Digital Sanskrit Buddhist Canon

अष्टमोऽध्यायः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Aṣṭamo'dhyāyaḥ

अष्टमोऽध्यायः।

प्रथमः पादः।

व्याख्याता हि विस्तरशो विदर्शना। शमथ इदानीं वक्तव्यः। स खल्वेष शमथश्चतुर्थध्या[ना]रूप्यसंगृहीतः। तत्र तु

[534] साङ्गा चित्तस्थितिर्ध्यानं तच्चतुर्धाऽङ्गभेदतः।

शमथः खलु साङ्गा कुशला चित्तैकाग्रता ध्यानमित्युच्यते। यस्य खलु धर्मस्याङ्गपरिगृहीततो(स्यो ?) द्रेका[त्] चित्तचैत्तान्यालम्बनान्तरं न प्रतिपद्यन्ते स धर्मश्‍चैतसिकः समाधिरित्याख्यायते। तदङ्गभेदेन चतुर्विधमिति वक्ष्यामः। तस्यां पुनश्चित्तस्थितौ

ध्यानोक्तिराञ्जसी तत्र भाक्ती तत्सहभूष्वपि॥

समाधिस्वभावं खलु परमार्थेण(न) ध्यानम्। सपरिवारं तु गृह्यमानं(णं) पञ्चस्कन्धस्बभावम्। भक्तिकल्पनया [तत्सहभूष्वपि] धर्मेषु ताच्छब्द्यम्॥

[535] संक्षेपादियमाख्याता ध्यानजातिश्चतुर्विधा।

प्रथमं ध्यानं द्वितीयं तृतीयं चतुर्थमिति।

द्रव्यभेदानहं तस्याः प्रवक्ष्यामि यथागमम्॥

द्रव्यभेदस्तु ध्यानजातेश्चतुर्विधायाः समापत्तिजातेश्च तावत्या एव समासेन वक्ष्यामि॥

तत्र तावत्।

[536] सहारूप्यचतुष्ट्‍वेन समापत्तिर्मताष्टधा।
[चतुः पञ्चेषु स्कन्धेषु] [त] दुक्तेर्वर्गवृत्तितः॥

पञ्चस्कन्धेषु वर्गीभूतेषु ध्यानसमापत्तिः प्रज्ञाप्यते। चतु[:]पञ्चेष्वारूप्यसमापत्तिरिति॥

[537] भेदेन तु समापत्तिद्रव्यानि(णि) दश सप्त च।
सामन्तकैः सहाष्टाभिर्ध्यानान्तरिकयाऽपि च॥

अष्टाणां(नां) खलु समापत्तिभूमीनामष्टाणा(ना)मेव सामन्तकद्रव्याणां तत्प्रवेशोपायभूतानि ध्यानान्तरिका च प्रथमध्यानसंगृहीता। एतानि खलु सप्तदश यथास्थौल्यं भिद्यमानानि सप्तदश भवन्तीत्यत आह-

[538] तद्भेदाः खल्विमेऽन्येपि वक्ष्यन्ते शास्त्रचोदिताः।

अन्येऽपि खलु समापत्तिभेदास्तदन्तर्गता एव सूत्राभिधर्मोदिता वक्ष्यन्ते।

बुद्धबुद्धेस्तु ते सर्वे तत्त्वेनायान्ति गोचरम्॥

भगवानेब हि सर्वप्रथमध्यानसमापत्त्यादिभेदेषु, अनन्तस्वभावप्रभावक्रियाफलेष्वपरोक्षबुद्धिवृद्धि(त्ति)रिति॥

त एते ध्यानारूप्यास्त्रिप्रकाराः कथम् ? तदारभ्यते-

[539] त्रिधा ध्यानानि मौलानि सास्वादादिप्रभेदतः।
तथैव त्रय आरूप्या भवाग्रं तु द्विधा मतम्॥

तत्र मौलानि तावद् ध्यानानि त्रैविध्यान्यास्वादनासंप्रयुक्तशुद्धकानास्रवभेदात्। एवं त्रयो मौला आरूप्याः। भवाग्रं तु नास्त्यनास्रवम्। कामधातोर्भवाग्रस्य च भवमूलत्वात्॥

[540] सामन्तानि द्विधा सप्त प्रथमं तु त्रिधा मतम्।
ध्यानान्तरं त्रिधा तद्वदक्लिष्टं त्वधराश्रयम्॥

प्रथमध्यानसामन्तं हित्वाऽन्यानि सप्त सामन्तानि द्विप्रकारान्य(ण्य)न्यत्रानास्रवात्। प्रथमध्यानसामन्तकं तु त्रिप्रकारम्। केचित्तु आस्वादनासंप्रयुक्तं नेच्छन्ति। तद्वद् ध्यानान्तरिका त्रिधेति वर्तते। यत्तत्राक्लिष्टं तदधराश्रयं द्रव्यमिति॥

किं पुनरेषामास्वादनादिसंप्रयुक्तानां त्रयाणां लक्षणम् ? उच्यते-

[541] आस्वादवत्सतृष्णं यच्छद्धकं लौकिकं मतम्।
अदो(धो?)ध्वस्तं तदास्वाद्यमतिलोकमनास्रवम्॥

यत्खलु सतृष्णं तदास्वादनासंप्रयुक्तमित्युच्यते। तृष्णाया आ[स्वादप]र्यायत्वात्। यत्तु न संप्रयुक्तं तदपि तृष्णासहगतत्वादास्वादवदित्युच्यते तृष्णयैकफलत्वात्। यत्तु सास्रवं कुशलं समापत्तिद्रव्यं तच्छुद्धकमाख्यायते। क्लेशमलासंपर्कादलोभादिशुक्लधर्मयोगाच्च।

तदेतच्छुद्धकं तस्यास्वादनासंप्रयुक्तस्यास्वाद्यम्। तेन हि तत्समनन्तरातीतमास्वाद्यते। येनास्वादयति तमापन्नो यदास्वादयति तस्माद्‍व्युत्थितः। अन्योन्यसंसर्गादि(द्धि) तृष्णासमाध्योर्न्नामनिर्वृति(तिः)। तृष्णावशात्समाधेरास्वाद नाम, समाधिवशात्तृष्णायाः ध्याना(न) नाम, [अ]न्यथा विप्रतिषिद्धं स्यात्। न हि कश्‍चित्तृष्णां समापद्यते, न च समाधिनाऽऽस्वादयतोति। लोकोत्तरं तु समापत्तिद्रव्यमनास्रवमित्युच्यते॥

आसां पुनः समापत्तीनां ध्यानान्येवाङ्गवर्ति नारूप्याः। कति पुनः कस्य ध्यानस्याङ्गानि ? तदिदं प्रस्तूयते-

[542] अङ्गान्याद्ये शुभे पञ्च वितर्कश्‍चित्तसूक्ष्मता।
प्रीतिः सुखं समाधानं क्लिष्टं सुखविवर्जितम्॥

