्यं प्रतीत्य महापृथिव्यादीनामुत्पादात्। आहारोपस्तम्भप्रभेदतश्चतुर आहारान् प्रतीत्य त्रैधातुके सत्वाना मवस्थानात्। इष्टानिष्टगति विभागप्रभेदतः सुचरित दुश्चरिते प्रतीत्य सुगतिदुर्गतिगमनात्। विशुद्धिप्रभेदतो मोक्ष भागीयानि प्रतीत्य निर्वेधभागीयोत्पत्तितो यावद्दर्शनभावनामार्गानुपूर्व्यार्हत्त्वप्राप्तितः, परतो वा घोषं प्रतीत्याध्यात्मं च योनिशो मनस्कारं सम्यग्दृष्टिस्ततो यावत्सर्वास्त्रवक्षय इति। प्रभावप्रभेदतोऽधिगमं प्रतीत्याभिज्ञादयो वैशेषिका गुणा इति। एभिः प्रभेदैविस्तरेण संस्काराणां प्रतीत्यसमुत्पादोऽनुसर्तव्यः॥



[सं]क्लेशानुलोमप्रतिलोम इति प्रवृत्यानुपूर्वीमधिकृत्य, अविद्याप्रत्ययाः संस्कारा इत्येवमाद्यनुलोमनिर्देशः। जरामरणंजरामर[ण]समुदयो [जरामरणनिरोधो] जरामरणनिरोधगामिनी प्रतिपदिति सत्यव्यवस्थानमधिकृत्य प्रतिलोमनिर्देशो वेदितव्यः।



[व्यवदानानुलोमप्रतिलोमत इति ] तद्यथाऽविद्यानिरोधात् संस्कारनिरोध इत्येवमादि व्यवदानानुलोमनिर्देशः। कस्मिन्नसति न जरामरणं भवति कस्य निरोधाज्जरामरणनिरोध इति प्रतिलोमनिर्देशतः॥



हेतुप्रत्यय आलयविज्ञानं कुशलवासना च सास्त्रवानास्त्रवाणां च संस्काराणां यथाक्रमम्। आलयविज्ञानं पुनर्द्विविधम् - वैपा किकमाभिसंस्कारिकं च। तत्र वैपाकिक मुपपत्तिप्रातिलम्भिकानां हेतुप्रत्ययः। आभिसंस्कारिकं प्रायोगिकानामायत्यां चालय विज्ञानान्तरस्य हेतुप्रत्ययो द्रष्टव्यः। आभिसंस्कारिकं पुनरालयविज्ञानं तज्जान्मिकप्रवृत्तिविज्ञानसमुदाचारवासितं वेदितव्यम्। कुशलवासना मोक्षभागी यानां वासना द्रष्टव्या। तेषां लोकोत्तराभ्युपग मनिष्यन्दधर्मनैमित्तिकतस्तद्वा सनाया लोकोत्तरधर्महेतुत्वं वेदितव्यम्॥



अपि खलु स्वभावतोऽपीत्येवमादिना षड्ढेतवो हेतुप्रत्यय इति दर्शयति। तत्र स्वभावतः प्रभेदतश्च कारणहेतोर्व्यवस्थानम्। शेषैः पदैः यथाक्रमं सहभूसंप्रयुक्तसभागसर्वत्रगविपाकहेतूनां व्यवस्थानं वेदितव्यम्।



हेतुस्वभावमधिकृत्य कारणहेतुव्यवस्थानात्सर्वहेतवः कारणहेतावन्तर्भूता वेदितव्याः। सहायादिविशेषप्रभावनार्थ तु पृथग्व्यवस्थानम्।



कारणहेतुप्रभेदे विज्ञानसामग्रयादिकं यन्निर्दिष्टमुदाहरणमात्रं तद्द्रष्टव्यम् , तया दिशाऽन्यस्यापि तज्जातीयस्याभ्यूहनार्थम्। तत्र उत्पत्तिकारणं ततः कार्यस्याभूत्वा प्रादुर्भावात्। स्थितिकारणमुत्पन्नस्य प्रबन्धानुपच्छेदात्। धृतिका रणं पातप्रतिबन्धात्। प्रकाशनकारणमावृतस्याभिव्यञ्जनात्। विकारकारणं तत्संतानस्यान्यथात्वापादनात्। वियोगकारणं संबन्धस्य द्वैधीकरणात्। परिणतिकारणं तदवयवानां देशान्तरसंचरणात्। संप्रत्ययकारणं तेन विपरोक्षानुमानात्। संप्रत्यायनकारणं तेन सम्यङ्निश्चयात्। प्रापणकारणं तेनाधिगमात्। व्यवहारकारणं यथानामधेयं निमित्तोद्ग्रहणेनाभिनिविश्यानुव्यवहरणात्। अपेक्षाकारणमन्यत्रेच्छो त्पत्तिनिमित्तत्वात्। आक्षेपकारणं तदन्वयावस्थान्तरपरापरभाविन आवेधकत्वात्। आभिनिर्वृत्ति कारणमनन्तरभाविनो ज नकत्वात्। परिग्रहकारणं स्वबीजोत्पादिन उपोद्वलत्वात्। आवाहनकारणं तदानुकूल्येनाकर्षणात्। प्रतिनियमकारणं भिन्नस्वभावतयान्योन्यफलत्वात्। सहकारिकारणं स्वकार्य निर्वर्तने कारणान्तरापेक्षणात्। विरोधि कारणं विध्नकरणात्। अविरोधिकारणं तद्विपर्ययेण वेदितव्यम्॥