प्रथमे तावच्छुभे ध्याने पञ्चाङ्गानि वितर्कविचारप्रीतिसौख्यसमाधयः। क्लिष्टे चत्वारि सुखं हित्वा॥

[543] साध्यात्मसप्रसादास्तु सुखप्रीतिसमाधयः।
द्वितीयेऽङ्गानि चत्वारि क्लिष्टे श्रद्धा सुखादृते॥

द्वितीये कुशले ध्याने चत्वार्यङ्गानि। आध्यात्मसंप्रसादः प्रीतिः सुखं चित्तैकाग्रता च क्लिष्टे द्वे श्रद्धा सुखं हित्वा॥

[544] तृतीये पञ्चमे प्रज्ञा स्मृत्युपेक्षा सुखं स्थितिः।
क्लिष्टे त्वङ्गद्वयं ज्ञेयं समाधिर्वेदनासुखम्॥

तृतीये शुभे ध्याने उपेक्षा स्मृतिः संप्रज्ञानं सुखं समाधिश्‍च। क्लिष्टे तु द्वे ‘समाधिर्वेदनासुखम्’॥

[545] अन्ये(न्त्ये) चत्वार्युपेक्षे द्वे समाधिः स्मृतिरेव च।
क्लिष्टे ध्याने चतुर्थे तु द्वे अङ्गे वेदना स्थितिः॥

चतुर्थे खलु ध्याने शुभे चत्वार्यङ्गानि। अदुःखासुखावेदना उपेक्षा च स्मृतिपरिशुद्धिः समाधिश्‍च। क्लिष्टे तु द्वे वेदना स्थितिश्‍च॥

कति पुनरेषां द्रव्यतो भवन्ति कति नामतः ?

[546] द्रव्यात्मना दशैकं च नाम्ना त्वष्टौ दशैव च।
अङ्गान्येतानि कथ्यन्ते चतुष्कोटिरतः स्मृतः॥

द्रव्यतः खल्वेकादश भवन्ति। प्रथमे ध्यानाङ्गानि पञ्च। द्वितीयेऽध्यात्मसंप्रसादो वर्धते। तृतीये समाधिवर्ज्यानि वर्धन्ते। चतुर्थे त्वदुःखासुखावेदनेति।

ननु च यत् तृतीये ध्याने सुखमुक्तं [तथा] प्रथमद्वितीययोः..........

[अभिधर्मदीपे विभाषाप्रभायां वृत्तौ अष्टमस्याध्यायस्य प्रथमः पादः समाप्तः॥]

अष्टमाध्याये

द्वितीयपादः।

[547] शमथस्य च।
ध्यानसामन्तकारूप्येष्वङ्गानामव्यवस्थितिः॥

ध्यानसामन्तकेषु खलु विदर्श[नोदृक्ता] शमथो न्यूनः। आरूप्येषु सर्वत्र शमथोऽधिकवृत्तिर्विपश्यना न्यूनतरा। विपश्य पश्यतो संज्ञायामिति वचनादङ्गिन्यपि पश्चादुद्देशो भवति। ततः सिद्धं विपश्यनाः॥

यदा खलु चत्वार्यपि ध्यानानि विपाकं प्रति नेञ्जन्ते कस्माच्चतुर्थमेवानेज्यमुच्यते ? तत्रापदिश्यते-

[548] वितर्कचारविध्वंसात्प्रश्वासाश्‍वाससंक्षयात्।
[उपे]क्षावेदिताभावादन्त्यमानेज्यमुच्यते॥

त्रीणि खल्वपि ध्यानानि सेञ्जितान्युक्तानि भगवता वितर्काद्यपक्षालयोगात्। वितर्कविचाराश्वासप्रश्वासौ सुखदुःखसौमनस्यदौर्मण(न)स्यानीत्यष्टापक्षालाः। तैश्चतुर्थं ध्यानमकम्प्यमित्युक्तमभिधर्मे। वितर्कविचारप्रीतिसुखैरकम्पनीयत्वादानेज्यं चतुर्थमुक्तं सूत्रे। आभिप्रायिकः सूत्रनिर्देशो लाक्षणिकस्त्वभिधर्मे। तथाहि “सुखदुःखयोः प्रहाणात्सौमनस्यदौर्मण(न)स्ययोश्चास्तङ्गमाच्चतुर्थं ध्यानमुपसम्पद्य विहरति” इत्युक्तम्। अभिधर्मे वितर्कविचारप्रीतिसुखान्येवेञ्जितम्॥

इदमिदानीं वक्तव्यम्। इह ध्यानसमापत्तिषु प्रथमद्वितीययोर्ध्यानयोः सौमनस्यमुक्तं प्रीतिवचनात्। प्रीतिर्हि सौमनस्यम्। तृतीये सुखं चतुर्थे उपेक्षा। तत्किंमुपपत्तिध्यानेष्वप्येष एव वेदनानियमः ? नेत्युच्यते। किं तर्हि ?

[549] आद्ये प्रीतिसुखोपेक्षा द्वितीये तु सुखादृते।
सुखोपेक्षे तृतीयेऽन्त्ये उपेक्षैव विदिष्यते॥

प्रथमध्यानोपपत्तौ खलु तिस्रो वेदनाः। सुखं त्रिविज्ञानकायिकं, सौमनस्यं मनोभौममुपेक्षा चतुर्विज्ञानकायिकी। द्विंतीयघ्यानोपपत्तौ द्वे वेदने सौमनस्योपेक्षे मनोभूमिके। नात्र सुखमस्ति पञ्चविज्ञानकायाभावात्। तृतीयध्यानोपपत्तौ द्वे वेदने मनोभूमिके। चतुर्थध्यानोपपत्तावुपेक्षैव वेदना विद्यत इति॥

ननु च द्वितीयादिषु ध्यानेषु रूपशब्दस्प्रष्टव्यानामुपलब्धयः सन्ति विज्ञप्तिसमुत्थापकं च चित्तम्। तत्कथं तत्र त्रिविज्ञानकायिका वेदना नास्तीत्युच्यते, वितर्कविचारौ चेति ? नैष दोषः। स्वभूमिकप्रतिषेधात्। कुतस्तेन तर्हि रूपादयो विज्ञायन्ते क यविज्ञप्तिश्चोत्थाप्यते ? तदपदिश्यते-

[550] दृक्छ्रोत्रकायविज्ञानं विज्ञप्तिजनकं तथा।
यद्‍भूमावविचारायामाद्यादव्याकृतं तु तत्॥

द्वितीयध्यानोपपन्नाः खलु रूपशब्दस्प्रष्टव्यान्युपलिप्सवो जिगमिषवो प्रथमध्यानभूमिकानि चक्षुविज्ञानादीनि त्रीणि विज्ञानानि विज्ञप्तिसमुत्थापकं च संमुखीकृत्य निर्माणचित्तवदुपलभन्ते स्पन्दन्ते चेति। तत्पुनः प्रथमध्यानभूमिकं चित्तमव्याकृतमेव संमुखीकुर्वन्ति न कुशलं न्यूनेनाबहुमानत्वान्न क्लिष्टं वीतरागत्वात्। तद्यथा कश्चिदीश्वरो दरिद्रमित्रगृहं गतः। तेनासौ सुहृदा सर्वस्वप्रदानेनोपनिमन्त्रितो मित्रचित्तानुवर्तनया हीनोत्कृष्टं वस्तु हित्वा यत्किञ्चिद् गृह्णीते तद्वदिति। व्याख्यातस्वरूपाणि ध्यानानि॥

आरूप्याः वक्तव्याः। तदारभ्यते-

[551] खनिमित्तोद्‍ग्रहाकृष्टः प्रोक्तानन्तमनस्कृतिः।
विसर्वरूप आरूप्य आकाशानन्त्यसंज्ञकः॥

अनन्ताकाशनिमित्तोद्‍ग्रहः तत्संज्ञाप्रवृत्तिनिमित्तं पश्चात्तु चतुःस्कन्धालम्बनास्तदन्यतमालम्बना अन्यधर्मालम्बना वा मनस्काराः संमुखीभावं गच्छन्ति। उक्तं हि भगवता-“सर्व्वशो रुपसंज्ञानां समतिक्रमात्प्रतिधसंज्ञानामस्तगमान्नानात्वसंज्ञानाममनसिकारादनन्तमाकाशमानन्त्ययायतनमुपसम्पद्य विहरति” इति।

कः पुनरासां तिसृणां रूपादिसंज्ञानां विशेषः ? [प्रपञ्च]रूपसंज्ञाभिरत्र विशेषो बोद्धव्यः। तदस्मादागमाद्विविधाद्या रूप्या(पा)रूप(प्य)स्कन्धाः संगृहीताः। तत्र समापत्तिलक्षणा चित्तानुपरिवर्तिणा(ना) शीलेन वियुता शेषेनोपपत्ति लक्षणात्। त एत आरूप्याः प्रथमारूप्यसामन्तकं हित्वा विभूतरूपसंज्ञा भवन्ति। प्रथमसामन्तकं तु चतुर्थघ्यानाविदू[षितवृत्तित्वाद्‍गाढ]बन्ध मिति। अतस्तदेकं न विभूतरूपसंज्ञाख्यं लभते।

कथं पुनर्निर्धार्यते नारूप्येषु रूपमस्तीति ? आगमाद्युक्तितश्च। आगमस्तावत्-“सर्वशो रूपसंज्ञानां समतिक्रमात्” इत्याविष्कृतमिदम्। अन्यदाप्तवचनम्-“अरूपिणः सन्ति सत्त्वाः" इति। ईषद्रूपत्वादरूपिणोनुदरा कन्यावदिति चेत्। न। सर्वश इत्यपदेशात्, निःसरणोक्तेश्च। उक्तं हि “रूपाणां निःसरणमारूप्याः” इति। यथा हि “यत् किञ्चिदभिसंस्कृतमभिसंविदितं निरोधस्तस्य निःसरणम्।” निरोधे खलु सर्वसंस्कृतवियोगोऽम्युपगम्यते। न हि मूर्तिविग्रहलक्षणो मोक्षः तत्प्रवृत्तिनिरोधित्वात्।

युक्तिरपि। रूपाश्रयादीन्यवधूय स्वोद्वेगमुखेन तदाश्रयाद्दस्यूपद्रुततद्वियुक्तदेशाश्रयवत्। उक्तस्तर्ह्यारूप्येभ्यो रूपिरू(षू)पपद्यमानानां रूपमुत्पद्यते हेतुप्रत्ययाधिपतिप्रत्ययबलात्, नामरूपस्यान्योन्यहेतुत्वाच्च। तत्र सभागविपाकहेत्वोरेव तयोरप्यस्तित्वात् कारणत्वं रूपप्रत्ययेण(न) च विज्ञानोत्पत्तिदर्शनात्, चित्तविशेषोत्पादात् महाभूतेन्द्रियप्रसादादिरूपोत्पत्तिदर्शणा(ना)च्चान्योन्यहेतुत्वसिद्धिः॥

उक्तः प्रयोगप्रथमारुप्यः। द्वितीयोऽप्युच्यते-

[552] तद्वच्चित्तविभुत्वेक्षी विज्ञानानन्त्यलक्षणः।

आकाषा(शा)नन्त्यसंज्ञाद्वेषी तदालम्बनानन्त्यविज्ञानाघिमोक्षाभिमुखबुद्धिरनन्तं विज्ञानानन्त्यायतनमुपसम्पद्य विहरति। अत्रापि पश्चाच्चतु[:]स्कन्धालम्बनास्तदन्यतस्कन्धालम्बना शाश्वतधर्मालम्बनाश्च मनस्काराः संमुखीभवन्ति। तद्विक्षिप्तसंज्ञकः

[विज्ञानानन्त्यद्वेषी च] अकिञ्चन्याह्वयः पुनः॥

स खलु योगी विज्ञानानन्त्यसंज्ञाद्वेषी तत्राकिञ्चनसंज्ञित्वादाकिञ्चन्यायतनमुपसम्पद्य विहरति। अथवा नास्ति किञ्चिंदुपेक्षाप्रयोगनिष्पत्तिराकिञ्चन्यायतनमित्युच्यते। अनन्ताकारौदारिकदर्शनो हि तद्विवेके संज्ञाविमोक्षः प्रवर्तते। अत एवाकिञ्चन्यायतन(नं) परमोपेक्षेत्युच्यते। यस्मात्तत्रानन्ताकारानभिसंचेतना चेतसोऽनाभोगता संतिष्ठते॥

[553] तद्वित्तूच्छेदशङ्की च न संज्ञासंज्ञसंज्ञकः।

स खलु संक्षिप्तामपि विभुत्वसंज्ञां संज्ञाशल्य इति कृत्वा तामल्पामपि विस्पष्टपरिच्छिन्नरूपां संज्ञामुत्सृज्योच्छेदशङ्की च विस्पष्टरूपां सतीं नैवसंज्ञं नासंज्ञमुपसम्पद्यते। अतो नैवसंज्ञानासंज्ञायतनं समापद्यते। न संज्ञावेदितनिरोधं नापि विस्पष्टां पूर्वसमापत्तिसंज्ञाम्। सर्वैषु चारूप्येषु

आदौ तथा प्रयुक्तत्वा[त्] तत्संज्ञा व्यव(प)दिश्यते॥

न तु तन्मात्रसंज्ञा एवारूप्या इत्याविष्कृतमेतत्पूर्वमेवेति। व्याख्यातानि मौलान्यष्टौ समापत्तिद्रव्याणि॥

सामन्तकानां पुनरादिध्यानसामन्तकस्यानागम्याख्यस्य किं रूपम् ? तदपदिश्यते-

[554] सवितर्कविचारं यत्सापेक्षं सानुवर्तकम्।
चित्तमार्येतराकारं तदानागम्यमुच्यते॥

यत्खलु प्रथममौलध्यानप्रवेशोपायचित्तं सवितर्कं सविचारमुपेक्षावेदनासंप्रयुक्तं सानुपरिव[र्तकं]...............