तद्यथा भूतानि भौतिकं चेति यथासंभवं न त्ववश्यं सर्वत्र संघाते चत्वारि महाभूतानि भवन्ति रूपादिकं वा भौतिकम्। इत्यतो यद्यत्रास्ति तत्तेन सहोत्पद्यते नान्योन्यं विनेति॥



सहायनैयम्येन सहभूहेतुर्व्यवस्थापितः। भूतानि भौतिकं चेत्युदाहरणमात्रमेतद्वेदितव्यम्, चित्तचैतसिकानामन्योन्यमविनाभावनियमात्। यद्येवं संप्रयुक्तहेतोः पृथग्व्यवस्थानं न प्राप्नोति, चित्तचैतसिकानां सहभूहेतावन्तर्भावात्। यद्यप्येतदेवं तथाप्यन्येनार्थेन। ये धर्माः सहभावेनालंबनं प्रतिपद्यन्ते नान्यतम वैकल्येन ते संप्रतिपत्तितः संप्रयुक्तकहेतुर्व्यवस्थाप्यते, न सहभावमात्रेण, तद्यथा चित्तै चैतसिकाश्च॥



पूर्वभावितानामि ति पूर्वाभ्यस्तानां पूर्वं समुदाचरितानामित्यर्थः। या अपरान्ते उत्तरोत्तरा पुष्टतरतमा प्रवृत्तिरिति तैः परिपोषितबीजानां तदन्वयानामनागते काले विशिष्टोत्पत्तितो द्रष्टव्या। एवमयं सभागहेतुः सदृशानां पुष्टिनिमित्तत्वेन व्यवस्थापितः॥



सर्वत्रगहेतुर्न केवलं सदृशस्यैव पुष्टये किं तर्हि यस्य कस्यचिद्रागादेः क्लेशस्याभ्यासेन सर्वेषां द्वेषादीनां प्रबन्धपुष्टया दृढीकारो भवत्यतो वन्धनगाढो करणान्मोक्षप्राप्तिपरिपन्थार्थेनास्य व्यवस्थानं वेदितव्यम्॥



विपाकहेतुः पुनरायत्यामेकान्तविसदृशस्यैवानिवृत्ताव्याकृतस्यात्मभावसंग्र हीतव्यविपाकस्याक्षेपकत्वात् परिग्रहार्थेन व्यवस्थापितः। कुशलसास्त्रवग्रहणमनास्त्रवाणां जन्मविरोधित्वेनानाक्षेपकत्वात्॥



नैरन्तर्यसमनन्तरतोऽपीति नावश्यं क्षणनैरन्तर्य कितर्हि चित्तान्तरनैरन्तर्यमप्यत्र नैरन्तर्य द्रष्टव्यम्। इतरथा ह्यचित्तिकसमापत्तौ व्युत्थानचित्तस्य समापत्तिचित्तं न समनन्तरप्रत्ययः स्यात्। भवति च। तस्मादेकस्मिन् संताने पश्चिमस्य चित्तस्य पूर्वकं चित्तं चित्तान्तरेणानन्तरितं समनन्तरप्रत्ययः। यथा चित्तमेवं चैतसिका अपि वेदितव्याः। सभागविसभागचित्तचैत्तोत्पत्तिसम[न]न्तरतोऽपीति कुशलाः चित्तचेत्ताः कुशलानां सभागानामकुशलाव्याकृतानां च विसभागानामनन्तरोत्पन्नानां समनन्तरप्रत्ययः। एवं कुशलाव्याकृताः स्वान्यप्रकाराणां योजयितव्याः। तद्यथा कामावचरा कामावचराणां रूपारूप्यावचरानास्त्रवाणां चानन्तरोत्पन्नानां समनन्तरप्रत्ययः। एवं रूपावचरादयोऽपि पृथग्पृथग्रूपावचरादोनां कामावचरादीनां चा[न]न्तरोत्पन्नानामिति योजयितव्यम्॥