......[अभिधर्मदीपे विभाषाप्रभायां वृत्तौ अष्टमस्याध्यायस्य द्वितीयपादः॥].......

अष्टमाध्याये

तृतीयपादः। ......

..........[व्यु]त्क्रान्तकसमापत्तिं, समापद्यन्ते तदपदिश्यते-

[555] चत्वारो ध्यायिनः प्रोक्ताश्चतुर्ध्यान[वि]दर्शणा(ना)त्।
सम्पद्विपत्तिसंज्ञाया हानपक्ष्यादिवेदिनः॥

चत्वारो हि ध्यायिनो भगवतोक्ताः। “तेषामेकः समापत्तौ विपत्तिसंज्ञी, द्वितीयो विपत्तौ सम्पत्तिसंज्ञी, तृतीयः सम्पत्तौ सम्पत्तिसंज्ञी, चतुर्थो विपत्तौ विपत्तिसंज्ञी” इति। एते हानस्थितिविशेषोत्कर्षध्यानभेददर्शण(न)योगाः(त्) चत्वारो भवन्ति॥

कः पुनरयं ध्याता कानि वा ध्यानध्येयध्यानफलानि ? तदाविष्क्रियते-

[556] ध्याता प्रोक्तस्तथा ध्येयं ध्यानं ध्यानफलं तथा।

सर्वमेतच्चतुष्टयं पूर्वमेव विस्तरेणाभिहितम्। भवतस्तु

असिद्धेरुक्तदोषत्वान्नास्त्यात्मादिचतुष्टयम्॥

न हि तवैतच्चतुष्टयं सिद्धम् औपनिषदसांख्यवैशेषिकादिपरिकल्पितप्रमातृप्रमाणप्रमेयप्रमाणफलानि पूर्वमेवोक्तदोषाणि॥

किं पुनः कर्मानुष्ठानान्मोक्षो भवति, आहोस्विज्ज्ञानानुष्ठानादिति ? तत्र ब्रूमः-

[557] कर्मानुष्ठानतो मोक्षो ज्ञानानुष्ठानतस्तथा।
व्यापारे सति सद्भावाद्याथात्म्यावगमेपि च॥

त्रीणि खलु कर्माणि। दानशीलभावनाख्यान्यनुष्ठाय दश च ज्ञानानि धर्मस्वसामान्यलक्षणसंमोहप्रतिपक्षभूतान्यनुष्ठाय परं ब्रह्म प्राप्नोति नान्यथेति। तदेतदाविष्क्रियते-

[558] कर्म त्वत्र द्विधा ज्ञेयं पुण्यापुण्यक्रियाक्रिये।

तत्र खलु

पुण्यक्रिया त्रिधा प्रोक्ता विरतिस्तद्विधोदिता॥

कर्मादिचिन्तायाम्॥

[559] ज्ञानं तु नैष्ठिकं ज्ञेयं यथापूवंमुदाहृतम्।
अतोऽन्यद्भजते यस्तु खलीनं चर्वयत्यसौ॥

यस्तु मन्यते पश्वाद्यालंब(भ)नादिभिः कर्मभिः भोक्तृभोग्यान्तरपरिज्ञानादिभिश्च मोक्षो भवति स वक्तव्यः ‘खलीनं चर्वयते(ति)।’ यस्मात्

[560] परपीडाप्रवृत्तत्वाद्वधलोभानृतादयः।
अपायहेतवो ज्ञेयाः श्रेयोद्वारविबन्धिनः॥

हिंसानृतलोभादयो हि दोषाः कुगतिगमनहेतवो न स्वर्गापवर्गगमनोपायाः। शास्त्रचोदिता हिंसा नाधर्म इति चेत्। न। शास्त्रलक्षनो(णा)परिज्ञानात्। कथम् ? यस्मात्

[561] युक्तार्थचोदनाद् दुःखत्राणाद्दोषानुशासनात्।
शास्त्रमित्युच्यतेऽतोऽन्यज्ज्ञेयं वातिकभाषितम्॥

यत्खलु प्रमाणत्रयविरुद्धार्थं वाक्यम्, यच्च पापकेभ्यः कर्मेभ्यः कुगतिगमनहेतुभ्यो निवारणेन त्रायते, यच्च रागद्वेषमोहाननुशास्ति तद्वाक्यं शास्त्रमित्युच्यते। नान्यदिति। तस्मादन्यदनाप्तवचनम्। न। वेदमन्त्राणां विषोपशमनसामर्थ्यदर्शणा(ना)त्। प्रत्यक्षं हि प्रमाणं बलीयस्तत्पूर्वके च द्वे प्रमाणे त्रयीधर्माभिहिते प्रमाणमिति। तत्रेदं प्रत्युच्यते-

[562] पारसीकादिमन्त्राणां विषोत्सदबलं क्वचित्।
दृश्यते न तु सर्वस्मिन्नरिष्टाद्यनिवर्तणा(ना)त्॥

दृष्टं हि सामर्थ्यं पारस्वी(सी)कशबरकापालिकादिमन्त्राणामपि न तु तैर्मन्त्रैः पापनाशोऽभ्युपगभ्यते भवद्भिः, न च सर्वस्य विषयं(मं) प्रशमयन्ति; तद्‍गतारिष्टादीनां(दिना) मरणदर्शणा(ना)त्। यदि च शास्त्रचोदिता हिंसा मन्त्रसामर्थ्याद्धर्माङ्गं सम्पद्यते कस्मान्न मन्त्रसामर्थ्यादेव पशुं घातयति ? किं शस्त्रपातनगलाम्रेडकाद्युपक्रमानुष्ठानेन ? मन्त्रसामर्थ्यादेव च पिष्टकृतपुरोडाशानां स्वर्गगमनहेतोरपूर्वस्याभिव्यक्तिर्भवत्वलं पश्वादिवधेनेति। दृष्टं च मन्त्राणां विषोपशमने सामर्थ्यं न तु विनाहारपानादिभिः क्षुत्तृष्णप्रशमनादिषु। एवं मन्त्राणां विषोपशमने सामर्थ्यं भवतु। मा भूत्पापविनाशन इति।