किं खलु सर्वस्य चिन्तस्यानन्तरं सर्व चित्तमुत्पद्यते, अहोस्विदस्ति प्रतिनियमः। अस्तीत्युच्यते। अवैतस्य चित्तस्यानन्तरमिदं चेदं च चित्तमुत्पद्यत इत्युच्यमाने बहुवक्तव्यं जायते। तस्मात्सामान्येन चित्तोत्पत्तौ लक्षणमात्रं व्यवस्थाप्यते। तद्यथा दशभिर्बलैश्चित्तस्योत्पादो वेदितव्यः - परिचयबलेन छन्दबलेन प्रयोगबलेन समापत्ति बलेनऽऽबेधबलेन हेतुबलेन विषयबलेन स्मृतिबलेन मनस्कारबलेन प्रतिसंधिबलेन च। परिचयबलं पुनस्त्रिविधम् -मृदु मध्यमधिमात्रं च। समापत्तिस्थितिव्युत्थाननिमित्तानामनुपलक्षितत्वान्मृदु। उपलक्षितानां स्वपरिचित्त त्वान्मध्यम्। सुपरिचिततोपलक्षि तत्वा दधिमात्रम्। तत्र मृदुना परिचयबलेन ध्यानारूप्याणाम[नु] पूर्व्यसमापत्तिर्वेदितव्या। मध्येन व्युत्क्रान्तकसमापत्तिरेकान्तरिकयोगेन। अधिमात्रेण यथेष्टं सर्वाणि वा व्युत्क्राम्यानुलोमं प्रतिलोमं च समापत्तिर्वेदितव्या। छन्दबलेन द्वितीयध्यान लाभी प्रथमं ध्यानं समापन्नो यद्याकांक्षति द्वितीयध्यानभूमिकं व्युत्थानचित्तमामुखीकरोत्यथ ना कांक्षति कामावचरं कुशलमनिवृताव्याकृतं वा। एवमन्यत्रापि विस्तरेण योज्यम्। प्रयोगबलेन कामावचरस्य कुशलस्यवानन्तरं तत्प्रथमतो रूपावचरं चित्तमुत्पद्यते। अनागम्यस्य कुशलस्यानन्तरं मौलम्। मौलस्य कुशलस्यानन्तरं द्वितीयध्यानसमापन्नकमित्येवमादि विस्तरेण यावद्भवाग्रात् वेदितव्यम्। समापत्तिबलेन शुद्धकं समापन्नस्य कदाचिच्छुद्धक मेवोत्पद्यते कदाचित्क्लिष्टम्। आवेधवलेन समाधेर्व्युत्थाय चरतस्तावत्समाहितभूमिकं चित्तम्[अ]समाहितक्षणानन्तरव्यतिभिन्नमनुवर्तते यावत्तद्विरोधिक्लेशसमुदाचारात्परिहीण इति। तद्विरोधि क्लेशसंप्रयुक्तस्य पुनश्चित्तस्य हेत्वादिभिश्च तुर्भिर्बलैः समुदाचारो वेदितव्यः - तत्र तावद्धेतुबलेन यद्यवश्यं भूमिपरिहाणिसंवर्तनीयमावरणं पूर्वमुपचितं भवति, विषयबलेन यदि रागाद्युत्पत्यनुकूलः शुभादिनिमित्तः प्रभावोत्कटविषय आभाससमागतो भवति, स्मृतिवलेन यदि स्मरणसंकल्पै रतीतान्विषयान् प्रपञ्चयति, मनस्कारबलेन यदि मीमांसामनस्कारेणान्यतरान्यतरच्छुभनिमित्तं मनसिकरोतीति। प्रतिसंधिबलेन नव मरणचित्तान्यात्मभावतृष्णासंप्रयुक्तानि त्रिषु धातुषुप्रत्येकं कामरूपारूप्यावचराणि। तत्र कामधातोश्च्युत्वा कामधातावेव प्रतिसंधि वध्नतः कामावचरमात्मभावतृष्णासंप्रयुक्तं मरणचित्तं वेदितव्यम्। रूपारूप्यधात्वोः प्रतिसंधि बध्नतो रूपारूप्यावचरम्। तथा रूपारूप्यधातुभ्यां च्युत्वा तत्र वान्यत्र वोत्पद्यमानस्य षट्चित्तानि योजयितव्यानि। सा पुनरात्मभावतृष्णा सहजाऽनि रूपितालंवनानिवृताव्याकृता च। आत्मभावजातिश्चास्याः प्रकारापरिच्छेदेनालंवनं वेदितव्यम्। तद्वशेना[न]न्तरं पृथग्जनानाम न्तराभवप्रतिसंधिः। आर्याणामप्यवीतरागाणां मरणकाले यावदस्पष्टसंज्ञावस्थां न गच्छति तावदसौ तृष्णा समुदाचरति। ते त्वेनां परिच्छिद्य प्रतिपक्षेणाभिनिगृह्णन्ति। वीतरागाणां त्वार्याणां प्रतिपक्षस्य वलीयस्त्वान्नैवासौ समुदाचरत्यप्रहीणापि सती। तद नुशयवशेन तु तेषां प्रतिसंधिः। अन्तरा भवप्रतिसंधिक्षणः पुनर्नित्यमनिवृताव्याकृत एव विपाकत्वात्। तत ऊर्ध्व कुशलोऽप्य कुशलोऽप्यव्याकृतोऽपि यथासंभवम्, च्युतिचित्तं स्थापयित्वा। अन्तराभवच्युतिचित्तं तु नित्यं क्लिष्टं मरणभववत्। उपपत्तिप्रतिसंधिः पुनर्नित्यमनिवृताव्याकृत एवेति वेदितव्यम्। बोधिसत्त्वानां तु प्रणिधानबलेनोपपद्यमानानां मरणचित्ता दिकमेकान्तेन सर्व कुशलं वेदितव्यम्। समाप्तः समनन्तर प्रत्ययप्रसङ्गः॥



परिच्छिन्नविषयालंबनतः पञ्चानां विज्ञानकायानामालंवनम्, प्रतिनियतविषयत्वात् पञ्चानां विज्ञानकायानाम्। अपरिच्छिन्नविषयालंबनतः मनोविज्ञानस्यालंबनम्, सर्वधर्मविषयत्वान्मनोविज्ञानस्य। अचित्रीकारविषयालंबनतोऽव्युत्पन्नसंज्ञानां मनोविज्ञानस्यालंबनम्, नामतोऽक्षरोकर्तुमशक्यत्वात्। चित्रीकारविषयालंबनतस्तद्विपर्य[या]द्वेदितव्यम्। सवस्तुकविषयालंबनतो दृष्टिमस्मिमानं तत्संप्रयुक्तांश्च धर्मान् स्थापयित्वा तदन्येषामालंबनम्। अवस्तुकविषयालंवनतः स्थापितानामालंवनम्, आत्माधिष्ठानत्वात्। वस्त्वा लंबनतोऽनास्त्रवालंवनान् विसभागधातुभूमिसर्वत्रगाननिवारितवस्तुकांश्चातीता नागतालंवनान् स्थापयित्वा तदन्येषामालंवनम्। परिकल्पालंवनतः स्थापितानामालंबनम्, स्वपरिकल्पमात्रालंबनात्। विपर्यस्तालंबनं नित्याद्याकाराणाम्। अविपर्यस्तालंबनमनित्याद्याकाराणाम्। सव्याघातालंबनमप्रहीणज्ञेयावरणानाम्। अव्याघातालंबनं प्रहीणज्ञेयावरणानामिति॥



आलंबनप्रत्यये विनिश्चयः - लक्षणतोऽपि प्रभेदतोऽपि स्थिति तोऽपि परिज्ञानतोऽपि प्रहाणतोऽप्यालवनव्यवस्थानं वेदितव्यम्॥



कथं लक्षणतः। योऽर्थस्तत्प्रतिभासानां चित्तचैतसिकानां धर्माणामुत्पत्तिनिमित्तम, ते चोत्पन्नास्तदर्थाभिनिवेशव्यवहारप्रत्यात्मावगमाय भवन्ति तदालंवनलक्षणम्॥



कथं प्रभेदतः। असदालंबनं तद्यथा विपर्यस्तानां चित्तचैतसिकानामतीतानागतस्वप्नप्रतिर्बिबमायाद्यालंबनं च। सदालंबनं तदन्येषाम्। अनालंबनमालंबनं रूपं चित्तविप्रयुक्ता असंस्कृतं च। सालं बनमालंबनं चित्तचैतसिका धर्माः। सम्यक्त्वालंबनं तद्यथा कुशलम्।

मिथ्यात्वा लंबनं तद्यथा क्लिष्टम्। नैवसम्यक्रत्वनमिथ्यात्वालंबनं तद्यथाऽनिवृताव्याकृतम्। योनिश आलंबनं तद्यथा कुशला नां चित्तचैतसिकानाम्। अयानिश आलंबनं तद्यथा क्लिष्टानाम्। नैवयोनिशोनायोनिशस्तद्विनिर्मुक्तानाम्। सभागमालंबनं तद्यथा कुशलादीनां कुशलादीनि स्वभूमिकानां च स्वभूमिकं सास्त्रवाणां च सास्त्रवमनास्त्रवाणां चानास्त्रवम्। विस भागमालंबनं तद्यथा कुशलादीनामकुशलादी न्यन्यभूमिकानां चान्यभूमिकं सास्त्रवानास्त्रवयोश्चानास्त्रवसास्त्रवम्। नानात्वमालंबनं तद्यथा सवितर्कविचाराणां चित्तचैतसिकानाम्। एकत्वमालंवनं तद्यथाऽवितर्काविचाराणाम्। विभूत्यालंवनं तद्यथाऽऽसंज्ञिकप्रायोगिकानां चित्तचैतसिकानामाकाशविज्ञानानन्त्यायतनिकानां च। अभिसंक्षिप्तं सूक्ष्ममालंबनं तद्यथाऽऽकिंचन्यायतनिकानाम्। पर्यन्तिकं सूक्ष्ममालं बनं तद्यथा नैवसंज्ञानासंज्ञायतनिकानाम्। क्लेश आलंबनं तेनालंब्यत इति कृत्वा। धर्म आलंबनं तद्यथाऽऽर्याणां नामकायपदकायव्यञ्जनकायाः। अर्थ आ लंबनं तदाश्रितोऽर्थः। परोत्तमालंबनं तद्यथा श्रावकयानम्। विपुलमालंबनं तद्यथा महायानम्। निमित्तमालवनं तद्यथा शमथप्रग्रहोपेक्षानिमित्तानि। अनिमित्तमालंबनं तद्यथा निर्वाणं भवाग्रयं च। तत्त्वमालंवनं तद्यथा तथता षोडशानां चाकारा णां सत्यानि। वैहारिकमालंवनं तद्यथा निरोधसमापत्तिः। वश वर्त्यालंबनं तद्यथा विमोक्षादीनां सर्वाकारज्ञ तावसानानां गुणानाम्। क्षणिकमालंबनं तद्यथाऽशैक्षाणां तज्जन्मिकमेव। अनुवर्त्यालंवनं तद्यथा बुद्धबोधिसत्त्वानाम्॥