यदप्युच्यते भवद्भिः। वैतानकर्मानुष्ठातारो ब्राह्मणा एव मोक्षवर्त्मन्यधिक्रियन्ते नेतरे वर्णा इति तदपि डिम्भाभिहितमेव सतां प्रतिभाति। यस्मात्।

[563] रागाद्यैर्दूष्यते चित्तं श्रद्धाद्यैश्‍च विशुध्यते।
विप्रस्यापि यतस्तस्माद् गुणवानेव मुच्यते॥

तद्यथौषधं विशुद्धकोष्ठस्यैवारोग्यं जनयति नोल्बनवातादिदोषस्य। तस्माद्भव्यजातीयः श्रद्धादिगुणपरिभावितात्मा कुम्भकारोऽपि मोक्षवर्त्मन्यधिक्रियते। न चतुर्वेदो रागद्वेषमोहादिदोषोश(र)रीकृतचित्तभूमिरिति। अलमतिप्रसङ्गेन प्रकृतमेव प्रस्तूयताम्। तदिदमारभ्यते-

[564] शुद्धं चतुर्विधं हाण(न)भागीयादि यथाक्रमम्।
न्यूनतुल्यबलोत्कृष्टनिर्मलानुगुणं हि तत्॥

चतुर्विधं खलु शुद्धकं हानभागीयं स्थितिभागीयं विशेषभागीयं निर्वेधभागीयम् एवमारुप्यमन्यत्र भवाग्रात्। तद्धि त्रिविधं विशेषभागीयं हित्वा॥

किं पुण(न)रेषां लक्षणम् ?

[565] क्लेशस्वोपरिमस्थाननीरजस्कानुवर्ति वा।

यथाक्रमं खलु क्लेशोत्पत्त्यनुगुणं हानभागीयं, स्वभूम्यनुगुणं स्थितिभागीयमूर्ध्वभूम्यनुगुणं विशेषभागीयमनास्रवानुगुणं निर्वेधभागीयम्। तस्मादनास्रवमुत्पद्यते।

अथैषां चतुर्णां कति कस्मादनन्तरमुत्पद्यन्ते ?

द्वे त्रीणि त्रीणि च द्वे वा हाणि(न)पक्ष्याद्यनन्तरम्॥

हानभागीयस्य खल्वनन्तरं द्वे उत्पद्येते हाण(न)स्थितिभागीये। स्थितिभागीयस्य त्रीण्यन्यत्र निर्वेधभागीयात्। विशेषभागीयस्यापि त्रीण्य[न्य]त्र हाण(न)भागीयात्। निर्वेधभागीयानन्तरं तदेवैकमिति॥

[566] व्युत्क्रान्तकसमापत्तिरर्हतोऽकोप्यधर्मणः।

स खल्वेषार्हतोऽकोप्यधर्मण एव निष्क्लेशत्वात्समाधिवशित्वाच्च। दृष्टिप्राप्तस्य यद्यपि तीक्ष्णेन्द्रियत्वात्समाधौ वशित्वं न तु निष्क्लेशा सन्ततिः। समयविमुक्तो यद्यपि निष्क्लेशो न त्वस्य समाधौ वशित्वमिति।

कथं पुनरियमुत्पाद्यते ?

तत्प्रयोगो द्विधा भूमिर्गत्वागत्य(म्य)जिगीषया॥

[567] धर्मभूम्युत्क्रमेणाष्टौ शुद्धकाख्यादनास्रवम्।
शुद्धकाच्च तृतीयं स्वं निष्ठा शुद्धाच्च निर्मलम्॥

‘गत्वे’त्यनुलोममष्टौ भूमीः समापद्य। ‘आगम्ये’ति प्रतिलोमे समापद्य। ‘द्विधे’ति सास्रवानास्रवा। ‘जिगीषये’ति जयं चिकीर्षन्धर्मभूम्युत्क्रमेण जेतुकामः। शुद्धकादनास्रवं ‘शुद्धकाच्च तृतीयं स्वं।’ ‘निष्ठा’ तु शुद्धादनास्रवम्। स खल्वेवं विजित्यानास्रवाश्च सप्त पश्चात्सास्रवा प्रथमाद्ध्यानात्सास्रवं तृतीयं समापद्यते। तस्मादाकाशानन्त्यायतनं तस्मादाकिञ्चन्यायतनमेवं पुनः प्रतिलोमं निर्जित्यानास्रवा अप्येकविलङ्घिता अनुलोमं प्रतिलोमं च समापद्यते। एष प्रयोगो व्युत्क्रान्तसमापत्तेः।

यदा तु प्रथमाः सास्रवाः तृतीयमनास्रवं ध्यानं समापद्यते तस्मात्सास्रवमाकाशानन्त्यायतनं तस्मादनास्रवाकिञ्चन्यायतनमेवं पुनः प्रतिलोमम्। तदा विसभागतृतीयद्रव्यगमनादभिनिष्पन्ना भवति। अतिविप्रकृष्टत्वान्न चतुर्थं समापद्यते। तां च त्रिषु द्वीपेषु समापद्यते॥

[568] स्वोर्ध्वा एवोपजन्यन्ते ध्यानारूप्यभवः शुभाः।
भवाग्रस्थस्त्वगत्यादौ निर्मलामवलम्बते॥

भवाग्रं भवाग्रे च संमुखीक्रियते। अधश्च यावत्कामधातोरेवं शेषाणि स्वस्यां च भूमावधश्‍चेति। ऊर्ध्वो [पपन्नो नाधरां समापत्तिं संमु]खीकरोति वैयर्थ्यात्। न हि तत्रानास्रवो मार्गोऽस्ति संसारमूलत्वात्। न च विनाऽनास्रवेन(ण) मार्गेण तत्रत्याः क्लेशा हन्तुं शक्यन्ते। चैतन्यरूपं पुरुषमालम्ब्य तद्वैराग्यमिति चेत्। न। युष्मत्पुरुषस्य क्रियावत्त्वे सत्त्व(त्त्वा)नेकत्वैकत्वोपपत्तेः संसर्गिधर्मित्वोपपत्तेः बुद्धिवदिति विज्ञानज्ञानोपलब्धे च..............................................ति॥

कस्य पुनर्ध्यानस्य प्राप्त्या कतरद्भाव्यते ? तदनुक्रम्यते-

[569] बालाद्यध्यानसंप्राप्तौ लौकिकस्यैव भावना।

यदा खल पृथग्जनः प्रथमं ध्यानं लभते तदास्यानागतं लौकिकमेव भाव्यते।

ऊष्मादिवर्ज्ये चालब्धे ध्यानान्तरसमुद्भवे॥

चरमभविकस्योष्मादिवर्जितेऽ.....................गिकस्वा(?)नुचितम्। तत्र ध्यानान्तरे प्रथमं सास्रवमेव भाव्यते। उचिते तु वैराग्यलब्धत्वान्न भाव्यते। ऊष्मगतादिषु तु न भाव्यते। तान्येव ध्यानान्तरसंगृहीतानि भाव्यन्ते प्रथमं नानागम्यम्॥