कथं स्थितितः। आलंबनस्यापरिनिष्पत्तितस्तथा व्यवस्थापनात्। चतुर्भिश्च कारणैरपरिनिष्पन्न मालंबनं वेदितव्यम् - विरुद्धविज्ञान निमित्ततया, अ[न] लंवनविज्ञानोपलब्ध्या, यत्नमन्तरेणाविपर्यासप्रसङ्गतया, त्रिविधज्ञानानुवर्तनतया च। ततश्च ग्राहकस्याप्यपरिनिष्पत्तिः। त्रिविधं ज्ञानं वशिता ज्ञानं विपश्यनाज्ञान निर्विकल्पज्ञानं च। तत्र चतुर्णा कारणानामुदाहरणानि।



प्रेततिर्यग्मनुष्याणां देवानां च यथार्ह तः।

तुल्यवस्तुमनोभेदादर्थानिष्पत्तिरिष्यते॥१॥



अतीता दौ तथा स्वप्ने प्रतिबिंबद्वयेऽपि च।

असन्नालंवनत्वाच्च तदालंबनयोगतः॥ २॥



अर्थस्यार्थत्वनिष्पत्तौ ज्ञानं न स्यादकल्पकम्।

तदभावाच्च बुद्धत्वप्राप्तिर्नैवोपपद्यते॥३॥



बोधिसत्त्वे वशिप्राप्तेऽधिमुक्तिवशाद्यतः।

तथाभावः पृथिव्यादौ ध्यायिनां चोपलभ्यते॥४॥



निष्पन्नविचयस्येह धीमतः समाधि लाभिनः।

सर्वधर्ममनस्कारे तथार्थख्यानतोऽपि च॥५॥



ज्ञानचारेऽविकल्पे हि सर्वार्थाऽख्यानतोऽपि च।

अर्थाभावोपगन्तव्यो विज्ञप्तेस्तदभावतः॥६॥



कथं परिज्ञानतः। लक्षणप्रभेदस्थितीनां यथाभूतज्ञानतः॥



कथं प्रहाणतः। श्रावकयानमहायानाभ्यामाश्रयपरिवृत्तितः। श्रावकयानाश्रयपरिवृत्त्या स्कन्धधात्वायतनालंबनेभ्यो विमोक्षो न तु तेषु विभुत्वलाभः। महायानाश्रयपरिवृत्त्या तूभयमिति। समाप्त आलंबनप्रत्यये यथाग्रन्थं विनिश्चयः।



प्रतिष्ठाधिपतितः वायुमण्डलादीन्यम्मण्डलादीनाम्, भाजनलोकः सत्त्वलोकस्य, भूतानि भौतिकानाम्, इन्द्रियाणि विज्ञानाना मित्येवमादि। आवेधाधिपतितः सर्वसत्त्वसाधारणं कर्म भाजनलोकस्य, पौराणं सास्त्रवकर्म विपाकस्येत्येवमादि सहभावाधिपतितः चित्तं चैतसानाम्, मनस्कारः चित्तस्य, स्पर्शी वेदनाया इत्येवमादि। अतः परं द्वाविशति मिन्द्रियाण्यधिकृत्याधिपतिव्यवस्थानं वेदितव्यम्। तत्र विषयाधिपतितः चक्षुःश्रोत्रघ्राणजिह्वाकायमन‍इन्द्रियानाम्, तदाधिपत्येन रूपाद्यभि निर्वृत्तेः। प्रसवाधिपतितः स्त्रीपुरुषेन्द्रिययोः, तदाधिपत्येन गर्भावक्रमणात्। स्थानाधिपतितो जीवितेन्द्रियस्य, तद्वशेन निकायसभागस्थानात्। फलोपभोगाधिपतितः सुखदुःखसौमनस्यो पेक्षेन्द्रियाणाम्, तदधिष्ठानेनेष्टानिष्टविपाकप्रतिसंवेदनात्। लौकिकविशुध्य धिपतितः श्रद्धावीर्यस्मृतिसमाधिप्रज्ञेन्द्रियाणाम्, तैः क्लेशविष्कम्भणात्। लोकोत्तरविशुध्यधिपतितोऽनाज्ञात माज्ञास्या मीन्द्रियस्याज्ञेन्द्रियस्याज्ञातावीन्द्रियस्य च व्यवस्थानं वेदितव्यम्, तैरनुशयसमुद्‍घातादिति॥



विज्ञानाविरहिततत्सादृश्येन्द्रियविषयप्रबन्धोत्पत्तितः सभागं वेदितव्यम्, विज्ञानसहितस्य विज्ञानसादृश्येनेन्द्रियस्य विषयेषु प्रबन्धेनोत्पत्तेः विज्ञानवृत्तिसादृश्यार्थेन तदिन्द्रियं सभागमित्युच्यते। विज्ञान विरहितस्वसादृश्यप्रबन्धोत्पत्तितस्तत्सभागम्, विज्ञानेन विप्रयुक्तस्ये न्द्रियस्य स्वात्मसादृश्येन प्रबन्धोत्पत्तिरिन्द्रियलक्षणसादृश्यार्थेन तत्सभागं वेदितव्यम्। रूपस्कन्धैकदेशश्चक्षुरादिपञ्चेन्द्रियलक्षणः। पञ्च रूपीणि धात्वायतनानि चक्षुरादीनीत्येव।



वेदनोत्पत्त्याश्रयरूपत इति यद्रूपमाश्रित्य वेदनोत्पद्यते तदुपात्तमित्युच्यते। रूपस्कन्धैकदेशः साधिष्ठानेन्द्रियसंगहीतः। पञ्च रूपीणि धात्वायतनानि चक्षुरादीनि। चतुर्णाचंकदेशः रूपगन्धरसस्प्रष्टव्यानामिन्द्रियाविनिर्भागी॥