[570] वीतरागस्य चालब्धे पूर्वसामन्तके तथा।

वीतरागस्यानागम्येऽप्यलब्धेऽनुचिते प्रथमं भाव्य[ते]......................[अ] नागम्यसंगृहीतानि भाव्यन्ते न प्रथमार्यमार्गसादृश्यात्।

विरक्तस्य तु पूर्वस्य निर्मलस्यैव भावना॥

वीतरागस्य त्वार्यस्य प्रथमस्यानास्रवस्यैव भावनान्यामे वा [ऽ]भिसमयान्तिकक्षणवर्ज्येषु अनास्रवमेव भाव्यते। शैक्षस्य च द्वाभ्यां क्षणाभ्यामक्षविवर्धने भवाग्रे च सप्तदशसु ..................। एवं नवप्रकारतया[ऽ]कोप्यप्रतिवेधे तत्पृष्ठे च यत्किञ्चिद्भावनामयं संमुखीकरोत्यलब्धं तत्रानास्रवमेव प्रथमं भाव्यते नोभयभावनोच्यते॥

[571] न्याममार्गान्वयज्ञाने शैक्षस्याक्षविवर्धने।
आनन्तर्याह्वये मार्गे दृङ्मार्गे द्वादशक्षणाः॥

[572] भवाग्रस्य च वैराग्ये क्षयज्ञानविवर्जिते।
आकोप्या ................................॥

[573] [आ]र्यस्य कामवैराग्ये चरमे मुक्तिवर्त्मनि।
ज्ञानत्रये त्व(त्र)याख्ये च न्यामे[ऽ]नागम्यवर्जिते॥

[574] शैक्षस्य रागिणः पूर्वत्रिभूमीन्द्रियवर्धने।
प्रयोगमुक्तिमार्गेषु कामाद्यध्यानजस्य च॥

[575] द्विविधार्हत्वसंप्राप्तौ मुक्तिवर्त्मनि पश्‍चिमे।
विरक्तानां च शैक्षाणामव्यग्रान्यत्रिभूजये॥

[576] भावना द्विविधस्यापि

........................सु सास्रवानास्रवस्यापि प्रथमस्य ध्यानस्य भावना भवतीति।

नोभयस्य तु भावनाम्।
अनागम्याश्रये न्याम तद्भागीयोद्भवादिषु॥

यद्यनागम्यं निःश्रितो नियाममवक्रामति, तस्यानागम्यमेव भाव्यते न तु प्रथमं ध्यानं किञ्चिदपि भाव्यते। यदा खल्वप्यनागम्यानिर्वेधभागीयान्युत्पादयति................[भाव]नया भाव्यते न तु प्रथमं ध्यानं दर्शनमार्गसादृश्यादित्याविष्कृतमेतदिति॥

[577] द्वितीयादिष्वनेनैव विधिनाभ्युह्य युक्तितः।
अभिधर्मनयज्ञाने ज्ञेयाऽनागतभावना॥

द्वितीयादिषु खल्वधिध्यानेष्वनयैव प्रथमध्यानानागताभावनानीत्या तत्र युक्तिमनुसरता यथातन्त्रम............।

ध्याणं(नं) कस्य किमालम्बनमित्यत इदमनुक्रम्यते।

[578] सास्वादः स्वभवालम्बः शुभं ध्यानं समन्तदृक्।
आरुप्याः कुशला मौला नाधोलोकावलम्बिनः॥

आस्वादनास्रंप्रयुक्तः स्वभूमिकं [भवमालम्बते] सास्रवं वस्त्वित्यर्थः। नाधरांभूमिमालम्बते वीतरागत्वान्नोत्तरां तृष्णापरिच्छिन्नत्वात्। नानास्रवं कुशलत्वप्रसङ्गात्। कुशलं तु ध्यानं शुद्धकमनास्रवं वा सर्वालम्बनं यत्किञ्चिदस्ति संस्कृतमसंस्कृतं वा। मौलानां तु कुशलारूप्याणामधोभूमिकं च सास्रवं वस्तु नालम्बनम्। स्वभूम्योर्ध्वभूम्यालम्बनत्वात्। अनास्रवं [त्वालम्बनम्। सर्वा]न्वयज्ञानपक्षो न धर्मज्ञानपक्षो नाधोभूमिनिरोधः। सामन्तकानन्तर्यमार्गाणां त्वधराभूमिरालम्बनम्॥]

[एषाञ्च पु]नस्त्रिविधानां ध्यानारूप्याणाम्

[579] ध्यानारूप्यैः प्रहीयन्ते निर्मलैर्माण(न)स(सो) मलाः।
अधोभूमेस्तु लभ्यन्ते सामन्तैरपि शुद्धकैः॥

अनास्रवेनैव(णै)व ध्यानारूप्येण क्लेशाः प्रहीयन्ते न कुशलेन। कुत एव क्लिष्टेन ? वीतरागवन्नाधः प्रहीयन्ते तस्यैव तदप्रतिपक्षत्वात्, न स्वभूमौ विशिष्टरत(तर)त्वा[न्नोर्द्‍ध्वमिति। ध्यानारूप्यसामन्तके]न शुद्धकेनापि क्लेशाः प्रहीयन्तेऽधोभूमिप्रतिपक्षत्वात्॥

पुनश्‍च। सर्वं समाधिं संकलय्य त्रयः समाधय उक्ताः सूत्रे-

[580] सवितर्कविचाराद्यास्त्रयः प्रोक्ताः समाधयः।
ध्यानान्तरे स चारोधः सद्वयोऽन्यत्र निर्द्वयः।

“सवितर्कः सविचारः समाधिः अवितर्को विचारमात्रोऽवित[र्कोऽविचारः” इति। तत्र ध्यानान्तरं तावदवित]र्को विचारमात्रः। सततोधः सवितर्कः सविचारः समाविः। परतस्त्ववितर्को[ऽ]विचारश्‍च॥

पुनः
[581] सास्रवानास्रवश्‍चान्य एकादशभुवस्त्रयः।
आर्याकारमतिद्योताः शून्यताद्यः समाधयः॥

शून्यताभिधेयः समाधिरप्रणिहित अनिमित्तश्‍च तृतीयः॥

कतमैः पुनरेत आ[र्याकाराः..........................]वत् षोडशभिराकारैरित्यतस्त्रयोऽप्यनित्यतादिषोडशाकारमतिद्योताः (?)। प्रत्येकं तु

[582] दशाप्रनि(णि)हिताकाराः शून्यताया द्वयं मतम्।
अनिमित्तोऽमृताकारैश्‍चतुर्भिः संप्रवर्तते॥

अप्र(निणि)हितः खलु समाधिरणि(नि)त्यदुःखाकाराभ्यां संप्रयुक्तश्‍चतुर्भिः समुदयाकारैश्‍चतुर्भिश्‍च मार्गा[कारैः]..............................तानात्माकाराभ्यां संप्रयुक्तः। अनिमित्तः समाधिर्निरोधाकारैश्‍चतुर्भिर्निरोधाकारादिभिः संप्रयुक्तः॥

[583] विमुक्तेर्द्विप्रकारायाः प्राप्तये निर्मलाः पुनः।
विमोक्षसु(मु ?)खशब्देन त एवाविष्कृतास्त्रयः॥

रागविरागाच्चेतोविमुक्तिरविद्याविरागा[त्] प्रज्ञाविमुक्तिः। तस्य विमुक्तिद्वयस्य.................[आ]विष्कृतानि। तत्र शून्यतायाः संप्रयुक्तः समाधिः शून्यतासमाधिः। न प्रणिधत्ते भवमित्या(त्य)प्रणिहितः। दशनिमित्तापगमादनिमित्तं तदालम्बनसमाधिरणि(नि)मित्तः॥ पुनः

[584] त्रयोऽपरसमाध्याख्या शून्यताशून्यतादयः॥

तेषां त्रयाणां समाधीनामुत्सर्गोपायप्रदर्श[नार्थं शून्यताशून्यतादयः त्रयः] समाधयोऽभिधर्मेभिहिताः।

द्वयमालम्बतेऽशैक्षं शून्यतोऽनित्यतस्तथा॥

[585] क्षयमप्रतिसंख्याख्यमन्त्यो गृह्णाति शान्ततः।

शून्यताद्यालम्बनत्वात्तन्नाम अशैक्षं समाधिं द्वावपरसमाधी आलम्बेते। शून्यताशून्यता अशैक्षं शून्यतासमाधिमालम्बते शून्याकारेण। अप्रणि[हिताप्रणिहितोऽप्यशैक्षमप्रणिहितम्] अनित्याकारेण। [न] दुःखतो न हेत्वादितोऽनास्रवस्य अतल्लक्षणत्वात्। न मार्गाकारैर्दूषणीयत्वात्। अनिमित्तानिमित्तत्वात् समाधिरशैक्षस्यानिमित्तस्याप्रतिसंख्यानिरोधमालम्बते। शान्ताकारेणानास्रवस्य प्रतिसंख्यानिरोधाभावात्। न निरोधप्रणीतनिःसरणाकारैरणि(नि)त्यतानिरोधसाधारणत्वादव्याकृतत्वादविसंयोगाच्च।

ते पुनरेते समाधयः

एकादशभुवः सर्वे सास्रवा नृष्वकोपिनः॥

तत्र सास्रवा आर्यमार्गद्वेषित्वान्मनुष्येषूत्पाद्यन्ते। अकोप्यस्यार्हतः एकादशभुवश्‍च सप्तसामन्तकानि हित्वाऽन्यास्वेकादशसु भूमिषु कामधात्वनागम्यध्यानान्तरध्यानारूप्येषु।

पुनः
[586] समाधिभावनाध्यानं सुखाय प्रथमं शुभम्।
दर्शणा(ना)याक्ष्यभिज्ञोक्ता प्रज्ञाभेदाय यात्निकाः॥

“चतस्रः खलु समाधिभावनाः। अस्ति समाधिभावना आसेविता भाविता बहुलीकृता दृष्टधर्मविहाराय संवर्तते” इति विस्तरः। कुशलं खलु प्रथमं ध्यानं शुद्धकमनास्रवं वा दृष्टधर्मसुखविहाराय समाधिभावना। तदधिकत्वा[त्] अन्यान्यपि ज्ञेयाणि(नि)। नावश्यं सम्परायसुखविहारायः(य), परिहीणोर्ध्वोपपन्नः परिणि(नि)र्विततदभावात्। दिव्यचक्षुरभिज्ञादर्शणा(ना)य समाधिभावना। प्रयोगजाः खलु सर्वे गुणास्त्रैधातुकाणा(ना)स्रवाः प्रज्ञाप्रभेदाय समाधिभावनात्(नाः)॥

[587] योऽन्त्यो वज्रोपमे ध्याने सर्वक्लेशक्षयाय सा।

यश्‍चतुर्थे ध्याने वज्रोपमः समाधिः स आस्रवक्षयाय समाधिभावना।

सूत्रं चैतत्समाख्यातं बुद्धेनात्मोपनायिकम्॥

अतश्‍चतुर्थमेव ध्यानमुक्तमिति॥

अभिधर्मप्रदीपे विभाषाप्रभायां वृत्तौ अष्टमस्याध्यायस्य तृतीयः पादः समाप्तः॥

अष्टमाध्याये

चतुर्थपादः।

निर्दिष्टाः समाधयः। अतः परं समाधिसन्निश्रिता गुना(णा) निर्दिश्यन्ते।

अप्रमाना(णा)कि चत्वारि मैत्री करुणा मुदितोपेक्षा च। अप्रमाना(णाः), सत्त्वाधिष्ठानप्रवृत्तेरप्रमान(ण)पुण्यनिर्वर्तकत्वादप्रमेयेषु फलहेतुत्वाच्च।

अथाप्रमाणानां कः स्वभावः ?

[588] चतुर्णामप्रमाणानां मैत्र्यद्वेषस्तथा कृपा।
मुदिता प्रीतिरेकेषामुपेक्षाऽलोभ इष्यते॥

अद्वेषस्वभावा मैत्री। तथा करुणा अद्वेषस्वभावा। कस्तर्ह्येतयोरप्रमान(ण)योर्विशेषः ? उभयोरद्वेषात्मकत्वेऽपि मैत्री सत्त्वापरित्यागवर्तिनो द्वेषस्य प्रतिपक्षो हर्षाकारप्रवृत्ता च। करुणा ताडनपीडनाभिप्रायवर्तिणो(नो) द्वेषस्य प्रतिपक्षो दैन्याकारप्रवृत्ता च। इत्यस्ति विशेषः। “सोमनस्यस्वभावामुदिता” इति पौराणाः। उपेक्षाप्यलोभात्मकैव। एषोऽप्रमाणानां स्वभावः।

कस्माच्चत्वार्येव न न्यूनान्यधिकानि वा ?