विषयग्रहणाधिपतितश्चक्षुरादीनां षण्णाम्, तदाधिपत्येन रूपाद्यालंबने चित्तचैतप्रवृतेः। कुलप्रबन्धाधिपतितः स्त्रीपुरुषेन्द्रिययोः, ततः पुत्रपौत्राद्यन्वयप्रवृत्तेः। शेषं यथाधिपतिप्रत्यये निर्दिष्टं तथानुगन्तव्यम्। रूपस्कन्धैकदेशश्चक्षुः श्रोत्रघ्राणजिह्वाकायस्त्रोपुरु षेन्द्रियलक्षणः। संस्कारस्कन्धैकदेशो जीवितश्रद्धावीर्यस्मृतिसमाधिप्रज्ञेन्द्रियलक्षणः। द्वादश धातव इन्द्रियविज्ञानधातवः। षडायतनान्याध्यात्मिकानि। धर्मधात्वाय तनैकदेशश्च जीवितेन्द्रियं सुखादीनि श्रद्धादानि पञ्च॥



दुःखा वेदना दुःखात्मिका सती स्वेनैव लक्षणेन दुःखदुःखताः। तदुत्पत्तिनिमित्तभूतास्त्विन्द्रियार्थास्तत्संप्रयुक्ताश्च दुःखवेदनीयत्वाद्दुःखदुःखता द्रष्टव्या॥



सुखाया वेदनायास्तद्वेदनीयानां च धर्माणां विपरिणामेन दौर्मनस्योत्पादात् तद्विपरिणतिर्विपरिणामदुःखता। तत्र चानुनयेन चित्तस्य विपरिणमनं विपरिणामदुःखता वेदितव्या। यथोक्तमवदीर्णो विपरिणतेन चित्तेनेति॥



अदुःखासुखा वेदनाऽऽलयविज्ञानसंप्रयुक्ता तद्वेदनीयाश्च संस्कारा दुःखविपरिणामदुःखतयोदौष्ठुल्येनानुगतत्वात्तेन दुःखताद्वयेनाविनिर्मुक्तत्वादेकदा दुःखा वस्थां भजन्ते एकदा सुखावस्थां, न नित्यकालमदुःखासुखावस्था एव भवन्ति। तस्मादनित्यतानुबन्धार्थेनायोगक्षेमत्वात्संस्कारदुःखता वेदितव्या। स्कन्धानाम्। त्रयाणां धातूनां मनोधर्ममनोविज्ञानधातूनाम्। द्वयोश्चायतनयोर्मनोधर्मायतनयोः। एकदेशं स्थापयित्वा ऽनास्त्रवलक्षणम्, तदन्यानि सर्वाणी त॥



अकुशलस्य कुशलसास्त्रवस्य चायत्या ससंप्रयोगमालयविज्ञानं विपाकः। अतस्तेन विपाकेन तदुभयं सविपाकमित्युच्यते। स्कन्धानाम्। दशानां धातूनां विज्ञानरूपशब्दधर्म धातूनाम्। चतुर्णा चायतनानां रूपशब्दमनोधर्मायतनानाम्। एकदेशोऽव्याकृतानास्त्रववर्जः। आलयविज्ञानात्तदन्यत्तु चक्षुरादिकं च सुखदुःखादिकं च तद्विपाक्रजमित्याख्यां लभते ततो जातमिति कृत्वा।



परिणतितः पारिणामिकः कवडीकार आहारः, परिणामकाले इन्द्रियमहाभूतपोषणात्। विषयतो वैषयिकः स्पर्शाहारः, इष्टविषया धिष्ठानेन स्पर्शेनाश्रयानुग्रहणात्। आशात आशिकः मनः संचेतनाहारः, अभिप्रेतवस्तुप्रतिवद्धाशावशेनाश्रयानुग्रहणात्। उपादानत औपादानिकः विज्ञानमाहारः, आलयविज्ञानोपा दानवशेनात्मभा वोपस्थानात्। तथाहि तद्वियुक्त आश्रयः पूतीभवतीति।



पुनश्चत्वारोऽप्याहाराः समस्य चतुर्भिः प्रभेदैर्व्यवस्थाप्यन्ते। तद्यथा अशुद्धाश्रय स्थितिकः कामावचराणां पृथग्जनानाम्, सकलबन्धनत्वात्। शुद्धाशुद्धाश्रयस्थितिकः शैक्षाणां रूपारूप्यावचराणां च पृथग्जनानाम्, सावशेषवन्धनत्वात्। शुद्धाश्रयस्थितिकोऽर्हताम्, सर्वबन्धनविनिर्मुक्तत्वात्। स्थितिसांदर्शिको बुद्धानां बोधिसत्त्वानां च महाप्रभावप्राप्तानाम्, आहारवशेन स्थितिरिति संदर्शनमात्रत्वात्॥



अ संस्कृतैकदेशः निष्पन्नस्वभावः सोत्तरमिति निर्वाणं मुक्त्वा, तस्य सर्वधर्माग्रत्वादिशुद्धायाश्च तथतायास्तल्लक्षणत्वात्॥



समासतः प्रभेदस्त्रिविधः, त्रिविधं स्वभावमधिकृत्य पुद्गलनैरात्म्यनयेन वेदितव्यः। तत्र परिकल्पितः स्वभावः स्कन्धादीन्यधिष्ठायाविद्यमान आत्मादिस्वभावो यः परिकल्पितः। परतन्त्रः स्वभावस्तान्येव स्कन्धादीनि यत्रासावात्म द्यभूतविकल्पः प्रवृत्तः। परिनिष्पन्नः स्वभावो भावाभाववियुक्तलक्षणा हि तथता, स्कन्धादिष्वात्माद्यभावनैरात्म्या स्तिता लक्षणत्वात्॥



लक्षणप्रभेदो धर्माणां स्वभावमधिकृत्य, रूपं वेदनेत्येवमादि। प्रकार[प्र] भेदो विशेषमधिकृत्य, द्रव्यसन्तः प्रज्ञप्तिसन्त इन्येवमादि। आश्रयप्रभेदः प्रत्यात्मभावं स्कन्धादीनां नानात्वमधिकृत्य।



संततिप्रभेद एकस्मिनप्यात्मभावे स्कन्धादीनां प्रतिलक्षणमन्यथात्वमधिकृत्य॥



बहिर्मुखप्रभेदो यद्भूयसा कामावचर इति भूयोग्रहणं निष्पन्दधर्महेतुकश्रुतचिन्तामयव्युदासार्थम्॥ समाप्तः प्रभेदः॥





लक्षणसंग्रहेण रूपस्कन्धो रूपस्कन्धेनैव संगृहीतो विस्तरेण यावद्‍धर्मायतनं धर्मायत[ने]नैव। धातुसंग्रहेण सर्वाणि स्कन्धधात्वायतनान्यालयविज्ञानेन संगृहीतानि, सर्वेषां तत्र बीजतोऽस्तित्वात्। जातिसंग्रहेण स्कन्धैः राश्याद्यर्थयुक्ता रूपादयः सर्वे संगृहीता विलक्षणा अप्यन्योन्यं स्वलक्षणेनैकजातीयत्वात्। एवं धातुभिश्चायतनैश्चोपभोगधारणार्थयुक्ता आयद्वारार्थयुक्ताश्चक्षुरादयः संगृहीता वेदितव्याः। अवस्थासंग्रहेण स्कन्धा एकजातीया अपि सुखाद्यवस्थां नियमय्य सुखावस्थाः सुखावस्थैरेव संगृहीता न दुःखाद्यवस्थैः। एवं दुःखावस्थाऽदुःखासुखा वस्थाश्च तदवस्थै [रे]व संगृहीताः। यथा स्कन्धा एवं धातव आयतनानि च। सहायसंग्रहेण रूपस्कन्धः सह तदाश्रितैर्वेदनादिभिः सहायैर्गृह्यमाणः पञ्चभिः स्कन्धैः संगृहीतः। एवं वेदनादयाऽपि प्रत्येकं सपरिवारा गृह्यमाणाः पञ्चभिः स्कन्धैः संगृहीता भवन्ति। तथा धातव आयतनानि च सपरिवाराणि प्रत्येकं सर्वर्धातुभिरायतनेश्च संगृहीतानि वेदितव्यानि। एकदेशसंग्रहेण शीलस्कन्धो रूपस्कन्धैकदेशेन संगृहीतः। समाधिप्रज्ञास्कन्धौ संस्कारस्कन्धैकदेशेन। कामव्यापादहिंसाधातवो धर्मधात्वेकदेशेन संगृहीताः। आकाशानन्त्यायतनादीनि मनोधर्मायतनैकदेशेन संगृहीतानि। एवं कृत्वा यावन्तो धर्माः स्कन्धधात्वायतनैः संगृहीताः सूत्रान्तरेषु तेषामन्यतमसंग्रह एकदेशसंग्रहो वेदितव्यः। सकलसंग्रहेण दुःखस्कन्धः पञ्चभिरुपादानस्कन्धैः संगृहीतः, कामधातुरष्टादशभिर्धातुभिः, असंज्ञि सत्त्वायतनं दशभिरायतनंगन्धरसायतनवर्जैः संगृहीतम्। एवं कृत्वा यावन्तो धर्माः स्कन्ध धात्वायतनंः संगृहीताः सूत्रान्तरेषु तेषामशेषतः संग्रहः सकलसंग्रहो वेदितव्यः। इतरेतरसंग्रहेण स्कन्धाः प्रत्येकं धातुभिरायतनैश्च संगृहीताः, यथायोगमेवं धातवः स्कन्धायतनरायतनानि स्कन्धधातुभिः संगृहीतानि [इति] विस्तरेणावगन्तव्यम्॥