[589] व्यापादस्य विहिंसाया अरतेस्तृड्‍द्विषस्तथा।
प्रतिपक्षोऽयमाख्यातो दमनार्थं स्वचेतसः॥

सूत्र उक्तम्-“मैत्री आसेविता भाविता बहुलीकृता व्यापादप्रहाणाय संवर्तते। करुणा विहिंसाप्रहाणाय। अरतिप्रहाणाय मुदिता कामरागव्यापादप्रहाणायोपेक्षा॥”

वृत्तिः पुनर्द्रष्टव्या-
[590] सुखाधाने सुखा मैत्री दुःखनाशोन्मुखी कृपा।
मुदिता मोदनानिम्ना सत्त्वा एभ्येव पश्चिमा॥

[591] द्रष्टव्या वृत्तिरेतेषां

आकारस्तु पुनः कथं प्रतिपत्तव्य इति। तदपदिश्यते-

आकारैः सुखितादि भिः।

सुखिता वत सन्तु सत्त्वा इति मनसि कुर्वन् मैत्रीं समापद्यते। दुःखिता वत सत्त्वा इति करुणाम्। मोदन्तां वत सत्त्वा इति मुदिताम्। सत्त्वा इत्येव मनसि कुर्वन्नुपेक्षां समापद्यते माध्यस्थ्यात्।

एभ्यस्त्वन्यतमेनापि ब्रह्मसायुज्यमश्‍नुते॥

एभ्योऽप्रमाणेभ्य एकेणा(ना)पि भावितेन ब्रह्मत्वं प्रतिलभ्यत इति॥

किमालम्बना अप्रमाणाः, कति भूमिका वेत्यपदिश्यते-

[592] नृषु कामावलम्बीनि घ्यानयोर्मुदिताभ्य(ह्व)योः।
षड्भौमानि तदा(द)न्यानि केचिदिच्छन्ति सप्तसु॥

मैत्रीकरुणामुदितास्त्रयः कामावचरसत्त्वालम्बनाः। उपेक्षा अनियता इति। येषां तावद्भा[वना]मयान्येतानि मुदिता च सौमनस्येन्द्रियं तेषां प्रथमद्वितीययोर्ध्यानयोर्मुदिता। नोर्ध्वं सौमनस्येन्द्रियाभावात्। अन्यानि त्रीण्यप्रमाना(णा)नि षट्‍सु भूमिष्वणा(ना)गम्ये ध्यानान्तरे चतुर्षु ध्यानेषु। केचित् पुनः चिन्तामयान्यप्येतानि प्रमोद्यं च प्रीतेर्धर्मान्तरं [इति] तेषां सप्तभूमिका। प्रामोद्यस्य वेदनाद्वयसंयोगित्वात्। उक्तान्यप्रमाना(णा)नि॥

अथ कति विमोक्षाः।
[593] विमोक्षाः कथिता अष्टौ तेषां द्वावशुभात्मकौ।
तावाद्यध्यानयोरन्त्ये तृतीयोऽलोभलक्षणः॥

रूपी रूपाणि पश्यतीति प्रथमो विमोक्षः। आध्यात्ममरूपसंज्ञी बहिर्धा रूपाणि पश्यतीति द्वितीयो विमोक्षः। शुभं विमोक्षं कायेण साक्षात्कृत्वोपसम्पद्य विहरतीति तृतीयः। तेषां द्वावशुभस्वभावौ प्रथमौ तदाकारत्वाद् भूमितश्च तौ ससामन्तकयोः प्रथमद्वितीययोर्ध्यानयोर्ध्यानान्तरे च। ससामन्तके चतुर्थे ध्याने शुभो विमोक्षः। च चालोभस्वभाव एव न त्वशुभात्मकः, तच्छुभाकारप्रवृत्तत्वात्। सपरिवारास्त्वेते पञ्चस्कन्धस्वभावाः॥

[594] चत्वारः कुशलारूपा विमोक्षाख्या समाहिताः।
निरोधाख्यसमापत्तिर्विमोक्षः कथितोऽष्टमः॥

चत्वारोऽन्ये विमोक्षाः समाहिताः कुशला एवारूप्याः द्रष्टव्याः। संज्ञावेदितनिरोधस्त्वष्ट[मो] विमोक्षः। वैमुख्यार्थो हि विमोक्षार्थः, निरोधसमापत्तिः; सर्वसालम्बनप्रवृत्तिवैमुख्यात्॥

[595] तस्यास्तु संमुखीभावः सूक्ष्मसूक्ष्माद[न]न्तरम्।

त्रिविधं हि भावाग्रिकं चित्तं संज्ञासूक्ष्मसूक्ष्माख्यभेदात्। एतद्यथाक्रममौदारिकम्। अतः सूक्ष्मसूक्ष्माख्यं भवाग्रानन्तरं तां समापत्तिं समापद्यन्ते। तथा समापन्नानां तु

व्युत्थानचित्तमप्यस्याः स्वं शुद्धं निर्मलं त्वधः॥

सास्रवानास्रवत्वात्। तद्व्युत्थानचित्तस्य सास्रवेन(ण) चेद्व्युत्तिष्ठते भावाग्रिकेण। अनास्रवेण चेदाकिञ्चन्यायतनभूमिकेन॥

अथैव विमोक्षाः किं विषयाः ?

[596] कामावचरदृश्यार्था विमोक्षाः प्रथमास्त्रयः।

कामावचरं रूपावचरमेषामालम्बनं यथायोगमशुभतः शुभतश्‍च।

अन्ये त्वन्वयधीपक्षस्वोर्ध्वदुःखाद्यवेक्षिणाः॥

आरूप्यविमोक्षाणां स्वभूम्यूर्ध्वभूमिकं दुःखमालम्बनं तद्धेतुनिरोधौ च। सर्वचान्वयज्ञानम(प)क्ष्यो मार्ग ऊर्ध्वाधरभूमिसंगृहीतः, अप्रतिसंख्यानिरोधश्‍च। उक्ता विमोक्षाः॥

[597] सूत्रेऽभिभवसंज्ञाख्यं प्रोक्तमायतनाष्टकम्।
विमोक्षाधिकवृत्त्येतच्चित्तैश्‍वर्यप्रदर्शकम्॥

सूत्रे भगवता अष्टौ अभिभ्वायतनान्याख्यातानि “अध्यात्मं रूपसंज्ञी बहिर्धा रूपाणि पश्यति सुवर्णदुर्वर्णानि खलु रूपाणि अभिभूय जानाति, अभिभूय पश्यति, एवं संज्ञी च भवतीदं प्रथममभिभ्वायतनम्। अध्यात्मं रूपसंज्ञी बहिर्धा रूपाणि पश्यत्यप्रमाणानि सुवर्णदुर्वर्णानीति विस्तरो यावदिदं द्वितीयमभिभ्वायतनम्। एवमध्यात्ममरूपसंज्ञी बही रूपाणि पश्यति परीत्तान्यप्रमाणानि चेति चत्वारि। अध्यात्ममरूपसंज्ञ्येव च बहिर्धा रूपाणि पश्यति नीलपीतलौहितावदात.......”...............

[........... अभिधर्मदीपे विभाषाप्रभायां वृत्तौ अष्टमस्याध्यायस्य चतुर्थः पादः समाप्तः॥]

[अष्टमोऽध्यायः समाप्तः॥]
[अभिधर्मदीपे विभाषाप्रभावृत्तिः समाप्ता॥]
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project