संग्रहलक्षणं पुनर्लोकप्रसिद्धसंग्रहानुसारेण षडिद्वधं द्रष्टव्यम्। तत्पुनः कतमत्। पदस्थानसंग्रहो यथा जम्बूद्वीपसंगृहीता मनुष्याः, अरण्यसंगृहीता मृगा इति लोके उच्यते तथेहापि चक्षुरादिभिः चक्षुर्विज्ञानादीनां संग्रहो वेदितव्यः। निबन्धसंग्रहो यथा रज्ज्वादिना काष्ठभारादिकस्य तथा कायेन चक्षुरादोनामिन्द्रियाणाम्। तुल्यार्थसंग्रहो यथा समानसर्वप्रयोजनानां विस्त्रम्भिणां मनुष्याणां परस्परं तर्थकालंवनप्रवृत्तानां संप्रयुक्तानामान्योन्यम्। उपादानसंग्रहो यथा स्वामिना आत्मीयतः परिग्रहीतादीना दासादीनां तथालयविज्ञानेनात्मभावस्य। अविसारसंग्रहो यथा घटेनोदकस्य तथा समाधिना तदन्येषां चित्तचैतसिकानाम्। अभिसंक्षेप[सं]ग्रहो यथा समुद्रेण नदीनां तथा रूपस्कन्धेन चक्षुरादोनामिति। तदत्राभिसक्षपसंग्रहमधिकृत्यकादशविधः संग्रहो वेदितव्यः॥



परमाणुदेशे सर्वेषां देशिनामित्येकपरमाणुपर्यापन्नानां रूपादीनामविनिर्भागः समानदेशत्वेन वेदितव्यः। परमाणोरूर्ध्व सर्वेषां देशिनां मिश्रीभावः तद्यथा कलुषे पानीये अप्पृथिवीपरमाणूनां परम्परम्। देशिनामेव समुदायिनामन्योन्यं समवधानं तद्यथा भित्तौ मृत्पिण्डेन मृत्पिण्डान्तरस्य। सहभाव सं [प्र]योग एकात्मभावे क्षणिकानां स्कन्धादीनाम्। कृत्यानुष्ठानसंप्रयोग एकस्मिन् प्रयोजने प्रयुक्तानामन्योन्यम्। संप्रतिपत्तिसंप्रयोगः परभावेन न स्वभावेन तद्यथा चित्तं चित्तान्तरेण न संप्रयुज्यते, वेदना वेदनान्तरेणेत्यवमादि। न विरुद्धयोस्तद्यथा रागद्वेषयोः कुशलाकुशलयोर्वेत्येवमादि। न विसदृशकालयोस्तद्यथा वर्तमानानागतयोरतीतवर्तमानयोर्वा। न विसभागधातुभूमिकयोस्तद्यथा कामावचररूपावचरयोः प्रथमद्वितीयध्यानभूमिक योर्वेत्येवमादि। सर्वत्रगः संप्रतिपत्तिसंप्रयोग वेदनादीनां षण्णां सर्वास्ववस्थास्वेषां विनान्योन्य मभावात्। उचितस्तदेकत्यानां च शैक्षाशैक्षाणामित्येकान्तलौकिकानां कुशलानामकुशलाव्याकृतानां च यथासंभवम्। आद्यतदुत्तराणामित्यपूर्वजातीयत्वेन प्रथमक्षणोत्पन्नानां द्वितीयादिक्षणोत्पन्नानां च लोकोत्तराणामनुचितत्वज्ञापनार्थम्॥



समन्वागमो लक्षणतः पूर्ववत्तद्यथा कुशलादीनां धर्माणामाचयापचये प्राप्तिः प्रतिलम्भः समन्वागम इति प्रज्ञप्तिः। बीजसमन्वागम इति कामधातौ जातौ भूतस्त्रैधातुकैः क्लेशोपक्लेशैः समन्वागत इत्यवीतरागं पृथग्जनमधिकृत्यैतद्वैदितव्यम्। वीतरागस्तु तत्रोर्ध्व वा जातो यतो भूमेर्वीतरागस्तद्भूमिकैरसमन्वागतः समन्वागतश्च, प्रतिपक्षेणोपहतत्वादसमुद्धातितत्वाच्चानुशयतो यथाक्रमम्। उपपत्तिप्रा तिलम्भिकंश्च कुशलरिति यत्र जातस्तद्भूमिकैरेव। त्रैधातुकप्रतिपक्षलाभीति लोकोत्तरमार्गलाभी। यस्य यस्य प्रकारस्य प्रतिपक्ष उत्पन्न इति भाव नाप्रहातव्यस्याधिमात्रादेः क्लेशस्य। तस्य तस्य बीजसमन्वागमेनासमन्वागतोऽनुशयतः समुद्धातितत्वात्। वशितासमन्वागमः प्रायोगिकानां कुशलानामिति श्रुतमयादीनां सत्यपि बीजे तदभ्यासकृतां तज्जन्मिकीं बीजपुष्टिमन्तरेण संमुखीकर्तुमशक्यत्वात्। तदेकत्यानां चाव्याकृतानां शंल्पस्थानिकनैर्माणिकचित्तप्रभृतीनाम्॥



मोक्षहेतुवैकल्यादात्यन्तिक एषां हेत्वसमन्वागम इति। मोक्षप्राप्तिहेत्वसमन्वागम इत्यर्थः। कः पुनर्मोक्षप्राप्तिहेतुः। यस्यैवं तथतायां क्लेशदौष्ठुल्यं संनिविष्टं भवति तत्सति प्रतिपक्षानुकूलप्रत्ययलाभे शक्यते समुद्धातयितुम्, स भव्यता र्थेन हेतुरित्युच्यते। विपर्ययाद्धेतुवैकल्यं वेदितव्यम्॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project